मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — सेतुखण्डः, अध्याय १९

3
ब्रह्मखण्डः · सेतुखण्डः · 19

तारकब्रह्मणस्तस्य तीर्थे स्नात्वा द्विजोत्तमाः

श्रीसूत उवाच

तारकब्रह्मणस्तस्य तीर्थे स्नात्वा द्विजोत्तमाः ॥

लक्ष्मणस्य ततस्तीर्थमभिगच्छेत्समाहितः

॥१॥

श्रीलक्ष्मणस्य तीर्थे तु स्नात्वा पापैर्विमोचिताः ॥

मुक्तिं प्रयांति विमलामपुनर्भवलक्षणाम्

॥२॥

स्नानाल्लक्ष्मणतीर्थे तु दारिद्र्यं नश्यतेखिलम् ॥

आयुष्मान्गुणवान्विद्वान्पुत्रश्चैवास्य जायते

॥३॥

कूले लक्ष्मणतीर्थस्य तन्मन्त्रं जपते तु यः ॥

स सर्वशास्त्रवेत्ता स्याच्चतुर्वेदविदप्यसौ

॥४॥

तस्य कूले महल्लिंगं स्थापयामास लक्ष्मणः ॥

तत्र तीर्थे तु यः स्नात्वा सेवते लक्ष्मणेश्वरम्

॥५॥

इह दारिद्र्यरोगाभ्यां संसाराच्च विमुच्यते ॥

स्नात्वा लक्ष्मणतीर्थे तु सेवित्वा लक्ष्मणेश्वरम् ॥

बलभद्रः पुरा विप्रा मुमुचे ब्रह्महत्यया

॥६॥

ऋषय ऊचुः

ब्रह्महत्या कथमभूद्रौहिणेयस्य सूतज ॥

कथं चात्र विनष्टा सा तन्नो ब्रूहि महामुने

॥७॥

श्रीसूत उवाच

शेषावतारो भगवान्बलभद्रः पुरा द्विजाः

॥८॥

कुरूणां पांडवानां च युद्धोद्योगं विलोक्य तु ॥

बंधूनां स वधं सोढुमसमर्थो हलायुधः

॥९॥

विचारमेवमकरोद्बलभद्रो महामतिः ॥

यद्यहं कुरुराजस्य करिष्यामि सहायताम्

॥१०॥

कोपः स्यात्पांडुपुत्राणां मय्यवार्यः सुदारुणः ॥

उपकारं करिष्यामि पांडवानामहं यदि

॥११॥

दुर्योधनस्य कोपः स्यादिति बुद्ध्वा हलायुधः ॥

तीर्थयात्राच्छलेनासौ मध्यस्थः प्रययौ तदा

॥१२॥

प्रभासमभिगम्याथ स्नात्वा संकल्पपूर्वकम् ॥

देवानृषीन्पितृगणांस्तर्पयामास वारिणा

॥१३॥

सरस्वतीं ततः प्रायात्प्रतीच्यभिमुखां हली ॥

पृथूदकं बिंदुसरो मुक्तिदं ब्रह्मतीर्थकम्

॥१४॥

गंगां च यमुनां सिंधुं शतद्रूं च सुदर्शनम् ॥

संप्राप्य बलभद्रोऽयं स्नात्वा तीर्थेषु धर्मतः

॥१५॥

प्रपेदे नैमिषारण्यं मुनींद्रैरभिसेवितम् ॥

आगतं तं विलोक्याथ नैमिषीयास्तपस्विनः

॥१६॥

दीर्घसत्रे स्थिताः सम्यङ्नियता धर्मतत्पराः ॥

अभ्युद्गम्य यदुश्रेष्ठं प्रणम्योत्थाय चासनात्

॥१७॥

अपूजयन्विष्टराद्यैः कंदमूलफलैस्तदा ॥

आसनं परिगृह्यायं पूजितः सपुरःसरः

