वत्सनाभकृतघ्नदोषशांतिवर्णनम्
श्रीसूत उवाच
शिवतीर्थे नरः स्नात्वा ब्रह्महत्याविमोक्षणे ॥
स्वपापजालशांत्यर्थं शंखतीर्थं ततो व्रजेत्
॥१॥यत्र मज्जनमात्रेण कृतघ्नोऽपि विमुच्यते ॥
मातॄः पितॄन्गुरूंश्चापि ये न मन्यंति मोहिताः
॥२॥ये चाप्यन्ये दुरात्मानः कृतघ्ना निरपत्रपाः ॥
ते सर्वे शंखतीर्थे स्मिञ्छुद्ध्यंति स्नानमात्रतः
॥३॥शंखनामा मुनिः पूर्वं गंधमादनपर्वते ॥
अवर्तत तपः कुर्वन्विष्णुं ध्यायन्समाहितः
॥४॥स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम् ॥
शंखेन निर्मितं तीर्थं शंखतीर्थमितीर्यते
॥५॥तत्र स्नात्वा सकृन्मर्त्यः कृतघ्नोऽपिविमुच्यते १।
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम्
॥६॥यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात् ॥
पुरा बभूव विप्रेंद्रो वत्सनाभो महामुनिः
॥७॥सत्यवाञ्छीलवान्वाग्मी सर्वभूतदयापरः ॥
शत्रुमित्रसमो दांतस्तपस्वी विजितेंद्रियः
॥८॥परब्रह्मणि निष्णातस्तत्त्वब्रह्मैकसंश्रयः ॥
एवं प्रभावः स मुनिस्तपस्तेपे निजाश्रमे
॥९॥स वै निश्चलसर्वांगस्तिष्ठंस्तत्रैव भूतले ॥
परमाण्वंतरं वापि न स्वस्थानाच्चचाल सः
॥१०॥स्थित्वैकत्र तपस्यंतमनेकशतवत्सरान् ॥
तमाचकाम वल्मीकं छादितांगं चकार च
॥११॥वल्मीकाक्रांतदेहोपि वत्सनाभो महामुनिः ॥
अकरोत्तप एवासौ वल्मीकं न त्वबुद्ध्यत
॥१२॥तस्मिंश्च तप्यति तपो वासवो मुनिपुंगवाः ।
१ विसृज्य मेघजालानि वर्षयामास वेगवान्
॥१३॥एवं दिनानि सप्तायं स ववर्ष निरं तरम् ॥
आसारेणातिमहता वृष्यमाणोपि वै मुनिः
॥१४॥तं वर्षं प्रतिजग्राह निमीलितविलोचनः ॥
महता स्तनितेनाशु तदा बधिरयञ्छ्रुती
॥१५॥वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः ॥
तस्मिन्वर्षति पर्जन्ये शीतवातातिदुःसहे
॥१६॥वल्मीकशिखरं ध्वस्तं बभूवाशनिताडि तम् ॥
विशीर्णशिखरे तस्मिन्वल्मीकेऽशनिताडिते
॥१७॥सेहेतिदुःसहां वृष्टिं वत्सनाभो विचिंतयन् ॥
महर्षौ वर्षधाराभिः पीड्यमाने दिवानि शम्
॥१८॥धर्मस्य चेतसि कृपा संबभूवातिभूयसी ॥
स धर्मश्चिंतयामास वत्सनाभे तपस्यति
॥१९॥पतत्यप्यतिवर्षेऽयं तपसो न निवर्तते ॥
अहोऽस्य वत्सनाभस्य धर्मैकायत्तचित्तता
॥२०॥इति चिंतयतस्तस्य मातिरेवमजायत ॥
अहं वै माहिषं रूपं सुमहांतं मनोहरम्
