दुर्दमगंधर्वशापमोचनम्
ऋषय ऊचुः
भगवन्राक्षसः कोऽसौ सूत पौराणिकोत्तम ॥
विष्णुभक्तं महात्मानं यो गालवमबाधत
॥१॥श्रीसूत उवाच
वक्ष्यामि राक्षसं क्रूरं तं विप्राः शृणुतादरात् ॥
यथा स राक्षसो जातो मुनीनां शापवैभवात्
॥२॥पुरा कैलासशिखरे हालास्ये शिवमंदिरे ॥
चतुर्विशतिसाहस्रा मुनयो ब्रह्मवादिनः
॥३॥वसिष्ठात्रिमुखाः सर्वे शिवभक्ता महौजसः ॥
भस्मोद्धूलितसर्वांगास्त्रिपुंड्रांकितमस्तकाः
॥४॥रुद्राक्ष मालाभरणाः पंचाक्षरजपे रताः ॥
हालास्यनाथं भूतेशं चंद्रचूडमुमापतिम्
॥५॥उपासांचक्रिरे मुक्त्यै मधुरापुरवासिनः ॥
कदाचित्तत्र गंधर्वो विश्वावसुसुतो बली
॥६॥दुर्द्दमोनाम विप्रेंद्रा विटगोष्ठीपरायणः ॥
ललनाशतसंयुक्तो विवस्त्रः सलिलाशये
॥७॥चिक्रीड स विवस्त्राभिः साकं युवतिभिर्मुदा ॥
हालास्यनाथतीर्थं तद्वसिष्ठो मुनिभिः सह
॥८॥माध्यंदिनं कर्तुमना ययौ शंकरमंदिरात् ॥
तानृषीनवलोक्याथ रामास्ता भयकातराः
॥९॥वासांस्याच्छादयामासुर्दुर्द्दमो न तु साहसी ॥
ततो वसिष्ठः कुपितः शशापैनं गत त्रपम्
॥१०॥वसिष्ठ उवाच
यस्माद्दुर्दम गंधर्व दृष्ट्वास्माँल्लज्जया त्वया ॥
वासो नाच्छादितं शीघ्रं याहि राक्षसतां ततः
॥११॥इत्युक्त्वा ता स्त्रियः प्राह वसिष्ठो मुनिपुंगवः ॥
यस्मादाच्छादितं वस्त्रं दृष्ट्वास्माँल्ललनोत्तमाः
॥१२॥ततो न युष्माञ्छपिष्यामि गन्छध्वं त्रिदिवं ततः ॥
एवमुक्ता वसिष्ठेन रामाः प्रांजलयस्तदा
॥१३॥प्रणिपत्य वसिष्ठं तं भक्तिनम्रेण चेतसा ॥
मुनिमंडलमध्ये तं वसिष्ठमिदमब्रुवन्
॥१४॥रामा ऊचुः
भगवन्सर्वधर्मज्ञ चतुरानननंदन ॥
दयासिंधोऽवलोक्यास्मान्न कोपं कर्तुमर्हसि
॥१५॥पतिरेवहि नारीणां भूषणं परमुच्यते ॥
पतिहीना तु या नारी शतपुत्रापि सा मुने
॥१६॥विधवेत्युच्यते लोके तत्स्त्रीणां मरणं स्मृतम् ॥
तत्प्रसादं कुरु मुने पत्यावस्माक मादरात्
॥१७॥एकोऽपराधः क्षंतव्यो मुनिभिस्तत्त्वदर्शिभिः ॥
क्षमां कुरु दयासिंधो युष्मच्छिष्येऽत्र दुर्दमे
॥१९॥वसिष्ठः प्रार्थितस्त्वैवं दुर्दम स्यांगनाजनैः ॥
प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमाः
॥१९॥न मे स्याद्वचनं मिथ्या कदाचिदपि सुभ्रुवः ॥
उपायं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह
॥२०॥षोडशाब्दावधिः शापो भर्तुर्वो भविता ध्रुवम् ॥
षोडशाब्दावधौ चैष दुर्दमो राक्षसाकृतिः
॥२१॥यदृच्छयाचक्र तीर्थं गमिष्यति सुरांगनाः ॥