॥१८॥

उच्चासने स्थितं सूतमनमंतमनुत्थितम् ॥

अकृतांजलिमासीनं व्यासशिष्यं विलोक्य सः

॥१९॥

विप्रांश्चानमतो दृष्ट्वा विलोक्यात्मानमागतम् ॥

चुक्रोध रोहिणीसूनुः सूतं पौराणिकोत्तमम्

॥२०॥

मध्ये मुनीनां सूतोऽयं कस्मान्निंद्योऽनुलोमजः ॥

उच्चासने समध्यास्ते न युक्तमिदमंजसा

॥२१॥

अवमत्य भृशं चास्मान्धर्मसंरक्षकानयम् ॥

आस्तेऽनुत्थाय निर्भीतिर्न च प्रणमते तथा

॥२२॥

पठित्वायं पुराणानि द्वैपायनसकाशतः ॥

सेतिहासानि सर्वाणि धर्मशास्त्राण्यनेकशः

॥२३॥

न मां दृष्ट्वा प्रणमते नैव त्यजति चासनम् ॥

द्वैपायनस्य महतः शिष्याः पैलादयो द्विजाः

॥२४॥

एवंविधमधर्मं ते नैव कुर्युर्यथा त्वयम् ॥

तस्मादेनं वधिष्यामि दुरात्मानमचेतनम्

॥२५॥

दुष्टानां निग्रहार्थं हि भूर्लोकमहमागमम् ॥

मया हतो हि दुष्टात्मा शुद्धिमेष्यत्यसंशयम्

॥२६॥

इत्युक्त्वा भगवान्रामो मुसली प्रबलो हली ॥

पाणिस्थेन कुशाग्रेण तच्छिरः प्राच्छिनद्रुषा

॥२७॥

तत्रत्या मुनयः सर्वे हा कष्टमिति चुक्रुशुः ॥

अवादिषुस्तदा रामं मुनयो ब्रह्मवादिनः

॥२८॥

रामाधर्मः कृतः कष्टस्त्वया संकर्षण प्रभो ॥

अस्य सूतस्य चास्माभिर्दत्तं ब्रह्मासनं महत्

॥२९॥

अक्षयं चायुरस्माभिरस्य दत्तं हलायुध ॥

भवताऽऽजानतैवाद्य कृतो ब्रह्मवधो महान्

॥३०॥

योगेश्वरस्य भवतो नास्ति कश्चिन्नियामकः ॥

अस्यास्तु ब्रह्महत्याया यत्कर्त्तव्यं विचार्य तत्

॥३१॥

प्रायश्चित्तं भवानेव लोकसंग्रहणाय तु ॥

कुरुष्व भगवन्राम नान्येन प्रेरितः कुरु ॥

इत्युक्तो भगवान्रामस्तानुवाच मुनीन्प्रति

॥३२॥

राम उवाच

प्रायश्चित्तं चरिष्याभि पापशोधकमास्तिकाः

॥३३॥

लोकसंग्रहणार्थाय नान्यकामनयाऽधुना ॥

यादृशो नियमोऽस्माभिः कर्तव्यः पापशांतये

॥३४॥

तादृशं नियमं त्वद्य भवतः प्रब्रुवंतु नः ॥

भवद्भिरस्य सूतस्य यदायुर्दत्तमक्षयम् ॥

इंद्रियाणि च सत्त्वं च करिष्ये योगमायया

॥३५॥

मुनय ऊचुः

पराक्रमस्य तेस्त्रस्य मृत्योर्नश्च यथा प्रभो ॥

स्यात्सत्यवचनं राम तद्भवान्कर्तुमर्हति

॥३६॥

राम उवाच

आत्मा वै पुत्ररूपेण भवतीति श्रुतिस्सदा

॥३७॥

उद्घोषयति विप्रेंद्रास्तस्मादस्य शरीरतः ॥

पुत्रो भवतु दीर्घायुः सत्त्वेंद्रिय बलोर्जितः

