मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय १७

3
ब्रह्मखण्डः · सेतुखण्डः · 17

कक्षीवद्विवाहनिष्पत्तिवर्णनम्

श्रीसूत उवाच

पुनरित्याह कक्षीवान्पितरं तं मुनीश्वराः ॥

यथोदंकेन गुरुणा प्रेषितोऽहमिहा धुना

॥१॥

समागतोस्मि तीर्थेऽस्मिन्नागस्त्ये मुनिसत्तम ॥

स्वनयस्य सुतोद्वाहसिद्ध्यर्थं गुरुचोदितः

॥२॥

उपायं तन्निगदितमत्र कुर्व न्न्यवर्तिषम् ॥

वर्षत्रयावसाने मामुद्वाहोपायसंयुतम्

॥३॥

स्वनयोत्रैव तिष्ठन्तमाससाद यदृच्छया ॥

स च मामेत्य कन्यां ते दास्यामीति वचोऽब्रवीत्

॥४॥

ततोस्मदनुरोधेन त्वामाह्वयदयं नृपः ॥

इतीरयित्वा पितरं कक्षीवान्विरराम सः

॥५॥

सुदर्शनोऽथ विप्रेंद्रः पुरोधाः स्वन यस्य सः ॥

प्रययौ राजसविधं स्वनयाय निवेदितुम्

॥६॥

राजानं तं समासाद्य स्वनयं स सुदर्शनः ॥

प्राप्तं निवेदयामास तं दीर्घतमसं मुनिम् ॥

७ !।

ततः स राजा स्वनयो मुनिं प्राप्तं पुरोहितात् ॥

श्रुत्वा विनिर्ययौ द्रष्टुं महसा पटमण्डपात्

॥८॥

अगस्त्यतीर्थतीरे तं सपुत्रमृषि सत्तमम् ॥

ददर्श राजा स्वनयो ब्रह्माणमिव देवराट्

॥९॥

ववंदे दीर्घतमसश्चरणौ लोकमंगलौ ॥

उत्थाप्य नृपतिं विप्रास्तदा दीर्घतमा मुनिः

॥१०॥

आशिषं प्रयुयोजाथ स्वनयाय नृपाय सः ॥

अत्रांतरे समायात उदंकोऽपि महानृषिः

॥११॥

रामसेतौ धनुष्कोटौ स्नातुं शिष्यगणैर्वृतः ॥

लक्षसंख्यो मुनिगणस्तेन साकं मुनीश्वरः

॥१२॥

उदंकोऽगस्त्यतीर्थेस्मिन्स्नातुं संप्राप्तवान्मुनिः ॥

उदंकमागतं दृष्ट्वा कक्षीवान्प्रणनाम तम्

॥१३॥

अकरोदाशिषं विप्रः शिष्यायाथ गुरुस्तदा ॥

अथ दीर्घतमा विप्रस्तमुदंकं महामुनिम्

॥१४॥

कुशलं परिपप्रच्छ सोऽपि तं मुनि पुंगमम् ॥

उभौ तौ मुनिशार्दूलौ सर्वलोकेषु विश्रुतौ

॥१५॥

कथयामासतुस्तत्र कथाः पापप्रणाशिनीः ॥

अथ राजाप्युदंकं तं प्रणनाम मुनीश्व रम्

॥१६॥

उदंकोप्याशिषं तस्मै प्रायुंक्त स्वनयाय वै ॥

राजाथ स्वनयः प्रीतस्तत्र वाक्यमभाषत

॥१७॥

मुनिं तं दीर्घतमसं विवाहः क्रिय तामिति ॥

तथास्त्वित्यवदत्सोऽपि तदा दीर्घतमा मुनिः

॥१८॥

श्व एव क्रियतां राजन्सुमुहूर्ते महामते ॥

अत्रैव पाणिग्रहणं क्रियतां गन्धमा दने

॥१९॥

तस्मादिहानय क्षिप्रं कन्यामंतःपुरं तथा ॥

