मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय २१

3
ब्रह्मखण्डः · सेतुखण्डः · 21

जटा तीर्थाभिधे तीर्थे सर्वपातकनाशने

श्रीसूत उवाच

जटा तीर्थाभिधे तीर्थे सर्वपातकनाशने ॥

स्नानं कृत्वा विशुद्धात्मा लक्ष्मीतीर्थं ततो व्रजेत्

॥१॥

यंयं कामं समुद्दिश्य लक्ष्मीतीर्थे द्विजोत्तमाः ॥

स्नानं समाचरेन्मर्त्यस्तंतं कामं समश्नुते

॥२॥

महादारिद्र्यशमनं महाधान्यसमृद्धिदम् ॥

महादुःखप्रशमनं महासंपद्विवर्धनम्

॥३॥

अत्र स्नात्वा धर्मपुत्रो महदैश्वर्यमाप्तवान् ॥

इन्द्रप्रस्थे वसन्पूर्वं श्रीकृष्णेन प्रचोदितः

॥४॥

ऋषय ऊचुः

यथैश्वर्यं धर्मपुत्रो लक्ष्मीतीर्थे निमज्जनात् ॥

आप्तवान्कृष्णवचनात्तन्नो ब्रूहि महामुने

॥५॥

श्रीसूत उवाच

इन्द्रप्रस्थे पुरा विप्रा धृतराष्ट्रेण चोदिताः ॥

न्यवसन्पांडवाः पंच महाबलपराक्रमाः

॥६॥

इन्द्रप्रस्थं ययौ कृष्णः कदाचित्तान्निरीक्षितुम् ॥

तमागतमेभिप्रेक्ष्य पांडवास्ते समुत्सुकाः

॥७॥

स्वगृहं प्रापयामासुर्मुदा परमया युताः ॥

कञ्चित्कालमसौ कृष्णस्तत्रावात्सीत्पुरोत्तमे

॥८॥

कदाचित्कृष्णमाहूय पूजयित्वा युधिष्ठिरः ॥

पप्रच्छ पुंडरीकाक्षं वासुदेवं जगत्पतिम्

॥९॥

युधिष्ठिर उवाच

कृष्णकृष्ण महाप्राज्ञ येन धर्मेण मानवाः ॥

लभंते महदैश्वर्यं तन्नो ब्रूहि महामते ॥

इत्युक्तो धर्मपुत्रेण कृष्णः प्राह युधिष्ठिरम्

॥१०॥

श्रीकृष्ण उवाच

धर्मपुत्र महाभाग गन्धमादनपर्वते

॥११॥

लक्ष्मी तीर्थमिति ख्यातमस्त्यैश्वर्यैककारणम् ॥

तत्र स्नानं कुरुष्व त्वमैश्वर्यं ते भविष्यति

॥१२॥

तत्र स्नानेन वर्धंते धनधान्यसमृद्धयः ॥

सर्वे सपत्ना नश्यंति क्षात्रमेषां विवर्द्धते

॥१३॥

तीर्थे सस्नुः पुरा देवा लक्ष्मीनामनि पुण्यदे ॥

अलभन्त्सर्वमैश्वर्यं तेन पुण्येन धर्मज

॥१४॥

असुरांश्च महावीर्यान्समरे जघ्नुरंजसा ॥

मही लक्ष्मीश्च धर्मश्च तत्तीर्थस्नायिनां नृणाम्

॥१५॥

भविष्यत्यचिरादेव संशयं मा कृथा इह ॥

तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पांडव

॥१६॥

ऐश्वर्यं प्राप्यते यद्वल्लक्ष्मीतीर्थनिमज्जनात् ॥

सर्वपापानि नश्यंति विप्रा यांति लयं सदा

॥१७॥

व्याधयश्च विनश्यंति लक्ष्मीतीर्थनिषेवणात् ॥

श्रेयः सुविपुलं लोके लभ्यते नात्र संशयः

॥१८॥

स्नानमात्रेण वै लक्ष्म्यास्तीर्थेऽस्मि न्धर्मनंदन ॥

रंभामप्सरसां श्रेष्ठां लब्धवानवधो नृपः

॥१९॥

स्नात्वात्र तीर्थे पुण्ये तु कुबेरो नरवाहनः ॥

