मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वासुदेवमाहात्म्यम्, अध्याय २६

3
वैष्णवखण्डः · वासुदेवमाहात्म्यम् · 26

क्रियायोगाधिकारादिनिरूपणम्

स्कन्द उवाच

एकान्तधर्मविवृतिं श्रुत्वा भगवतोदिताम् ॥

प्रहृष्टमानसो भूयस्तं पप्रच्छ स नारदः

॥१॥

नारद उवाच

धर्म एकान्तिकः स्वामिंस्त्वया सम्यगुदीरितः ॥

तमाश्रुत्य महान्हर्षो जातोस्ति मम मानसे

॥२॥

सिद्धये तस्य भवता क्रियायोगो य उच्यते ॥

तमहं बोद्धुमिच्छामि भगवंस्तव संमतम्

॥३॥

श्रीनारायण उवाच

पूजाविधिः क्रियायोगो वासुदेवस्य कीर्त्त्यते ॥

स तु वेदेषु तन्त्रेषु बहुधैवास्ति वर्णितः

॥४॥

भक्तानां रुचिवैचित्र्यात्तथा बहुविधत्वतः ॥

वासुदेवस्य मूर्तीनां बहुधा सोऽस्ति विस्तृतः

॥५॥

साकल्येनोच्यमानस्य पारो नायाति तस्य वै ॥

अतः संक्षेपतस्तुभ्यं वच्मि भक्तिविवर्द्धनम्

॥६॥

प्राप्ता ये वैष्णवीं दीक्षां वर्णाश्चत्वार आश्रमाः ॥

चातुर्वर्ण्यस्त्रियश्चैते प्रोक्ता अत्राधिकारिणः

॥७॥

वेदतन्त्रपुराणोक्तैर्मन्त्रैर्मूलेन च द्विजाः ॥

पूजेयुर्दीक्षिता योषाः सच्छूद्रा मूलमन्त्रतः ॥

मूलमन्त्रस्तु विज्ञेयः श्रीकृष्णस्य षडक्षरः

॥८॥

स्वस्वधर्मं पालयद्भिः सर्वेरेतैर्यथाविधि ॥

पूजनीयो वासुदेवो भक्त्या निष्कपटान्तरैः

॥९॥

आदौ तु वैष्णवीं दीक्षां गृह्णीयात्सद्वरोः पुमान् ॥

सदैकान्तिकधर्मस्थाद्ब्रह्मजातेर्दयानिधेः

॥१०॥

संपन्नो ज्ञानभक्तिभ्यां स्वधर्मरहितस्तु यः ॥

स गुरुन्नैव कर्तव्यः स्त्रीहृतात्मा च कर्हिचित्

॥११॥

प्राप्ता स्त्रैणाद्गुरोर्दीक्षा ज्ञानं भक्तिं च कर्हिचित् ॥

फलेन्नैव यथाऽपत्यं युवतिः षण्ढसंगिनी

॥१२॥

प्राप्यातः सद्गुरोर्दीक्षां तुलसीमालिकां गले ॥

ललाटादौ चोर्द्ध्वपुण्ड्रं गोपीचन्दनतो धरेत्

॥१३॥

विष्णुपूजारुचिर्भक्तो गुरोरेवागमोदितम् ॥

पूजाविधिं सुविज्ञाय ततः पूजनमारभेत्

॥१४॥

रात्र्यन्तयाम उत्थाय भक्तो ब्राह्मेक्षणेऽथ वा ॥

मुहूर्तार्धं हृदि ध्यायेत्केशवं क्लेशनाशनम्

॥१५॥

कीर्त्तयित्वाऽभिधास्तस्य तदीयानां च नाडिकाम् ॥

ततः शौचविधिं कृत्वा दन्तधावनमाचरेत्

॥१६॥

अंगशुद्धिस्नानमादौ कृत्वा स्नायात्समन्त्रकम् ॥

गृहीत्वा शुचिमृत्स्नादीन्कुर्यात्स्नानांगतर्पणम्

॥१७॥

परिधायांशुके धौते उपविश्यासने शुचौ ॥

कृत्वोर्द्ध्वपुण्ड्रं कुर्वीत संध्यां होमं जपादि च