इत्युक्तः स्वनयो राजा गत्वा स्वपटमण्डपम्

॥२०॥

आहूय शतसंख्याकान्वृद्धान्वर्ष वरांस्तदा ॥

आनेतुं प्रेषयामास कन्यामंतःपुरं तथा

॥२१॥

ते वर्षवरमुख्यास्तु स्वनयेन प्रचोदिताः ॥

मनोजवान्समारुह्य वाजिनो मधुरां ययुः

॥२२॥

गत्वा चांतःपुरं तूर्णं वृत्तं सर्वं निवेद्यच ॥

कन्ययांतःपुरेणापि सहिताः पुनराययुः

॥२३॥

ततः परस्मिन्दिवसे शुभे दीर्घतमा ऋषिः ॥

गोदानादीनि पुत्रस्य विधिवन्निरवर्तयत्

॥२४॥

निर्वृत्तेष्वथ कक्षीवान्गोदानादिषु कर्मसु ॥

उद्वोढुं राजतनयां पित्रा च गुरुणा सह

॥२५॥

चतुर्दंतं महाकायं गजं सर्वांगपांडुरम् ॥

आरुह्य हर्षसंयुक्तो द्वितीय इव देवराट्

॥२६॥

मनोरमायाः कन्यायाः पूरयंश्च मनोरथम् ॥

ब्राह्मणैर्बहुसाहस्रैः सहितः स्वस्तिवाचकैः

॥२७॥

तोरणालंकृतद्वारं राजर्षे पटमण्डपम् ॥

कृतमंगलकृत्योऽसौ कक्षीवान्मुदितो ययौ

॥२८॥

ततः स्वनयकन्या सा कृतमंगलभूषणा ॥

चतुर्दंतमहाकायश्वेतदंतावलस्थितम्

॥२९॥

कक्षीवंतं समायांतं दृष्ट्वा स्वोद्वाहनोत्सुकम् ॥

प्रतिज्ञा मत्कृते दानीं निर्वृत्तेति मुदं ययौ

॥३०॥

कक्षीवान्दीर्घतमसा तथोदंकेन संयुतः ॥

पटाकारबहिर्द्वारं क्रमाद्राज्ञः समाययौ

॥३१॥

स्वनयस्तु ततो दृष्ट्वा कक्षीवंतं समागतम् ॥

प्रत्युज्जगाम सहितः सुदर्शनपुरोधसा

॥३२॥

कक्षीवतो वरस्याथ कन्यकापरिचारिकाः ॥

राजतैः स्वर्णपात्रैश्च चक्रु र्नीराजनाविधिम्

॥३३॥

स्वनयेन समाहूतो ब्राह्मणैः परिवारितः ॥

प्रविवेशाथ लक्ष्मीवान्कक्षीवान्राजमंदिरम्

॥३४॥

ततो वरेण सहितं तं दीर्घतमसं मुनिम् ॥

सोदंकमनयद्राजा स्वगृहं विनयान्वितः

॥३५॥

उदंकदीर्घतमसोरर्घ्यं च प्रददौ नृपः ॥

अलंकृते प्रपामध्ये वस्त्रचामरतोरणैः

॥३६॥

वरो दीर्घतमाश्चान्ये सोदंका मुनयस्तदा ॥

न्यषीदन्स्वनयश्चापि सामात्यः सपुरोहितः

॥३७॥

ततो दुहितरं कन्यां सुकेशीं तां मनो रमाम् ॥

भूषणालंकृतां गात्रे दिव्यवस्त्रधरां शुभाम्

॥३८॥

बिंबोष्ठीं चारुसर्वांगीं पीनोन्नतपयोधराम् ॥

प्रपायामध्यमनयन्महाजनसमाकुलम्

॥३९॥

ततो वरस्य कंठे सा मालां चंपकनिर्मिताम् ॥

निवेशयामास शुभा जनमध्ये मनोरमा

॥४०॥

उदंकस्तत आगत्य प्रतिष्ठाप्यानलं स्थले ॥