॥२१॥वर्षधारानिपातानां सोढारं कठिनत्वचम् ॥
स्वीकृत्य माहिषं रूपं स्थास्याम्युपरि योगिनः
॥२२॥न हि बाधिष्यते वर्षं महावेगयुतं त्वपि ॥
धर्म एवं विनिश्चित्य धाराः पृष्ठेन धारयन्
॥२३॥वत्सनाभोपरि तदा गात्रमाच्छाद्य तस्थिवान् ॥
ततः सप्तदिनांते तु तद्वै वर्षमुपारमत्
॥२४॥ततो महिषरूपी स धर्मोऽतिकृपया युतः ॥
तद्वै वल्मीकमुत्सृज्य नातिदूरे ह्यवर्त्तत
॥२५॥ततो निवृते वर्षे तु वत्सनाभो महामुनिः ॥
निवृत्तस्तपसस्तू र्णं दिशः सर्वा व्यलोकयन्
॥२६॥स्थितोऽहं वृष्टिसंपाते कुर्वन्नद्य महत्तपः ॥
पृथिवी सलिलाक्लिन्ना दृश्यते सर्वतोदिशम्
॥२७॥शिखराणि गिरीणां च वना न्युपवनानि च ॥
आश्रमाणि महर्षीणामाप्लुतानि जलैर्नवैः
॥२८॥एवमादीनि सर्वाणि दृष्ट्वा प्रमुदितोऽभवत् ॥
चिंतयामास धर्मात्मा वत्सना भो महामुनिः
॥२९॥अहमस्मिन्महावर्षे नूनं केनापि रक्षितः ॥
वर्षत्यस्मिन्महावर्षे जीवितं त्वन्यथा कुतः
॥३०॥विचिंत्यैवं मुनिश्रेष्ठः सर्वत्र समलोकयत् ॥
ततोऽपश्यन्महाकायमदूरादग्रतः स्थितम्
॥३१॥महिषं नीलवर्णं च वत्सनाभस्तपोधनः ॥
महिषं तं समुद्दिश्य मनसा समचिंतयत्
॥३२॥तिर्यग्योनिष्वपि कथं दृश्यते धर्मशीलता ॥
यतो ह्यहं महावर्षान्महिषेणाभिरक्षितः
॥३३॥दीर्घमायुरमुष्यास्तु यन्मां रक्षितवानिह ॥
इत्यादि स विचिंत्यैवं तपसे पुनरुद्ययौ
॥३४॥तं पुनश्च तपस्यंतं दृष्ट्वा महिषरूपधृक् ॥
रोमांचावृतसर्वांगः प्रमोदमगमद्भृशम्
॥३५॥वत्सनाभस्य हि मुनेः पुनश्चैव तपस्यतः ॥
मनः पूर्ववदेकाग्रं परब्रह्मणि नाभवत्
॥३६॥स विषण्णमना भूत्वा वत्सनाभो व्यचिंतयत् ॥
न भवेद्यदि नैर्मल्यं तदा स्याच्चंचलं मनः
॥३७॥मनश्च पापबाहुल्ये निर्मलं नैव जायते ॥
पापलेशोपि मे नास्ति कथं लोला यते मनः
॥३८॥अचिंतयद्दोषहेतुं वत्सनाभः पुनःपुनः ॥
स विचिंत्य विनिश्चित्य निनिंदात्मानमंजसा
॥३९॥धिङ्मामद्य दुरात्मानमहो मूढोस्म्यहं भृशम् ॥
कृतघ्नता महादोषो मामद्य समुपागतः
॥४०॥यदीदृशान्महावर्षात्त्रातारं महिषोत्तमम् ॥
तिष्ठाम्यपूजयन्नेव ततो मे भूत्कृतघ्नता
॥४१॥कृतघ्नता महान्दोषः कृतघ्ने नास्ति निष्कृतिः ॥
कृतघ्नस्य न वै लोकाः कृतघ्नस्य न बांधवाः
॥४२॥कृतघ्नतादोष वलान्मम चित्तं मलीमसम् ॥
कृतघ्ना नरकं यांति ये च विश्वस्तघातिनः
॥४३॥निष्कृतिं नैव पश्यामि कृतघ्नानां कथंचन ॥
