मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 11

3
खण्डिका 1

अथ अतः प्रातरनुवाकः ।

11,1.1

यदेव एनम्प्रातरन्वाह ।

11,1.2

तत्प्रातरनुवाकस्य प्रातरनुवाकत्वम् ।

11,1.3

अथ यत्प्रपदो जपति यदाहुतीर्जुहोति ।

11,1.4

स्वस्त्ययनमेव तत्कुरुते ।

11,1.5

हिंकृत्य प्रातरनुवाकमन्वाह ।

11,1.6

वज्रो वै हिंकारः ।

11,1.7

वज्रेण एव तद्यजमानस्य पाप्मानम्हन्ति ।

11,1.8

उच्चैर्निरुक्तमनुब्रूयात् ।

11,1.9

एतद्द्ह वा एकम्वाचो अनन्ववसितम्पाप्मना यन्निरुक्तम् ।

11,1.10

तस्मान्निरुक्तमनुब्रूयात् ।

11,1.11

यजमानस्य एव पाप्मनो अपहत्यै ।

11,1.12

अर्धर्चशो अनुब्रूयात् ।

11,1.13

ऋक्सम्मिता वा इमे लोकाः ।

11,1.14

अयंल्लोकः पूर्वो अर्धर्चः ।

11,1.15

असौ लोक उत्तरः ।

11,1.16

अथ यदर्धर्चावन्तरेण तदिदमन्तरिक्षम् ।

11,1.17

तद्यदर्धर्चशो अन्वाह ।

11,1.18

एभिरेव तल्लोकैर्यजमानम्समर्धयति ।

11,1.19

एष्वेव तल्लोकेषु यजमानम्दधाति ।

11,1.20
खण्डिका 2

अथ वै पङ्क्तेः पञ्च पदानि कथम्सार्धर्चशो अनुक्ता भवति इति ।

11,2.1

प्रणव उत्तरयोस्तृतीयः ।

11,2.2

तथा सार्धर्चशो अनुक्ता भवति ।

11,2.3

आग्नेयम्क्रतुमन्वाह ।

11,2.4

तदिमंल्लोकमाप्नोति ।

11,2.5

उषस्यमन्वाह ।

11,2.6

तदन्तरिक्ष लोकमाप्नोति ।

11,2.7

आश्विनमन्वाह ।

11,2.8

तदमुंल्लोकमाप्नोति ।

11,2.9

गायत्रीमन्वाह ।

11,2.10

मुखमेव गायत्री ।

11,2.11

अनुष्टुभमन्वाह ।

11,2.12

वागनुष्टुप् ।

11,2.13

मुखे तद्वाचम्दधाति ।

11,2.14

मुखेन वै वाचम्वदति ।

11,2.15

त्रिष्टुभमन्वाह ।

11,2.16

बलम्वै वीर्यम्त्रिष्टुप् ।

11,2.17

बृहतीमन्वाह ।

11,2.18

गो अश्वमेव बृहती ।

11,2.19

उष्णिहमन्वाह ।

11,2.20

अज अविकमेव उष्णिक् ।

11,2.21

जगतीमन्वाह ।

11,2.22

बलम्वै वीर्यम्जगती ।

11,2.23

बलम्वीर्यम्पुरस्तात्त्रिष्टुप् ।

11,2.24

बलम्वीर्यमुपरिष्टाज्जगती ।

11,2.25

मध्ये बार्हताश्च औष्णुहाश्च पशवः ।

11,2.26

बलेन एव तद्वीर्येण उभयतः पशून्परिगृह्य यजमाने दधाति ।

11,2.27

तथा यजमानात्पशवो अनुत्क्रामुका भवन्ति ।

11,2.28

तद्यथा ह वा अस्मिंल्लोके मनुष्याः पशूनश्नन्ति ।

11,2.29

यथा एभिर्भुञ्जते ।

11,2.30

एवमेव अमुष्मिंल्लोके पशवो मनुष्यानश्नन्ति ।

11,2.31

एवमेभिर्भुञ्जते ।

11,2.32

स य एनानिह प्रातरनुवाकेन अवरुन्धे ।

11,2.33

तमिह अवरुद्धा अमुष्मिंल्लोके न अश्नन्ति ।

11,2.34

न एनेन प्रतिभुञ्जते ।

11,2.35

यथा एव एनानस्मिंल्लोके अश्नाति ।

11,2.36

यथा एभिर्भुङ्क्ते ।

11,2.37

एवमेव एनानमुष्मिंल्लोके अश्नाति ।

11,2.38

यथा एव एनानस्मिंल्लोके अश्नाति ।

11,2.36

यथा एभिर्भुङ्क्ते ।

11,2.37

एवमेव एनानमुष्मिंल्लोके अश्नाति ।

11,2.38

एवमेभिर्भुङ्क्ते ।

11,2.39

पङ्क्तिमन्वाह ।

11,2.40

प्रतिष्ठा वै पङ्क्तिः ।

11,2.41

सर्वेष्वेव तद्भूतेषु यजमानम्प्रतिष्ठापयति ।

11,2.42
खण्डिका 3

अथ सर्वा ह वै देवता होतारम्प्रातरनुवाकमनुवक्ष्यन्तमाशंसमानाः प्रत्युपतिष्ठन्ते मया प्रतिपत्स्यते मया प्रतिपत्स्यत इति ।

