अगस्त्यभ्रातृविमुक्तिवर्णनम्
श्रीसूत उवाच
मंगलाख्ये महातीर्थे नरः स्नात्वा विकल्मषः ॥
एकांतरामनाथाख्यं क्षेत्रं गच्छेत्ततः परम्
॥१॥तत्र रामो जगन्नाथो जानक्या लक्ष्मणेन च ॥
हनुमत्प्रमुखैश्चापि वानरैः परिवारितः
॥२॥सन्निधत्ते सदा विप्रा लोकानुग्रहकाम्यया ॥
विद्यते पुण्यदा तत्र नाम्ना ह्यमृतवापिका
॥३॥तस्यां निमज्जतां नृणां न जरांतकजं भयम् ॥
अस्याममृतवाप्यां यः सश्रद्धं स्नाति मानवः
॥४॥अमृतत्वं भजत्येष शंकरस्य प्रसादतः ॥
महापातकनाशिन्यामस्यां वाप्यां निमज्जताम्
॥५॥अमृतत्वं हरो दातुं सन्निधत्ते सदा तटे ॥
ऋषय ऊचुः ॥
इयं ह्यमृतवापीति कुतो हेतोर्निगद्यते
॥६॥अस्माकमेतद्ब्रूहि त्वं कृपया व्यासशासित ॥
तथैवामृतनामिन्या वापिकायाश्च वैभवम् ॥
तृप्तिर्न जायतेऽस्माकं त्वद्वचोऽमृतपायिनाम्
॥७॥श्रीसूत उवाच
अस्या अमृतनामत्वं वैभवं च मनोहरम्
॥८॥प्रवक्ष्यामि विशेषेण शृणुत द्विजसत्तमाः ॥
पुरा हिमवतः पार्श्वे नानामुनिसमाकुले
॥९॥सिद्धचारणगंधर्वदेवकिन्नरसेविते ॥
सिंहव्याघ्रवराहेभमहिषादिसमाकुले
॥१०॥तमालतालहिंतालचंपकाशोकसंतते ॥
हंसकोकिलदात्यूहचक्रवाकादिशोभिते
॥११॥पद्मेंदीवरकह्लारकुमुदाढ्यसरो वृते ॥
सत्यवाञ्छीलवान्वाग्मी वशी कुंभजसोदरः
॥१२॥आस्ते तपश्चरन्नित्यं मोक्षार्थी शंकरप्रियः ॥
त्रिकालमर्चयञ्छंभु वन्यैर्मूलफलादिभिः
॥१३॥आगतान्स्वाश्रमाभ्याशमतिथीन्वन्यभोजनैः ॥
पूजयन्नर्चयन्नग्निं संध्योपासनतत्परः
॥१४॥गायत्र्यादीन्महामंत्रान्कालेकाले जपन्मुदा ॥
निद्रां परित्यजन्ब्राह्मे मुहूर्ते विष्णुचिंतकः
॥१५॥स्नानं कुर्वन्नुषःकाले नमन्संध्यां प्रसन्नधीः ॥
गायत्रीं प्रजपन्विप्राः पूजयन्हरिशंकरौ
॥१६॥वेदाध्यायी शास्त्रपाठी मध्याह्नेऽतिथिपूजकः ॥
श्रोतापुराणपाठानामग्निकार्येष्वतंद्रितः
॥१७॥पंचयज्ञपरो नित्यं वैश्वदेवबलिप्रदः ॥
प्रत्यब्दं श्राद्धकृत्पित्रोस्तथान्यश्राद्धकृद्द्विजाः
॥१८॥एवं निनाय कालं स नित्यानुष्ठानतत्परः ॥
तस्यैवं वर्तमानस्य तपश्चरत उत्तमम्
॥१९॥सहस्रवर्षाण्यगमञ्च्छंकरासक्तचेतसः ॥
तथापि शंकरो नास्याययौ प्रत्यक्षतां तदा
॥२०॥ततस्त्वगस्त्यभ्रातासौ ग्रीष्मे पंचानिमध्यगः ॥
भास्करं दत्तदृष्टिश्च मौनव्रतसमन्वितः
॥२१॥तिष्ठन्कनिष्ठिकांगुल्यां वामपादस्य निश्चलः ॥
ऊर्ध्वबाहुर्निरालंबस्तपस्तेपेऽतिदारुणम्
॥२२॥अथ तस्य प्रसन्नात्मा महादेवो घृणानिधिः ॥
प्रादुरासीत्स्वया दीप्त्या दिशो दश विभासयन्
॥२३॥ततोऽद्राक्षीन्मुनिः शंभुं सांबं वृषभसंस्थि तम् ॥
दृष्ट्वा प्रणम्य तुष्टाव भवानीपतिमीश्वरम्
॥२४॥मुनिरुवाच
नमस्ते पार्वतीनाथ नीलकंठ महेश्वर ॥
शिव रुद्र महादेव नम स्ते शंभवे विभो
॥२५॥श्रीकंठोमापते शूलिन्भगनेत्रहराव्यय ॥
गंगाधर विरूपाक्ष नमस्ते रुद्र मन्यवे
॥२६॥अंतकारे कामशत्रो देवदेव जगत्पते ॥
स्वामिन्पशुपते शर्व नमस्ते शतधन्वने ॥
दक्षयक्षविनाशाय स्नायूनां पतये नमः ॥
निचेरवे नमस्तुभ्यं पुष्टानां पतये नमः
॥२८॥भूयोभूयो नमस्तुभ्यं महादेव कृपालय ॥
दुस्तराद्भवसिंधोर्मां तारयस्व त्रिलोचन