स महापद्ममुख्यानां निधीनां नायकोऽ भवत्

॥२॥

तस्मात्त्वमपि राजेंद्र लक्ष्मीतीर्थे शुभप्रदे ॥

स्नात्वा वृकोदरमुखैरनुजैरपि संवृतः

॥२१॥

लप्स्यसे महतीं लक्ष्मीं जेष्यसे च रिपूनपि ॥

संदेहो नात्र कर्तव्यः पैतृष्वसेय धर्मज

॥२२॥

इत्युक्तो धर्मपुत्रोऽयं कृष्णेनाद्भुतदर्शनः ॥

सानुजः प्रययौ शीघ्रं गन्धमादनपर्वतम्

॥२३॥

लक्ष्मी तीर्थं ततो गत्वा महदैश्वर्यकारणम् ॥

सस्नौ युधिष्ठिरस्तत्र सानुजो नियमान्वितः

॥२४॥

लक्ष्मतीर्थस्य तोये स सर्वपातकनाशने ॥

सानुजो मासमेकं तु सस्नौ नियमपूर्वकम्

॥२५॥

गोभूतिलहिरण्यादीन्ब्राह्मणेभ्यो ददौ बहून् ॥

सानुजो धर्मपुत्रोऽसाविंद्रप्रस्थं ययौ ततः

॥२६॥

राजसूयक्रतुं कर्तुं तत एच्छद्युधिष्ठिरः ॥

कृष्णं समाह्वयामास यियक्षुर्धर्मनंदनं

॥२७॥

कृष्णो धर्मजदूतेन समाहूतः ससंभ्रमः ॥

चतुर्भिरश्वैः संयुक्तं रथमा रुह्य वेगिनम्

॥२८॥

सत्यभामासहचर इंद्रप्रस्थं समाययौ ॥

तमागतं समालोक्य प्रमोदाद्धर्मनंदनः

॥२९॥

न्यवेदयत्स कृष्णाय राजसूयोद्यमं तदा ॥

अन्वमन्यत कृष्णोपि तथैव क्रियतामिति

॥३०॥

वाक्यं च युक्तिसंयुक्तं धर्मपुत्रमभाषत ॥

पैतृष्वस्रेय धर्मात्मञ्च्छृणु पथ्यं वचो मम

॥३१॥

दुष्करो राजसूयोऽयं सर्वैरपि महीश्वरैः ॥

अनेकशतपादातरथकुंजरवाजिमान्

॥३२॥

महीपतिरिमं यज्ञं कर्तुमर्हति नेतरः ॥

दिशो दश विजेतव्या प्रथमं वलिना त्वया

॥३३॥

पराजितेभ्यः शत्रुभ्यो गृहीत्वा करमुत्तमम् ॥

तेन कांचनजातेन कर्तव्योऽयं क्रतूत्तमः

॥३४॥

रोचये युक्तिविदहं न हि त्वां भीषयामि भोः ॥

अतः क्रतुसमारंभात्पूर्वं दिग्विजयं कुरु

॥३५॥

ततो धर्मात्मजः श्रुत्वा कृष्णस्य वचनं हितम् ॥

प्रशंसन्देवकीपुत्रमाजुहाव निजानुजान्

॥३६॥

आहूय चतुरो भ्रातॄन्धर्मजः प्राह हर्षयन् ॥

अयि भीम महाबाहो बहुवीर्य धनंजय

॥३७॥

यमौ च सुकुमागंगौ शत्रुसंहारदीक्षितौ ॥

चिकीर्षामि महायज्ञं राजसूयमनुत्तमम्

॥३८॥

स च सर्वान्रणे जित्वा कर्तव्यः पृथिवीपतीन् ॥

अतो विजेतुं भूपालांश्चत्वरोऽपि ससैनिकाः

॥३९॥

दिशश्चतस्रो गच्छंतु भवंतो वीर्यवत्तराः ॥

युष्माभिराहतैर्द्रव्यैः करिष्यामि महाक्रतुम्

॥४०॥

इत्युक्ताः सादरं सर्वे वृकोदरमुखास्तदा ॥

प्रसन्नवदना भूत्वा धर्मपुत्रानुजाः पुरात्

॥४१॥

राज्ञां जयाय सर्वासु निर्ययुर्दिक्षु पांडवाः ॥

ते सर्वे नृपतीञ्जित्वा चतुर्दिक्षु स्थितान्बहून्

॥४२॥

स्ववशे स्थापयित्वा तान्नृपतीन्पांडुनंदनाः ॥

