मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय १२

3
ब्रह्मखण्डः · सेतुखण्डः · 12

मनोजवालक्ष्मीविनाशवर्णनम्

श्रीसूत उवाच

सीताकुण्डे महापुण्ये नरः स्नात्वा द्विजोत्तमाः ॥

ततस्तु मंगलं तीर्थमभिगच्छेत्समाहितः

॥१॥

सन्निधत्ते सदा यत्र कमला विष्णुवल्लभा ॥

अलक्ष्मीपरिहाराय यस्मिन्सरसि वै सुराः

॥२॥

शतक्रतुमुखाः सर्वे समागच्छंति नित्यशः ॥

तदेतत्तीर्थमुद्दिश्य ऋषयो लोकपावनम्

॥३॥

इतिहासं प्रवक्ष्यामि पुण्यं पापविनाशनम् ॥

पुरा मनोजवो नाम राजा सोमकुलोद्भवः

॥४॥

पालयामास धर्मेण धरां सागरमेखलाम् ॥

अयष्ट स सुरान्यज्ञै र्ब्राह्मणानन्नसंचयैः

॥५॥

तर्पयामास कव्येन प्रत्यब्दं पितृदेवताः ॥

त्रयीमध्यैष्ट सततमपाठीच्छास्त्रमर्थवत्

॥६॥

व्यजेष्ट शत्रून्वीर्येण प्राणं सीदीशकेशवौ ॥

अरंस्त नीतिशास्त्रेषु तथापाठीन्महामनून्

॥७॥

एवं स धर्मतो राजा पालयामास मेदिनीम् ॥

रक्षतस्तस्य राज्ञोऽभूद्राज्यं निहत कंटकम्

॥८॥

अहंकारोऽभवत्तस्य पुत्रसंपद्विनाशनः ॥

अहंकारो भवेद्यत्र तत्र लोभो मदस्तथा

॥९॥

कामः क्रोधश्च हिंसा च तथाऽसूया विमोहिनी ॥

भवंत्येतानि विप्रेंद्राः संपदां नाशहेतवः

॥१०॥

एतानि यत्र विद्यंते पुरुषे स विनश्यति ॥

क्षणेन पुत्रपौत्रैश्च सार्द्धं चाखिलसंपदा

॥११॥

बभूव तस्यासूया च जनविद्वेषिणी सदा ॥

असूयाकुलचित्तस्य वृथाहंकारिणस्तथा

॥१२॥

लुब्धस्य कामदुष्टस्य मतिरेवं बभूव ह ॥

विप्रग्रामे करादानं करिष्यामीति निश्चितः

॥१३॥

अकरोच्च तथा राजा निश्चित्य मनसा तदा ॥

धनं धान्यं च विप्राणां जहार किल लोभतः

॥१४॥

शिवविष्ण्वादिदेवानां वित्तान्यादत्त रागतः ॥

शिवविष्ण्वादिदेवानां विप्राणां च महात्मनाम्

॥१५॥

क्षेत्राण्यपजहारायमहंकार विमूढधीः ॥

एवमन्याययुक्तस्य देवद्विजविरोधिनः

॥१६॥

दुष्कर्मपरिपाकेन क्रूरेण द्विजपुंगवाः ॥

पुरं रुरोध बलवान्परदेशाधिपो रिपुः

॥१७॥

गोलभोनाम विप्रेंद्राश्चतुरंगबलैर्युतः ॥

षण्मासं युद्धमभवद्गोलभेन दुरात्मनः

॥१९॥

मनोजवस्य नृपतेरहंकाररतात्मनः ॥

ततः स गोलभेनाजौ जितो राज्यात्परिच्युतः

॥१९॥

वनं सपुत्रदारः सन्प्रपेदे स मनोजवः ॥

गोलभः पालयन्नास्ते मनोजवपुरे चिरम्

॥२०॥

चतुरंगबलोपेतस्तमुद्वास्य रणे बली ॥

मनोजवोपि विप्रेंद्राः शोचन्स्त्रीपुत्रसंयुतः

॥२१॥

क्षुत्क्षामः प्रस्खलञ्छश्वत्प्रविवेश महावनम् ॥

झिल्लिकागणसंघुष्टं व्याघ्रश्वापद भीषणम्

॥२२॥

व्याप्तद्विरदचीत्कारं वराहमहिषाकुलम् ॥

तस्मिन्वने महाघोरे क्षुधया परिपीडितः

॥२३॥

अयाचतान्नं पितरं मनोजवसुतः शिशुः ॥

अंब मेन्नं प्रयच्छ त्वं क्षुधा मां बाधते भृशम्

॥२४॥

