मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ५१

3
ब्रह्मखण्डः · सेतुखण्डः · 51

अथातः संप्रवक्ष्यामि सेतुयात्राक्रमं द्विजाः

सूत उवाच

अथातः संप्रवक्ष्यामि सेतुयात्राक्रमं द्विजाः ॥

यं श्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात्

॥१॥

स्नात्वाचम्य विशुद्धात्मा कृतनित्यविधिः सुधीः ॥

रामनाथस्य तुष्ट्यर्थं प्रीत्यर्थं राघवस्य च

॥२॥

भोजयित्वा यथाशक्ति ब्राह्मणान्वेदपारगान् ॥

भस्मोद्धूलितसर्वांगस्त्रिपुंड्रांकितमस्तकः

॥३॥

गोपीचन्दनलिप्तो वा स्वभालेऽप्यूर्ध्वपुंड्रकः ॥

रुद्राक्ष मालाभरणः सपवित्रकरः शुचिः

॥४॥

सेतुयात्रां करिष्येऽहमिति संकल्प्य भक्तितः ॥

स्वगृहात्प्रव्रजेन्मौनी जपन्नष्टाक्षरं मनुम्

॥५॥

पंचाक्षरं नाममंत्रं जपेन्नियतमानसः ॥

एकवारं हविष्याशी जितक्रोधो जितेंद्रियः

॥६॥

पादुकाछत्ररहितस्तांबूलपरिवर्जितः ॥

तैलाभ्यंगविहीनश्च स्त्रीसंगादिविवर्जितः

॥७॥

शौचाद्याचारसंयुक्तः सन्ध्योपास्तिपरायणः ॥

गायत्र्युपास्ति कुर्वाणस्त्रिसंध्यं रामचिंतकः

॥८॥

मध्येमार्गं पठन्नित्यं सेतुमाहात्म्यमादरात् ॥

पठन्रामायणं वापि पुराणांतरमेव वा

॥९॥

व्यर्थवाक्यानि संत्यज्य सेतुं गच्छेद्विशुद्धये ॥

प्रतिग्रहं न गृह्णीयान्नाचारांश्च परित्यजेत्

॥१०॥

कुर्यान्मार्गे यथाशक्ति शिवविष्ण्वादिपूजनम् ॥

वैश्वदेवादिकर्माणि यथाशक्ति समाचरेत्

॥११॥

ब्रह्मयज्ञमुखान्धर्मा न्प्रकुर्याच्चाग्निपूजनम् ॥

अतिथिभ्योऽन्नपानादि संप्रदद्याद्यथाबलम्

॥१२॥

दद्याद्भिक्षां यतिभ्योऽपि वित्तशाठ्यं परित्यजन् ॥

शिवविष्ण्वादि नामानि स्तोत्राणि च पठेत्पथि

॥१३॥

धर्ममेव सदा कुर्यान्निषिद्धानि परित्यजेत् ॥

इत्यादिनियमोपेतः सेतुमूलं ततो व्रजेत्

॥१४॥

पाषाणं प्रथमं दद्यात्तत्र गत्वा समाहितः ॥

तत्रावाह्य समुद्रं च प्रणमेत्तदनंतरम्

॥१५॥

अर्घ्यं दद्यात्समुद्राय प्रार्थयेत्तदनंतरम् ॥

अनुज्ञां च ततः कुर्यात्ततः स्नायान्महोदधौ

॥१६॥

मुनीनामथ देवानां कपीनां पितृणां तथा ॥

प्रकुर्यात्तर्पणं विप्रा मनसा संस्मरन्हरिम्

॥१७॥

पाषाणसंख्या ॥

पाषाणसप्तकं दद्यादेकं वा विप्रपुंगवाः ॥

पाषाणदानात्सफलं स्नानं भवति नान्यथा

॥१८॥

पाषाणदानमंत्रः ॥

पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरे ॥

पाषाणं ते मया दत्तमाहारार्थं प्रकल्प्यताम्

॥१९॥

सान्निध्यप्रार्थनामन्त्रः ॥

