मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय ४४

3
ब्रह्मखण्डः · सेतुखण्डः · 44

रामनाथलिंगप्रतिष्ठाविधिवर्णनम्

ऋषय ऊचुः

सर्ववेदार्थतत्त्वज्ञ पुराणार्णवपारग ॥

व्यासपादांबुजद्वंद्वनमस्कारहृताशुभ

॥१॥

पुराणार्थोपदेशेन सर्वप्राण्युपका रक ॥

त्वया ह्यनुगृहीताः स्म पुराणकथनाद्वयम्

॥२॥

अधुना सेतुमाहात्म्यकथनात्सुतरां मुने ॥

वयं कृतार्थाः संजाता व्यासशिष्य महामते

॥३॥

यथा प्रातिष्ठिपल्लिंगं रामो दशरथात्मजः ॥

तच्छ्रोतुं वयमिच्छामस्त्वमिदानीं वदस्व नः

॥४॥

श्रीसूत उवाच

यदर्थं स्थापितं लिंगं गन्धमादनपर्वते ॥

रामचन्द्रेण विप्रेंद्र तदिदानीं ब्रवीमि वः

॥५॥

हृतभार्यो वनाद्रामो रावणेन बलीयसा ॥

कपिसेनायुतो धीरः ससौमि त्रिर्महाबलः

॥६॥

महेंद्रं गिरिमासाद्य व्यलोकयत वारिधिम् ॥

तस्मिन्नपारे जलधौ कृत्वा सेतुं रघूद्वहः

॥७॥

तेन गत्वा पुरीं लंकां रावणेनाभिरक्षि ताम् ॥

अस्तंगते सहस्रांशौ पौर्णमास्यां निशामुखे

॥८॥

रामः ससैनिको विप्राः सुवेलगिरिमारुहत् ॥

ततः सौधस्थितं रात्रौ दृष्ट्वा लंकेश्वरं बली

॥९॥

सूर्यपुत्रोऽस्य मुकुटं पातयास भूतले ॥

राक्षसो भग्नमुकुटः प्रविवेश गृहोदरम्

॥१०॥

गृहं प्रविष्टे लंकेशे रामः सुग्रीवसंयुतः ॥

सानुजः सेनया सार्द्धमवरुह्य गिरेस्तटात्

॥११॥

सेनां न्यवेशयद्वीरो रामो लंकासमीपतः ॥

ततो निवेशमानांस्तान्वानरान्रावणानुगाः

॥१२॥

अभिजग्मुर्महाकायाः सायुधाः सहसैनिकाः ॥

पर्वणः पूतनो जृंभः खरः क्रोधवशो हरिः

॥१३॥

प्रारुजश्चारुजश्चैव प्रहस्तश्चेतरे तथा ॥

ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्

॥१४॥

अन्तर्धानवधं तत्र चकार स्म विभीषणः ॥

ते दृश्यमाना बलिभिर्हरिभिर्दूरपातिभिः

॥१५॥

निहताः सर्वतश्चैते न्यपतन्वै गतासवः ॥

अमृष्यमाणः सबलो रावणो निर्ययावथ

॥१६॥

व्यूह्य तान्वानरान्सर्वान्न्यवारयत सायकैः ॥

राघवस्त्वथ निर्याय व्यूढानीको दशाननम्

॥१७॥

प्रत्ययुध्यत वेगेन द्वंद्वयुद्धमभूत्तदा ॥

युयुधे लक्ष्मणेनाथ इंद्रजिद्रावणात्मजः

॥१८॥

विरूपाक्षेण सुग्रीवस्तारेयेणापि खर्वटः ॥

पौंड्रेण च नलस्तत्र पुटेशः पनसेन च

॥१९॥

अन्येपि कपयो वीरा राक्षसैर्द्वंद्वमेत्य तु ॥

चक्रुर्युद्धं सुतुमुलं भीरूणां भयवर्द्धनम्

॥२०॥

अथ रक्षांसि भिन्नानि वानरैर्भीमविक्रमैः ॥

प्रदुद्रुवू रणादाशु लंकां रावणपालिताम्

॥२१॥

भग्नेषु सर्वसैन्येषु रावणप्रेरितेन वै ॥

पुत्रेणेंद्रजिता युद्धे नागास्त्रैरतिदारुणैः

॥२२॥

विद्धौ दाशरथी विप्रा उभौ तौ रामलक्ष्मणौ ॥

मोचितौ वैनतेयेन गरुडेन महात्मना

॥२३॥

तत्र प्रहस्तस्तरसा समभ्येत्य विभीषणम् ॥