11,3.1

स य एकाम्देवतामादिश्य प्रतिपद्येत ।

11,3.2

अथ इतराभ्यो देवताभ्यो वृश्च्येत ।

11,3.3

अनिरुक्तया प्रतिपद्यते ।

11,3.4

तेन उ न कस्यै चन देवताया आवृश्च्यते ।

11,3.5

आपो रेवतीः क्षयथा हि वस्व इति प्रतिपद्यते ।

11,3.6

आपो वै सर्वा देवताः ।

11,3.7

सर्वाभिरेव तद्देवताभिः प्रतिपद्यते ।

11,3.8

उपरयन्तो अध्वरमित्युपसंदधाति ।

11,3.9

उप इति तदस्य लोकस्य रूपम् ।

11,3.10

प्रयन्त इत्तदमुष्य ।

11,3.11

उप इति तदग्ने रूपम् ।

11,3.12

प्रयन्त इति तदमुष्य आदित्यस्य ।

11,3.13

एवमेव सर्वासु प्रतिपत्सु सर्वेषु ऋतुषु ।

11,3.14
खण्डिका 4

आग्नेय उषस्य आश्विने पूर्वा पूर्वा एव व्याहृतिरग्ने रूपम् ।

11,4.1

उत्तरा अमुष्य आदित्यस्य ।

11,4.2

अथ एतद्द्वे नाना छन्दांस्यन्तरेण कर्ता इव ।

11,4.3

अथ एते बलिष्ठे अरिष्टे अनार्ते देवते ।

11,4.4

ताभ्याम्प्रतिपद्यते ।

11,4.5

समानेन सूक्तेन समारोहेत् ।

11,4.6

तदकर्तस्कद्यंल्लोहस्य रूपम्स्वर्ग्यम् ।

11,4.7

यत्र वा समानस्य ऋषे स्यात् ।

11,4.8

तदनवानम्संक्रामेत् ।

11,4.9

अमृतम्वै प्राणः ।

11,4.10

अमृतेन तन्मृत्युम्तरति ।

11,4.11

तद्यथा वंशेन वा मत्येन वा कर्तम्संक्रामेदेवम्तत् ।

11,4.12

प्रणवेन संक्रामति ।

11,4.13

ब्रह्म वै प्रणवः ।

11,4.14

ब्रह्मणा एव तद्ब्रह्म उपसंतनोति ।

11,4.15
खण्डिका 5

शुद्धः प्रणवः स्यात्प्रजा कामानाम् ।

11,5.1

मकार अन्तः प्रतिष्ठा कामानाम् ।

11,5.2

मकार अन्तः प्रणवः स्यादिति ह एक आहुः ।

11,5.3

शुद्ध इति त्वेव स्थितः ।

11,5.4

मीमांसितः प्रणवः ।

11,5.5

अथ अत इह शुद्ध इह पूर्ण इति ।

11,5.6

शुद्ध एव प्रणवः स्यात्शस्त्र अनुवचनयोर्मध्य इति ह स्म आह कौषीतकिः ।

11,5.7

तथा संहितम्भवति ।

11,5.8

मकार अन्तो अवसान अर्थे ।

11,5.9

प्रतिष्ठा वा अवसानम्प्रतिष्ठित्या एव ।

11,5.10

अथो उभयोः कामयोराप्त्यै ।

11,5.11

एत उ ह वै छन्दः प्रवाहा अवरम्छन्दः परम्छन्दो अतिप्रवहन्ति ।

11,5.12

तस्य आर्तिर्न अस्ति छन्दसा छन्दो अतिप्रोढस्य ।

11,5.13

अतियन्नेव यम्द्विष्यात् ।

11,5.14

तम्मनसा प्र इव विध्येत्छन्दसाम्कृन्तत्रेषु ।

11,5.15

द्रवति वा सम्वा शीर्यत इति ह स्म आह ।

11,5.16

