मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ९

3
ब्रह्मखण्डः · सेतुखण्डः · 9

सुदर्शनसुकर्णशापमोक्षणम्

ततः स विप्रः प्रत्यूषे पुत्रशोकेन पीडितः ॥

अशोक दत्तसंयुक्तो भार्यया विललाप ह

॥१॥

विलपंतं समालोक्य गोविंदस्वामिनं द्विजाः ॥

वणिक्समुद्रदत्ताख्यः समानिन्ये निजं गृहम्

॥२॥

समानीय समाश्वास्य दयायुक्तो वणिग्वरः ॥

स्वधनानां हि सर्वेषां रक्षितारमकल्पयत्

॥३॥

स्मरन्महायतिवचः पुत्रदर्शनलालसः ॥

स तस्थौ वणिजो गेहे पुत्रभार्यासमन्वितः

॥४॥

अशोकदत्तनामा तु द्वितीयो विप्रनंदनः ॥

शस्त्रे चैव तथा शास्त्रे बभूवातिविचक्षणः

॥५॥

तथान्यास्वपि विद्यासु नास्ति तत्सदृशो भुवि ॥

कृतविद्यो द्विजसुतः प्रख्यातो नगरेऽभवत्

॥६॥

अत्रांतरे नरपतिं प्रतापमुकुटाभिधम् ॥

काशीदेशाधिपो मल्लः कश्चिदभ्याययौ बली

॥७॥

प्रतापमुकुटो राजा मल्लस्यास्य जयाय सः ॥

बलिनं द्विजपुत्रं तमाह्वयामास भृत्यकैः

॥८॥

तमागतं समालोक्य प्रतापमुकुटोऽब्रवीत् ॥

अशोकदत्त सहसा मल्लमेनं बलोत्कटम्

॥९॥

दुर्जयं जहि संग्रामे त्वं वै वलवतां वरः ॥

दाक्षिणात्यमहामल्लपतावस्मिञ्जिते त्वया

॥१०॥

यदिष्टं तव तत्सर्वं दास्याम्यहं न संशयः ॥

इति तस्य वचः श्रुत्वा वलवान्द्विजनंदनः

॥११॥

दाक्षिणात्यमहामल्लनृपतिं समताडयत् ॥

ताडितो द्विजपुत्रेण मल्लः स बलिना बली

॥१२॥

सद्यो विवृत्तनयनः परासुर्न्यपतद्भुवि ॥

द्विज पुत्रस्य तत्कर्म देवैरपि सुदुष्करम्

॥१३॥

प्रतापमुकुटो दृष्ट्वा प्रसन्नहृदयोऽभवत् ॥

दत्त्वा वहुधनान्ग्रामान्समीपेऽस्थापयत्तदा

॥१४॥

स कदाचिन्महाराज सहितो द्विजसूनुना ॥

संध्यायां विजने देशे चचार तुरगेण वै

॥१५॥

द्विजसूनुसखस्तत्र दीनां वाणीमथाशृणोत् ॥

राजन्नल्पापराधोऽहं शत्रुप्रेरणयासकृत्

॥१६॥

दण्डपालेन निहितः शूले निर्घृणचेतसा ॥

दिनमद्य चतुर्थं मे शूलस्थस्यैव जीवतः

॥१७॥

प्राणाः सुखेन निर्यांति न हि दुष्कृतकर्मणाम् ॥

भृशं मां बाधते तृष्णा तां निवारय भूपते

॥१८॥

इति दीनां समाकर्ण्य वाचं राजा द्विजा त्मजम् ॥

अशोकदत्तनामानं धैर्यवंतमभाषत

॥१९॥

अस्मै निरपराधाय शूलप्रोताय जंतवे ॥

तृष्णार्दिताय दातव्यं द्विजसूनो त्वया जलम्

॥२०॥

इत्यादिष्टो नरेन्द्रेण सहसा द्विजनन्दनः ॥

जलपूर्णं समादाय कलशं वेगवान्ययौ

॥२१॥

तच्छ्मशानं समासाद्य भूतवेतालसंकुलम् ॥

शूलप्रोताय वै तस्मै जलं दातुं समुत्सुकः

॥२२॥

ददर्शाथ स्थितां नारीं नवयौवनशालिनीम् ॥

उदैक्षत महाकांतिं मूर्तामिव रतिं द्विजः

