अश्वत्थामा कथं सूत सुप्तमारणमाचरत्
ऋषय ऊचुः
अश्वत्थामा कथं सूत सुप्तमारणमाचरत् ॥
कथं च मुक्तस्तत्पापाद्धनुष्कोटौ निमज्जनात्
॥१॥एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम ॥
तृप्तिर्न जायतेऽ स्माकं त्वद्वचोमृतपायिनाम्
॥२॥इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः ॥
वक्तुं प्रचक्रमे तत्र व्यासं नत्वा गुरुं मुदा ॥
श्रीसूत उवाच ॥
राज्यार्थं कलहे जाते पांडवानां पुरा द्विजाः ॥
धार्तराष्ट्रैर्महायुद्धे महदक्षौहिणीयुते
॥४॥युद्धं दशदिनं कृत्वा भीष्मे शांतनवे हते ॥
द्रोणे पंचदिनं कृत्वा कर्णे च द्विदिनं तथा
॥५॥तथैवैकदिनं युद्ध्वा शल्ये च निधनं गते ॥
अष्टादशदिने तत्र रणे दुर्योधने द्विजाः
॥६॥भग्नोरौ भीमगदया पतिते राजसत्तमे ॥
सर्वे नृपतयो विप्रा निवेशाय कृतत्वराः
॥७॥ये जीवितास्तु राजानस्ते ययुर्हृष्टमानसाः ॥
धृष्टद्युम्नशिखंडयाद्याः सृञ्जयाः सर्व एव हि
॥८॥अन्ये चापि महीपाला जग्मुः स्वशिबिराण्यथ ॥
अथ पार्था महावीरा कृष्णसात्यकिसंयुताः
॥९॥दुर्योधनस्य शिबिरं प्राविशन्निर्जनं द्विजाः ॥
वृद्धैरमात्यैस्तत्रस्थैः षंढैः स्त्रीरक्षकैस्तथा
॥१०॥कृतांजलिपुटैः प्रह्वैः काषायमलिनांबरैः ॥
प्रणम्यमानास्ते पार्थाः कुरुराजस्य वेश्मनि
॥११॥तत्रत्यद्रव्यजातानि समादाय महा बलाः ॥
सुयोधनस्य शिबिरे न्यवसंत सुखेन ते
॥१२॥अथ तानब्रवीत्पार्थाञ्छ्रीकृष्णः प्रीणयन्निव ॥
मंगलार्थाय चास्माभिर्वस्तव्यं शिबिराद्बहिः
॥१३॥इत्युक्ता वासुदेवेन तथेत्युक्त्वाथ पांडवाः ॥
कृष्णसात्यकिसंयुक्ताः प्रययुः शिबिराद्बहिः
॥१४॥वासुदेवेन सहिता मंगलार्थं हि पांडवाः ॥
ओघवत्याः समासाद्य तीरं नद्या नरोत्तमाः
॥१५॥ऊषुस्तां रजनीं तत्र हतशत्रुगणाः सुखम् ॥
कृतवर्मा कृपो द्रौणिस्तथा दुर्योधनांतिकम्
॥१६॥आदित्यास्तमयात्पूर्वमपराह्णे समाययुः ॥
सुयोधनं तदा दृष्ट्वा रणपांसुषु रूषितम्
॥१७॥भग्नोरुदण्डं गदया भीमसेन स्य भीमया ॥
रुधिरासिक्तसर्वांगं चेष्टमानं महीतले
॥१८॥अशोचंत तदा तत्र द्रोणपुत्रादयस्त्रयः ॥
शुशोच सोऽपि तान्दृष्ट्वा रणे दुर्योधनो नृपः
॥१९॥दृष्ट्वा तथा तु राजानं बाष्पव्याकुललोचनम् ॥
अश्वत्थामा तदा कोपाज्ज्वलन्निव महानलः
॥२०॥पाणौ पाणिं विनिष्पिष्य क्रोध विस्फारितेक्षणः ॥
अश्रुविक्लवया वाचा दुर्योधनमभाषत
॥२१॥पिता मे पातितः क्षुद्रैश्छलेनैव रणाजिरे ॥
