मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय २७

3
ब्रह्मखण्डः · सेतुखण्डः · 27

मातुलवधदोषशांतिवर्णनम्

श्रीसूत उवाच

यमुनायां च गंगायां गयायां च नरो मुदा ॥

स्नानं विधाय विधिवत्कोटितीर्थं ततो व्रजेत्

॥१॥

कोटितीर्थं महापुण्यं सर्वलोकेषु विश्रुतम् ॥

सर्वसंपत्करं शुद्धं सर्वपापप्रणाशनम्

॥२॥

दुःस्वप्ननाशनं ह्येतन्महापातकनाशनम् ॥

महाविघ्नप्रशमनं महाशांतिकरं नृणाम्

॥३॥

स्मृतिमात्रेण यत्पुंसां सर्वपापनिषूदनम् ॥

लीलया धनुषः कोट्या स्वयं रामेण निर्मितम्

॥४॥

पुरा दाशरथी रामो निहत्य युधि रावणम् ॥

ब्रह्महत्याविमोक्षाय गंधमादनपर्वते

॥५॥

प्रातिष्ठिपल्लिंगमेकं लोकानुग्रहकाम्यया ॥

लिंगस्यास्याभिषेकाय शुद्धं वारि गवेषयन्

॥६॥

नाविंदत जलं तत्र पार्श्वे दशरथात्मजः ॥

लिंगाभिषेकयोग्यं च जलं किमिति चिंतयन्

॥७॥

नवेन वारिणा लिंगं स्नापनीयं मयेति सः ॥

निश्चित्य मनसा तत्र धनुष्कोट्या रघूद्वहः

॥८॥

बिभेद धरणीं शीघ्रं मनसा जाह्नवीं स्मरन् ॥

रामकार्मुककोटिः सा तदा प्राप रसातलम्

॥९॥

तत उद्धारयामास तद्धनुर्धन्विनां वरः ॥

धनुष्युद्ध्रियमाणे तु राघवेण महीतलात्

॥१०॥

काकुत्स्थेन स्मृता गंगा निर्ययौ विवरात्ततः ॥

वारिणा तेन तल्लिंगमभ्यषिंचद्रघूद्वहः

॥११॥

रामकार्मु ककोट्यैव यतस्तन्निर्मितं पुरा ॥

अतः कोटिरिति ख्यातं तत्तीर्थं भुवनत्रये

॥१२॥

यानि यानीह तीर्थानि संति वै गंधमादने ॥

प्रथमं तेषु तीर्थेषु स्नात्वा विगतकल्मषः

॥१३॥

शेषपापविमोक्षाय स्नायात्कोटौ नरस्ततः ॥

तीर्थांतरेषु स्नानेन यः पापौघो न नश्यति

॥१४॥

अनेकजन्मकोटीभिरर्जितो ह्यस्थिसंस्थितः ॥

विनश्यति स सर्वोऽपि कोटिस्नानान्न संशयः

॥१५॥

यदि हि प्रथमं स्नायादत्र कोटौ नरो द्विजाः ॥

तस्य मुक्तस्य तीर्थानि व्यर्थान्येवापराणि हि

॥१६॥

ऋषय ऊचुः

सूत सर्वार्थतत्त्वज्ञ व्यासशिष्य मुनीश्वर ॥

अस्माकं संशयं कंचिच्छिंधि पौराणिकोत्तम

॥१७॥

कोटौ स्नातस्य मर्त्यस्य यदि तीर्थांतरं वृथा ॥

किमर्थं धर्मतीर्थादि तीर्थेषु स्नांति मानवाः

॥१८॥

तीर्थानि तानि सर्वाणि समतिक्रम्य मानवाः ॥

अत्रैव कोटौ किं स्नानं न कुर्वंति हि तद्वद

॥१९॥

श्रीसूत उवाच

अहो रहस्यं युष्माभिः पृष्टमेतन्मुनीश्वराः ॥

नारदाय पुरा शंभुः पृच्छते यत्किलाब्रवीत्

॥२०॥

तद्ब्रवीमि मुनिश्रेष्ठाः शृणुध्वं श्रद्धया सह ॥