विश्वार्चि त्वं घृताचि त्वं विश्वयाने विशांपते ॥

सान्निध्यं कुरु मे देव सागरे लवणांभसि

॥२०॥

नमस्कारमन्त्रः ॥

नमस्ते विश्वगुप्ताय नमो विष्णो ह्यपांपते ॥

नमो हिरण्यशृंगाय नदीनां पतये नमः ॥

समुद्राय वयूनाय प्रोच्चार्य प्रणमेत्तथा

॥२१॥

अर्घ्यमन्त्रः ॥

सर्वरत्नमय श्रीमन्सर्वरत्नाकराकर ॥

सर्वरत्नप्रधानस्त्वं गृहाणार्घ्यं महोदधे

॥२२॥

अनुज्ञापनमंत्रः ॥

अशेषजगदाधार शंखचक्रगदा धर ॥

देहि देव ममानुज्ञां युष्मत्तीर्थनिषेवणे

॥२३॥

प्रार्थनामंत्रः ॥

प्राच्यां दिशि च सुग्रीवं दक्षिणस्यां नलं स्मरेत्

॥२४॥

प्रतीच्यां मैंदनामानमुदीच्यां द्विविदं तथा ॥

रामं च लक्ष्मणं चैव सीतामपि यशस्विनीम्

॥२५॥

अंगदं वायुतनयं स्मरेन्मध्ये विभीषणम् ॥

पृथिव्यां यानि तीर्थानि प्राविशंस्त्वा महोदधे

॥२६॥

स्नानस्य मे फलं देहि सर्वस्मात्त्राहि मांहसः ॥

हिरण्यशृंगमित्याभ्यां नाभ्यां नारायणं स्मरेत्

॥२७॥

ध्यायन्नारायणं देवं स्नानादिषु च कर्मसु ॥

ब्रह्मलोकमवाप्नोति जायते नेह वै पुनः

॥२८॥

सर्वेषामपि पापानां प्रायश्चित्तं भवेत्ततः ॥

प्रह्लादं नारदं व्यासमंबरीषं शुकं तथा ॥

अन्यांश्च भगवद्भक्तांश्चिंतयेदेकमानसः

॥२९॥

स्नानमन्त्रः ॥

वेदादिर्यो वेदवसिष्ठयोनिः सरित्पतिः सागररत्नयोनिः ॥

अग्निश्च तेजश्च इलां च तेजो रेतोधा विष्णुरमृतस्य नाभिः

॥३०॥

इदं ते अन्याभिरसमानमद्भिर्याः काश्च सिंधुं प्रविशंत्यापः ॥

सर्पो जीर्णामिव त्वचं जहामि पापं शरीरात्सशिरस्कोऽभ्युपेत्य

॥३१॥

समुद्राय वयूनाय नमस्कुर्यात्पुनर्द्विजाः ॥

सर्वतीर्थमयं शुद्धं नदीनां पतिमंबुधिम्

॥३२॥

द्वौ समुद्राविति पुनः प्रोच्चार्य स्नानमाचरेत् ॥

ब्रह्मांडोदरतीर्थानि करस्पृष्टानि ते रवे

॥३३॥

तेन सत्येन मे सेतौ तीर्थं देहि दिवाकर ॥

प्राच्यां दिशि च सुग्रीवमित्यादिक्रमयोगतः

॥३४॥

स्मृत्वा भूयो द्विजाः सेतौ तृतीयं स्नानमाचरेत् ॥

देवीपत्तनमारभ्य प्रव्रजेद्यदि मानवः

॥३५॥

तदा तु नवपाषाणमध्ये सेतौ विमुक्तिदे ॥

स्नानमंबुनिधौ कुर्यात्स्वपापौघापनुत्तये

॥३६॥

दर्भशय्यापदव्या चेद्गच्छे त्सेतुं विमुक्तिदम् ॥

तदा तत्रोदधावेव स्नानं कुर्याद्विमुक्तये

॥३७॥

तर्पणविधिः ॥

पिप्पलादं कविं कण्वं कृतांतं जीवितेश्वरम् ॥

मन्युं च कालरात्रिं च विद्यां चाहर्गणेश्वरम्

॥३८॥

वसिष्ठं वामदेवं च पराशरमुमापतिम् ॥

वाल्मिकिं नारदं चैव वालखिल्यान्मुनींस्तथा

॥३९॥

