मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ३४

3
ब्रह्मखण्डः · सेतुखण्डः · 34

विमोक्षोपायकथनम्

श्रीसूत उवाच

इतिहासं पुनर्वक्ष्ये धनुष्कोटिप्रशंसनम् ॥

सृगालस्य च संवादं वानरस्य च सत्तमाः

॥१॥

सृगालवानरौ पूर्वमास्तां जातिस्मरावुभौ ॥

पुरापि मानुषे भावे सखायौ तौ बभूवतुः

॥२॥

अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ॥

सख्यं समीयतुरुभौ सृगालो वानरो द्विजाः

॥३॥

कदाचिद्रुद्रभूमिष्ठं सृगालं वानरोऽब्रवीत् ॥

श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन्

॥४॥

वानर उवाच

सृगाल पातकं पूर्वं किमकार्षीः सुदारुणम् ॥

यस्त्वं श्मशाने मृतकान्पूतिगंधांश्च कुत्सितान् ॥

अत्सीत्युक्तोऽथ कपिना सृगालस्तमभाषत

॥५॥

सृगाल उवाच

अहं पूर्वभवे ह्यासं ब्राह्मणो वेदपारगः

॥६॥

वेदशर्माभिधो विद्वान्सर्वकर्मकलापवित् ॥

ब्राह्मणाय प्रतिश्रुत्य न मया तत्र जन्मनि

॥७॥

कपे धनं तदा दत्तं सृगालोऽहं ततोऽभवम् ॥

तस्मादेवंविधं भक्ष्यं भक्षयाम्यतिकुत्सितम्

॥८॥

प्रतिश्रुत्य दुरात्मानो न प्रयच्छंति ये नराः ॥

कपे सृगालयोनिं ते प्राप्नुवंत्यतिकुत्सिताम्

॥९॥

यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ॥

सर्वाशास्तस्य नष्टाः स्युः षंढस्येव प्रजोद्भवः

॥१०॥

प्रतिश्रुत्याप्रदाने तु ब्राह्मणाय प्लवंगम ॥

दशजन्मार्जितं पुण्यं तत्क्षणादेव नश्यति

॥११॥

प्रतिश्रुत्याप्रदानेन यत्पापमुपजायते ॥

नाश्वमेधशतेनापितत्पापं परिशुध्यति

॥१२॥

न जानेहमिदं पापं कदा नष्टं भवेदिति ॥

तस्मात्प्रतिश्रुतं द्रव्यं दातव्यं विदुषा सदा

॥१३॥

प्रतिश्रुत्याप्रदानेन सृगालो भवति ध्रुवम् ॥

तस्मात्प्राज्ञेन विदुषा दातव्यं हि प्रतिश्रुतम्

॥१४॥

इत्युक्त्वा स सृगालस्तं वानरं पुनरब्रवीत् ॥

भवता किं कृतं पापं येन वानरतामगात्

॥१५॥

अनागसो वनचरान्पक्षिणो हिंसि वानर ॥

तत्पातकं वदस्वाद्य वानरत्वप्रदं मम ॥

इत्युक्तः स सृगालेन सृगालं वानरोऽब्रवीत्

॥१६॥

वानर उवाच

पुरा जन्मन्यहं विप्रो वेदनाथ इति स्मृतः

॥१७॥

विश्वनाथो मम पिता ममांबा कमलालया ॥

सृगाल सख्यमभवदावयोः प्राग्भवेऽपि हि

॥१९॥

त्वं न जानासि तत्सर्वं वेद्म्यहं पुण्य गौरवात् ॥

तपसाराध्य गिरिशं तत्प्रसादात्पुरा मम

॥१९॥

अतीतभाविविज्ञानमस्ति जन्मांतरेऽपि च ॥

गोमायो तद्भवे शाकं ब्राह्मणस्य हृतं मया

॥२०॥

तत्पापाद्वानरो जातो नरकानुभवादनु ॥

नाहर्तव्यं विप्रधनं हरणान्नरकं भवेत्

