पापनाशे नरः स्नात्वा सर्वपापनिबर्हणे
श्रीसूत उवाच
पापनाशे नरः स्नात्वा सर्वपापनिबर्हणे ॥
ततः सीतासरो गच्छेत्स्नातुं नियमपूर्वकम्
॥१॥यानि कानि च पुण्यानि ब्रह्मांडांतर्गतानि वै ॥
तानि गंगादितीर्थानि स्वपापपरिशुद्धये
॥२॥सीतासरसि वर्तंते महापातकनाशने ॥
क्षेत्राण्यपि महार्हाणि काश्यादीनि दिवानिशम्
॥३॥सीतासरोत्र सेवंते स्वस्वकल्मषशांतये ॥
तस्याः सरसि संगीतगुणेनाकृष्य बालिशः
॥४॥पंचाननोऽपि वसते पंचपातकनाशनः ॥
तदेतत्तीर्थमागत्य स्नात्वा वै श्रद्धया सह ॥
पुरंदरः पुरा विप्रा मुमुचे ब्रह्महत्यया
॥५॥ऋषय ऊचुः
ब्रह्महत्या कथमभूद्वासवस्य पुरा मुने ॥
सीतासरसि स्नानात्कथं मुक्तोऽभवत्तया
॥६॥श्रीसूत उवाच
कपालाभरणोनाम राक्षसोऽभूत्पुरा द्विजाः
॥७॥अवध्यः सर्वदेवानां सोऽभवद्ब्रह्मणो वरात् ॥
शवभक्षणनामा तु तस्यासीन्मंत्रिसत्तमः
॥८॥अक्षौहिणीशतं तस्य हयेभरथसंकुलम् ॥
अस्ति तस्य पुरं चापि वैजयंतमिति श्रुतम्
॥९॥वसत्यस्मिन्पुरे सोऽयं कपालाभरणो बली ॥
शवभक्षं समाहूय बभाषे मंत्रिणं द्विजाः
॥१०॥शवभक्ष महावीर्य मंत्रशास्त्रेषु कोविद ॥
वयं देवपुरीं गत्वा विनिर्जित्य सुरान्रणे
॥११॥शक्रस्य भवने रम्ये स्थास्यामस्सैनिकैः सह ॥
रमावो नंदने तस्य रंभाद्यप्सरसां गणैः
॥१२॥कपालाभरणस्येदं निशम्य वचनं तदा ॥
शवभक्षोऽब्रवीद्विप्रा वचस्तत्र तथास्त्विति
॥१३॥ततः कपालाभरणः पुत्रं दुर्मेधसं बली ॥
प्रतिष्ठाप्य पुरे शूरं सेनया परिवारितः
॥१४॥युयुत्सुरमरैः साकं प्रययावमरावतीम् ॥
गजाश्वरथपादातैरुद्धतै रेणुसंचयैः
॥१५॥शोषयञ्जलधीन्सिंधूंश्चूर्णयन्पर्वतानपि ॥
निःसाणध्वनिना विप्रा नादयन्रोदसी तथा
॥१६॥अश्वानां हेषितरवैर्गजानामपि बृंहितैः ॥
रथनेमिस्वनैरुग्रैः सिंहनादैः पदातिनाम्
॥१७॥श्रोत्राणि दिग्गजानां च वितन्वन्बधिराणि सः ॥
अगमद्देवनगरीं युयुत्सुरमरैः सह
॥१८॥तत इन्द्रादयो देवाः सेनाकलकलध्वनिम् ॥
श्रुत्वाभिनिर्य्ययुः पुर्या युद्धाभिमनसो द्विजाः
॥१९॥ततो युद्धं समभवद्देवानां राक्षसैः सह ॥
अदृष्टपूर्वं जगति तथैवाश्रुतपूर्वकम्
॥२०॥तत इन्द्रादयो देवा राक्षसाञ्जघ्नुराहवे ॥
राक्षसाश्च सुराञ्जघ्नुः समरे विजिगीषवः
॥२१॥द्वन्द्वयुद्धं च समभूदन्योन्यं सुररक्षसाम् ॥
कपालाभरणेनाजौ युयुधे बलवृत्रहा
॥२२॥यमेन शवभक्षश्च वरुणेन च कौशिकः ॥
कुबेरो रुधिराक्षेण युयुधे ब्राह्मणोत्तमाः
॥२३॥मांसप्रियो मद्यसेवी क्रूरदृष्टिर्भयावहः ॥
चत्वार एते विक्रांताः कपालाभरणानुजाः
॥२४॥अश्विभ्यामग्निवायुभ्यां युद्धे युयुधिरे मिथः ॥
ततो यमो महावीर्यः कालदण्डेन वेगवान्
॥२५॥शवभक्षं निहत्याजावनयद्यमसादनम् ॥
तस्य चाक्षौहिणीस्त्रिंशन्निजघ्ने समरे यमः
॥२६॥वरुणः कौशिकस्याजौ प्रासेन प्राहरच्छिरः ॥