कृत्वाग्निमुखपर्यंतं लाजाहोमादिकं तथा

॥४१॥

पाणिमग्राहयत्तस्याः कन्यायाश्च वरेण तु ॥

उदंकः सर्वकर्माणि कारयामास तत्र वै

॥४२॥

वरवध्वोस्तदा विप्राः प्रायुंजत तदाशिषः ॥

ततः स राजा स्वनयो वरं दीर्घतमोमुनिम्

॥४३॥

उदंकं वरपक्षीयान्स्वपक्षीयांस्तथाद्विजाः ॥

त्रिलक्षं ब्राह्मणानन्नैर्भोजयामास षड्रसैः

॥४४॥

ततः संभावयामास तांबूलाद्यैरनेकधा ॥

अथामंत्र्य मुनिश्रेष्ठमुदंकः स्वाश्रमं ययौ

॥४५॥

अन्ये च ब्राह्मणाः सर्वे स्वदेशान्प्रययुस्तदा ॥

एवं विवाहे निर्वृत्ते कक्षीवद्राजकन्ययोः

॥४६॥

प्रविश्यागस्त्यतीर्थं स तिरोधत्त गजोत्तमः ॥

ततो दीर्घतमा विप्राः पुत्रेण स्नुषया सह

॥४७॥

अगस्त्यस्य महातीर्थे स्नानं कृत्वेष्टदायिनि ॥

श्लाघमानश्च तत्तीर्थं सर्वलोकेषु विश्रुतम्

॥४८॥

प्रयातुं स्वा श्रमं पुण्यं वेदारण्यं मनो दधे ॥

राजानं च तमागंतुमापृच्छन्मुनिसत्तमः

॥४९॥

स्वनयोऽपि तदा राजा स्वदुहित्रे मुदान्वितः ॥

ददौ शतसहस्राणि स्वर्णानि स्त्रीधनं तदा

॥५०॥

गवां सहस्रं प्रददौ दासीनां च सहस्रकम् ॥

ग्रामं पंचशतं चापि ददौ दुहितृवत्सलः

॥५१॥

दिव्यवस्त्रा युतं चापि शतं भूषणपेटिकाः ॥

हारमालासहस्रं च ददौ दुहितृसौहृदात्

॥५२॥

एतत्सर्वं समादाय स पुत्रः सस्नुषो मुनिः ॥

राज्ञा च समनुज्ञातः प्रययौ वेदकाननम्

॥५३॥

वेदारण्यं समासाद्य तदा दीर्घतमा मुनिः ॥

उवास ससुखं विप्राः पुत्रेण स्नुषया सह

॥५४॥

सेवन्वेदाटवीनाथं भुक्तिमुक्तिफलप्रदम् ॥

न्यवसत्तु चिरं कालं कक्षीवानपि भार्यया

॥५५॥

स्वनयोपि स राजर्षिः स्नात्वा कुंभजनिर्मिते ॥

तत्र तीर्थे महापुण्ये सहितः सर्वसैनिकैः

॥५६॥

अतःपुरं समादाय मुदितः स्वपुरं ययौ ॥

अगस्त्यतीर्थमाहात्म्यादेवं कक्षीवतो मुनेः ॥

अनन्यसुलभो विप्रा विवाहः समजायत

॥५७॥

श्रीसूत उवाच

इतिहासस्त्वयं पुण्यो वेदसिद्धो मुनीश्वराः

॥५८॥

धन्यो यशस्य आयुष्यः कीर्तिसौभाग्य वर्द्धनः ॥

श्रोतव्यः पठितव्योऽयं सर्वथा मानवैर्द्विजाः

॥५९॥

पठतां शृण्वतां चेममितिहासं पुरातनम् ॥

नेहामुत्रापि वा क्लेशो दारिद्यं चापि नो भवेत्

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कक्षीवद्विवाहनिष्पत्तिवर्णनंनाम सप्त दशोऽध्यायः ॥ १७ ॥