न तथा तेन शोचामि यथा निष्पातिते त्वयि
॥२२॥शृणु वाक्यं ममाद्य त्वं यथार्थं वदतो नृप ॥
सुकृतेन शपे चाहं सुयोधन महामते
॥२३॥अद्य रात्रौ हनिष्यामि पांडवा न्सह सृंजयैः ॥
पश्यतो वासुदेवस्य त्वमनुज्ञां प्रयच्छ मे
॥२४॥तस्य तद्वचनं श्रुत्वा द्रौणिं राजा तदाऽब्रवीत् ॥
तथास्त्विति पुनः प्राह कृपं राजा द्विजोत्तमाः
॥२५॥आचार्यैनं द्रोणपुत्रं कलशोत्थेन वारिणा ॥
सैनापत्येऽभिषिंचस्वेत्यथ सोपि तथाऽकरोत्
॥२६॥सोभिषिक्तस्तदा द्रौणिः परिष्वज्य नृपोत्तमम् ॥
कृतवर्मकृपाभ्यां च सहितस्त्वरितं ययौ
॥२७॥ततस्ते तु त्रयो वीराः प्रयाता दक्षिणोन्मुखाः ॥
आदित्यास्तमयात्पूर्वं शिबिरांतिकमासत
॥२८॥पार्थानां भीषणं शब्दं श्रुत्वा तत्र जयैषिणः ॥
पांडवानुद्रुता भीतास्तदा द्रौण्यादयस्त्रयः
॥२९॥प्राङ्मुखा दुद्रुवुर्भीत्या कियद्दूरं श्रमातुराः ॥
मुहुर्तं ते ततो गत्वा क्रोधामर्षवशानुगाः
॥३०॥दुर्योधनवधार्तास्ते क्षणं तत्रावतस्थिरे ॥
ततोऽपश्यन्नरण्यं वै नानातरुलतावृतम्
॥३१॥अनेकमृगसंबाधं क्रूरपक्षिगणाकुलम् ॥
समृद्धजलसंपूर्णतटाकपरिशोभितम्
॥३२॥पद्मेंदीवरकह्लारसरसी शतसंकुलम् ॥
तत्र पीत्वा जलं ते तु पाययित्वा हयांस्तथा
॥३३॥अनेकशाखासंबाधन्यग्रोधं ददृशुस्ततः ॥
संप्राप्य तु महावृक्षं न्यग्रोधं ते त्रयस्तदा
॥३४॥अवतीर्य रथेभ्यश्च मोचयित्वा तुरंगमान् ॥
उपस्पृश्य जलं तत्र सायंसंध्यामुपासत
॥३५॥अथ चास्तगिरिं भानुः प्रपेदे च गतप्रभः ॥
ततश्च रजनी घोरा समभूत्तिमिराकुला
॥३६॥रात्रिचराणि सत्त्वानि संचरंति ततस्ततः ॥
दिवाचराणि सत्त्वानि निद्रावशमुपा ययुः
॥३७॥कृतवर्मा कृपो द्रौणिः प्रदोषसमये हि ते ॥
न्यग्रोधस्योपविविशुरंतिके शोककर्शिताः
॥३८॥कृपभोजौ तदा निद्रां भेजातेऽतिप याक्रमौ ॥
सुखोचितास्त्वदुःखार्हा निषेदुर्धरणीतले
॥३९॥द्रोणपुत्रस्तु कोपेन कलुषीकृतमानसः ॥
ययौ न निद्रां विप्रेंद्रा निश्वसन्नुरगो यथा
॥४०॥ततोऽवलोकयांचक्रे तदरण्यं भयानकम् ॥
न्यग्रोधं च ततोऽपश्यद्बहुवायससंकुलम्
॥४१॥तत्र वायसवृन्दानि निशायां वासमाय युः ॥
सुखं भिन्नासु शाखासु सुषुपुस्ते पृथक्पृथक्
॥४२॥काकेषु तेषु सुप्तेषु विश्वस्तेषु समंततः ॥
ततोऽपश्यत्समायांतं भासं द्रौणिर्भयंकरम्
॥४३॥कूरशब्दं क्रूरकायं बभ्रुपिंगकलेवरम् ॥
स भासोऽथ भृशं शब्दं कृत्वालीयत शाखिनि
॥४४॥उत्प्लुत्य तस्य शाखायां न्यग्रोधस्य विहंगमः ॥