गच्छन्यदृच्छया वापि तीर्थयात्रापरोऽपि वा

॥२१॥

मार्गमध्ये द्विजश्रेष्ठास्तीर्थं देवालयं तथा ॥

दृष्ट्वा श्रुत्वापि वा मोहान्न सेवेत नराधमः

॥२२॥

निष्कृतिस्तस्य नास्तीति प्राब्रुवन्परमर्षयः ॥

सेतुं गच्छंस्ततोऽन्येषु न स्नायाद्यदि मानवः

॥२३॥

तीर्थातिक्रमदोषैः स बहिष्कार्योऽत्यवद्द्विजैः ॥

अतः स्नातव्यमेवैषु चक्रतीर्थादिषु द्विजाः

॥२४॥

स्नात्वा चैतेषु तीर्थेषु शेषपापविमुक्तये ॥

प्रयतैर्मनुजैरत्र स्नातव्यं कोटितीर्थके

॥२५॥

कोटौ चाभि षवं कृत्वा न तिष्ठेद्गन्धमादने ॥

निवर्तेत्तत्क्षणादेव निष्पापो गंधमादनात्

॥२६॥

रामोऽपि हि पुरा कोटितीर्थसंभूतवारिणा ॥

रामनाथेऽभिषिक्ते तु स्वयं स्नात्वा च तत्र वै

॥२७॥

ब्रह्महत्याविमुक्तः संस्तत्क्षणादेव सानुजः ॥

आरूढपुष्पकोऽयोध्यां प्रययौ कपिभिर्वृतः

॥२८॥

अतः कोटौ नरः स्नात्वा पापशेषविमोचितः ॥

निवर्तेत्तत्क्षणादेव रामो दाशरथिर्यथा

॥२९॥

एतद्धि तीर्थप्रवरं सर्वलोकेषु विश्रुतम् ॥

रामनाथाभिषेकाय निर्मितं राघवेण यत्

॥३०॥

स्वयं भगवती यत्र सन्निधत्ते च जाह्नवी ॥

तारकब्रह्मणा यत्र रामेण स्नातमादरात्

॥३१॥

तस्य वै कोटितीर्थस्य महिमा केन कथ्यताम् ॥

यत्र स्नात्वा पुरा कृष्णो लोकसंग्रहणेच्छया

॥३२॥

मातुलस्य तु कंसस्य वधदोषाद्विमोचितः ॥

तस्य वै कोटितीर्थस्य महिमा केन कथ्यते

॥३३॥

ऋषय ऊचुः

किमर्थमवधीत्कंसं मातुलं यदुनंदनः ॥

यद्दोषशांतये सूत सस्नौ कोटौ महा मनाः

॥३४॥

श्रीसूत उवाच

वसुदेव इति ख्यातः शूरपुत्रो यदोः कुले ॥

आसीत्स देवकसुतां देवकीमिति विश्रुताम्

॥३५॥

उद्वाह्य रथमारूढः स्वपुरं प्रस्थितः पुरा ॥

अथ सूतो बभूवाथ कंसो ह्यानकदुन्दुभेः

॥३६॥

अशरीरा तदा वाणी कंसं सारथिमब्रवीत् ॥

भगिनीं च तथा भामं वाहयंतं रथोत्तमे

॥३७॥

यामिमां वाहयस्यत्र रथेन त्वमरिंदम ॥

अस्यास्त्वामष्टमो गर्भो वधिष्यति न संशयः

॥३८॥

इत्याकर्ण्य वचो दिव्यं कंसः खङ्गं प्रगृह्य च ॥

स्वसारं हंतुमुद्योगं चकार द्विजपुंगवाः

॥३९॥

ततः प्रोवाच तं कंसं वसुदेवः स सांत्वयन् ॥

वसुदेव उवाच ॥

अस्यां प्रसूतान्दास्यामि तुभ्यं कंस सुतानहम्

॥४०॥

एनां स्वसारं मा हिंसीर्नास्यास्ते भीतिरस्ति हि ॥

श्रुत्वा तद्वचनं कंसो निवृत्तस्तद्वधात्तदा

॥४१॥

देवकीवसुदेवाभ्यां सहितः स्वपुरं ययौ ॥

पादावसक्तनिगडौ देवकीवसुदेवकौ

॥४२॥

स्थापयामास दुष्टात्मा कंसः कारागृहे तदा ॥