॥२१॥

अनंतरं वानरत्वं भविष्यति न संशयः ॥

तस्मान्न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा

॥२२॥

ब्रह्मस्वहरणात्पापमधिकं नैव विद्यते ॥

पीतवंतं विषं हंति ब्रह्मस्वं सकुलं दहेत्

॥२३॥

ब्रह्मस्वहरणात्पापी कुंभीपाकेषु पच्यते ॥

पश्चान्नरकशेषेण वानरीं योनिमश्नुते

॥२४॥

विप्रद्रव्यं न हर्तव्यं क्षंतव्यं तेष्वतः सदा ॥

बाला दरिद्राः कृपणा वेदशास्त्रादिवर्जिताः

॥२५॥

ब्राह्मणा नावमंतव्याः क्रुद्धाश्चेदनलोपमाः ॥

अतीतानागतं ज्ञानं सृगालाखिलमस्ति मे

॥२६॥

ज्ञानमस्ति न मे त्वेकमेतत्पापविशोधनम् ॥

जातिस्मरोऽपि हि भवान्भाविकार्यं न बुध्यते

॥२७॥

अतीतेष्वपि किंचिज्ज्ञः प्रतिबंधवशाद्भवान् ॥

अतो भवान्न जानीते भाव्यतीतं तथाखिलम्

॥२८॥

कियत्कालं सृगालातो भुक्ता व्यसनमीदृशम् ॥

आवयोरस्य पापस्य को वा मोचयिता भवेत्

॥२९॥

एवं प्रब्रुवतोस्तत्र प्लवंगमसृगालयोः ॥

यदृच्छया दैवयोगात्पूर्वपुण्यवशाद्द्विजाः

॥३०॥

आययौ स महातेजाः सिंधुद्वीपाह्वयो मुनिः ॥

भस्मोद्धूलितसर्वांगस्त्रिपुंड्रांकितमस्तकः

॥३१॥

रुद्राक्षमालाभरणः शिवनामानि कीर्तयन् ॥

सृगालवानरौ दृष्ट्वा सिंधुद्वीपाभिधं मुनिम् ॥

प्रणम्य मुदि तौ भूत्वा पप्रच्छतुरिदं तदा

॥३२॥

सृगालवानरावूचतुः

भगवन्सर्वधर्मज्ञ सिंधुद्वीप महामुने

॥३३॥

आवां रक्ष कृपादृष्ट्या विलोकय मुहुर्मुदा ॥

कपित्वं च सृगालत्वमावयोर्येन नश्यति

॥३४॥

तमुपायं वदस्वाद्य त्वं हि पुण्यवतां वरः ॥

अनाथान्कृपणानज्ञान्बालान्रोगातुराञ्जनान्

॥३५॥

रक्षंति साधवो नित्यं कृपया निरपेक्षकाः ॥

ताभ्यामितीरितः प्राज्ञः सिंधुद्वीपो महामुनिः ॥

प्राह तौ कपिगोमायू ध्यात्वा तु मनसा चिरम्

॥३६॥

सिंधुद्वीप उवाच

जानाम्यहं युवां सम्यग्घे सृगालप्लवंगमौ

॥३७॥

सृगाल प्राग्भवे त्वं वै वेदशर्माभिधो द्विजः ॥

ब्राह्मणाय प्रतिश्रुत्य धान्यानामाढकं त्वया

॥३८॥

न दत्तं तेन पापेन सार्गालीं योनिमाप्तवान् ॥

त्वं च वानर पूर्वस्मिन्वेदनाथाभिधो द्विजः

॥३९॥

ब्राह्मणस्य गृहाच्छाकं हृतं चौर्यात्त्वया तत ॥

प्राप्तोसि वानरीं योनिं सर्वपक्षिभयंकरीम्

॥४०॥

युवयोः पापशांत्यर्थमुपायं प्रवदाम्यहम् ॥

दक्षिणांबुनिधौ रामधनुष्कोटौ युवामरम्

॥४१॥

गत्वात्र कुरुतं स्नानं तेन पापाद्विमोक्ष्यथः ॥

पुरा किरातीसंसर्गात्सुमतिर्ब्राह्मणः सुराम् ॥

पीतवान्त्स धनुष्कोटौ स्नात्वा पापाद्विमोचितः

॥४२॥

सृगाल वानरावूचतुः