सुप्तान्काकान्निजघ्नेऽसावनेकान्वायसांतकः
॥४५॥काकानामभिनत्पक्षान्स केषांचिद्विहंगमः ॥
इतरेषां च चरणाञ्छिरांसि चरणा युधः
॥४६॥विचकर्त क्षणेनासावुलूको वलवान्द्विजाः ॥
स भिन्नदेहावयवैः काकानां बहुभिस्तदा
॥४७॥समंतादावृतं सर्वं न्यग्रोधपरि मण्डलम् ॥
वायसांस्तान्निहत्यासावुलूको मुमुदे तदा
॥४८॥द्रौणिर्दृष्ट्वा तु तत्कर्म भासेनैवं कृतं निशि ॥
करिष्याम्यहमप्येवं शत्रूणां निधनं निशि
॥४९॥इत्यचिंतयदेकः सन्नुपदेशमिमं स्मरन् ॥
जेतुं न शक्याः पार्था हि ऋजुमार्गेण युद्ध्यता
॥५०॥मया तच्छद्मना तेऽथ हंतव्या जितकाशिनः ॥
सुयोधनसकाशे च प्रतिज्ञातो मया वधः
॥५१॥ऋजुमार्गेण युद्धे मे प्राणनाशो भविष्यति ॥
छलेन युध्यमानस्य जयश्चास्य रिपुक्षयः
॥५२॥यच्च निंद्यं भवेत्कार्यं लोके सर्वजनैरपि ॥
कार्यमेव हि तत्कर्म क्षत्रधर्मानुवर्तिना
॥५३॥पार्थैरपि छलेनैव कृतं कर्म सुयोधने ॥
अस्मिन्नर्थे पुराविद्भिः प्रोक्ताः श्लोका भवंति हि
॥५४॥परिश्रांते विदीर्णे च भुंजाने च रिपोर्बले ॥
प्रस्थाने च प्रवेशे च प्रहर्तव्यं न संशयः
॥५५॥निद्रार्तमर्धरात्रे च तथा त्यक्तायुधं रणे ॥
भिन्नयोधं बलं सर्वं प्रहर्तव्यमरातिभिः
॥५६॥एवं स नियमं कृत्वा सुप्तमारणकर्मणि ॥
प्राबोधयद्भोजकृपौ सुप्तौ रात्रौ स साहसी ॥
द्रौणिर्ध्यात्वा मुहूर्तं तु तावुभावभ्यभाषत
॥५७॥अश्वत्थामोवाच
मृतः सुयोधनो राजा महाबलपराक्रमः
॥५८॥शुद्धकर्मा हतः पार्थैर्बहुभिः क्षुद्रकर्मभिः ॥
भीमेनातिनृशंसेन शिरो राज्ञः पदा हतम्
॥५९॥ततोऽद्य रात्रौ पार्थानां समेत्य पटमण्डपम् ॥
सुखसुप्तान्हनिष्यामः शस्त्रैर्नानाविधैर्वयम् ॥
कृपः प्रोवाच तत्रैन मिति श्रुत्वा द्विजोत्तमाः
॥६०॥कृप उवाच
सुप्तानां मारणं लोके न धर्मो न च पूज्यते
॥६१॥तथैव त्यक्तशस्त्राणां संत्यक्तरथवाजि नाम् ॥
शृणु मे वचनं वत्स मुच्यतां साहसं त्वया
॥६२॥वयं तु धृतराष्टं च गांधारीं च पतिव्रताम् ॥
पृच्छामो विदुरं चापि तदुक्तं करवा महे ॥
इत्युक्तः स तदा द्रौणिः कृपं प्रोवाच वै पुनः
॥६३॥अश्वत्थामोवाच
पांडवैश्च पुरा यन्मे छलाद्युद्धे पिता हतः
॥६४॥तन्मे सर्वाणि मर्माणि निकृन्तति हि मातुल ॥
द्रोणहंताहमित्येतद्धृष्टद्युमस्य यद्वचः
॥६५॥कथं जनसमक्षे तद्वचनं संशृणोम्यहम् ॥
तैरेव पांडवैः पूर्वं धर्मसेतुर्निराकृतः
॥६६॥समक्षमेव युष्माकं सर्वेषामेव भूभृताम् ॥
त्यक्तायुधो मम पिता धृष्टद्युम्नेन पातितः