॥३९॥

कथयिष्यति युष्माकं पुराणादीनि सोऽन्वहम् ॥

संभविष्यति सर्वज्ञो योगमायाबलान्मम

॥३९॥

इत्युक्त्वा रौहिणेयस्तान्पुनः प्रश्रितमब्रवीत् ॥

मनोभिलषितं किं वा युष्माकं करवाण्यहम्

॥४०॥

तद्ब्रूत मुनयो यूयं करिष्यामि न संशयः ॥

अज्ञानान्मत्कृतस्यास्य पापस्यापि निवर्तकम् ॥

प्रायश्चित्तं भवन्तो मे प्रब्रूत मुनिसत्तमाः

॥४१॥

मुनय ऊचुः

इल्वलस्यात्मजः कश्चिद्दानवो बल्वलाभिधः

॥४२॥

स दूषयति नो यागं रामेहागत्य पर्वणि ॥

दुष्टं तं दानवं पापं जहि लोकैककण्टकम्

॥४३॥

अनेन पूजा ह्यस्माकं कृता स्याद्भवताधुना ॥

अस्थिविण्मूत्ररक्तानि सुरामांसानि च क्रतौ

॥४४॥

सदाभिवर्षतेऽस्माकमत्रागत्य स दानवः ॥

अस्मिन्भारतभूभागे यानि तीर्थानि संति हि

॥४५॥

तेषु स्नाह्यब्दमेकं त्वं सर्वेषु सुसमाहितः ॥

तेन ते पापशांतिः स्यान्नात्र कार्या विचारणा

॥४६॥

श्रीसूत उवाच

पर्वकाले तु विप्रेंद्राः समावृत्ते मुनिक्रतौ ॥

महाभीमो रजोवर्षो झंझावातश्च भीषणः

॥४७॥

प्रादुर्बभूव विप्रेंद्राः पूयरक्तैश्च वर्षणम् ॥

ततो विष्ठामया वृष्टिर्बल्वलेन कृताप्यभूत्

॥४९॥

असुरं यज्ञशालायां शूलपाणिमथ क्षणात् ॥

अपश्यद्बलभद्रोऽसौ महाबलपराक्रमम्

॥४९॥

तमालोक्य महादेहं दग्धाद्रिप्रतिमं तदा ॥

प्रतप्तताम्रसंकाशश्मश्रुदंष्ट्रोत्कटाननम्

॥५०॥

चिंतयामास मुसलं रामः परविदारणम् ॥

सीरं च दानवहरं गदां दैत्यविदारिणीम्

॥५१॥

यान्यायुधानि तं रामं चिंतितान्युपतस्थिरे ॥

सीराग्रेण तमाकृष्य बल्वलं खेचरं तदा

॥५२॥

मुसलेन निजघ्ने स कुपितो मूर्ध्नि वेगतः ॥

पपात भुवि संक्षुण्णललाटो रक्तमुद्वमन्

॥५३॥

बल्वलो दीनकथनो गिरिर्वज्रहतो यथा ॥

स्तुत्वाथ मुनयो रामं प्रोच्चार्य विमलाशिषः

॥९४॥

अभ्यषिंचञ्च्छुभैस्तोयैर्वृत्रशत्रुं यथा सुराः ॥

मालां ददुर्वैजयन्तीं श्रीमदंबुज शोभिताम्

॥५५॥

माधवाय शुभे वस्त्रे भूषणानि शुभानि च ॥

धारयंस्तानि सर्वाणि रौहिणेयो महाबलः

॥५६॥

पुष्पितानोकहोपेतः कैलास इव पर्वतः ॥

अनुज्ञातोऽथ मुनिभिः सर्वतीर्थेषु स द्विजाः

॥५७॥

एकमब्दं चरन्सस्नौ नियमाचारसंयुतः ॥

ततः संवत्सरे पूर्णे कालिंदीभेदनो बलः

॥५८॥