॥२३॥

तामालोक्य ततः प्राह धैर्यवान्द्विजनंदनः ॥

कासि भद्रे वरारोहे श्मशाने विजने स्थिता

॥२४॥

अस्याधस्तात्किमर्थं त्वं शूलप्रोतस्य तिष्ठसि ॥

इति तस्य वचः श्रुत्वा सा प्राह रुचिरानना

॥२५॥

पुरुषो वल्लभोऽयं मे शूले राज्ञा समर्पितः ॥

धनं यथा च कृपणः पश्य प्राणान्न मुंचति

॥२६॥

आसन्नमरणं चैनमनुयातुमिह स्थिता ॥

तृषितो याचते वारि मामयं व्यथते मुहुः

॥२७॥

शूलप्रोतो द्धतग्रीवं मुमूर्षुं प्राणनायकम् ॥

नास्मि पाययितुं शक्ता जलमेनमधःस्थिता

॥२८॥

अशोकदत्तस्तच्छ्रुत्वा करुणावरुणालयः ॥

तत्कालसदृशं वाक्यं तां वधूमब्रवीत्तदा

॥२९॥

अशोकदत्त उवाच

मातर्मत्स्कंधमारुह्य देह्यस्मै शीतलं जलम् ॥

सा तथेति तमाभाष्य तरुणी त्वरयान्विता

॥३०॥

आनम्रवपुषस्तस्य स्कंधं पद्भ्यां रुरोह वै ॥

द्विजसूनुर्ददर्शाथ शोणितं नूतनं पतत्

॥३१॥

किमेतदिति सोपश्यदुन्नम्य सहसा मुखम् ॥

भक्ष्यमाणं तया तत्स विज्ञाय द्विजनंदनः

॥३२॥

अशोकदत्तो जग्राह तस्याः पादं सनूपुरम् ॥

ततोऽगान्नूपुरं त्यक्त्वा बद्धरत्नं विहाय तत्

॥३३॥

प्रत्युप्तानेकरत्नाढ्यं तदादायच नूपुरम् ॥

अशोकदत्तः प्रययौ तच्छ्मशानान्नृपांतिकम्

॥३४॥

स्मशानवृत्तं तत्सर्वं स नृपाय निवेद्य वै ॥

महार्घ्यरत्नप्रत्युप्तं नूपुरं च ददौ तदा

॥३५॥

ज्ञात्वा तद्वीरचरितं वीरैरन्यैः सुदुष्करम् ॥

ददौ मदनलेखाख्यां सुतां तस्मै महीपतिः

॥३६॥

कदाचिदथ ताद्दिव्यं नूपुरं वीक्ष्य भूपतिः ॥

अस्य नूपुरवर्यस्य तुल्यं वै नूपुरांतरम्

॥३७॥

कुतो वा लभ्यत इति सादरं समचिंतयत् ॥

अशोकदत्तस्तु तदा विज्ञाय नृपकांक्षितम्

॥३८॥

नृपुरांतरसि द्ध्यर्थं चिंतयामास चेतसा ॥

श्मशाने नूपुरमिदं यतः प्राप्तं मया पुरा

॥३९॥

तां नूपुरांतरप्राप्त्यै कुत्र द्रक्ष्यामि सांप्रतम् ॥

इत्थं वितर्क्य बहुधा नि श्चिकाय महामतिः

॥४०॥

विक्रेष्यामि महामांसं समेत्य पितृकाननम् ॥

तत्र राक्षसवेतालपिशाचादिषु सर्वशः

॥४१॥

मंत्रैराहूयमानेषु साप्यायास्य ति राक्षसी ॥

तामागतां बलाद्गृह्य तद्ग्रहीष्यामि नूपुरम्

॥४२॥

राक्षसानां सहस्रं वा पिशाचानां तथायुतम् ॥

वेतालानां तथा कोटिर्न लक्ष्यं बलिनो मम

॥४३॥

इति निश्चित्य मनसा श्मशानं सहसा ययौ ॥

विक्रीणानो महामांसं मंत्रैराहूय राक्षसान्

॥४४॥

गृहाणेत्युच्चया वाचा चचार श्रावयन्दि शः ॥

विक्रीयते महामांसं गृह्यतांगृह्यतामिति

॥४५॥

तत्र राक्षसवेतालाः कंकालाश्च पिशाचकाः ॥

अन्ये च भूतनिवहाः समाजग्मुः प्रहर्षिताः