॥६७॥तथा शांतनवो भीष्मस्त्यक्तचापो निरायुधः ॥
शिखंडिनं पुरोधाय निहतः सव्यसाचिना
॥६८॥एवमन्येऽपि भूपालाश्छलेनैव हतास्तु तैः ॥
तथैवाहं करिष्यामि सुप्तानां मारणं निशि
॥६९॥एवमुक्त्वा तदा द्रौणिः संयुक्ततुरगं रथम् ॥
प्रायादभिमुखः शत्रून्समारुह्य क्रुधा ज्वलन्
॥७०॥तं यांतम न्वगातां तौ कृतवर्मकृपावुभौ ॥
ययुश्च शिबिरे तेषां संप्रसुप्तजनं तदा
॥७१॥शिबिरद्वारमासाद्य द्रोणपुत्रो व्यतिष्ठत ॥
रात्रौ तत्र समाराध्य महादेवं घृणानिधिम्
॥७२॥अवाप विमलं खङ्गं महादेवाद्वरप्रदात् ॥
ततो द्रौणिरवस्थाप्य कृतवर्मकृपावुभौ
॥७३॥द्वारदेशे महावीरः शिबि रांतः प्रविष्टवान् ॥
प्रविष्टे शिबिरे द्रौणौ कृतवर्मकृपावुभौ
॥७४॥द्वारदेशे व्यतिष्ठेतां यत्तौ परमधन्विनौ ॥
अथ द्रौणिः सुसंक्रुद्धस्तेजसा प्रज्वलन्निव
॥७५॥खङ्गं विमलमादाय व्यचरच्छिबिरे निशि ॥
ततस्तु धृष्टद्युम्नस्य शिबिरं मंदमाययौ
॥७६॥धृष्टद्युम्नादयस्तत्र महायुद्धेन कर्शिताः ॥
सुषुपुर्निशि विश्वस्ताः स्वस्वसैन्यसमावृताः
॥७७॥धृष्टद्युम्नस्य शिबिरं प्रविश्य द्रौणिरस्त्रवित् ॥
तं सुप्तं शयने शुभ्रे ददर्शारान्महाबलम्
॥७८॥पादेनाघातयद्रोषात्स्वपंतं द्रोणनंदनः ॥
स बुद्धश्चरणाघातादुत्थाय शयनादथ
॥७९॥व्यलोकयत्तदा वीरो द्रोणपुत्रं पुरः स्थितम् ॥
तमुत्पतंतं शयनाद्द्रोणाचार्यसुतो बली
॥८०॥केशेष्वाकृष्य बाहुभ्यां निष्पिपेष धरातले ॥
धृष्टद्युम्नस्तदा तेन निष्पिष्टः स भया तुरः
॥८१॥निद्रांधः पादघातातो न शशाक विचेष्टितुम् ॥
द्रौणिस्त्वाक्रम्य तस्योरः कण्ठं बद्ध्वा धनुर्गुणैः
॥८२॥नदंतं विस्फुरंतं तं पशुमारममारयत् ॥
तस्य सैन्यानि सर्वाणि न्यवधीच्च तथैव सः
॥८३॥युधामन्युं महावीर्यममुत्तमौजसमेव च ॥
तथैव द्रौपदीपुत्रानवशिष्टांश्च सोमकान्
॥८४॥शिखंडिप्रमुखानन्यान्खङ्गेनामारयद्बहून् ॥
तद्भयाद्द्वारनिर्यातान्सर्वानेव च सैनिकान्
॥८५॥प्रापयामासतुर्मृत्युं कृतवर्मकृपा वुभौ ॥
एवं निहतसैन्यं तच्छिबिरं तैर्महाबलैः
॥८६॥तत्क्षणे शून्यमभवत्त्रिजगत्प्रलये यथा ॥
एवं हत्वा ततः सर्वान्द्रोणपुत्रादयस्त्रयः
॥८७॥निरगुः शिबिरात्तस्मात्पार्थभीता भयातुराः ॥
सर्वे पृथक्पृथग्देशान्दुद्रुवुः शीघ्रगामिनः
॥८८॥अथ द्रौणिर्ययौ विप्रा रेवातीरं मनोरमम् ॥
तत्र ह्यनेकसाहस्रा ऋषयो वेदवादिनः
॥८९॥कथयंतः कथाः पुण्यास्तपश्चक्रुरनुत्तमम् ॥
तत्रायं प्रययौ द्रौणिर्ऋषीणामाश्रमेष्वथ