ऋते प्राणपरित्यागाद्धर्मज्ञानां वचो यथा
॥४४॥पित्रोरभरणं कृत्वा ह्यदत्त्वा गुरुदक्षिणाम् ॥
कृतघ्नतां च संप्राप्य मरणांता हि निष्कृतिः
॥४५॥तस्मात्प्राणान्परित्यज्य प्रायश्चित्तं चराम्यहम् ॥
इति निश्चित्य मनसा वत्सनाभो महामुनिः
॥४६॥तृणीकृत्य निजान्प्राणान्निःसंगेनांतरा त्मना ॥
मेरोः शिखरमारूढः प्रायश्चित्तचिकीर्षया
॥४७॥सुमेरुशिखरात्तस्मादियेष पतितुं मुनिः ॥
तस्मिन्पतितुमारब्धे मा त्वरिष्ठा इति ब्रुवन् ॥
त्यक्तमाहिषरूपः सन्धर्म एव न्यवारयत्
॥४८॥धर्म उवाच
वत्सनाभ महाप्राज्ञ जीवस्व बहुवत्सरान्
॥४९॥परितुष्टोऽस्मि भद्रं ते देहत्यागचिकीर्षया ॥
न हि त्वद्धर्मकक्षायां लोके कश्चित्समोऽस्ति वै
॥५०॥यद्यपि प्राणसंत्यागः कृतघ्ने निष्कृतिर्भवेत् ॥
तथापि धर्मशीलत्वात्तवान्यां निष्कृतिं वदे
॥५१॥शंखतीर्थाभिधं तीर्थमस्ति वै गंधमादने ॥
शांत्यर्थमस्य पापस्य तत्र स्नाहि समाहितः
॥५२॥प्राप्स्यसे चित्तशुद्धिं त्वमतो विगतकल्मषः ॥
ततश्च लब्धविज्ञानः प्राप्स्यसे शाश्वतं पदम्
॥५३॥अहं धर्मोस्मि योगीन्द्र सत्यमेव ब्रवीमि ते ॥
इति धर्मवचः श्रुत्वा वत्सनाभो महामुनिः
॥५४॥स्नातुकामः शंखतीर्थे गंधमादनमन्वगात् ॥
शंखतीर्थं च संप्राप्य तत्र सस्नौ महामुनिः
॥५५॥ततो विगतपापस्य मनो निर्मलतां गतम् ॥
ततोऽचिरेण कालेन ब्रह्मभूयमगान्मुनिः
॥५६॥एवं वः कथितं विप्राः शंखतीर्थस्य वैभवम् ॥
यत्र हि स्नानमात्रेण कृतघ्नोऽपि विमुच्यते
॥५७॥मातृद्रोही पितृद्रोही गुरुद्रोही तथैव च ॥
अन्ये कृतघ्ननिवहा मुच्यंतेऽत्र निमज्जनात्
॥५८॥अतः कृतघ्नैर्मनुजैः सेवनीयमिदं सदा ॥
अहो तीर्थस्य माहात्म्यं यत्कृतघ्नोपि मुच्यते
॥५९॥अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम् ॥
कृतघ्नतां च संप्राप्य मरणांता हि निष्कृतिः
॥६०॥इह तु स्नानमात्रेण कृतघ्नस्यापि निष्कृतिः ॥
कृतघ्नतापि तत्तीर्थे स्नानमात्राद्विनश्यति
॥६१॥अन्येषां तुच्छपापानां सर्वेषां किमुताधुना
॥६२॥अध्यायमेनं पठेद्भक्तियुक्तः कृतघ्नोपि मर्त्याः स पापाद्विमुक्तः ॥
विशुद्धांतरात्मा गतः सत्यलोकं समं ब्रह्मणा मोक्षमप्याशु गच्छेत्
॥६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये शंखतीर्थप्रशंसायां वत्सनाभकृतघ्नदोषशांतिवर्णनंनाम पञ्चविंशोऽध्यायः ॥ २५ ॥