ततः कालेन महता वसुदेवाद्धि देवकी

॥४३॥

षट्पुत्राञ्जनयामास क्रमेण मुनिपुंगवाः ॥

जातांस्तान्वसुदेवेन दत्तान्कंसोऽपि सोऽवधीत्

॥४४॥

हतेषु षटसु पुत्रेषु देवक्युदरजन्मसु ॥

कंसेन क्रूरमतिना निष्कृपेण द्विजोत्तमाः

॥४५॥

शेषोऽभूत्सप्तमो गर्भो देवक्या जठरे तदा ॥

मायादेवी ततो गर्भं तं वै विष्णुप्रचोदिता

॥४६॥

नंदगोपगृहस्थायां रोहिण्यां समवेशयत् ॥

देवक्याः सप्तमो गर्भः पतितो जठरादिति

॥४७॥

लोके प्रसिद्धिरभवन्महती विष्णुलीलया ॥

देवकीजठरे पश्चाद्विष्णुर्गर्भत्वमाप्तवान्

॥४८॥

ततो दशसु मासेषु गतेषु हरिरव्ययः ॥

देवकीजठराज्जज्ञे कृष्ण इत्यभिविश्रुतः

॥४९॥

शंखचक्रगदाखङ्गविराजितचतुर्भुजः ॥

किरीटी वनमाली च पित्रोः शोकविनाशनः

॥५०॥

तं दृष्ट्वा हरिमीशानं तुष्टावानकदुंदुभिः

॥५१॥

वसुदेव उवाच

विश्वं भवा न्विश्वपतिस्त्वमेव विश्वस्य योनिस्त्वयि विश्वमास्ते ॥

महान्प्रधानश्च विराट स्वराड् च सम्राडसि त्वं भगवन्समस्तम्

॥५२॥

एवं जगत्कारणभूतधाम्ने नारायणायामितविक्रमाय ॥

श्रीशार्ङ्गचक्रासिगदाधराय नमोनमः कृत्रिममानुषाय

॥५३॥

स्तुवन्तमेवं शौरिं तं वसुदेवं हरिस्तदा ॥

अवोचत्प्रीणयंस्तं च देवकीं च द्विजोत्तमाः

॥५४॥

हरिरुवाच

अहं कंसं वधिष्यामि मा भीर्वां पितराविति ॥

नन्दगोपस्य गृहिणी यशोदाऽजनयत्सुताम् ॥

मम मायां पूर्वदिने सर्वलोकविमोहिनीम्

॥५५॥

मां तस्याः शयने न्यस्य यशोदायाः सुता तु ताम् ॥

आदाय देवकीशय्यां प्रापयस्व यदूत्तम

॥५६॥

एवमुक्तः स कृष्णेन तथैव ह्यकरोद्द्विजाः ॥

रुरोद माया तनया देवकीशयनेस्थिता

॥५७॥

अथ बालध्वनिं श्रुत्वा कंसः संकुलमानसः ॥

सूतिकागृहमागम्य तामादाय च दारिकाम्

॥५८॥

शिलायां पोथयामास निर्दयो निरपत्रपः ॥

अथ तद्धस्तमाच्छिद्य सायुधाष्टमहाभुजा ॥

महादेव्यब्रवीत्कंसं समाहूयातिकोपना

॥५९॥

मायोवाच

अरे रे कंस पापात्मन्दुर्बुद्धे मूढचेतन

॥६०॥

यत्र कुत्रापि शत्रुस्ते वर्तते प्राणहारकः ॥

मार्गयस्वात्मनो मृत्युं तं शत्रुं कंस मा चिरम्

॥६१॥

इतीरयित्वा सा देवी दिव्यस्थानान्यवाप्य च ॥

लब्धपूजा मनुष्येभ्यो बभूवाभीष्टदायिनी

॥६२॥

श्रुत्वा स देवीवचनं कंसो ऽपि भृशमाकुलः ॥

बालग्रहान्पूतनादीन्स्वांतकं बाधितुं रिपुम्

॥६३॥

प्रेषयामास देशेषु शिशूनन्यांश्च बाधितुम् ॥

ते च बालग्रहाः सर्वे प्रययु र्नंदगोकुलम्

॥६४॥