एवं स्वजननीं चापि प्रार्थयामास बालकः ॥

तन्मातापितरौ तत्र श्रुत्वा पुत्रस्य भाषितम्

॥२५॥

शोकाभिभूतौ सहसा मोहं समुपजग्मतुः ॥

भार्यामथाब्रवीद्राजा सुमित्रानाम नामतः

॥२६॥

मुह्यमानश्च स मुहुः शुष्ककंठौष्ठतालुकः ॥

सुमित्रे किं करिष्यामि कुत्र यास्यामि का गतिः

॥२७॥

मरिष्यत्यचिरादेष सुतो मे क्षुधयार्दितः ॥

किमर्थं ससृजे वेधा दुर्भाग्यं मां वृथा प्रिये

॥२८॥

को वा मोचयिता दुःखमेतद्दुष्कर्मजं मम ॥

न पूजितो मया शंभुर्हरिर्वा पूर्वजन्मसु

॥२९॥

तथान्या देवताः सूर्यविभावसुमुखाः प्रिये ॥

तेन पापेन चाद्याहमस्मिञ्जन्मनि शोभने

॥३०॥

अहंकाराभिभूतोऽस्मि विप्रक्षेत्राण्यपाहरम् ॥

शिवविष्ण्वादिदेवानां वित्तं चापहृतं मया

॥३१॥

एवं दुष्कर्मबाहुल्याद्गोलभेन पराजितः ॥

वनं यातोस्मि विजनं त्वया सह सुतेन च

॥३२॥

निरन्नो निर्धनो दुःखी क्षुधितो ऽहं पिपासितः ॥

कथमन्नं प्रदास्यामि क्षुधिताय सुताय मे

॥३३॥

न मयान्नानि दत्तानि ब्राह्मणेभ्यः शुचिस्मिते ॥

न मया पूजितः शंभुर्विष्णुर्वा देवतांतरम्

॥३४॥

तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥

न मयाग्नौ हुतं पूर्वं न तीर्थमपि सेवितम्

॥३५॥

मातृश्राद्धं पितृश्राद्धं मृताह दिवसे तयोः ॥

नैकोद्दिष्टविधानेन पार्वणेनापि वै प्रिये

॥३६॥

कृतं न हि मया भद्रे भूरिभोजनमेव वा ॥

तेन पापेन मे त्वद्य दुःखमेतत्समागतम्

॥३७॥

चैत्रमासे प्रिये चित्रानक्षत्रे पानकं मया ॥

पनसानां फलं स्वादु कदलीफलमेव वा

॥३८॥

तथा छत्रं सदंडं च रम्यं पादुकयोर्द्वयम् ॥

तांबूलानि च पुष्पाणि चंदनं चानुलेपनम्

॥३९॥

न दत्तं वेदविद्भ्यस्तु चित्रगुप्तस्य तुष्टये ॥

तेन पापेन मे त्वद्य दुःखमेतत्समागतम्

॥४०॥

नाश्वत्थश्चूतवृक्षो वा न्यग्रोधस्तिंतिणी तथा ॥

पिचुमंदः कपित्थो वा तथैवामलकीतरुः

॥४१॥

नारिकेलतरुर्वापि स्थापितोऽध्वगशांतये ॥

तेन पापेन मे त्वद्य दुःखमेतत्समागतम्

॥४२॥

सम्मार्जनं च न कृतं शिवविष्ण्वालये मया ॥

न खानितं तटाकं च न कूपोपि ह्रदोऽपिवा

॥४३॥

न रोपितं पुष्पवनं तथैव तुलसीवनम् ॥

शिवविष्ण्वालयौ वापि निर्मितो न मया प्रिये

॥४४॥

तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥

न मया पैतृके मासि पितॄनुद्दिश्य शोभने ॥

महालयं कृतं श्राद्धमष्टकाश्राद्धमेव वा

॥४५॥

नित्यश्राद्धं तथा काम्यं श्राद्धं नैमित्तिकं प्रिये ॥

न कृताः क्रतवश्चापि विधिवद्भूरिदक्षिणाः

॥४६॥

मासोपवासो न कृतः एकादश्यामुपोषणम् ॥

धनुर्मासेप्युषःकाले शंभुविष्ण्वादिदेवताः

॥४७॥

संपूज्य विधिवद्भद्रे नैवेद्यं न कृतं मया ॥

तेन पापेन मे त्वद्य दुःखमेतत्समा गतम्