आस्ते तत्र महायोगी गालवो विष्णुतत्परः
॥२२॥भक्ष्यार्थं तं मुनिं सोऽयं राक्षसोभिगमिष्यति ॥
ततो गालवरक्षार्थं प्रेरितं चक्रमुत्तमम्
॥२३॥विष्णुनास्य शिरो रामा हरिष्यति न संशयः ॥
ततः स्वरूपमासाद्य शापान्मुक्तः सुदुर्दमः
॥२४॥पतिर्वस्त्रिदिवं भूयो गंतास्त्यत्र न संशयः ॥
ततस्त्रिदिवमासाद्य दुर्द्दमोऽयं पतिर्हि वः
॥२५॥रमयिष्यति सुन्दर्यो युष्मान्सुन्दरवेषभृत् ॥
श्रीसूत उवाच ॥
इत्युक्त्वा तु वसिष्ठस्ता दुर्दमस्य वरांगनाः
॥२६॥स्वाश्रमं प्रययौ तूर्णं हालास्येश्वरभक्तिमान् ॥
अथ रामास्तमालिंग्य दुर्द्दमं पतिमातुराः
॥२७॥रुरुदुः शोकसंविग्ना दुःखसागरमध्यगाः ॥
प्र पश्यंतीषु तास्वेव दुर्दमो राक्षसोऽभवत्
॥२८॥महादंष्ट्रो महाकायो रक्तश्मश्रुशिरोरुहः ॥
तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम्
॥२९॥ततो राक्षसवेषोऽयं दुर्दमो भैरवाकृतिः ॥
भक्षयन्प्राणिनः सर्वान्देशाद्देशं वनाद्वनम्
॥३०॥भ्रमन्न निलवेगोऽसौ धर्मतीर्थं ततो ययौ ॥
एवं षोडशवर्षाणि भ्रमतोऽस्य ययुस्तदा
॥३१॥ततस्तु षोडशाब्दांते राक्षसोयं मुनीश्वराः ॥
भक्षितुं गालवमुनिं धर्मतीर्थनिवासिनम्
॥३२॥उपाद्रवद्वायुवेगः सचास्तौषीज्जनार्दनम् ॥
गालवेन स्तुतो विष्णुस्तदा चक्रमचोदयत्
॥३३॥रक्षितुं गाल वमुनिं राक्षसेन प्रपीडितम् ॥
अथागत्य हरेश्चक्रं राक्षसस्य शिरोऽहरत्
॥३४॥ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ॥
विमानवरमारुह्य दुर्दमः पुष्पवर्षितः
॥३५॥प्रांजलिः प्रणतो भूत्वा ववन्दे तं सुदर्शनम् ॥
तुष्टाव श्रुतिरम्याभिर्वाग्भिरग्र्याभिरादरात्
॥३६॥दुर्दम उवाच
सुदर्शन नमस्तेऽस्तु विष्णुहस्तैकभूषण ॥
नमस्तेऽसुरसंहर्त्रे सहस्रादित्यतेजसे
॥३७॥कृपालेशेन भवतस्त्यक्त्वाहं राक्षसीं तनुम् ॥
स्वरूपमभजं विष्णोश्चक्रायुध नमोऽस्तु ते
॥३८॥अनुजानीहि मां गन्तुं त्रिदिवं विष्णुवल्लभ ॥
भार्या मे परिशोचंति विरहातुरचेतसः
॥३९॥त्वन्मनस्को भविष्यामि यावज्जीवं यथाह्यहम् ॥
तथा कृपां कुरुष्व त्वं मयि चक्र नमोऽस्तु ते
॥४०॥एवं स्तुतं विष्णुचक्रं दुर्दमेन सभक्तिकम् ॥
अनुजग्राह सहसा तथास्त्विति मुनीश्वराः
॥४१॥चक्रायुधाभ्यनुज्ञातो दुर्दमो गालवं मुनिम् ॥
प्रणम्य तेनानुज्ञातो गन्धर्वस्त्रिदिवं ययौ
॥४२॥दुर्दमे तु गते स्वर्गं गालवो मुनिपुंगवः ॥
स चक्रं प्रार्थयामास विष्ण्वायुधमनुत्तमम्
॥४३॥चक्रायुध नमामि त्वां महासुरविमर्द्दन ॥
