देवीमहिषासुरयुद्धवर्णनम्
ऋषय ऊचुः
द्वैपायनविनेय त्वं सूत पौराणिकोत्तम ॥
देवीपत्तनपर्यंतं चक्रतीर्थमनुत्तमम्
॥१॥इत्यब्रवीः पुरास्माकमतः पृच्छाम किंचन ॥
देवीपुरं हि तत्कुत्र यदन्तं चक्रतीर्थकम्
॥२॥देवीपत्तन मित्याख्या कथं तस्याभवत्तथा ॥
श्रीरामसेतुमूले च स्नातानां पापिनामपिः
॥३॥कीदृशं वा भवेत्पुण्यं चक्रतीर्थे तथैव च ॥
एतच्चान्यान्विशे षांश्च ब्रूहि पौराणिकोत्तम
॥४॥श्रीसूत उवाच
सर्वमेतत्प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः ॥
पठतां शृण्वतां चैतदाख्यानं पापनाश नम्
॥५॥यत्र पाषाणनवकं स्थापयित्वा रघूद्वहः ॥
बबन्ध प्रथमं सेतुं समुद्रे मैथिलीपतिः
॥६॥देवीपुरं तु तत्रैव यदन्तं चक्रतीर्थकम् ॥
देवीपत्तनमित्याख्या यथा तस्य समागता
॥७॥तद्ब्रवीमि मुनिश्रेष्ठाः शृणुध्वं श्रद्धया सह ॥
पुरा देवासुरे युद्धे देवैर्नाशितपुत्रिणी ॥
दितिः प्रोवाच तनयामात्मनः शोकमोहिता
॥८॥दितिरुवाच
याहि पुत्रि तपः कर्तुं तपोवनमनुत्तमम्
॥९॥पुत्रार्थं तव सुश्रोणि नियता नियतेन्द्रिया ॥
इन्द्रादयो न शिष्येरन्येन पुत्रेण वै सुराः
॥१०॥उदिता तनया चैवं जनन्या तां प्रणम्य सा ॥
स्वीकृत्य माहिषं रूपं वनं पञ्चाग्निमध्यगा
॥११॥तपोऽतप्यत सा घोरं तेन लोकाश्चकंपिरे ॥
तस्यां तपः प्रकुर्वंत्यां त्रिलोक्यासीद्भयातुरा
॥१२॥इन्द्रादयः सुर गणा मोहमापुर्द्विजोत्तमाः ॥
सुपार्श्वस्तपसा तस्या मुनिः क्षुब्धोऽवदत्तु ताम्
॥१३॥सुपार्श्व उवाच
परितुष्टोऽस्मि सुश्रोणि पुत्रस्तव भविष्यति ॥
मुखेन महिषाकारो वपुषा नररूपवान्
॥१४॥महिषो नामपुत्रस्ते भविष्यत्यतिवीर्यवान् ॥
पीडयिष्यति यः स्वर्गं देवेन्द्रं च ससैनिकम्
॥१५॥सुपार्श्वस्त्वेवमुक्त्वा तां विनिवार्य तपस्तथा ॥
आगच्छदात्मनो लोकमनुनीय तपस्विनीम्
॥१६॥अथ जज्ञे स महिषो यथोक्तं ब्रह्मणा पुरा ॥
व्यवर्द्धत महावीर्यः पर्वणीव महोदधिः
॥१७॥ततः पुत्रो विप्रचित्तेर्विद्युन्माल्यसुराग्रणीः ॥
अन्येऽप्यसुरवर्यास्ते संति ये भूतले द्विजाः
॥१८॥ते सर्वे महिषस्यास्य श्रुत्वा दत्तवरं मुदा ॥
समागम्य मुनिश्रेष्ठाः प्रावदन्महिषासुरम्
॥१९॥स्वर्गाधिपत्यमस्माकं पूर्व मसीन्महामते ॥
देवैर्विष्णुं समाश्रित्य राज्यं नो हृतमोजसा
॥२०॥तद्राज्यमानय वलादस्माकं महिषासुर ॥
वीर्यं प्रकटयस्वाद्य प्रभावमपि चात्मनः
॥२१॥अतुल्यबलवीर्यस्त्वं ब्रह्मदत्तवरोद्धतः ॥
पुलोमजापतिं युद्धे जहि देवगणैः सह
॥२२॥दनुजैरेवमुक्तोऽसौ योद्धुकामोऽमरैः सह ॥
महा वीर्योऽथ महिषः प्रययावमरावतीम्
॥२३॥देवानामसुराणां च संवत्सरशतं रणम् ॥
पुरा बभूव विप्रेंद्रास्तुमुलं रोमहर्षणम्
॥२४॥देववृन्दं ततो भी त्या पुरस्कृत्य पुरन्दरम् ॥
कांदिशीकमभूद्विप्रा ब्रह्माणं च ययौ तदा