॥१८॥

वस्त्रचन्दनपुष्पादीनुपहारांस्ततोऽखिलान् ॥

आहरेन्मांसमदिराद्यशुचिस्पर्श वर्जितान्

॥१९॥

देवेभ्यो वा पितृभ्यश्चाप्यन्येभ्यो न निवेदितान् ॥

अनाघ्रातांश्च मनुजैः केशकीटादिवर्जितान्

॥२०॥

संस्थाप्य तान्दक्षपार्श्वे पूजोपकरणानि च ॥

उद्वर्त्य दीपमाज्येन कुर्यात्तैलेन वा ततः

॥२१॥

कौशे वौर्णे च वस्त्रादौ विकाष्ठे शुद्ध आसने ॥

उपाविशेद्वासुदेवप्रतिमासन्निधौ ततः

॥२२॥

शैली धातुमयी दार्वी लेख्या मणिमयी च वा ॥

प्रतिमा स्यात्सिता रक्ता पीता कृष्णाऽथ वा मुने

॥२३॥

कृष्णस्य सा तु कर्तव्या द्विभुजा वा चतुर्भुजा ॥

मुरलीं धारयेत्तत्र द्विभुजायाः करद्वये

॥२४॥

अथ वा दक्षहस्तेऽस्याश्चक्रं शंखं तथेतरे ॥

पद्मं वा धारयेद्दक्षे पाणावभयमुत्तरे

॥२५॥

द्वितीयायास्तु हस्तेषु दक्षिणाधःकरक्रमात् ॥

गदाब्जदरचक्राणि धारयेन्मुनिसत्तम

॥२६॥

द्विविधाया अपि हरेर्मूर्तेर्वामे श्रियं न्यसेत् ॥

मुरलीधरवामे तु राधां रासेश्वरीं न्यसेत्

॥२७॥

अप्येषा द्विविधा मूर्त्तिरखण्डा शुभलक्षणा ॥

सर्वावयवसंपन्ना भवेदर्च्चकसिद्धिदा

॥२८॥

लक्ष्मीस्तु द्विभुजा कार्या वासुदेवस्य सन्निधौ ॥

दधती पंकजं हस्ते वस्त्रालंकारशोभना

॥२९॥

लक्ष्मीवद्राधिकापि स्याद्द्विभुजा चारुहासिनी ॥

पङ्कजं पुष्पमालां वा दधती पाणिपङ्कजे

॥३०॥

अचला च चला चेति द्विविधा प्रतिमा हरेः ॥

तत्राद्यायां न कर्तव्यमावाहनविसर्जनम्

॥३१॥

तदङ्गदेवतानां च कार्यं नावाहनाद्यपि ॥

न च दिङ्नियमोऽर्चायां तस्याः स्थेयं तु सम्मुखे

॥३२॥

शालग्रामेप्येवमेव कार्यं नावाहनादि च ॥

अन्यत्र चलमूलौ तु कर्तव्यं तत्तदर्चकैः

॥३३॥

तत्रापि दार्व्या लेख्यायां जलस्पर्शोनुलेपनम् ॥

नैव कार्यं पूजकेन कर्तव्यं परिमार्जनम्

॥३४॥

उदङ्मुखः प्राङ्मुखो वा चलायां सम्मुखोऽथ वा ॥

यथाशक्ति यथालब्धैरुपहारैर्यजेद्धरिम्

॥३५॥

श्रद्धानिश्छद्मभक्तिभ्यामर्पितेनाम्बुनापि सः ॥

प्रीतस्तुष्यति विश्वात्मा किमुताऽखिलपूजया

॥३६॥

पुंसा श्रद्धादिहीनेन रत्नहेमाद्यलंक्रियाः ॥

चतुर्विधं चाप्यन्नाद्यं दत्तं गृह्णाति नो मुदा

॥३७॥

तस्माद्भक्तिमता कार्यं पुंसा स्वश्रेयसे मुने ॥

श्रीकृष्णस्यार्च्चनं नित्यं सर्वाभीष्टाशुदायिनः

॥३८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगाधिकारादिनिरूपणं नाम षड्विंशोऽध्यायः ॥ २६ ॥