सुमतिः कस्य पुत्रोऽसौ कथं च स सुरां पपौ

॥४३॥

कथं किरात्यां सक्तोऽभूत्सिंधुद्वीप महामते ॥

आवयोर्विस्तरादेतद्वद त्वं कृपायाधुना

॥४४॥

सिंधुद्वीप उवाच

महाराष्ट्राभिधे देशे ब्राह्मणः कश्चिदास्तिकः ॥

यज्ञदेव इति ख्यातो वेदवेदांगपारगः

॥४५॥

दयालुरातिथेयश्च शिवनारायणार्चकः ॥

सुमतिर्नाम पुत्रोऽभूद्यज्ञदेवस्य तस्य वै

॥४६॥

पितरौ स परित्यज्य भार्यामपि पतिव्रताम् ॥

प्रययावुत्कले देशे विटगोष्ठीपरायणः

॥४७॥

काचित्किराती तद्देशे वसन्ती युवमोहिनी ॥

यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम्

॥४८॥

तस्या गृहं स प्रययौ सुमतिर्ब्राह्मणाधमः ॥

सुमतिं सा न जग्राह किराती निर्धनं द्विजम्

॥४९॥

तया त्यक्तोऽथ सुमतिस्तत्संयोगैकतत्परः ॥

इतस्ततश्चोरयित्वा बहुद्रव्याणि संततम्

॥५०॥

दत्त्वा तया चिरं रेमे तद्ग्रहे बुभुजे च सः ॥

एकेन चषकेणासौ तया सह सुरां पपौ

॥५१॥

एवं स बहुकालं वै रममाणस्तया सह ॥

पितरौ निजपत्नीं च नास्मरद्विषयातुरः

॥५२॥

स कदाचित्किरातैस्तु चौर्यं कर्तुं ययौ सह ॥

द्रव्यं हर्तुं किरातास्ते लाटानां विषयं ययुः

॥५३॥

विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषधृक् ॥

ययौ चोरयितुं द्रव्यं साहसी खङ्गहस्तवान्

॥५४॥

तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसी ॥

समादाय बहु द्रव्यं किरातीभवनं ययौ

॥५५॥

तं यांतमनुयाति स्म ब्रह्महत्या भयंकरी ॥

नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा

॥५६॥

गर्जंती साट्टहासं सा कंपयन्ती च रोदसी ॥

अनुद्रुतस्तया सोऽयं बभ्राम जगतीतले

॥५७॥

एवं भ्रमन्भुवं सर्वां कदाचित्सुमतिः स्वयम् ॥

स्वं ग्रामं प्रययौ भीत्या हे सृगालप्लवंगमौ

॥५८॥

अनुद्रुतस्तया भीतः प्रययौ स्वगृहं प्रति ॥

ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ

॥५९॥

पितरं रक्ष रक्षेति सुमतिः शरणं ययौ ॥

मा भैषीरिति तं प्रोच्य पिता रक्षितुमुद्यतः ॥

तदानीं ब्रह्महत्येयं तत्तातं प्रत्यभाषत

॥६०॥

ब्रह्महत्योवाच

मैनं त्वं प्रतिगृह्णीष्व यज्ञदेव द्विजोत्तम

॥६१॥

असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥

मातृद्रोही पितृद्रोही भार्यात्यागी च पापकृत्

॥६२॥

किरातीसंगदुष्टश्च नैनं मुञ्चाम्यहं द्विज ॥

गृह्णासि चेदिमं विप्र महापातकिनं सुतम्

॥६३॥

त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ॥

भक्षयिष्यामि वंशं च तस्मान्मुञ्च सुतं त्विमम्

॥६४॥