तैर्दत्तं बहुधा द्रव्यमसंख्यातमनुत्तमम्

॥४३॥

आदाय स्वपुरं तूर्णमाययुः कृष्णसंश्रयाः ॥

भीमः समाययौ तत्र महाबलपराक्रमः

॥४४॥

शतभारसुवर्णानि समादाय पुरोत्तमम् ॥

सहस्रं भारमादाय सुवर्णानां ततोऽर्जुनः

॥४५॥

शक्रप्रस्थं समायातो महाबलपराक्रमः ॥

शतभारं सुवर्णानां प्रगृह्य नकुलस्तथा

॥४६॥

समागतो महातेजाः शक्रप्रस्थं पुरोत्तमम् ॥

दत्तान्विभीषणेनाथ स्वर्णतालांश्चतुर्दश

॥४७॥

दाक्षिणात्यमहीपानां गृहीत्वा धनसंचयम् ॥

सहदेवोपि सहसा समा यातो निजां पुरीम्

॥४८॥

लक्षकोटिसहस्राणि लक्षकोटिशतान्यपि ॥

सुवर्णानि ददौ कृष्णो धर्मपुत्राय यादवः

॥४९॥

स्वानुजैराहृतैरेवमसं ख्यातैर्महाधनैः ॥

कृष्णदत्तैरसंख्यातैर्धनैरपि युधिष्ठिरः

॥५०॥

कृष्णाश्रयोऽयजद्विप्रा राजसूयेन पांडवः ॥

तस्मिन्यागे ददौ द्रव्यं ब्राह्मणेभ्यो यथेष्टतः

॥५१॥

अन्नानि प्रददौ तत्र ब्राह्मणेभ्यो युधिष्ठिरः ॥

वस्त्राणि गाश्च भूमिं च भूषणानि ददौ तथा

॥५२॥

अर्थिनः परितुष्यंति यावता कांचनादिना ॥

ततोपि द्विगुणं तेभ्यो दापयामास धर्मजः

॥५३॥

इयंति दत्तान्यर्थिभ्यो धनानि विविधान्यपि ॥

इतीयत्तां परिच्छेत्तुं न शक्ता ब्रह्मकोटयः

॥५४॥

अर्थिभिर्दीयमानानि दृष्ट्वा तत्र धनानि वै ॥

सर्वस्वमप्यहो राज्ञा दत्तमित्यब्रवीज्जनः

॥५५॥

दृष्ट्वा कोशास्तथा नंताननंतमणिकांचनान्

॥५॥

स्वल्पं हि दत्तमर्थिभ्य इत्यवोचञ्जनास्तदा ॥

इष्ट्वैवं राजसूयेन धर्मपुत्रः सहानुजः

॥५७॥

बहुवित्तसमृद्धः सन्रेमे तत्र पुरोत्तमे ॥

लक्ष्मीतीर्थस्य माहात्म्याद्धर्मपुत्रो युधिष्ठिरः

॥५८॥

लेभे सर्वमिदं विप्रा अहो तीर्थस्य वैभवम् ॥

इदं तीर्थं महापुण्यं महा दारिद्यनाशनम्

॥५९॥

धनधान्यप्रदं पुंसां महापातकनाशनम् ॥

महानरकसंहर्तृ महादुःखनिवर्तकम्

॥६०॥

मोक्षदं स्वर्गदं नित्यं महाऋण विमोचनम् ॥

सुकलत्रप्रदं पुंसां सुपुत्रप्रदमेव च

॥६१॥

एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ॥

एतद्वः कथितं विप्रा लक्ष्मीतीर्थस्य वैभवम्

॥६२॥

दुःस्वप्ननाशनं पुण्यं सर्वाभीष्टप्रसाधकम् ॥

यः पठेदिममध्यायं शृणुते वा सभक्तिकम्

॥६३॥

धनधान्यसमृद्धः स्यात्स नरो नास्ति संशयः ॥

भुक्त्वेह सकलान्भोगान्देहांते मुक्तिमाप्नुयात्

॥६४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये लक्ष्मीतीर्थप्रशंसायां धर्मपुत्रनिरतिशयसंपदवाप्तिवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