कुबेरो रुधिराक्षस्य कुन्तेनाभ्यहरच्छिरः
॥२७॥अश्विभ्यामग्निवायुभ्यां कपालाभरणानुजाः ॥
निहताः समरे विप्राः प्रययुर्यमसादनम्
॥२८॥अक्षौहिणीशतं चापि देवेन्द्रेण मृधे द्विजाः ॥
यामार्द्धेन हतं युद्धे प्रययौ यमसादनम्
॥२९॥ततः कपालाभरणः प्रेक्ष्य सेनां निजां हताम् ॥
चापमादाय निशिताञ्छरांश्चापि महाजवान्
॥३०॥अभ्ययात्समरे शक्रं तिष्ठतिष्ठेति चाब्रवीत् ॥
ततः शक्रस्य शिरसि व्यधमच्छरपंचकैः
॥३१॥तानप्राप्तान्प्रचिच्छेद शरैर्युद्धे स वृत्रहा ॥
ततः शूलं समादाय कपालाभरणो मृधे
॥३२॥देवेंद्राय प्रचिक्षेप तं शक्त्या निजघान सः ॥
ततः कपालाभरणः शतहस्तायतां गदाम्
॥३३॥आयसीं पंचसाहस्रतुलाभारेणनिर्मिताम् ॥
आददे समरे शक्रं वक्षोदेशे जघान च
॥३४॥ततः स मूर्च्छितः शक्रो रथोपस्थ उपाविशत् ॥
मृतसंजीविनीं विद्यां जपित्वाथ बृहस्पतिः
॥३५॥पुलोमजापतिं युद्धे समजीवयदद्भुतम् ॥
ऐरावतं तदारुह्य कपालाभरणांतिकम्
॥३६॥आजगाम शचीभर्ता प्रहर्तुं कुलिशेन तम् ॥
एकप्रहारेण तदा महेंद्रः पाकशासनः
॥३७॥कपालाभरणं युद्धे वज्रेण सरथाश्वकम् ॥
सचापं सध्वजं चैव सतूणीरं सवर्मकम्
॥३८॥चूर्णयामास कुपितस्तिलशः कणशस्तथा ॥
हते तस्मिन्महावीरे कपालाभरणे रणे
॥३९॥सुखं सर्वस्य लोकस्य बभूव चिरदुःखिनः ॥
राक्षसस्य वधोत्पन्ना ब्रह्महत्या पुरंदरम् ॥
अन्वधावत्तदा भीमा नादयंती दिशो दश
॥४०॥ऋषय ऊचुः
न विप्रो राक्षसः सूत कपालाभरणो मुने ॥
तत्कथं ब्रह्महत्येंद्रं तद्वधात्समुपाद्रवत्
॥४१॥श्रीसूत उवाच
वक्ष्यामि परमं गुह्यं मुनींद्राः परमाद्भुतम्
॥४२॥शृणुत श्रद्धया यूयं समाधाय स्वमानसम् ॥
पुरा विंध्यप्रदेशेषु त्रिवक्रो नाम राक्षसः
॥४३॥तस्य भार्या गुणोपेता सौंदर्यगुणशालिनी ॥
सुशीला नाम सुश्रोणी सर्वलक्षणलक्षिता
॥४४॥सा कदाचिन्मनोज्ञांगी सुवेषा चारुहासिनी ॥
विंध्यपादवनोद्देशे विचचार विलासिनी
॥४५॥तस्मिन्वने शुचिर्नाम वर्ततेस्म महामुनिः ॥
तपसमाधिसंयुक्तो वेदाध्ययनतत्परः
॥४६॥तस्याश्रमसमीपं तु सा ययौ वरवर्णिनी ॥
तां दृष्ट्वा स मुनिर्धैर्यं मुमोचानंगपीडितः ॥
तामासाद्य वरारोहां बभाषे मुनिसत्तमः
॥४७॥शुचिरुवाच
ललने स्वागतं तेऽस्तु कस्य भार्या शुचिस्मिते
॥४८॥किमागमनकृत्यं ते वनेऽस्मिन्नतिभीषणे ॥
श्रांतासि त्वं वरारोहे वसास्मिन्नुटजे मम
॥४९॥तथोक्ता सा तु सुश्रोणी तं मुनिं प्रत्यभाषत ॥
त्रिवक्ररक्षोभार्याहं सुशीला नामतो मुने
॥५॥पुष्पावचयकामेन वनमेतत्समागता ॥
अपुत्राहं मुने भर्त्रा प्रेरिता पुत्रमिच्छता
॥५१॥शुचिं मुनिं समाराध्य तस्मात्पुत्रमवाप्नुहि ॥
इति प्रतिसमादिष्टा पतिना त्वां समागता
॥५२॥पुत्रमुत्पादय त्वं मे कृपां कुरु मुने मयि ॥
एवमुक्तः स तु शुचिः सुशीलां तामभाषत