समानोदर्काण्युत्तमानि क्रतूनाम्पाङ्क्तान्यन्वाह ।

11,5.17

रसो वा उदर्कः ।

11,5.18

पशवश्छन्दांसि ।

11,5.19

रसमेव तत्छन्दांस्यभ्युपनिवर्तन्ते ।

11,5.20

उपनिवर्तमिव वै पशवः ।

11,5.21
खण्डिका 6

सौयवसे रमन्ते ।

11,6.1

सा एकोना विराड्द्विरनुक्तया ।

11,6.2

सम्प्रति विराट्त्रिरनूक्तया ।

11,6.3

एका विराजमत्येति ।

11,6.4

त्रयो वै यज्ञे कामाः ।

11,6.5

यः सम्पन्ने यो न्यूने यो अतिरिक्ते ।

11,6.6

यद्वै यज्ञस्य सम्पन्नम्तत्स्वर्ग्यम्।

11,6.7

यन्न्यूनम्तदन्न अद्यम् ।

11,6.8

यदतिरिक्तम्तत्प्राजात्यै ।

11,6.9

तदत्र एव यजमानः सर्वान्कामानाप्नोति ।

11,6.10

अभूदेषा रुशत्पशुरित्याशीर्वत्या परिदधाति ।

11,6.11

पशुभ्य एव तदाशिषम्वदते ।

11,6.12

तथा ह यजमानात्पशवो अनुत्क्रामुका भवन्ति ।

11,6.13

तस्याम्वाचमुत्सृजते ।

11,6.14

तदेनमजनीति देवेभ्यो निवेदयति ।

11,6.15

अत्र हि जायते ।

11,6.16

अया वाजम्देव हितम्सनेम इति द्विपदामभ्यस्यति ।

11,6.17

पशवो वा एतानि चतुरुत्तराणि छन्दांसि ।

11,6.18

यजमान छन्दसम्द्विपदा ।

11,6.19

अधिष्ठायामेव तत्पशूनाम्यजमानम्दधाति ।

11,6.20

अधि इव वै पशून्पुरुषस्तिष्ठति ।

11,6.21
खण्डिका 7

त्रिः सप्तानि क्रतूनाम्छन्दांस्यन्वाह ।

11,7.1

तदेकविंशतिः ।

11,7.2

एकविंशो वै चतुष्टोमः स्तोमानाम्परमः ।

11,7.3

तत्परमम्स्तोममाप्नोति ।

11,7.4

यदु एव एकविंशतिः ।

11,7.5

द्वादश मासाः पञ्च ऋतवस्त्रय इमे लोकाः ।

11,7.6

असावादित्य एवविंशः ।

11,7.7

तेन एव तस्सलोकतायाम्यजमानमध्यूहति ।

11,7.8

तदाहुर्यदिमा हविर्यज्ञस्य वा पशोर्वा सामिधेन्यो अथ काः सौम्यस्य अध्वरस्य इति ।

11,7.9

प्रातरनुवाक इति ब्रूयात् ।

11,7.10

अक्षरैर्ह वा इतरासाम्संवत्सरमुपेप्सति ।

11,7.11

ऋभिरिह ।

11,7.12

शत मात्रमनुब्रूयात् ।

11,7.13

शत आयुर्वै पुरुषः ।

11,7.14

आयुरेव अस्मिंस्तद्दधाति ।

11,7.15

विंशति शतमनुब्रूयात् ।

11,7.16

विंशति शतम्वा ऋतोरहानि ।

11,7.17

तदृतुमाप्नोति ।

11,7.18

ऋतुना संवत्सरम् ।

11,7.19

ये च संवत्सरे कामाः ।

11,7.20

त्रीणि षष्टि शतान्यनुब्रूयात् ।

11,7.21

त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् ।

11,7.22

तत्संवत्सरस्य अहान्याप्नोति ।