॥४८॥

हरिशंकरयोर्नाम्नां कीर्तनं न मया कृतम् ॥

उद्धूलनं त्रिपुण्ड्रं च जाबालोक्तैश्च सप्तभिः

॥४९॥

न धृतं भस्मना भद्रे रुद्राक्षं न धृतं मया ॥

जपश्च रुद्रसूक्तानां पंचाक्षरजपस्तथा

॥५०॥

तथा पुरुषसूक्तस्य जपोऽप्यष्टाक्षरस्य च ॥

नैवकारि मया भद्रे नैवान्यो धर्मसंचयः

॥५१॥

तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥

एवं स विलपन्राजा भार्यामाभाष्य खिन्नधीः

॥५२॥

मूर्च्छामुपाययौ विप्राः पपात च धरातले ॥

सुमित्रा पतितं दृष्ट्वा भार्या सा पतिमंगना

॥५३॥

आलिंग्य विललापाथ सपुत्रा भृशदुःखिता ॥

मम नाथ महाराज सोमान्वयधुरंधर

॥५४॥

मां विहाय क्व यातोऽसि सपुत्रां विजने वने ॥

अनाथां त्वामनुगतां सिंहत्रस्तां मृगीमिव

॥५५॥

मृतोऽसि यदि राजेंद्र तर्हि त्वामहमप्यरम् ॥

अनुव्रजामि विधवा न स्थास्ये क्षणमप्युत

॥५६॥

पितरं पश्य पतितं चन्द्रकांत सुत क्षितौ ॥

इत्युक्तश्चंद्रकांतोऽपि सुतो राज्ञः क्षुधार्दितः

॥५७॥

पितरं परिरभ्याथ निःशब्दं प्ररुरोद सः ॥

एतस्मिन्नंतरे विप्रा जटावल्कलसंवृतः

॥५८॥

भस्मोद्धूलितसर्वांगस्त्रिपुण्ड्रांकितमस्तकः ॥

रुद्राक्षमालाभरणः सितयज्ञोपवीतवान्

॥५९॥

पराशरोनाम मुनिराजगाम यदृच्छया ॥

तं शब्दमभिलक्ष्यासौ साधुसज्जनसंमतः

॥६०॥

ततः सुमित्रा तं दृष्ट्वा पराशरमुपागतम् ॥

ववंदे चरणौ तस्य सपुत्रा सा पतिव्रता

॥६१॥

ततः पराशरेणेयं सुमित्रा परिसांत्विता ॥

आश्वासिता च मुनिना मा शोचस्वेति भामिनि ॥

ततः सुमित्रां पप्रच्छ शक्तिपुत्रो महामुनिः

॥६२॥

पराशर उवाच

का त्वं सुश्रोणि कश्चासौ यश्चायं पतितोऽग्रतः

॥६३॥

अयं शिशुश्च कस्ते स्याद्वद तत्त्वेन मे शुभे ॥

पृष्टैवं मुनिना साध्वी तमुवाच महामुनिम्

॥६४॥

सुमित्रोवाच

पतिर्ममायमस्याहं भार्या वै मुनिसत्तम ॥

आवाभ्यां जनितश्चायं चंद्रकांताभिधः सुतः

॥६५॥

अयं मनोजवो नाम राजा सोमकुलोद्भवः ॥

विक्रमाढ्यस्य तनयः शौर्ये विष्णुसमो बली

॥६६॥

सुमित्रा नाम तस्याहं भार्या पतिमनुव्रता ॥

युद्धे विनिर्जितो राजा गोलभेन मनोजवः

॥६७॥

राज्याद्भ्रष्टो निरालंबो मया पुत्रेण चान्वितः ॥

वनं विवेश ब्रह्मर्षे क्रूरसत्त्वभयानकम्

॥६८॥

क्षुधया पीडितः पुत्रो ह्यावामन्नमयाचत ॥

निरन्नो विधुरो राजा दृष्ट्वा पुत्रं क्षुधार्दितम्

॥६९॥

शोकाकुलमना ब्रह्मन्मूर्च्छितः पतितो भुवि ॥

इति तद्वचनं श्रुत्वा शोकपर्याकुलाक्षरम्

॥७०॥

शक्तिपुत्रो मुनिः प्राह सुमित्रां तां पतिव्रताम् ॥

मनोजवस्य नृपतेर्भार्यामग्निशिखोपमाम्

॥७१॥

पराशर उवाच

मनोजवस्य भार्ये ते मा भीर्भूयात्कथंचन ॥

युष्माकमशुभं सत्यमचिरान्नाशमेष्यति