नलं नीलं गवाक्षं च गवयं गन्धमादनम् ॥

मैंदं च द्विविदं चैव शरभं चर्षभं तथा

॥४०॥

सुग्रीवं च हनूमंतं वेगदर्शनमेव च ॥

रामं च लक्ष्मणं सीतां महाभागां यशस्विनीम्

॥४१॥

त्रिः कृत्वा तर्पयेदेतान्मंत्रानुक्त्वा यथाक्रमम् ॥

विभोश्च तत्तन्नामानि चतुर्थ्यंतानि वै द्विजाः

॥४२॥

देवा नृषीन्पितॄंश्चैव विधिवच्च तिलोदकैः ॥

द्वितीयांतानि नामानि चोक्त्वा तर्पयेद्द्विजाः

॥४३॥

तर्पयेत्सपवित्रस्तु जले स्थित्वा प्रसन्नधीः ॥

तर्पणात्सर्वतीर्थेषु स्नानस्य फलमाप्नुयात्

॥४४॥

एवमेतांस्तर्पयित्वा नमस्कृत्योत्तरेज्जलात् ॥

आर्द्रवस्त्रं परित्यज्य शुष्कवासःसमावृतः

॥४५॥

आचम्य सपवित्रश्च विधिवच्छ्राद्धमाचरेत् ॥

पिंडान्पितृभ्यो दद्याच्च तिलतण्डुलकैस्तथा

॥४६॥

एतच्छ्राद्धमशक्तस्य मया प्रोक्तं द्विजोत्तमाः ॥

धनाढ्योऽन्नेन वै श्राद्धं षड्रसेन समाचरेत्

॥४७॥

गोभूतिलहिरण्यादिदानं कुर्यात्समृद्धिमान् ॥

रामचन्द्रधनुष्कोटावेवमेव समाचरेत्

॥४८॥

पाषाणदानपूर्वाणि तर्पणांतानि वै द्विजाः ॥

सेतुमूले यथैतानि विधिवद्व्यतनोद्द्विजाः

॥४९॥

चक्रतीर्थं ततो गत्वा तत्रापि स्नानमाचरेत् ॥

पश्येच्च सेत्वधिपतिं देवं नारायणं हरिम्

॥५०॥

गच्छन्पश्चिममार्गेण तत्रत्ये चक्रतीर्थके ॥

स्नात्वा दर्भशयं देवं प्रपश्येद्भक्तिपूर्वकम्

॥५१॥

कपितीर्थं ततः प्राप्य तत्रापि स्नानमाचरेत् ॥

सीताकुंडं ततः प्राप्य तत्रापि स्नानमाचरेत्

॥५२॥

ऋणमोचनतीर्थं तु ततः प्राप्य महाफलम् ॥

स्नात्वा प्रणम्य रामं च जानकीरमणं प्रभुम्

॥५३॥

गच्छेल्लक्ष्मणतीर्थं तु कण्ठादुपरि वापनम् ॥

कृत्वा स्नायाच्च तत्रापि दुष्कृतान्यपि चिन्तयन्

॥५४॥

ततः स्नात्वा रामतीर्थे ततो देवालयं व्रजेत् ॥

स्नात्वा पापविनाशने च गंगायमुनयोस्तथा

॥५५॥

सावित्र्यां च सरस्वत्यां गायत्र्यां च द्विजोत्तमाः ॥

स्नात्वा च हनुमत्कुण्डे ततः स्नायान्महाफले ॥

ब्रह्मकुण्डं ततः प्राप्य स्नायाद्विधिपुरःसरम्

॥५६॥

नागकुण्डं ततः प्राप्य सर्वपापविनाशनम् ॥

स्नानं कुर्यान्नरो विप्रा नरकक्लेशनाशनम् ॥

गंगाद्याः सरितः सर्वास्तीर्थानि सकलान्यपि

॥५७॥

सर्वदा नागकुंडे तु वसंति स्वाघशांतये ॥

अनंतादिमहानागैरष्टाभिरिदमुत्तमम्

॥५८॥

कल्पितं मुक्तिदं तीर्थं रामसेतौ शिवंकरम् ॥

अगस्त्यकुण्डं संप्राप्य ततः स्नायादनुत्तमम्

॥५९॥

अथाग्नितीर्थमासाद्य सर्वदुष्कर्मनाशनम् ॥