॥२५॥ब्रह्मा तानमरासर्वान्समादाय ययौ पुनः ॥
नारायणशिवौ यत्र वर्तेते विश्वपालकौ
॥२६॥तत्र गत्वा नमस्कृत्य स्तुत्वा स्तोत्रैरनेकशः ॥
ब्रह्मा निवेदयामास महिषासुरचेष्टितम्
॥२७॥सुराणामसुरैः पीडां देवयोः शंभुकृष्णयोः ॥
इंद्राग्नियमसूर्येंदुकुबेरवरुणादिकान्
॥२८॥निराकृत्याधिकारेषु तेषां तिष्ठत्ययं स्वयम् ॥
अन्येषां देववृंदानामधिकारेपि तिष्ठति
॥२९॥निरस्तं देववृंदं तत्स्वर्लोकादवनीतले ॥
मनुष्यवद्विचरते महिषासुरबाधितम्
॥३०॥एतज्ज्ञापयितुं देवौ युवयोरहमागतः ॥
सार्द्धं देव गणैरत्र रक्षतं तान्समागतान्
॥३१॥ब्रह्मणो वचनं श्रुत्वा रमेश्वरमहेश्वरौ ॥
कोपात्करालवदनौ दुष्प्रेक्ष्यौ तौ बभूवतुः
॥३२॥अत्यन्तकोपज्वलितान्मुखाद्विष्णोरथ द्विजाः ॥
निश्चक्राम महत्तेजः शंभोः स्रष्टुस्तथैव च
॥३३॥अपरेषां सुराणां च देहादिंद्रशरीरतः ॥
तेजः समुदभूत्क्रूरं तदेकं समजायत
॥३४॥तेषां तु तेजसां राशिर्ज्वलत्पर्वतसंनिभः ॥
ददृशे देववृंदैस्तैर्ज्वालाव्याप्तदिगंतरः
॥३५॥तेजसां समुदायोऽसौ नारी काचि दभूत्तदा ॥
शिवतेजो मुखमभूद्विष्णुतेजो भुजौ द्विजाः
॥३६॥ब्रह्मतेजस्तु चरणौ मध्यमैंद्रेण तेजसा ॥
यमस्य तेजसा केशाः कुचौ चंद्रस्य तेजसा
॥३७॥जंघोरू कल्पितौ विप्रा वरुणस्य तु तेजसा ॥
नितंबः पृथिवीतेजः पादांगुल्योऽर्कतेजसा
॥३८॥करांगुल्यो वसूनां च तेजसा कल्पितास्तथा ॥
कुबेरतेजसा विप्रा नासिकापरिकल्पिता
॥३९॥नवप्रजापतीनां च तेजसा दंतपंक्तयः ॥
चक्षुर्द्वयं समजनि हव्यवाहनतेजसा
॥४०॥उभे संध्ये भ्रुवौ जाते श्रवणे वायुतेजसा ॥
इतरेषां च देवानां तेजोभिरतिदारुणैः
॥४१॥कृतान्यावयवा नारी दुर्गा परमभास्वरा ॥
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः
॥४२॥सर्ववृंदारकानीकतेजःसंघसमुद्भवा ॥
तां दृष्ट्वा प्रीतिमापुस्ते देवा महिषबाधिताः
॥४३॥ततो रुद्रा दयो देवा विनिष्कृष्यायुधान्निजात् ॥
आयुधानि ददुस्तस्यै शूलादीनि द्विजोत्तमाः
॥४४॥भूषणानि ददुस्तस्यै वस्त्रमाल्यानि चंदनम् ॥
सापि देवी तदा वस्त्रैर्भूषणैश्चंदनादिभिः
॥४५॥कुसुमैरायुधैर्हारैर्भूषिता परिचारकैः ॥
साट्टहासं प्रमुंचंती भैरवी भैरवस्वना
॥४६॥ननाद कंपयतीव रोदसी देवसेविता ॥
देव्या भैरवनादेन चचाल सकलं जगत्
॥४७॥सिंहवाहनमारूढां देवीं ताममरास्तदा ॥
मुनयः सिद्धगंधर्वास्तुष्टुवुर्जयश ब्दतः
॥४९॥अतिभीषणनादेन देव्याः क्षुब्धं जगत्त्रयम् ॥
दृष्ट्वा देवारयो दैत्याः समुत्तस्थुरुदायुधाः
॥४९॥महिषोऽपि महाक्रोधात्समुद्यत महायुधः ॥
तं शब्दमवलक्ष्याथ ययावसुरसंवृतः
॥५०॥व्यलोकयत्ततो देवीं तेजोव्याप्तजगत्त्रयीम् ॥
सायुधानंतबाह्वाढयां नादकंपितभूतलाम्
॥५१॥क्षोभिताशेषशेषादिमहानागपरंपराम् ॥