गदया ताडयामास विनद्य रणकर्कशः

॥२४॥

स तयाभिहतो धीमान्गदया भामिवेगया ॥

नाकंपत महाबाहुर्हिमवानिव सुस्थितः

॥२५॥

ततः प्रगृह्य विपुलामष्टघंटां विभीषणः ॥

अभिमंत्र्य महाशक्तिं चिक्षे पास्य शिरः प्रति

॥२६॥

पतंत्या स तया वेगाद्राक्षसोऽशनिना यथा।

हृतोत्तमांगो ददृशे वातरुग्ण इव द्रुमः

॥२७॥

तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम् ॥

अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्

॥२८॥

कपिसैन्यं समालोक्य विद्रुतं पवनात्मजः ॥

धूम्राक्षमाजघानाशु शरेण रणमूर्धनि

॥२९॥

धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ॥

सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन्

॥३०॥

ततः शयानं लंकेशः कुम्भकर्णमबोधयत् ॥

प्रबुद्धं प्रेषयामास युद्धाय स च रावणः

॥३१॥

आगतं कुम्भकर्णं तं ब्रह्मास्त्रेण तु लक्ष्मणः ॥

जघान समरे क्रुद्धो गतासुर्न्यपतच्च सः

॥३२॥

दूषणस्यानुजौ तत्र वत्रवेगप्रमाथिनौ ॥

हनुमन्नीलनिहतौ रावणप्रतिमौ रणे

॥३३॥

वज्रदंष्ट्रं समवधीद्विश्वकर्मसुतो नलः ॥

अकंपनं च न्यहनत्कुमुदो वानरर्षभः

॥३४॥

षष्ठ्यां पराजितो राजा प्राविशच्च पुरीं ततः ॥

अतिकायो लक्ष्मणेन हतश्च त्रिशिरास्तथा

॥३५॥

सुग्रीवेण हतौ युद्धे देवांत कनरांतकौ ॥

हनूमता हतौ युद्धे कुम्भकर्णसुतावुभौ

॥३६॥

विभीषणेन निहतो मकराक्षः खरात्मजः ॥

तत इन्द्रजितं पुत्रं चोदयामास रावणः

॥३७॥

इन्द्रजिन्मोहयित्वा तौ भ्रातरौ रामलक्षमणौ ॥

घोरैः शरैरंगदेन हतवाहो दिवि स्थितः

॥३८॥

कुमुदांगदसुग्रीवनलजांबवदादिभिः ॥

सहिता वानराः सर्वे न्यपतंस्तेन घातिताः

॥३९॥

एवं निहत्य समरे ससैन्यौ रामलक्ष्मणौ ॥

अंतर्दधे तदा व्योम्नि मेघनादो महाबलः

॥४०॥

ततो विभीषणो राममिक्ष्वाकुकुलभूषणम् ॥

उवाच प्रांजलिर्वाक्यं प्रणम्य च पुनःपुनः

॥४१॥

अयमंभो गृहीत्वा तु राजराजस्य शासनात् ॥

गुह्यकोऽभ्यागतो राम त्वत्सकाशमरिंदम

॥४२॥

इदमंभः कुबेरस्ते महाराज प्रयच्छति ॥

अंतर्हितानां भूतानां दर्शनार्थं परं तप

॥४३॥

अनेन स्पृष्टनयनो भूतान्यंतर्हितान्यपि ॥

भवान्द्रक्ष्यति यस्मै वा भवानेतत्प्रदास्यति

॥४४॥

सोऽपि द्रक्ष्यति भूतानि वियत्त्यंतर्हितानि वै ॥

तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम्

॥४५॥

चकार नेत्रयोः शौचं लक्ष्मणश्च महाबलः ।

सुग्रीवजांबवन्तौ च हनुमानंगदस्तथा

॥४६॥

मैंदद्विविदनीलाश्च ये चान्ये वानरास्तथा ॥

ते सर्वे रामदत्तेन वारिणा शुद्धचक्षुषः

॥४७॥

आकाशेंतर्हितं वीरमपश्यन्रावणा त्मजम् ॥

ततस्तमभिदुद्राव सौमित्रिर्दृष्टिगोचरम्

॥४८॥

