परावसोर्ब्रह्महत्याविमोक्षणम्
श्रीसूत उवाच
भूयोऽप्यहं प्रवक्ष्यामि धनुष्कोटेस्तु वैभवम् ॥
अत्यद्भुततरं गुह्यं सर्वलोकैकपावनम्
॥१॥पुरा परावसुर्नाम ब्राह्मणो वेदवित्तमः ॥
अज्ञानात्पितरं हत्वा ब्रह्महत्यामवाप्तवान् ॥
सोऽपि स्नात्वा धनुष्कोटौ तद्दोषा न्मुमुचे क्षणात्
॥२॥ऋषय ऊचुः
पितरं हतवान्पूर्वं कथं सूत परावसुः
॥३॥कथं वा धनुषः कोटौ मुक्तिस्तस्याप्यभून्मुने ॥
एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि
॥४॥श्रीसूत उवाच
आसीद्राजा बृहद्द्युम्नश्चक्रवर्ती महाबलः ॥
धर्मेण पालयामास सागरांतां वसुन्धराम्
॥५॥अयजत्सत्रयागेन देवानिंद्रपुरोगमान् ॥
याजकस्तस्य रैभ्योऽभूद्विद्वान्परमधार्मिकः
॥६॥आस्तां पुत्रावुभौ तस्याप्यर्वावसु परावसू ॥
षडंगवेदविदुषौ श्रौतस्मार्तेषु कोविदौ
॥७॥काणादे जैमिनीये च सांख्ये वैयासिके तथा ॥
गौतमे योगशास्त्रे च पाणिनीये च कोवि दौ
॥८॥मन्वादिस्मृतिनिष्णातौ सर्वशास्त्रविशारदौ ॥
सत्रयागे सहायार्थं बृहद्द्युम्नेन याचितौ
॥९॥भ्रातरौ समनुज्ञातौ पित्रा रैभ्येण जग्मतुः ॥
बृहद्द्युम्नस्य सत्रं तावश्विनाविव रूपिणौ
॥१०॥अतिष्ठदाश्रमे रैभ्यः स्नुषया ज्येष्ठया सह ॥
तौ गत्वा भ्रातरौ तत्र राज्ञः सत्रमनुत्तमम्
॥११॥याज यामासतुः सत्रे बृहद्द्युम्नं महीपतिम् ॥
नाभवत्स्खलनं भ्रात्रोः सत्रे सांगेषु कर्मसु
॥१२॥सत्रे संतन्यमानेऽस्मिन्बृहद्द्युम्नस्य भूपतेः ॥
मुनयो भ्यागमन्सर्वे राज्ञाहूता निरीक्षितुम्
॥१३॥वसिष्ठो गौतमश्चात्रिर्जाबालिरथ कश्यपः ॥
क्रतुर्दक्षः पुलस्त्यश्च पुलहो नारदो मुनिः
॥१४॥मार्कंडेयः शतानंदो विश्वामित्रः पराशरः ॥
भृगुः कुत्सोऽथ वाल्मीकिर्व्यासधौम्यादयोऽपरे
॥१५॥शिष्यैः प्रशिष्यैर्बहुभिरसंख्यातैः समावृताः ॥
तानागतान्समालोक्य बृहद्द्युम्नो महीपतिः
॥१६॥अर्घ्यादिना मुनीन्सर्वान्पूजयामास सादरम् ॥
नाना दिग्भ्यः समायाताश्चतुरंगबलैर्युताः
॥१७॥उपदासहिता भूपास्सत्रं वीक्षितुमादरात् ॥
वैश्याः शूद्रास्तथा वर्णाश्चत्वरोऽपि समागताः
॥१८॥वर्णिनोऽथ गृहस्थाश्च वानप्रस्थाश्च भिक्षवः ॥
सत्रं निरीक्षितुं तस्य बृहद्द्युम्नस्य चाययुः
॥१९॥तान्सर्वान्पूजयामास यथार्हं राजसत्तमः ॥
ददौ चान्नानि सर्वेभ्यो घृतसूपादिकांस्तथा
॥२०॥वस्त्राणि च सुवर्णानि हाररत्नान्यनेकशः ॥