॥५३॥शुचिरुवाच
त्वां दृष्ट्वा मम च प्रीतिः सुशीले विद्यतेऽधुना ॥
मनोरथमहांभोधिं त्वमापूरय मामकम्
॥५४॥इत्युक्त्वा स मुनिस्तत्र तया रेमे दिनत्रयम् ॥
तामुवाच मुनिः प्रीतः सुशालां सुन्दराकृतिम्
॥५५॥तवोदरे महावीर्यः कपालाभरणाभिधः ॥
भविष्यति चिरं राज्यं पालयिष्यति मेदिनीम्
॥५६॥सहस्रं वत्सरान्वत्सस्तपसा प्रीणयन्विधिम् ॥
पुरंदरं विनान्येभ्यो देवेभ्यो नास्य वध्यता
॥५७॥ईदृशस्ते सुतो भूयादिंद्रतुल्यपराक्रमः ॥
इत्युक्त्वा स मुनिर्नारीं काशीं शिवपुरीं ययौ
॥५८॥सुशीला सापि सुषुवे कपालाभरणं सुतम् ॥
तं जघान मृधे शक्रो वज्रेण मुनिपुंगवाः
॥५९॥शुचेर्बीजसमुद्भूतं तमिंद्रो न्यवधीद्यतः ॥
ततः पुरंदरः शक्रो जगृहे ब्रह्महत्यया
॥६०॥धावति स्म तदा शक्रः सर्वांल्लोकान्भयाकुलः ॥
धावंतमनुधावंती ब्रह्महत्या तमन्वगात्
॥६१॥अनुद्रुतो हि विप्रेंद्राः शक्रोऽयं ब्रह्महत्यया ॥
पितामहसदः प्राप संतप्तहृदयो भृशम्
॥६२॥न्यवेदयद्ब्रह्महत्यां ब्रह्मणे स पुरंदरः ॥
भगवँल्लोकनाथेयं ब्रह्महत्याति भीषणा
॥६३॥बाधते मां प्रजानाथ तस्या नाशं ब्रवीहि मे ॥
पुरंदरेणैवमुक्तो ब्रह्मा प्राह दिवस्पतिम्
॥६४॥ब्रह्मोवाच
सीताकुण्डं प्रयाहींद्र गंधमादनपर्वते ॥
सीताकुण्डस्य तीरे त्वं इष्ट्वा यागैः सदाशिवम्
॥६५॥तस्मिन्सरसि च स्नायाः सर्वपापहरे शुभे ॥
ततः पूतो भवेश्शक्र बह्महत्याविमोचितः
॥६६॥देवलोकं पुनर्यायाः सर्वदुःखविवर्जितः ॥
सर्वपापहरं पुण्यं सीताकुण्डं विमुक्तिदम्
॥६७॥महापातकसंघानां नाशकं परमामृतम् ॥
सर्वदुःखप्रशमनं सर्वदारिद्र्यनाशनम्
॥६९॥धनधान्यप्रदं शुद्धं वैकुण्ठादिपदप्रदम् ॥
तस्मात्तत्र कुरुष्वेष्टिं सीतासरसि वृत्रहन्
॥६९॥इत्युक्तः सुरराजोऽसौ प्रययौ गंधमादनम् ॥
प्राप्य सीतासरो विप्राः स्नात्वेष्ट्वा च तदंतिके
॥७०॥प्रययौ स्वपुरीं भूयो ब्रह्महत्याविमोचितः ॥
एवं प्रभावं तत्तीर्थं सीतायाः कुण्डमुत्तमम्
॥७१॥राघवप्रत्ययार्थं हि प्रविश्य हुतवाहनम् ॥
संनिधौ सर्वदेवानां मैथिली जनकात्मजा
॥७२॥विनिर्गता पुनर्वह्नेः स्थिता सर्वांगशोभना ॥
निर्ममे लोकरक्षार्थं स्वनाम्ना तीर्थमुत्तमम्
॥७३॥तत्र सस्नौ स्वयं सीता तेन सीतासरः स्मृतम् ॥
तत्र यो मानवः स्नाति सर्वान्कामाँल्लभेत सः
॥७४॥तस्मिन्नुपस्पृश्य नरो द्विजेंद्रा दत्त्वा च दानानि पृथग्विधानि ॥
कृत्वा च यज्ञान्बहुदक्षिणाभिर्लोकं प्रयायात्परमेश्वरस्य
॥७५॥युष्माकमेवं प्रथितं मुनींद्राः सीतासरो वैभवमेतदुक्तम् ॥
शृण्वन्पठन्वै तदिहैव भोगान्भुक्त्वा परत्रापि सुखं लभेत
॥७६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये सीतासरःप्रशंसायामिंद्रब्रह्महत्याविमोक्षणनामैकादशोऽध्यायः ॥ ११ ॥