॥७२॥

मूर्च्छां विहाय ते भद्रे क्षणादुत्थास्यते पतिः ॥

ततः पराशरो विप्रः पाणिना तं नराधिपम्

॥७३॥

पस्पर्श मंत्रं प्रजपन्ध्यात्वा देवं त्रियंबकम् ॥

ततो मनोजवो राजा करस्पृष्टो महामुनेः

॥७४॥

उत्थितः सहसा तत्र त्यक्त्वा मूर्च्छां तमोमयीम् ॥

ततः पराशरमुनिं प्रणम्य जगतीपतिः ॥

उवाच परमप्रीतः प्रांजलिर्विप्रसत्तमम्

॥७५॥

मनोजव उवाच

पराशरमुने त्वद्य त्वत्पादाब्जनिषेवणात्

॥७६॥

मूर्च्छा मे विगता सद्यः पातकं चैव नाशितम् ॥

त्वद्दर्शनमपुण्यानां नैव सिध्येत्कदाचन

॥७७॥

रक्ष मां करुणादृष्ट्या च्यावितं शत्रुभिः पुरात् ॥

इत्युक्तः स मुनिः प्राह राजानं तं मनोजवम्

॥७८॥

पराशर उवाच

उपायं ते प्रवक्ष्यामि राजञ्च्छत्रुजयाय वै ॥

रामसेतौ महापुण्ये गंधमादनपर्वते

॥७९॥

विद्यते मंगलं तीर्थं सर्वैश्वर्यप्रदायकम् ॥

सर्वलोकोपकाराय तस्मिन्सरसि राघवः

॥८०॥

सन्निधत्ते सदा लक्ष्म्या सीतया राजसत्तम ॥

सपुत्रभार्यस्त्वं तत्र गत्वा स्नात्वा सभक्तिकम्

॥८१॥

क्षेत्रश्राद्धादिकं चापि तत्तीरे कुरु भूपते ॥

एवं कृते त्वया राजन्नलक्ष्मीः क्लेशकारिणी

॥९२॥

वैभवात्तस्य तीर्थस्य नाशं यास्यत्यसंशयम् ॥

मंगलानि च सर्वाणि प्राप्स्यसे न चिरान्नृप

॥८३॥

विजित्य शत्रूंश्च रणे पुनर्भूमिं प्रपत्स्यसे ॥

अतस्त्वं भार्यया सार्द्धं पुत्रेण च मनोजव

॥८४॥

गच्छ मंगलतीर्थं तद्गन्धमादनपर्वते ॥

अहमप्यागमिष्यामि तवानुग्रहकाम्यया

॥८५॥

पराशरस्त्वेवमुक्त्वा राजमुख्यैस्त्रिभिः सह ॥

प्रायात्सेतुं समुद्दिश्य स्नातुं मंगलतीर्थके

॥८६॥

राजादिभिः सह मुनिर्विलंघ्य विविधं वनम् ॥

वनप्रदेशदेशांश्च दस्युग्रामाननेकशः

॥८७॥

प्रययौ मंगलं तीर्थं गन्धमादनपर्वते ॥

तत्र संकल्प्य विधिवत्सस्नौ स मुनिपुंगवः

॥८८॥

तानपि स्नापयामास राजादीन्विधिपूर्वकम् ॥

तत्र श्राद्धं च भूपालश्चकार पितृतृप्तये

॥८९॥

तत्र मासत्रयं सस्नौ राजा पत्नीसुतस्तथा ॥

ततः पराशरमुनिः सस्नौ नियमपूर्वकम्

॥९०॥

एवं मासत्रयं सस्नौ तैः साकं मुनिपुंगवः ॥

मंगलाख्ये महापुण्ये सर्वामंगलनाशने

॥९१॥

ततः पराशरमुनिः सर्वानर्थविनाशनम् ॥

रामस्यैकाक्षरं मंत्रं तदंते समुपादिशत्

॥९२॥

चत्वारिंशद्दिनं तत्र मंत्रमेकाक्षरं नृपः ॥

तत्र तीर्थे जजापासौ मुन्युक्तेनैव वर्त्मना

॥९३॥

एवमभ्यसतस्तस्य मंत्रमेकाक्षरं द्विजाः ॥

मुनिप्रसादात्पुरतो धनुः प्रादुरभूद्दृढम्

॥९४॥

अक्षयाविषुधी चापि खड्गौ च कनकत्सरू ॥

एकं चर्म गदा चैका तथैको मुसलोत्तमः

॥९५॥

एकः शंखो महानादो वाजियुक्तो रथस्तथा ॥

ससारथिः पताका च तीर्थादुत्तस्थुरग्रतः

॥९६॥