विलोक्य देवीमसुराः समनह्यन्नुदायुधाः
॥५२॥ततो देव्या तया सार्द्धमसुराणामभूद्रणः ॥
अस्त्रैः शस्त्रैः शरैश्चक्रैर्गदाभिर्मुसलैरपि
॥५३॥गजाश्वरथपादातैरसंख्येयैर्महावलः ॥
महिषो युयुधे तत्र देव्या साकमरिंदमः
॥५४॥लक्षको टिसहस्राणि प्रधानासुरयूथपाः ॥
एकैकस्य तु सेनायास्तेषां संख्या न विद्यते
॥५५॥ते सर्वे युगपद्देवीं शस्त्रैरावव्रुरोजसा ॥
सापि देवी ततो भीमा दैत्यमुक्तास्त्रसंचयम्
॥५६॥बिभेद लीलया बाणैः स्वकार्मुकविनिःसृतैः ॥
ससर्ज दैत्यकायेषु बाणपूगान्यनेकशः
॥५७॥देव्याश्रयबला द्देवा निर्भया दैत्ययूथपैः ॥
युयुधुः संयुगे शस्त्रैरस्त्रैरप्यायुधांतरैः
॥५८॥ततो देवा बलोत्सिक्ता देवीशक्त्युपबृंहिताः ॥
निःशेषमसुरान्सर्वानायु धैर्निरमूलयन्
॥५९॥स्वसैन्ये तु क्षयं याते संक्षुब्धो महिषासुरः ॥
चापमादाय वेगेन विकृष्य च महास्वनम्
॥६०॥संधाय मुमुचे बाणान्देव सैन्येषु भूसुराः ॥
इंद्रे तु दशसाहस्रं यमे पंचसहस्रकम्
॥६१॥वरुणे चाष्टसाहस्रं कुबेरे षट्सहस्रकम् ॥
सूर्ये चंद्रे च वह्नौ च वायौ वसुषु चाश्विनोः
॥६२॥अन्येष्वपि च देवेषु महिषो दानवेश्वरः ॥
प्रत्येकमयुतं बाणान्मुमुचे बलिनां वरः
॥६३॥पलायंते ततो देवा महिषासुरमर्द्दिताः ॥
देवीं शरणमाजग्मुस्त्राहित्राहीतिवादिनः
॥६४॥ततो देवी गणान्स्वस्य भूतवेतालकादिकान् ॥
यूयं नाशयत क्षिप्रमासुरं बलमित्यशात्
॥६५॥अहं तु महिषं युद्धे योधयामि वलोद्धतम् ॥
ततो देव्या गणैः सर्वमासुरं क्षतमाशु वै
॥६६॥ततः सैन्यं क्षयं नीते गणै र्देवीप्रचोदितैः ॥
योद्धुकामः स महिषो गणैः साकं व्यतिष्ठत
॥६७॥अत्रांतरे महानादः सुचक्षुश्च महाहनुः ॥
महाचंडो महाभक्षो महोदरम होत्कटौ
॥६८॥पञ्चास्यः पादचूडश्च बहुनेत्रः प्रबाहुकः ॥
एकाक्षस्त्वेकपादश्च बहुपादोऽप्यपादकः
॥६९॥एते चान्ये च बहवो महिषासुर मंत्रिणः ॥
योद्धुकामा रणे देव्याः पुरतस्त्ववतस्थिरे
॥७०॥सिंहं वाहनमारुह्य ततो देवी मनोजवम् ॥
प्रलयांबुदनिर्घोषं चापमादाय भैरवम्
॥७१॥विस्फोट्य मुमुचे बाणान्वज्रवेगसमान्युधि ॥
दशलक्षगजैश्चापि शतलक्षैश्च वाजिभिः
॥७२॥शतलक्षै रथैश्चापि लक्षायुतपदातिभिः ॥
युक्तो महाहनुर्दैत्यो देव्या युधि निपातितः
॥७३॥सैन्ये च तस्य निहता देव्या बाणैर्द्विजोत्तमाः ॥
लक्षकोटिसहस्राणि प्रधानासुरनायकाः
॥७४॥महिषस्य हि विद्यन्ते महाबलपराक्रमाः ॥
एकैकस्य प्रधानस्य चतुरङ्गबलं तथा
॥७५॥महाहनोर्यथा विप्रास्तथैवास्ति महद्बलम् ॥
तत्सर्वं निहतं देव्या शरैः कांचनपुंखितैः
॥७६॥याममात्रेण विप्रेंद्रास्तदद्भुतमिवाभवत्
॥७७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायां देवीपुराभिधानकथने देवीमहिषासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