हताश्च कृष्णेन तदा प्रययुर्यमसादनम् ॥

ततः कतिपयाहस्सु गतेषु द्विजपुंगवाः

॥६५॥

रामकृष्णौ व्यवर्द्धेतां गोकुले बालकौ तदा ॥

अनेकबालक्रीडाभिश्चिक्रीडतुररिंदमौ

॥६६॥

कंचित्कालं वत्सपालौ वेणुनादमकुर्वताम् ॥

कंचित्कालं च गोपालौ गुंजातापि च्छभूषितौ

॥६७॥

रेमाते बहुकालं तौ गोकुले रामकेशवौ ॥

कंसः कदाचिदक्रूरं गोकुले रामकेशवौ

॥६८॥

प्रेषयामास विप्रेंद्राः समानयितुमं जसा ॥

आनयामास चाक्रूरो रामकृष्णौ स गोकुलात्

॥६९॥

मथुरां कंसनिर्देशात्स्वर्णतोरणराजिताम्

॥७०॥

ततः समानीय स रामकेशवौ ययौ पुरीं गांदिनिजस्तदग्रे ॥

दृष्ट्वा च कंसं विनिवेद्य कार्यं तस्मै स्वगेहं प्रविवेश पश्चात्

॥७१॥

अथापराह्णे वसुदेवपुत्रावन्येद्युरिष्टैः सह गोपपुत्रैः ॥

उपेयतुः सालनिखातयुक्तां संगोपुराट्टां मधुरापुरीं तौ

॥७२॥

स्तोत्राणि शृण्वन्पुरयौवतानां कृष्णस्तु रामेण सहैव गत्वा ॥

धनुर्निवेशं सह सैव तत्र ददर्श चापं च महदृढज्यम्

॥७३॥

विद्राव्य सर्वानपि चापपालान्धनुः समादाय स लीलयाऽऽशु ॥

मौर्व्यां नियोक्तुं नमयांचकार तदं तरे भग्नमभूद्विधैव

॥७४॥

कोदंडभंगोत्थितशब्दमाशु श्रुत्वाभियातान्बलिनो निहंतुम् ॥

निजघ्नतुस्तौ प्रतिगृह्य खंडौ चापस्य पालान्बलिनौ द्विजेंद्रा

॥७५॥

ततः कुवलयापीडं गजं द्वारि स्थितं क्षणात् ॥

निहत्य रामकृष्णौ तौ महाबलपराक्रमौ

॥७६॥

तस्य दंतौ समुत्पाट्य दधानौ करयोर्द्वयोः ॥

अंसे निधाय तौ दंतौ रंगं प्रययतुः क्षणात्

॥७७॥

निहत्य मल्लं चाणूरं मुष्टिकं तोशलं तथा ॥

अन्यांश्च मल्लप्रवरान्निन्यतुर्यमसा दनम्

॥७८॥

समारुरुहतुस्तूर्णं तुंगं मंचं च तौ तदा ॥

तत्र तुंगे समासीनमासने कंसमेत्य तौ ॥

तस्थतुस्तं तृणीकृत्य सिंहौ क्षुद्रमृगं यथा

॥७९॥

ततः कंसं समाकृष्य कृष्णो मंचोपरि स्थितम् ॥

पादौ गृहीत्वा वेगेन भ्रामयामास चांबरे

॥८०॥

ततस्तं पोथयामास स भूमौ गत जीवितम् ॥

कंसभ्रातॄन्बलोऽप्यष्टौ निजघ्ने मुष्टिना द्विजाः

॥८१॥

एवं निहत्य तं कंसं कृष्णः परबलार्दनः ॥

पितरौ मोचयामास निगडादति दुःखितौ

॥८२॥

सर्वानास्थापयामास बलेन सह माधवः ॥

श्रीकृष्णेन हतं कंसं श्रुत्वा प्रापुः पुरीं तदा

॥८३॥

बांधवा मथुरायां ये पूर्वं कंसे न बाधिताः ॥

उग्रसेनं तथा राज्ये स्थापयामास केशवः

॥८४॥

असहिष्णुर्द्विजाः पित्रोरेवं कंसकृतागसम् ॥

जघान मातुलं कंसं देवब्राह्मणकंट कम्

॥८५॥