देवीपट्टण पर्यंते धर्मतीर्थे ह्यनुत्तमे
॥४४॥सन्निधानं कुरुष्व त्वं सर्वपापविनाशनम् ॥
त्वत्सन्निधानात्सर्वेषां स्नातानां पापिनामिह
॥४५॥पापनाशं कुरुष्व त्वं मोक्षं च कुरु शाश्वतम् ॥
चक्रतीर्थमिति ख्यातिं लोकस्य परिकल्पय
॥४६॥त्वत्सन्निधानादत्रत्यमुनीनां भयनाशनम् ॥
इतः परं भवत्वार्य चक्रायुध नमोऽस्तु ते
॥४७॥भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो ॥
इति संप्रार्थितं चक्रं गालवेन मुनीश्वराः
॥४८॥तथैवा स्त्विति सम्भाष्य तस्मिंस्तीर्थे तिरोहितम् ॥
श्रीसूत उवाच ॥
एवं वः कथितो विप्रा राक्षसस्स भवो मया
॥४९॥माहात्म्यं चक्र तीर्थस्य कथितं च मलापहम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि
॥५०॥ऋषय ऊचुः
व्यासशिष्य महाप्राज्ञ सूत पौराणिकोत्तम ॥
आरभ्य दर्भशयनमादेवीपत्तनावधि
॥५१॥बहुव्यायामसंयुक्तं चक्रतीर्थमनुत्तमम् ॥
ययौ विच्छिन्नतां मध्ये कथं कथय सांप्रतम्
॥५२॥एनं मनसि तिष्ठन्तं संशयं छेत्तुमर्हसि ॥
श्रीसूत उवाच ॥
पुरा हि पर्वताः सर्वे जातपक्षा मनोजवाः
॥५३॥पर्यंतपर्वतै सार्द्धं चेरुराकाशमार्गगाः ॥
नगरेषु च राष्ट्रेषु ग्रामेषु च वनेषु च
॥५४॥आप्लुत्याप्लुत्य तिष्ठंति पर्वताः सर्वतो भुवि ॥
आक्रम्याक्रम्य तिष्ठंति यत्रयत्र महीधराः
॥५५॥तत्रतत्र नरा गावस्तथान्ये प्राणिसंचयाः ॥
मरणं सहसा प्रापुः पीड्यमाना महीधरैः
॥५६॥ब्राह्मणादिषु वर्णेषु नष्टेषु समनन्तरम् ॥
यज्ञाद्यभावात्सहसा देवता व्यसनं ययुः
॥५७॥तत इन्द्रो महाक्रुद्धो वज्रमादाय वेगवान् ॥
चिच्छेद सहसा पक्षान्पर्वतानां तरस्विनाम्
॥५८॥छिद्यमानच्छदाः सर्वे वासवेन महीधराः ॥
अनन्यशरणा भूत्वा समुद्रं प्राविशन्भयात्
॥५९॥अचलेषु च सर्वेषु पतत्सु लवणार्णवे ॥
निपेतुरर्णवभ्रांत्या चक्रतीर्थेपि केचन
॥६०॥पतितैः पर्वतैस्तैस्तु मध्यतः पूरितोदरम् ॥
चक्रतीर्थं महापुण्यं मध्ये विच्छेदमाययौ
॥६१॥यदृच्छया महाशैलाः पार्श्वयोस्तत्र नापतन् ॥
अतो वै दर्भशयने तथा देवीपुरेऽपि च
॥६२॥विच्छिन्नमध्यं तद्द्वेधा विभक्तमिव दृश्यते ॥
मध्यतः पतितैः शैलैश्चक्रतीर्थं स्थलीकृतम्
॥६३॥श्रीसूत उवाच
युष्माकमेवं कथितं मुनीन्द्रा यन्मध्यतस्तीर्थमिदं स्थली कृतम् ॥
यथा महीध्राः सहसा बिडौजसा विच्छिन्नपक्षा इह पेतुरुन्नताः
॥६४॥इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये दुर्दमगंधर्वशापमोचनंनाम चतुर्थोऽध्यायः ॥ ४ ॥