॥४६॥

भक्षयिष्यामहे सर्वे मांसमिष्टतमं त्विति ॥

तत्रागच्छत्सु सर्वेषु रक्षःकन्यासमावृता

॥४७॥

आययौ राक्षसी सापि मांसभक्षणलालसा ॥

गवेषयंस्तदा विप्रस्तां समुद्वीक्ष्य राक्षसीम्

॥४८॥

सेयं दृष्टा पुरेत्येष प्रत्यभिज्ञानमाप्तवान् ॥

तामाह द्विजपुत्रोऽन्यद्देहि मे नूपुरं त्विति

॥४९॥

सा तस्य वचनं श्रुत्वा प्रीता वाक्यमथाऽब्रवीत् ॥

ममैव च त्वया नीतं पुरा वीरेंद्र नूपुरम्

॥५०॥

गृहाण रत्नरुचिरं द्वितीयमपि नूपुरम् ॥

इत्युक्त्वा नूपुरं तस्मै स्वसुतां च ददौ प्रियाम्

॥५१॥

विद्युत्केश्या तदा दत्तां प्रियां विद्युत्प्रभाभिधाम् ॥

विप्रः संप्राप्य मुमुदे रूपयौवनशालि नीम्

॥५२॥

विद्युत्केशी तु जामात्रे हेमाब्जमपि सा ददौ ॥

विद्युत्प्रभां नूपुरं च हेमाब्जमपिलभ्य सः

॥५३॥

श्वश्रूमाभाष्य सहसा पुनः प्रायान्नृपांतिकम् ॥

ततः प्रतापमुकुटो नूपुरप्राप्तिनंदितः

॥५४॥

शौर्यधैर्यसमायुक्तं प्रशशंस द्विजात्मजम् ॥

अथ विद्युत्प्रभां विप्रः सोऽब्रवीद्रहसि प्रियाम्

॥५५॥

मात्रा तव कुतो लब्धमेतद्धेमांबुज प्रिये ॥

एतत्तुल्यानि चान्यानि यतः प्राप्स्ये वरानने

॥५६॥

द्विजात्मजं ततः प्राह पतिं विद्युत्प्रभा रहः ॥

प्रभो कपालविस्फोटनाम्नो वेतालभूपतेः

॥५७॥

अस्ति दिव्यं सरः किंचिद्धेमांबुजपरिष्कृतम् ॥

तव श्वश्र्वा जलक्रीडां वितन्वं त्येदमाहृतम्

॥५८॥

इति श्रुत्वा वचस्तत्र मां नयेति जगाद सः ॥

ततः सा सहसा विप्रं निन्ये तत्कांचनं सरः

॥५९॥

ततः स हेमपद्मानामाजिहीर्षुर्द्विजात्मजः ॥

तद्विप्रकारिणः सर्वान्वेतालादींस्ततोऽवधीत्

॥६०॥

स्वयं कपालविस्फोटं निहताशेषसैनिकम् ॥

ददर्श वेतालपतिं तं च हंतुं प्रचक्रमे

॥६१॥

अत्रांतरे महातेजा नाम्ना विज्ञप्तिकौतुकः ॥

विद्याधरपतिः प्राप्य विमानेनैनमब्रवीत्

॥६२॥

अशोकदत्तं विप्रेंद्र साहसं मा कृथा इति ॥

तदाकर्ण्य द्विजसुतो विमानवरसंस्थितम्

॥६३॥

ददर्श प्रभया युक्तं विद्याधरपतिं दिवि ॥

तस्य दर्शनमात्रेण शापामुक्तो द्विजा त्मजः

॥६४॥

संत्यज्य मानुषं रूपं दिव्यं रूपमवाप्तवान् ॥

विमानवरमारूढं दिव्याभरणभूषितम्

॥६५॥

शापान्मुक्तं सुकर्णं तं प्राह विज्ञप्ति कौतुकः ॥

अयं सुकर्ण ते भ्राता गालवस्य महामुनेः

॥६६॥

शापाद्वेतालतां प्राप तत्कन्यास्पर्शपातकी ॥

त्वं च शप्तः पुरा तेन तत्पापस्यानु मोदकः

॥६७॥

तवायमल्पपापस्य शापो मद्दर्शनावधिः ॥

कल्पिस्ततेन मुनिना शापांतो नास्य कल्पितः

॥६८॥

तदेहि मुक्तशापोसि सुकर्ण स्वर्गमारुह ॥