एवं सत्कारयामास राजा सत्रे समागतान्
॥२१॥रैभ्यपुत्रो तदा विप्रा अर्वावसुपरावसू ॥
अध्वरादीनि कर्माणि चक्रतुः स्खलितं विना
॥२२॥तद्दृष्ट्वा मुनयस्सर्वे कौशलं रैभ्यपुत्रयौः ॥
श्लाघंते सशिरःकम्पं वसिष्ठप्रमुखास्तदा
॥२३॥कर्माणि कानि चित्तत्र कारयित्वा परावसुः ॥
तृतीयसवनस्यांते गृहकृत्यं निरीक्षितुम्
॥२४॥प्रययौ स्वाश्रमं सायं विनैवार्वावसुं द्विजाः ॥
तस्मिन्नवसरे रैभ्यं कृष्णाजिनसमावृतम्
॥२५॥वने चरंतं पितरं दृष्ट्वा स मृगशंकया ॥
निद्राकलुषितो रात्रावंधे तमसि संकुले
॥२६॥आत्मानं हंतुमायाति मृगोऽयमिति चिंतयन् ॥
जघान पितरं सोऽयं महारण्ये परावसुः
॥२७॥रिरक्षुणा शरीरं स्वं तेनाकामनया पिता ॥
रजन्यां हिंसितो विप्रा महापातककारिणा
॥२८॥अंतिकं स समागत्य व्यलोकयत तं हतम् ॥
ज्ञात्वा स्वपितरं रात्रौ शुशोच व्यथितेंद्रियः
॥२९॥प्रेतकार्यं ततः कृत्वा पितुः सर्वं परावसुः ॥
भूयोपि नृपतेः सत्रं परावसुरुपाययौ
॥३०॥स्वचेष्टितं तु तत्सर्वमनुजाय ततोऽब्रवीत् ॥
मृतं स्वपितरं श्रुत्वा सोऽपि शोकाकुलोऽभवत्
॥३१॥ज्येष्ठोऽनुजं ततः प्राह वचनं द्विजसत्तमाः ॥
महत्सत्रं समारब्धं बृहद्द्युम्नस्य भूपतेः
॥३२॥वोढुत्वशक्तिर्नास्त्यस्य कर्मणो बालकस्य ते ॥
जनकश्च हतो रात्रौ मयापि मृगशंकया
॥३३॥प्रायश्चित्तं च कर्त्तव्यं ब्रह्महत्या विशुद्धये ॥
मदर्थं व्रतचर्यां त्वं चर तात कनिष्ठक
॥३४॥एकाकी धुरमुद्वोढुं शक्तोऽहं सत्रकर्मणः ॥
अर्वावसुरिति प्रोक्तो ज्येष्ठेन स तमभ्य धात्
॥३५॥तथा भवत्वहं ज्येष्ठ चरिष्ये व्रतमुत्तमम् ॥
ब्रह्महत्याविशुद्ध्यर्थं त्वं सत्रधुरमावह
॥३६॥इत्युक्त्वा सोनुऽजो ज्येष्ठं तस्मात्सत्राद्वि निर्ययौ ॥
कारयामास कर्माणि ज्येष्ठस्तस्मिन्गते कतौ
॥३७॥द्वादशाब्दं कनिष्ठोपि ब्रह्महत्याव्रतं द्विजाः ॥
चरित्वा सत्रयागेऽस्मिन्नाजगाम पुनर्मुदा
॥३८॥तं दृष्ट्वा भ्रातरं ज्येष्ठो बृहद्द्युम्नमुवाच ह ॥
अयं ते ब्रह्महा सत्रमर्वावसुरुपागतः
॥३९॥एनमुत्सारयाशु त्वमस्मात्सत्रान्नृपो त्तम ॥
अन्यथा सत्रयागस्य फलहानिर्भविष्यति
॥४०॥इतीरितः स स्वप्रेष्यैर्यागात्तमुदवासयत् ॥
उद्वास्यमानो राजानमर्वावसुरथाब्रवीत्
॥४१॥न मया ब्रह्महत्येयं बृहद्द्युम्न कृतानघ ॥
किन्तु ज्येष्ठेन मे सा हि ब्रह्महत्या कृता विभो