॥९०॥प्रविष्टमात्रे तस्मिंस्तु मुनयो ब्रह्मवादिनः ॥
द्रौणेर्दुश्चरितं ज्ञात्वा प्राहुर्योगबलेन तम्
॥९१॥सुप्तमा रणकृत्पापी द्रौणे त्वं ब्राह्मणाधमः ॥
त्वद्दर्शनेन ह्यस्माकं पातित्यं भवति ध्रुवम्
॥९२॥त्वत्संभाषणमात्रेण ब्रह्महत्यायुतं भ वेत् ॥
अतोऽस्मदाश्रमेभ्यस्त्वं निर्गच्छ पुरुषाधम
॥९३॥इत्यब्रुवंस्तदा द्रौणिं तत्रत्या मुनयो द्विजाः ॥
इतीरितस्ततो द्रौणिर्मुनिभिर्ब्रह्म वादिभिः
॥९४॥लज्जितो निलात्तस्मादाश्रमान्मुनिसेवितात् ॥
एवं काश्यादितीर्थेषु पुण्येषु प्रययौ च सः
॥९५॥तत्रतत्र द्विजैः सर्वै र्निंदितोऽसौ महात्मभिः ॥
व्यासं शरणमापेदे प्रायश्चित्तचिकीर्षया
॥९६॥ततो बदरिकारण्ये समासीनं महामुनिम् ॥
द्वैपायनं समागम्य प्रणनाम सभक्तिकम्
॥९७॥ततो व्यासोऽब्रवीदेनं द्रोणाचार्यसुतं मुनिः ॥
त्वमस्मदाश्रमादद्रौणे निर्याहि त्वरया त्विति
॥९८॥सुप्तमारण दोषेण महापातकवान्भवान् ॥
अतो मे भवतालापान्महत्पापं भविष्यति ॥
इत्युक्तः स तदा द्रौणिः प्रोवाचेदं वचो मुनिः
॥९९॥अश्वत्थामोवाच
भगवन्निंदितः सर्वैस्त्वामस्मि शरणं गतः
॥१००॥ब्रवीषि चेत्त्वमप्येवं कोऽन्यो मे शरणं भवेत् ॥
कृपां कुरु मयि ब्रह्मन्साधवो दीनवत्सलाः
॥१॥सुप्तमारणदोषस्य शांत्यर्थं भगवन्मम ॥
प्रायश्चित्तं विधेहि त्वं सर्वज्ञोऽसि भवान्यतः ॥
इत्युक्तो द्रौणिना व्यासश्चिरं ध्यात्वा तमब्रवीत्
॥२॥व्यास उवाच
एतत्पापस्य शांत्यर्थं प्रायश्चित्तं स्मृतौ न हि
॥३॥तथाप्युपायं वक्ष्यामि तवैतद्दोष शांतये ॥
दक्षिणांबुनिधौ पुण्ये रामसेतौ विमुक्तिदे
॥४॥धनुष्कोटिरितिख्यातं तीर्थमस्ति महत्तरम् ॥
अस्ति पुण्यतमं द्रौणे महापात कनाशनम्
॥५॥स्वर्गमोक्षप्रदं पुंसां ब्रह्महत्यादिशोधकम् ॥
सर्वमंगलमांगल्यं सर्वाभीष्टप्रदायकम्
॥६॥पवित्राणां पवित्रं च तीर्थानां च तथोत्तमम् ॥
दुःस्वप्ननाशनं पुण्यं नरकक्लेशनाशनम्
॥७॥अकालमृत्युशमनं पुंसां विजयवर्द्धनम् ॥
दारिद्र्यनाशनं पुंसामायुर्वर्धनकार णम्
॥८॥चित्तशुद्धिप्रदं नृणां शांतिदांत्यादिकारणम् ॥
तत्र गत्वा धनुष्कोटौ रामसेतौ विमुक्तिदे
॥९॥स्नानं कुरुष्व द्रौणे त्वं मासमात्रं निरं तरम् ॥
सुप्तमारणदोषात्त्वं सद्यः पूतो भविष्यसि
॥११०॥कुरुष्व वचनं शीघ्रं मम त्वं द्रोणनंदन ॥
एवमुक्तस्तदा द्रौणिर्व्यासेन परमर्षिणा
॥११॥रामसेतुं समासाद्य धनुष्कोटिं पवित्रदाम् ॥