कवचं कांचनमयं वैश्वानरसमप्रभम् ॥

प्रादुर्बभूव तत्तीर्थात्प्रसादेन मुनेस्तथा

॥९७॥

हारकेयूरमुकुटकटकादिविभूषणम् ॥

तीर्थानां प्रवरात्तस्मादुत्थितं नृपतेः पुरः

॥९८॥

दिव्यांबरसहस्रं च तीर्थात्प्रादुरभूत्तदा ॥

माला च वैजयंत्याख्या स्वर्णपंकजशोभिता

॥९९॥

एतत्सर्वं समालोक्य मुनयेऽसौ न्यवेदयत् ॥

ततः पराशरमुनिर्जलमादाय तीर्थतः

॥१००॥

अभ्यषिंचन्नरपतिं मंत्रपूतेनवारिणा ॥

ततोऽभिषिक्तो नृपतिर्मुनिना परिशोभितः

॥१०१॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ॥

हारकेयूरमुकुटकटकादिविभूषितः

॥१०२॥

दिव्यांबरधरश्चापि वाजियुक्त रथस्थितः ॥

शुशुभेऽतीव नृपतिर्मध्याह्न इव भास्करः

॥१०३॥

तस्मै नृपतये तत्र ब्रह्माद्यस्त्रं महामुनिः ॥

सांगं च सरहस्यं च सोत्सर्गं सोप संहृति

॥१०४॥

उपादिशच्छक्तिपुत्रः सुमित्राजानये तदा ॥

मनोजवोऽथ मुनिना ह्याशीर्वादपुरःसरम्

॥१०५॥

प्रेरितो रथमास्थाय प्रणम्य मुनिपुंगवम् ॥

प्रदक्षिणीकृत्य तदाभ्यनुज्ञातो महर्षिणा

॥१०६॥

सार्द्धं पत्न्या च पुत्रेण प्रययौ विजयाय सः ॥

स गत्वा स्वपुरं राजा प्रदध्मौ जलजं तदा

॥१०७॥

ततः शंखरवं श्रुत्वा गोलभस्तु ससैनिकः ॥

युद्धाय निर्ययौ तूर्णं मनोजवनृपेण सः

॥१०८॥

दिनत्रयं रणं जज्ञे गोलभेन नृपस्य वै ॥

ततश्चतुर्थे दिवसे गोलभं तु ससैनिकम्

॥१०९॥

मनोजवो नृपो युद्धे ब्रह्मास्त्रेण व्यनाशयत् ॥

ततः सपुत्र भार्योऽयं पुरं प्राप्य निजं नृपः

॥११०॥

पालयन्पृथिवीं सर्वां बुभुजे भार्यया सह ॥

तदाप्रभृति राजासौ नाहंकारं चकार वै

॥१११॥

असूयादींस्तथा दोषान्वर्जयामास भूपतिः ॥

अहिंसानिरतो दांतः सदा धर्मपरोऽभवत्

॥११२॥

सहस्रं वत्सरानेवं ररक्ष स महीपतिः ॥

ततो विरक्तो राजेन्द्रः पुत्रे राज्यं निधाय तु

॥११३॥

जगाम मंगलं तीर्थं गन्धमादनपर्वते ॥

तपश्चचार तत्रासौ ध्यायन्हृदि सदाशिवम्

॥११४॥

ततोऽचिरेण कालेन त्यक्त्वा देहं मनोजवः ॥

शिवलोकं ययौ राजा तस्य तीर्थस्य वैभवात्

॥११५॥

तस्य भार्या सुमित्रापि तस्यालिंग्य तनुं तदा ॥

अन्वारूढा चितां विप्राः प्राप तल्लोकमेव सा

॥११६॥

श्रीसूत उवाच

एवं प्रभावं तत्तीर्थं श्रीमन्मंगलनामकम् ॥

मनोजवो नृपो यत्र स्नात्वा तीर्थे महत्तरे

॥११७॥

शत्रून्विजित्य देहांते शिवलोकं ययौ स्त्रिया ॥

तस्मात्सर्वप्रयत्नेन सेव्यं मंगलतीर्थकम्

॥११८॥

तीर्थमेतदतिशोभनं शिवं भुक्तिमुक्तिफलदं नृणां सदा ॥

पापराशितृणतूलपावकं सेवत द्विजवरा विमुक्तये

॥११९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये मंगलतीर्थप्रशंसायां मनोजवालक्ष्मीविनाशवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