॥४२॥ब्रह्महत्याव्रतं चीर्णं तदर्थं च मया धुना ॥
एवमुक्तोपि राजासौ वचसा स परावसोः
॥४३॥अर्वावसुं निजात्सत्रादुदवासयदाशु वै ॥
धिक्कृतो ब्राह्मणैश्चायं ययौ तूष्णीं वनं तदा
॥४४॥मुनिवृन्दसमाकीर्णं तपोवनमुपेत्य सः ॥
अर्वावसुस्तपश्चक्रे देवैरपि सुदुष्करम्
॥४५॥तपः कुर्वंस्तथादित्यमुपतस्थे समा हितः ॥
मूर्तिमांस्तपसा तस्य महताऽदुष्टधीः स्वयम्
॥४६॥आविरासीत्स्वया दीप्त्या भासयञ्जगतीतलम् ॥
कर्मसाक्षी जगच्चक्षुर्भास्करो देवताग्रणीः
॥४७॥आविर्बभूवुर्देवाश्च पुरस्कृत्य शचीपतिम् ॥
इन्द्रादयस्ततो देवाः प्रोचुरर्वावसुं द्विजाः
॥४८॥अर्वावसो त्वं प्रवरस्तपसा ब्रह्म चर्यतः ॥
आचारेण श्रुतेनापि वेदशास्त्रादिशिक्षया
॥४९॥निराकृतोवमानेन त्वं परावसुना बहु ॥
तथापि क्षमया युक्तो न कुप्यति भवान्यतः
॥५०॥यस्माज्ज्येष्ठोऽवधीत्तातं न हिंसीस्त्वं महामते ॥
ब्रह्महत्याव्रतं यस्मात्तदर्थं चरितं त्वया
॥५१॥अतः स्वीकुर्म हे त्वां तु पराकुर्मः परावसुम् ॥
उक्त्वैवं बलभिन्मुख्याः सर्वे च त्रिदिवालयाः
॥५२॥तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥
पुनरिंद्रादयो देवाः पुरोधाय दिवाकरम्
॥५३॥अर्वावसुं प्रोचुरिदं वरं त्वं वरयेति वै ॥
स चापि प्रार्थयामास जनकस्योत्थितिं पुन.
॥५४॥वधे चास्मरणं देवानात्मनो जनकस्य वै ॥
तथास्त्विति सुराः प्रोचुः पुनरूचुरिदं वचः
॥५५॥वरं चान्यं प्रदास्यामो वरय त्वं महामते ॥
एवमुक्तः सुरैः सोयमर्वावसुरभाषत
॥५६॥मम भ्रातुरदुष्टत्वं भवतु त्रिदशालयाः ॥
अर्वावसोर्वचः श्रुत्वा त्रिदशाः पुनरब्रुवन्
॥५७॥ब्राह्मणस्य पितुर्घातान्महान्दोषः परावसोः ॥
न ह्यन्यकृतपापस्य परेणानुष्ठितेन वै
॥५८॥प्रायश्चित्तेन शांतिः स्यान्महापातकपंचके ॥
पितुर्ब्राह्मणहंतुस्तु सुतरां नास्ति निष्कृतिः
॥५९॥आत्मनानुष्ठितेनापि व्रतेन न हि दुष्कृतिः ॥
परावसोस्तव भ्रातुरतो नैवास्ति निष्कृतिः
॥६०॥अतोऽस्माभिरदुष्टत्वमस्मै दातुं न शक्यते ॥
अर्वावसुः पुनःप्राह देवानिंद्रपुरोगमान्
॥६१॥तथापि युष्मन्माहात्म्यात्प्रसादाद्भवतां तथा ॥
पितुर्ब्राह्मणहंतुर्मे भ्रातुस्त्रिदशसत्तमाः
॥६२॥यथा स्यान्निष्कृतिर्ब्रूत तथैव कृपया युताः ॥
एवमर्वावसोः श्रुत्वा वचस्ते त्रिदशालयाः