स्नात्वा संतर्प्य विधिवच्छ्राद्धं कुर्यात्पितॄन्स्मरन्

॥६०॥

गोभूहिरण्य धान्यादि ब्राह्मणेभ्यः स्वशक्तितः ॥

दत्त्वाग्नितीर्थतीरे तु सर्वपापैः प्रमुच्यते

॥६१॥

अथवा यानि तीर्थानि चक्रतीर्थमुखानि वै ॥

अनुक्रांतानि विप्रेंद्राः सर्वपापहराणि तु

॥६२॥

स्नायात्तदनुपूर्वेण स्नायाद्वापि यथारुचि ॥

स्नात्वैवं सर्वतीर्थेषु श्राद्धादीनि समाचरेत्

॥६३॥

पश्चाद्रामेश्वरं प्राप्य निषेव्य परमेश्वरम् ॥

सेतुमाधवमागत्य तथा रामं च लक्ष्मणम्

॥६४॥

सीतां प्रभंजनसुतं तथान्यान्कपिसत्तमान् ॥

तत्रत्य सर्वतीर्थेषु स्नात्वा नियमपूर्वकम्

॥६५॥

प्रणम्य रामनाथं च रामचंद्रं तथापरान् ॥

नमस्कृत्य धनुष्कोटिं ततः स्नातुं व्रजेन्नरः

॥६६॥

तत्र पाषाण दानादिपूर्वोक्तनियमं चरेत् ॥

धनुष्कोटौ च दानानि दद्याद्वित्तानुसारतः

॥६७॥

क्षत्रं गाश्च तथान्यानि वस्त्राण्यन्यानि चादरात् ॥

ब्राह्मणेभ्यो वेदविद्भ्यो दद्याद्वित्तानुसारतः

॥६८॥

कोटितीर्थं ततः प्राप्य स्नायान्नियमपूर्वकम् ॥

ततो रामेश्वरं देवं प्रणमेद्वृषभध्वजम्

॥६९॥

विभवे सति विप्रेभ्यो दद्यात्सौवर्णदक्षिणाम् ॥

तिलान्धान्यं च गां क्षेत्रं वस्त्राण्यन्यानि तंडुलान्

॥७०॥

दद्याद्वित्तानुसारेण वित्तलोभविवर्जितः ॥

धूपं दीपं च नैवेद्यं पूजोपकरणानिच

॥७१॥

रामेश्वराय देवाय दद्याद्वित्तानुसारतः ॥

स्तुत्वा रामेश्वरं देवं प्रणम्य च सभक्तिकम्

॥७२॥

अनुज्ञाप्य ततो गच्छत्सेतुमाधवसंनिधिम् ॥

तस्मै दत्त्वा च धूपादीननुज्ञाप्य च माधवम्

॥७३॥

पूर्वोक्तनियमोपेतः पुनरायात्स्वकं गृहम् ॥

ब्राह्मणान्भोजयेदन्नैः षड्रसैः परिपूरितैः

॥७४॥

तेनैव रामनाथोऽस्मै प्रीतोऽभीष्टं प्रयच्छति ॥

नारकं चास्य नास्त्येव दारिद्र्यं च विनश्यति

॥७५॥

संततिर्वर्धते तस्य पुरुषस्य द्विजोत्तमाः ॥

संसारमवधूयाशु सायुज्यमपि यास्यति

॥७६॥

अत्रागन्तुमशक्तश्चेच्छ्रुतिस्मृत्यागमेषु यत् ॥

ग्रंथजातं महापुण्यं सेतुमाहात्म्यसूचकम्

॥७७॥

तं ग्रंथं पाठयेद्विप्रा महापातकनाशनम् ॥

इदं वा सेतुमाहात्म्यं पठेद्भक्तिपुरःसरम्

॥७८॥

सेतुस्नानफलं पुण्यं तेनाप्नोति न संशयः ॥

अंधपंग्वादिविषयमेतत्प्रोक्तं मनीषिभिः

॥७९॥

श्रीसूत उवाच

एवं वः कथितो विप्राः सेतुयात्राक्रमो द्विजाः ॥

एतत्पठन्वा शृण्वन्वा सर्वदुःखाद्विमुच्यते

॥८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यात्राक्रमवर्णनंनामैकपंचाशत्तमोऽध्यायः ॥ ५१ ॥