11,7.23

सप्तविंशति शतान्यनुब्रूयात् ।

11,7.24

सप्त वै विशंति शतानि संवत्सरस्य अहो रात्राणाम् ।

11,7.25

तत्संवत्सरस्य अहो रात्रानाप्नोति ।

11,7.26
खण्डिका 8

सहस्रमनुब्रूयात् ।

11,8.1

सर्वम्वै तद्यत्सहस्रम् ।

11,8.2

सर्वम्प्रातरनुवाकः ।

11,8.3

तत्सर्वेण सर्वमाप्नोति य एवम्वेद ।

11,8.4

तदु ह स्म आह कौषीतकिः ।

11,8.5

प्रजापतिर्वै प्रातरनुवाकः ।

11,8.6

अपरिमित उ वै प्रजापतिः ।

11,8.7

कस्तम्मातुमर्हेदिति ।

11,8.8

एषा ह एव स्थितिः ।

11,8.9

तदाहुर्यत्सदस्युक्थानि शस्यन्ते अथ कस्माद्द्हविर्धानयोः प्रातरनुवाकमन्वाह इति ।

11,8.10

शिरो वै यज्ञस्य यद्द्हविर्धाने ।

11,8.11

वाक्प्रातरनुवाकः ।

11,8.12

वाचा एव तत्शिरः समर्धयति ।

11,8.13

उदरम्वै सदः ।

11,8.14

अन्नमुक्थानि ।

11,8.15

उदर सचेयमु वा अन्न अद्यम् ।

11,8.16

तद्यथा ह वा अन एवम्यज्ञः प्रतिमया ।

11,8.17

यथा धान्यमेवम्प्रातरनुवाकः ।

11,8.18

यथा पात्राण्येवमुक्थानि ।

11,8.19

स यो अल्पकमन्वाह ।

11,8.20

यथा अल्प धान्ये पात्राणि समृच्छेरन् ।

11,8.21

एवम्तस्य उक्थाइ समृच्छन्ते ।

11,8.22

उखानामनु समरमीश्वरो यजमानम्भ्रेषोन्वेतोः ।

11,8.23

तदु वा आहुर्बहुमेव अनुब्रूयात् ।

11,8.24

उक्थानि तत्परिवृंहति ।

11,8.25

या यज्ञस्य समृद्धस्य आशीः सा मे समृध्यतामिति ।

11,8.26

या वै यज्ञस्य समृद्धस्य आशीः सा यजमानस्य ।

11,8.27
खण्डिका 9

अथो त्रीणि वा एतानि साहस्राण्यधियज्ञम् ।

11,9.1

प्रातरनुवाक आश्विनम्महा व्रतमिति ।

11,9.2

एतदुक्थम्महा रात्र उपाकुर्यात्पुरा वाचो विसर्गात् ।

11,9.3

यत्र एतत्पशवो मनुष्या वयांसि इति वाचम्व्यालभन्ते पुरा ततः ।

11,9.4

आपीनाम्वाचमव्यासिक्ताम्प्रथमत ऋध्नवानि इति ।

11,9.6

न प्रातरनुवाकम्च उपांश्वन्तर्यामौ च अन्तरेण वाचम्विसृजते ।

11,9.7

प्राण अपानौ वा उपांश्वन्तर्यामौ ।

11,9.8

वाक्प्रातरनुवाकः ।

11,9.9

न इत्प्राण अपानौ च वाचम्च अन्येन अन्तर्दधाति इति ।

11,9.10

तद्द्ह एके कश्छन्दसाम्योगमावेद धीर इति जपित्वा अथ आपो रेवतीः क्षयथा हि वस्व इति प्रतिपद्यन्ते ।

11,9.11

न आपो रेवत्यै पुरस्तात्किंचन परिहरेदिति ।

11,9.12

तदिह स्थितमनाव्रस्काय तदिह स्थितमनाव्रस्काय ।

11,9.13