ततो जघान संकुद्धो लक्ष्मणः कृतलक्षणः ॥

कुवेरप्रेषितजलैः पवित्रीकृतलोचनः

॥४९॥

ततः समभवद्युद्धं लक्ष्मणेंद्रजितोर्महत् ॥

अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव

॥५०॥

ततस्तृतीयदिवसे यत्नेन महता द्विजाः ॥

इंद्रजिन्निहतो युद्धे लक्ष्मणेन बलीयसा

॥५१॥

ततो मूलबलं सर्वं हतं रामेण धीमता ॥

अथ क्रुद्धो दशग्रीवः प्रियपुत्रे निपातिते

॥५२॥

निर्ययौ रथमास्थाय नगराद्बहुसैनिकः ॥

रावणो जानकीं हन्तुमुद्युक्तो विंध्यवारितः

॥५३॥

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ॥

उपतस्थे रणे रामं मातलिः शक्रसारथिः

॥५४॥

ऐन्द्रं रथं समारुह्य रामो धर्मभृतां वरः ॥

शिरांसि राक्षसेन्द्रस्य ब्रह्मास्त्रेणावधीद्रणे

॥५५॥

ततो हतदशग्रीवं रामं दशरथात्मजम् ॥

आशीर्भिर्जययुक्ताभिर्देवाः सर्षिपुरोगमाः

॥५६॥

तुष्टुवुः परिसंतुष्टाः सिद्धविद्याधरास्तथा ॥

रामं कमलपत्राक्षं पुष्प वर्षेरवाकिरन्

॥५७॥

रामस्तैः सुरसंघातैः सहितः सैनिकैर्वृतः ॥

सीतासौमित्रिसहितः समारुह्य च पुष्पकम्

॥५८॥

तथाभिषिच्य राजानं लंकायां च विभीषणम् ॥

कपिसेनावृतो रामो गन्धमादनमन्वगात्

॥५९॥

परिशोध्य च वैदेहीं गंधमादनपर्वते ॥

रामं कमलपत्राक्षं स्थितवानर संवृतम्

॥६०॥

हतलंकेश्वरं वीरं सानुजं सविभीषणम् ॥

सभार्यं देववृंदैश्च सेवितं मुनिपुंगवैः

॥६१॥

मुनयोऽभ्यागता द्रष्टुं दंडकारण्य वासिनः ॥

अगस्त्यं ते पुरस्कृत्य तुष्टुवुर्मैथिलीपतिम्

॥६२॥

मुनय ऊचुः

नमस्ते रामचंद्राय लोकानुग्रहकारिणे ॥

अरावणं जगत्कर्तुमवतीर्णाय भूतले

॥६३॥

ताटिकादेहसंहर्त्रे गाधिजाध्वररक्षिणे ॥

नमस्ते जितमारीच सुवाहुप्राणहारिणे

॥६४॥

अहल्यामुक्तिसंदायिपादपंकजरेणवे ॥

नमस्ते हरकोदण्डलीलाभञ्जनकारिणे

॥६५॥

नमस्ते मैथिलीपाणिग्रहणोत्सवशालिने ॥

नमस्ते रेणुकापुत्रपराजयविधायिने

॥६६॥

सहलक्ष्मणसीताभ्यां कैकेय्यास्तु वरद्वयात् ॥

सत्यं पितृवचः कर्तुं नमो वनमुपे युषे

॥६७॥

भरतप्रार्थनादत्तपादुकायुगुलाय ते ॥

नमस्ते शरभंगस्य स्वर्गप्राप्त्यैकहेतवे

॥६८॥

नमो विराधसंहर्त्रे गृधराजस खाय ते ॥

मायामृगमहाक्रूरमारीचांगविदारिणे

॥६९॥

सीतापहारिलोकेशयुद्धत्यक्तकलेवरम् ॥

जटायुषं तु संदह्य तत्कैवल्यप्रदायिने

॥७०॥

नमः कबंधसंहर्त्रे शवरीपूजितांघ्रये ॥

प्राप्तसुग्रीवसख्याय कृतवालिवधाय ते

॥७१॥

नमः कृतवते सेतुं समुद्रे वरुणालये ॥

सर्वराक्षससंहर्त्रे रावणप्राणहारिणे

॥७२॥

संसारांबुधिसंतारपोतपादांबुजाय ते ॥

नमो भक्तार्तिसंहर्त्रे सच्चिदानंदरूपिणे

॥७३॥

नमस्ते राम भद्राय जगतामृद्धिहेतवे ॥

रामादिपुण्यनामानि जपतां पापहारिणे