॥६३॥ध्यात्वा तु सुचिरं कालं विनिश्चित्येदमबुवन् ॥
उपायं ते प्रवक्ष्यामस्तत्पातकनिवारणम्
॥६४॥दक्षिणांबुनिधौ पुण्ये रामसेतौ विमुक्तिदे ॥
धनुष्कोटिरिति ख्यातं तीर्थमस्ति विमुक्तिदम्
॥६५॥ब्रह्महत्यासुरापानस्वर्णस्तेयविनाशनम् ॥
गुरुतल्पगसंसर्गदोषाणामपि नाशनम्
॥६६॥अकामेनापि यः स्नायादपवर्गफलप्रदम् ॥
दुःस्वप्ननाशनं धन्यं नरकक्लेशनाशनम्
॥६७॥कैलासादिपदप्राप्तिकारणं परमार्थदम् ॥
सर्वकाममिदं पुंसामृणदारिद्र्यनाशनम्
॥६८॥धनुष्कोटिर्धनु ष्कोटिर्धनुष्कोटिरितीरणात् ॥
स्वर्गापवर्गदं पुंसां महापुण्यफलप्रदम्
॥६९॥तत्र गत्वा तव भ्राता स्नायाद्यदि परावसुः ॥
तत्क्षणादेव ते ज्येष्ठो मुच्यते ब्रह्महत्यया
॥७०॥इदं रहस्यं सुमहत्प्रायश्चित्तमुदीरितम् ॥
उक्त्वेत्यर्वावसुं देवाः प्रययुः स्वपुरीं प्रति
॥७१॥तत अर्वावसुर्ज्येष्ठं समादाय परावसुम् ॥
रामचन्द्रधनुष्कोटिं प्रययौ मुक्तिदायिनीम्
॥७२॥सेतौ संकल्पमुक्त्वा तु नियमेन परावसुः ॥
सह भ्रात्रा धनुष्कोटौ सस्नौ पातकशुद्धये
॥७३॥स्नात्वोत्थितं धनुष्कोटौ तं प्रोवाचाशरीरिणी ॥
परावसो विनष्टा ते पितुर्ब्राह्मणघातजा
॥७४॥ब्रह्महत्या महा घोरा नरकक्लेशकारिणी ॥
इत्युक्त्वा विररामाथ सापि वागशरीरिणी
॥७५॥परावसुस्तदा विप्राः कनिष्ठेन समन्वितः ॥
रामचन्द्रधनुष्कोटिं प्रणम्य च सभक्तिकम्
॥७६॥रामनाथं महादेवं नत्वा भक्तिपुरःसरम् ॥
विमुक्तपातको विप्राः प्रययौ पितुराश्रमम्
॥७७॥मृत्वोत्थितस्तदा रैभ्यो दृष्ट्वा पुत्रौ समागतौ ॥
संतुष्टहृदयो ह्यास्ते पुत्राभ्यां स्वाश्रमे तदा
॥७८॥रामचन्द्रधनुष्कोटौ स्नानेन हतपातकम् ॥
एनं परावसुं सर्वे स्वीचक्रुर्मुनयस्तदा
॥७९॥एवं परावसोरुक्तं ब्रह्महत्याविमोक्षणम् ॥
स्नानमात्राद्धनुष्कोटौ युष्माकं मुनिपुंगवाः
॥८०॥सुरा पानादयो विप्रा नश्यंत्येवात्र मज्जनात् ॥
सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते
॥९१॥महापातकसंघाश्च नश्येयुर्मज्जनादिह ॥
य इमं पठतेऽध्यायं ब्रह्महत्याविमोक्षणम्
॥८२॥ब्रह्महत्या विनश्येत तत्क्षणान्नास्ति संशयः ॥
सुरापानादयोऽप्यस्य शांतिं गच्छेयुरंजसा
॥८३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां परावसोर्ब्रह्महत्याविमो क्षणंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