सस्नौ संकल्पपूर्वं तु मासमेकं निरन्तरम्
॥१२॥त्रिसंध्यं रामनाथं च सिषेवे स दिने दिने ॥
ततस्त्रिंशद्दिने तोयस्नानाद्द्रोणात्मजस्तदा
॥१३॥जजाप च धनुष्कोट्यां मंत्रं पंचाक्षरं तदा ॥
अकार्षीदुपवासं च द्रोणपुत्रस्तु तद्दिने
॥१४॥अकरोज्जागरं रात्रौ रामनाथस्य सन्निधौ ॥
अपरेद्युर्धनुष्कोटौ स्नात्वा संकल्पपूर्वकम्
॥१५॥सिषेवे रामनाथं च स्तुत्वा भक्तिपुरःसरम् ॥
ननर्त पुरतः शंभोरानंदाश्रुपरिप्लुतः
॥१६॥ततः प्रसन्नो भगवान्प्रादुरासीत्तदग्रतः ॥
दृष्ट्वा तत्र महादेवं तुष्टाव परमेश्वरम्
॥१७॥द्रौणिरुवाच
नमस्ते देवदेवेश करुणाकर शंकर ॥
आपदंबुधिमग्नानां पोतायितपदांबुज
॥१८॥महादेव कृपामूर्ते धूर्जटे नीललोहित ॥
उमाकांत विरूपाक्ष चंद्रशेखर ते नमः
॥१९॥मृत्युंजय त्रिनेत्र त्वं पाहि मां कृपया दृशा ॥
पार्वतीपतये तुभ्यं त्रिपुरघ्नाय शंभवे
॥१२॥पिनाकपाणये तुभ्यं त्र्यंबकाय नमोनमः ॥
अनंतादिमहानागहारभूषणभूषित
॥२१॥शूलपाणे नमस्तुभ्यं गंगाधर मृडाव्यय ॥
रक्ष मां कृपया देव पापसंघातपंजरात् ॥
इति स्तुतो महादेवो द्रौणिं प्रोवाच हर्षितः
॥२२॥महादेव उवाच
सुप्तमारणदोषस्ते धनुष्कोटौ निमज्जनात्
॥२३॥अश्वत्थामन्विनष्टोऽभूद्वरं वरय सुव्रत ॥
मयि प्रसन्ने लोकेषु किमलभ्यं भवेन्नृणाम्
॥२४॥अतोऽभीष्टं वृणीष्व त्वं मत्तो द्रोणात्मजाधुना ॥
इत्युक्तः शंभुना द्रौणिः प्राह तं परमेश्वरम्
॥२५॥तवाद्य दर्शनेनाहं कृतार्थोस्मि महेश्वरम् ॥
त्वद्दर्शनमपुण्यानामलभ्यं जन्मकोटिभिः
॥२६॥अतो युष्मत्पदांभोजे निश्चला भक्तिरस्तु मे ॥
इममेव वरं देहि मह्यं शंभो नमोऽस्तु ते
॥२७॥उक्त्वा तथास्त्विति द्रौणिं देवदेवो महेश्वरः ॥
पश्यतो द्रोणपुत्रस्य तत्रैवांतरधीयत
॥२८॥अश्वत्थामापि विप्रेंद्रा धूतपापो विनिर्मलः ॥
रामचंद्रधनुष्कोटौ स्नानमात्रेण तत्क्षणे
॥२९॥धूतपापमिमं द्रौणिं सर्वे चापि महर्षयः ॥
शुद्धं प्रत्यग्रहीषुस्ते तदाप्रभृति निर्मलम्
॥१३॥एवं वः कथितं विप्रा द्रौणिपापविमोक्षणम् ॥
रामचंद्रधनुष्कोटिस्नानवैभवमात्रतः
॥३१॥यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
स विधूयेह पापानि शिवलोके महीयते
॥१३२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहरूयां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायामश्वत्थामसुप्तमारणदो षशांतिवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