इमं त्यजसि चेत्पुत्रं युष्मान्मोक्ष्यामि सांप्रतम् ॥

नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ॥

इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम्

॥६५॥

यज्ञदेव उवाच

बाधते मां सुतस्नेहः कथमेनं परित्यजे ॥

ब्रह्महत्या तदाकर्ण्य द्विजोक्तं तमभाषत

॥६६॥

ब्रह्महत्योवाच

अयं हि पतितोऽभूत्ते वर्णाश्रमबहिष्कृतः

॥६७॥

पुत्रेस्मिन्मा कुरु स्नेहं निंदितं तस्य दर्शनम् ॥

इत्युक्त्वा ब्रह्महत्या सा यज्ञदेवस्य पश्यतः

॥६८॥

तलेन प्रजहारास्य पुत्रं सुमतिनामकम् ॥

रुरोद तात तातेति पितरं प्रब्रुवन्मुहुः

॥६९॥

रुरुदुर्जनको माता भार्यापि सुमतेस्तदा ॥

एतस्मिन्नंतरे तत्र दुर्वासाः शंकरांशजः

॥७०॥

दिष्टवा समाययौ योगी हे सृगालप्लवंगमौ ॥

यज्ञदेवोऽथ तं दृष्ट्वा मुनिं रुद्रावतारकम् ॥

श्रुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात्

॥७१॥

पितोवाच

दुर्वासस्त्वं महायोगी साक्षाद्वै शंकरांशजः

॥७२॥

त्वद्दर्शनमपुण्यानां भविता न कदाचन ॥

ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम

॥७३॥

एनं प्रहर्तुमायाता ब्रह्महत्या विवर्तते ॥

भूयाद्यथा मे पुत्रोऽयं महापातकमोचितः

॥७४॥

घोरा च ब्रह्महत्येयं यथा शीघ्रं लयं व्रजेत् ॥

तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु

॥७९॥

अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने ॥

अस्मिन्मृते तु वंशो मे समुच्छिद्येत्समूलतः

॥७६॥

ततः पितृभ्यः पिंडानां दातापि न भवेद्ध्रुवम् ॥

अतः कृपां कुरुष्व त्वमस्मासु भगवन्मुने

॥७७॥

इत्युक्तः स तदोवाच दुर्वासाः शंकरांशजः ॥

ध्यात्वा तु सुचिरं कालं यज्ञदेवं द्विजोत्तमम्

॥७८॥

दुर्वासा उवाच

य़ज्ञदेव कृतं पापमतिक्रूरं सुतेन ते ॥

नास्य पापस्य शांतिः स्यात्प्रायश्चित्तायुतैरपि

॥७९॥

अथापि ते सुतस्याहमस्य पापस्य शांतये ॥

प्रायश्चित्तं वदिष्यामि शृणु नान्यमना द्विज

॥८०॥

श्रीरामधनुषः कोटौ दक्षिणे सलिलार्णवे ॥

स्नाति चेत्तव पुत्रोऽयं पातकान्मोक्ष्यते क्षणात्

॥८१॥

दुर्विनीताभिधो विप्रो यत्र स्नानाद्द्विजोत्तम ॥

गुरुस्त्रीगम पापेभ्यस्तत्क्षणादेव मोचितः

॥८२॥

सैषा श्रीधनुषः कोटी राघवस्य स्वयं हरेः ॥

स्नानमात्रेण पापौघं नाशयेत्त्वत्सुतस्य सा

॥८३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां सृगालवानरसंवादे सुमतिमहापातक विमोक्षोपायकथनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