ततः कदाचिकृष्णोऽयमात्मानं द्रष्टुमागतान् ॥

नारदादीन्मुनीन्सर्वानिदं पप्रच्छ सत्तमः

॥८६॥

श्रीकृष्ण उवाच

मयाऽयं मातुलो विप्रा हतः कंसोऽतिपापकृत् ॥

मातुलस्य वधे दोषः प्रोच्यते शास्त्रवित्तमैः

॥८७॥

प्रायश्चित्तमतो ब्रूत तद्दोषविनिवृत्तये ॥

अवोचन्नारदस्तत्र कृष्णमद्भुतविक्रमम् ॥

वाचा मधुरया विप्रा भक्तिप्रणयपूर्वकम्

॥८८॥

नारद उवाच

नित्यशुद्धश्च मुक्तश्च भद्रश्चैव भवा न्सदा

॥८९॥

सच्चिदानंदरूपश्च परमात्मा सनातनः ॥

पुण्यं पापं च ते नास्ति कृष्ण यादवनंदन

॥९०॥

तथापि लोकशिक्षार्थं भवता गरु डध्वज ॥

प्रायश्चित्तं तु कर्तव्यं विधिनानेन माधव

॥९१॥

लोकसंग्रहणं तावत्कर्तव्यं भवताधुना ॥

रामसेतौ महापुण्ये गंधमादनपर्वते

॥९२॥

रामेण स्थापितं लिंगं रामनाथाभिधं पुरा ॥

तस्याभिषेकतोयार्थं धनुष्कोट्या रघूद्वहः

॥९३॥

गां भित्त्वोत्पादयामास तीर्थं कोटीति विश्रुतम् ॥

तव पूर्वावतारेण रामेणाक्लिष्टकर्मणा

॥९४॥

ब्रह्महत्याविशुद्ध्यर्थं निर्मितं स्वयमेव यत् ॥

तत्र स्नानं कुरुष्व त्वं धर्म्ये पापविनाशने

॥९५॥

तेन ते मातुलवधाद्दोषः शीघ्रं विनंक्ष्यति ॥

कोटितीर्थे हरेः स्नानं ब्रह्महत्यादिशोधकम्

॥९६॥

स्वर्गमोक्षप्रदं पुंसामायुरारोग्यवर्धनम् ॥

इति श्रुत्वा मुनेर्वाक्यं नारदस्य स माधवः

॥९७॥

विसृज्य तानृषीन्सर्वांस्तस्मिन्नेव क्षणे द्विजाः ॥

रामसेतौ ययौ तूर्णं स्वदोषपरि शुद्धये

॥९८॥

दिनैः कतिपयैर्गत्वा कोटितीर्थं यदूद्वहः ॥

स्नात्वा संकल्पपूर्वं च दत्त्वा दानान्यनेकशः

॥९९॥

स मातुलवधोत्पन्नदोषेभ्यो मुमु चे क्षणात् ॥

निषेव्य रामनाथं च स्वपुरं मथुरां ययौ

॥१००॥

श्रीसूत उवाच

एवं प्रभावं पुण्यं च कोटितीर्थं मुनीश्वराः ॥

ब्रह्महत्यादिभिः पापैः सद्यो मुच्येत मानवः ॥

नानेन सदृशं तीर्थमन्यदस्ति महीतले

॥१॥

अत्र स्नानात्त्रयो देवा ब्रह्मविष्णुशिवा द्विजाः ॥

प्रीताः स्युरन्ये देवाश्च नात्र कार्या विचारणा

॥२॥

एवं वः कथितं चित्रं कोटितीर्थस्य वैभवम् ॥

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि

॥३॥

श्रुत्वेमं पुण्यमध्यायं पठित्वा च मुनीश्वराः ॥

ब्रह्महत्यादिभिः सत्यं मुच्यते पातकैर्नरः

॥१०४॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कोटितीर्थप्रशंसायां कृष्णस्य मातुलवधदोषशांतिवर्णनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