समाप्ततीर्थयात्रः सन्पुरीं गन्तुं प्रचक्रमे ॥

ततस्तमोमयीं छायां पृष्ठतोनुगतां कृशाम्

॥५९॥

अपश्यद्बलदेवोयं महानादविराविणीम् ॥

अथ वार्ता स शुश्राव समुद्भूतां तदांबरे

॥६०॥

रामराम महाबाहो रौहिणेय सितप्रभ ॥

तीर्थाभिगमनेनाद्य चरितेन त्वयाऽनघ

॥६१॥

न नष्टा ब्रह्महत्या ते निःशेषं रोहिणीसुत ॥

इति वार्तां समाकर्ण्य चिंतयामास वै बलः

॥६२॥

प्रायश्चित्तं मया चीर्णमेकाब्दं तीर्थ सेवया ॥

तथापि ब्रह्महत्या सा न नष्टेति श्रुतं वचः

॥६३॥

किं कुर्म इति संचिंत्य नैमिषारण्यमभ्यगात् ॥

तत्र गत्वा मुनीनां तन्न्यवेदयदरिंदमः

॥६४॥

यच्छ्रुतं गगने वाक्यं या च दृष्टा तमोमयी ॥

न्यवेदयत तत्सर्वं मुनीनां रोहिणीसुतः ॥

तच्छ्रुत्वा मुनयः सर्वे रामं वाक्यमथाब्रुवन्

॥६५॥

मुनय ऊचुः

यदि राम न नष्टा ते ब्रह्महत्या तु कृत्स्नशः

॥६६॥

तर्हि गच्छ महाभाग गंधमादनपर्वतम् ॥

महादुःख प्रशमनं महारोगविनाशनम्

॥६७॥

रामसेतौ महापुण्ये गन्धमादनपर्वते ॥

अस्ति लक्ष्मणतीर्थाख्यं सरः पापविनाशनम्

॥६८॥

स्नानं कुरुष्व तत्र त्वं तल्लिंगं च नमस्कुरु ॥

निःशेषं तेन नष्टा स्याद्ब्रह्महत्या न संशयः

॥६९॥

श्रीसूत उवाच

एवमुक्तस्तदा रामो गन्धमादनपर्वतम् ॥

गत्वा लक्ष्मणतीर्थं च प्राप्तवान्मुनिपुंगवाः

॥७०॥

स्नात्वा संकल्पपूर्वं तु तत्र तीर्थे हलायुधः ॥

ब्राह्मणेभ्यो ददौ वित्तं धान्यं गाश्च वसुन्धराम्

॥७१॥

तस्मिन्नवसरे तत्र राममाहाशरीरवाक् ॥

निःशेषं राम नष्टा ते ब्रह्महत्याधुना त्विह

॥७२॥

संदेहो नात्र कर्तव्यः सुखं याहि पुरीं निजाम् ॥

तच्छ्रुत्वा बलभद्रोऽथ तत्तीर्थं प्रशशंस ह

॥७३॥

ततस्तत्रत्यतीर्थेषु स्नात्वा सर्वेषु माधवः ॥

धनुष्कोटौ तथा स्नात्वा रामनाथं निषेव्य च ॥

द्वारकां स्वपुरीं प्रायान्नष्टपातकसंचयः

॥७४॥

श्रीसूत उवाच

एवं वः कथितं विप्राः श्रीलक्ष्मणसरोऽमलम्

॥७५॥

पुण्यं पवित्रं पापघ्नं ब्रह्महत्यादिशोधकम् ॥

यः पठेदिममध्यायं शृणुयाद्वा समाहितः

॥७६॥

स याति मुक्तिं विप्रेंद्राः पुनरावृत्तिवर्जिताम्

॥७७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये लक्ष्मणतीर्थप्रशंसायां बलभद्रब्रह्महत्याविमोक्षणनामैकोनविंशोऽध्यायः ॥ १९ ॥