॥२९॥अगस्त्यसोदरेणैवं स्तुतः शंभुरभाषत ॥
प्रीणयन्वचसा स्वेन कुंभजस्यानुजं मुनिम्
॥३०॥ईश्वर उवाच
कुंभजानुज वक्ष्यामि मुक्त्युपायं तवानघ ॥
सेतुमध्ये महातीर्थं गंधमादनपर्वते
॥३१॥मंगलाख्यस्य तीर्थस्य नातिदूरेण वर्तते ॥
तत्र गत्वा कुरु स्नानं ततो मुक्तिमवाप्स्यसि
॥३२॥तत्तीर्थसेवनान्नान्योमोक्षो पायो लघुस्तव ॥
न हि तत्तीर्थवैशिष्ट्यं वक्तुं शक्यं मयापि च
॥३३॥संदेहो नात्र कर्तव्यस्त्वयाद्य मुनिसत्तम ॥
तस्मात्तत्रैव गच्छ त्वं यदीच्छसि भवक्षयम्
॥३४॥इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥
ततो देवस्य वचनादगस्त्यस्य सहोदरः
॥३५॥गत्वा सेतुं समुद्रे तु गंधमादनपर्वते ॥
ईश्वरणैव गदितं तीर्थं तच्छीघ्रमासदत्
॥३६॥तत्र तीर्थे महापुण्ये स्नातानां मुक्तिदायिनि ॥
एकांतरामनाथाख्ये क्षेत्रालंकरणे शुभे
॥३७॥सस्नौ नियमपूर्वं स त्रीणि वर्षाणि वै द्विजः ॥
ततश्चतुर्थवर्षे तु समाधिस्थो महामुनिः
॥३८॥ब्रह्मनाड्या प्राणवायुं मूर्द्धन्यारोप्ययोगतः ॥
प्राणान्निर्गमयामास ब्रह्मरंध्रेण तत्र सः
॥३९॥ततोऽगस्त्यानुजः सोयं परित्यज्य कलेवरम् ॥
अवाप मुक्तिं परमां तस्य तीर्थस्य वैभवात्
॥४॥विनष्टाशेषदुःखस्य तत्तीर्थस्नानवैभवात् ॥
मृतत्वमभूद्यस्मादगस्त्यानुजजन्मनः
॥४१॥ततो ह्यमृतवापीतिप्रथाऽस्यासीन्मुनीश्वराः ॥
अत्र तीर्थे नरा ये तु वर्षत्रयमतंद्रिताः
॥४२॥स्नानं कुर्वंति ते सत्यममृतत्वं प्रयांति हि ॥
एवं त्वमृतवापीति प्रथा तद्वैभवं तथा ॥
युष्माकं कथितं विप्राः किंभूयः श्रोतुमिच्छथ
॥४३॥ऋषय ऊचुः
एकांतरामनाथाख्या तस्य क्षेत्रस्य वै मुने
॥४४॥कथं समागता सूत वक्तुमेतत्त्वमर्हसि ॥
अस्माकं मुनिशार्दूल तच्छुश्रूषातिभूयसी
॥४५॥श्रीसूत उवाच
पुरा दाशरथी रामः ससुग्रीवभिभीषणः ॥
लक्ष्मणेन युतो भ्रात्रा मंत्रज्ञेन हनूमता
॥४६॥वानरैर्बध्यमाने तु सेतावंबुधिमध्यतः ॥
चिंतयन्मनसा सीतामेकांते सममंत्रयत्
॥४७॥तेषु मंत्र यमाणेषु रावणादिवधं प्रति ॥
उल्लोलतरकल्लोलो जुघोष जलधिर्भृशम्
॥४८॥अर्णवस्य महाभीमे जृंभमाणे महाध्वनौ ॥
अन्योन्यकथितां वार्तां नाशृण्वंस्ते परस्परम्
॥४९॥ततः किंचिदिव क्रुद्धो भृकुटीकुटिलेक्षणः ॥
भ्रूभंगलीलया रामो नियम्य जलधिं तदा
॥५०॥न्यमंत्रयत विप्रेंद्रा राक्षसानां वधं प्रति ॥
एकांतेऽमंत्रयत्तत्र तैः सार्धं राघवो यतः
॥५१॥एकांतरामनाथाख्यं तत्क्षेत्रमभवद्विजाः ॥
सोयं नियमितो वार्धी रामभ्रूभंगलीलया
॥५२॥अद्यापि निश्चलजलस्तत्प्रदेशेषु दृश्यते ॥
एकांतरामनाथाख्यं तदेतत्क्षेत्रमुत्तमम्
॥५३॥आगत्यामृतवाप्यां च स्नात्वा नियमपूर्वकम् ॥
रामादीनपि सेवंते ते सर्वे मुक्तिमाप्नुयुः
॥५४॥अद्वैतविज्ञानविवेकशून्या विरक्तिहीनाश्च समाधि हीनाः ॥
यागाद्यनुष्ठानविवर्जिताश्च स्नात्वात्र यास्यंत्यमृतं द्विजेंद्राः
॥५५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये अमृतवापीप्रशंसायाम् अगस्त्यभ्रातृविमुक्तिवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