॥७४॥

नमस्ते सर्वलोकानां सृष्टिस्थित्यंतकारिणे ॥

नमस्ते करुणामूर्ते भक्तरक्षणदीक्षित

॥७८५॥

ससीताय नमस्तुभ्यं विभीषणसुखप्रद ॥

लंकेश्वरवधाद्राम पालितं हि जगत्त्वया

॥७६॥

रक्षरक्ष जगन्नाथ पाह्य स्माञ्जानकीपते ॥

स्तुत्वैवं मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः

॥७७॥

श्रीसूत उवाच

य इदं रामचन्द्रस्य स्तोत्रं मुनिभिरीरितम् ॥

त्रिसंध्यं पठते भक्त्या भुक्तिं मुक्तिं च विंदति

॥७८॥

प्रयाणकाले पठतो न् भीतिरुपजायते ॥

एतत्स्तोत्रस्य पठनाद्भूतवेतालकादयः

॥७९॥

नश्यंति रोगा नश्यंति नश्यते पापसंचयः ॥

पुत्रकामो लभेत्पुत्रं कन्या विंदति सत्पतिम्

॥८०॥

मोक्षकामो लभेन्मोक्षं धनकामो धनं लभेत् ॥

सर्वान्कामानवाप्नोति पठन्भक्त्या त्विमं स्तवम्

॥८१॥

ततो रामो मुनीन्प्राह प्रणम्य च कृतांजलिः ॥

अहं विशुद्धये प्राप्यः सकलैरपि मानवैः

॥८२॥

मद्दृष्टिगोचरो जन्तुर्नित्यमोक्षस्य भाजनम् ॥

तथापि मुनयो नित्यं भक्तियुक्तेन चेतसा

॥८३॥

स्वात्मलाभेन संतुष्टान्साधून्भूतसुहृत्तमान् ॥

निरहंकारिणः शांतान्नमस्याम्यूर्ध्वरेतसः

॥८४॥

यस्माद्ब्रह्मण्यदेवोऽहमतो विप्रान्भजे सदा ॥

युष्मान्पृच्छाम्यहं किंचित्तद्वदध्वं विचार्य तु

॥८५॥

रावणस्य वधाद्विप्रा यत्पापं मम वर्तते ॥

तस्य मे निष्कृतिं ब्रूत पौलस्त्यवधजस्य हि ॥

यत्कृत्वा तेन पापे न मुच्येऽहं मुनिपुंगवाः

॥८६॥

मुनय ऊचुः

सत्यव्रत जगन्नाथ जगद्रक्षाधुरंधर

॥८७॥

सर्वलोकोपकारार्थं कुरु राम शिवार्चनम् ॥

गन्धमादनशृंगेऽस्मिन्महापुण्ये विमुक्तिदे

॥८८॥

शिवलिंगप्रतिष्ठां त्वं लोकसंग्रहकाम्यया ॥

कुरु राम दशग्रीववधदोषापनुत्तये

॥८९॥

लिंगस्थापनजं पुण्यं चतुर्वक्त्रोऽपि भाषितुम् ॥

न शक्नोति ततो वक्तुं किं पुनर्मनुजेश्वर

॥९॥

यत्त्वया स्थाप्यते लिगं गन्धमादनपर्वते ॥

अस्य संदर्शनं पुंसां काशीलिंगावलोकनात्

॥९१॥

अधिकं कोटिगुणितं फलवत्स्यान्न संशयः ॥

तव नाम्ना त्विदं लिंगं लोके ख्यातिं समश्नुताम्

॥९२॥

नाशकं पुण्यपापाख्यकाष्ठानां दहनोपमम् ॥

इदं रामेश्वरं लिंगं ख्यातं लोके भविष्यति

॥९३॥

मा विलंबं कुरुष्वातो लिंगस्थापनकर्मणि ॥

रामचंद्र महाभाग करुणापूर्णविग्रह

॥९४॥

श्रीसूत उवाच

इति श्रुत्वा वचो रामो मुनीनां तं मुनीश्वराः ॥

पुण्यकालं विचार्याथ द्विमुहूर्तं जगत्पतिः

॥९५॥

कैलासं प्रेषयामास हनुमन्तं शिवालयम् ॥

शिवलिंगं समानेतुं स्थापनार्थं रघूद्वहः

॥९६॥

राम उवाच

हनूमन्नंजनीसूनो वायुपुत्र महाबल ॥

कैलासं त्वरितो गत्वा लिंगमानय मा चिरम्

॥९७॥

इत्याज्ञप्तस्स रामेण भुजावास्फाल्य वीर्यवान् ॥