ततः सुकर्णस्तं प्राह विद्याधरकुलाधिपम्

॥६९॥

विद्याधरपते भ्रात्रा विना ज्येष्ठेन सांप्रतम् ॥

सर्वभोगयुतं स्वर्गं नैव गंतुं समुत्सहे

॥७०॥

शापस्यांतो यथा भूयान्मम भ्रातुस्तथा वद ॥

तमुवाच महातेजास्तथा विज्ञप्तिकौतुकः

॥७१॥

दुर्निवारमिमं शापमन्यः को वा निवारयेत् ॥

किं तु गुह्यतमं किंचित्तव वक्ष्यामि सांप्रतम्

॥७२॥

ब्रह्मणा सनकादिभ्यो मुनिभ्यः कथितं पुरा ॥

सर्वतीर्थाश्रये पुण्ये दक्षिणस्यो दधेस्तटे

॥७३॥

चक्रतीर्थसमीपे तु तीर्थमस्तिमहत्तरम् ॥

महापातकसंघाश्च यस्य दर्शनमात्रतः

॥७४॥

नश्यंति तत्क्षणादेव न जाने स्नानजं फलम् ॥

तत्र गत्वा तव ज्येष्ठो यदि स्नायान्महत्तरे

॥७५॥

वेतालत्वं त्यजेन्नूनं तदा गालवशापजम् ॥

सुकर्णस्तद्वचः श्रुत्वा भ्रात्रा वेतालरूपिणा

॥७६॥

सहितः सहसा प्रायाद्दक्षिणस्योदधेस्तटम् ॥

दक्षिणं चक्रतीर्थाख्यादुत्तरं गंधमादनात्

॥७७॥

ब्रह्मणा सनकादिभ्यः कथितं तीर्थमभ्यगात् ॥

तत्तीर्थकूलमासाद्य भ्रातरं चेदमब्रवीत्

॥७८॥

भ्रातर्गालवशापस्य घोरस्यास्य निवृत्तये ॥

तीर्थेऽस्मिन्नचिरात्स्नाहि सर्वतीर्थोत्तमोत्तमे

॥७९॥

तस्मिन्न वसरे विप्रास्तस्य तीर्थस्य शीकराः ॥

न्यपतंस्तस्य गात्रेषु वायुना वै समाहृताः

॥८०॥

स तच्छीकरसंस्पर्शात्त्यक्त्वा वेतालतां तदा ॥

तदेव मानुषं भावं द्विजपुत्रत्वमाप्तवान्

॥८१॥

ततः संकल्प्य सहसा तस्मिंस्तीर्थोत्तमोत्तमे ॥

मनुष्यत्वनिवृत्त्यर्थं निममज्ज द्विजात्मजः

॥८२॥

उत्तिष्ठन्नेव सहसा दिव्यं रूपमवाप्तवान् ॥

विमानवरमारूढो देवस्त्रीपरिवारितः

॥८३॥

सर्वाभरणसंयुक्तः सह भ्रात्रा सुदर्शनः ॥

श्लाघमानश्च तत्तीर्थं नमस्कत्य पुनःपुनः

॥८४॥

विज्ञप्तिकौतुकं चापि पुरस्कृत्य दिवं ययौ ॥

तदाप्रभृति तत्तीर्थं वेतालवरदाभिधम्

॥८५॥

वेतालत्वं विनष्टं यच्छीकरस्पर्शमात्रतः ॥

य इदं तीर्थमासाद्य चक्रतीर्थस्य दक्षिणे

॥८६॥

स्नानं कदाचित्कुर्वंति जीवन्मुक्ता भवंति ते ॥

एतत्तीर्थसमं पुण्यं न भूतं न भविष्यति

॥८७॥

घोरां वेतालतां त्यक्त्वा दिव्यतां स यदाप्तवान्

॥८८॥

अत्र संकल्प्य च स्नात्वा वेतालवरदे शुभे ॥

पितृभ्यः पिंडदानं च कुर्याद्वै नियमान्वितः

॥८९॥

एवं वः कथितं विप्रास्तस्य तीर्थस्य वैभवम् ॥

वेतालवरदाभिख्या यथा चास्य समागता

॥९०॥

यः पठेदिममध्यायं शृणुयाद्वा स मुच्यते

॥९१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये वेतालवरदतीर्थप्रशंसायां सुदर्शनसुकर्णशापमोक्षणंनाम नवमोऽध्यायः ॥ ९ ॥