मुहूर्तद्वितयं ज्ञात्वा पुण्यकालं कपीश्वरः

॥९८॥

पश्यतां सर्वदेवानामृषीणां च महात्मनाम् ॥

उत्पपात महावेगश्चालयन्गंधमादनम्

॥९९॥

लंघयन्स वियन्मार्गं कैलासं पर्वतं ययौ ॥

न ददर्श महादेवं लिंगरूपधरं कपिः

॥१००॥

कैलासे पर्वते तस्मिन्पुण्ये शंकरपालिते ॥

आंजनेयस्तपस्तेपे लिंगप्राप्त्यर्थमादरात्

॥१॥

प्रागग्रेषु समासीनः कुशेषु मुनिपुंगवाः ॥

ऊर्ध्वबाहुर्निरालम्बो निरुच्छ्वासो जितेंद्रियः

॥२॥

प्रसादयन्महादेवं लिंगं लेभे स मारुतिः ॥

एतस्मिन्नंतरे विप्रा मुनिभिस्तत्त्वदर्शिभिः

॥३॥

अनागतं हनूमंतं कालं स्वल्पावशेषितम् ॥

ज्ञात्वा प्रकथितं तत्र रामं प्रति महामतिम्

॥४॥

रामराम महाबाहो कालो ह्यत्येति सांप्रतम् ॥

जानक्या यत्कृतं लिंगं सैकतं लीलया विभो

॥५॥

तल्लिंगं स्थापयस्वाद्य महालिंगमनुत्तमम् ॥

श्रुत्वैतद्वचनं रामो जानक्या सह सत्वरम्

॥६॥

मुनिभिः सहितः प्रीत्या कृतकौतुकमंगलः ॥

ज्येष्ठे मासे सिते पक्षे दशम्यां बुधहस्तयोः

॥७॥

गरानंदे व्यतीपाते कन्या चन्द्रे वृषे रवौ ॥

दशयोगे महापुण्ये गन्धमादनपर्वते

॥८॥

सेतुमध्ये महादेवं लिंगरूपधरं हरम् ॥

ईशानं कृत्तिवसनं गंगाचंद्रकलाधरम्

॥९॥

रामो वै स्थापयामास शिवलिंगमनुत्तमम् ॥

लिंगस्थं पूजयामास राघवः सांबमीश्वरम्

॥११०॥

लिंगस्थः स महादेवः पार्वत्या सह शंकरः ॥

प्रत्यक्षमेव भगवान्दत्तवान्वरमुत्तमम्

॥११॥

सर्वलोकशरण्याय राघवाय महात्मने ॥

त्वयात्र स्थापितं लिंगं ये पश्यंति रघूद्वह

॥१२॥

महापातकयुक्ताश्च तेषां पापं प्रणश्यति ॥

सर्वाण्यपि हि पापानि धनुष्कोटौ निमज्जनात्

॥१३॥

दर्शनाद्रामलिंगस्य पातकानि महांत्यपि ॥

विलयं यांति राजेंद्र रामचन्द्र न संशयः

॥१४॥

प्रादादेवं हि रामाय वरं देवोंऽबिकापतिः ॥

तदग्रे नंदिकेशं च स्थापयामास राघवः

॥१५॥

ईश्वरस्याभिषेकार्थं धनुष्कोट्याथ राघवः ॥

एकं कूपं धरां भित्त्वा जनयामास वै द्विजाः

॥१६॥

तस्माज्जलमुपादाय स्नापयामास शंकरम् ॥

कोटितीर्थमिति प्रोक्तं तत्तीर्थं पुण्यमुत्तमम्

॥१७॥

उक्तं तद्वैभवं पूर्वमस्माभिर्मुनिपुंगवाः ॥

देवाश्च मुनयो नागा गन्धर्वाप्स रसां गणाः ॥

सर्वेपि वानरा लिंगमेकैकं चक्रुरादरात्

॥१८॥

श्रीसूत उवाच

एवं वः कथितं विप्रा यथा रामेण धीमत

॥५९॥

स्थापितं शिवलिंगं वै भुक्तिमुक्तिप्रदायकम् ॥

इमां लिंगप्रतिष्ठां यः शृणोति पठतेऽथवा

॥१२०॥

स रामेश्वरलिंगस्य सेवाफलमवाप्नुयात् ॥

सायुज्यं च समाप्नोति रामनाथस्य वैभवात्

॥१२१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिंगप्रतिष्ठाविधिवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