मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 5

3
खण्डिका 1

अथ अतश्चातुर्मास्यानाम् ।

5,1.1

चातुर्मास्यानि प्रयुञ्जानः फाल्गुन्याम्पौर्णमास्याम्प्रयुङ्क्ते ।

5,1.2

मुखम्वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी ।

5,1.3

मुखमुत्तरे फल्गू ।

5,1.4

पुच्छम्पूर्वे ।

5,1.5

तद्यथा प्रवृत्तस्य अन्तौ समेतौ स्याताम् ।

5,1.6

एवमेव एतौ संवत्सरस्य अन्तौ समेतौ ।

5,1.7

तद्यत्फाल्गुन्याम्पौर्णमास्याम्वैश्वदेवेन यजेत ।

5,1.8

मुखत एव तस्संवत्सरम्प्रीणाति ।

5,1.9

अथो भैषज्य यज्ञा वा एते यच्चातुर्मास्यानि ।

5,1.10

तस्मादृतु संधिषु प्रयुज्यन्ते ।

5,1.11

ऋतु संधिषु हि व्याधिर्जायते ।

5,1.12

तानि वा अष्टौ हवींषि भवन्ति ।

5,1.13

अष्टौ वै चतसृणाम्पौर्णमासीनाम्हवींषि भवन्ति ।

5,1.14

चतसृणाम्वै पौर्णमासीनाम्वैश्वदेवम्समासः ।

5,1.15

अथ यदग्निर्मथ्यते ।

5,1.16

प्रजापतिर्वै वैश्वदेवम् ।

5,1.17

तस्मादेतम्दैवम्गर्भम्प्रजनयन्ति ।

5,1.18

अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्य भागौ विराजौ सम्याज्ये तस्य उक्तम्ब्राह्मणम् ।

5,1.19

अथ यन्नव प्रयाजा नव अनुयाजा अष्टौ हवींषि वाजिनम्नवमम् ।

5,1.20

तन्नक्षत्रियाम्विराजमाप्नोति ।

5,1.21
खण्डिका 2

अथ यदग्नीषोमौ प्रथमौ देवतानाम्यजति ।

5,2.1

दार्शपौर्णमासिके वा एते देवते ।

5,2.2

तस्मादेनौ प्रथमौ यजति ।

5,2.3

अथ यत्सवितारम्यजति ।

5,2.4

सविता वै प्रसवानामीशे ।

5,2.5

सवितृ प्रसूततायै ।

5,2.6

अथ यत्सरस्वतीम्यजति ।

5,2.7

वाग्वै सरस्वती ।

5,2.8

वाचमेव तत्प्रीणाति ।

5,2.9

अथ यत्पूषणम्यजति ।

5,2.10

असौ वै पूषा यो असौ तपति ।

5,2.11

एतमेव त प्रीणाति ।

5,2.12

अथ यन्मरुतः स्व तवसो यजति ।

5,2.13

घोरा वै मरुतः स्व तवसः ।

5,2.14

भैषज्यमेव तत्कुरुते ।

5,2.15

अथ यद्वैश्वदेवी पयस्या ।

5,2.16

एते वै सर्वे देवा यद्विश्वे देवाः ।

5,2.17

सर्वेषामेव देवानाम्प्रीत्यै ।

5,2.18

अथ यद्द्यावा पृथिवीय एक कपालः ।

5,2.19

प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।

5,2.20

अथ यत्प्रथमजम्गाम्ददाति ।

5,2.21

प्रथम कर्म ह्येतत् ।

5,2.22

अथ यत्पुरस्ताद्वा उपरिष्टाद्वा शम्योर्वाकस्यानावाहितान्वाजिनो यजति ।

5,2.23

देव अश्वा वै वाजिनः ।

5,2.24

तानेव तत्प्रीणाति ।

5,2.25

अत्र देवाः स अश्वाः प्रीता भवन्ति ।

5,2.26

अथो ऋतवो वै वाजिनः ।

5,2.27

ऋतूनेव तत्प्रीणाति ।

5,2.28

अथ यत्परस्तात्पौर्णमासेन यजते ।

5,2.29

तथा ह अस्य पूर्व पक्षे वैश्वदेवेन इष्टम्भवति ।

5,2.30
खण्डिका 3

वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ।

5,3.1

ताः सृष्टा अप्रसूता वरुणस्य यवान्जक्षुः ।

5,3.2

ता वरुणो वरुण पाशैः प्रत्यमुञ्चत् ।

5,3.3

ताः प्रजाः प्रजापतिम्पितरमेत्य उपाधावन् ।

5,3.4

उप तम्यज्ञ क्रतुम्जानीहि येन इष्ट्वा वरुण पाशेभ्यः सर्वस्माच्च पाप्मनः सम्प्रमुच्येमहि इति ।

5,3.5

तत एतम्प्रजापतिर्यज्ञ क्रतुमपश्यद्वरुण प्रघासान् ।

5,3.6

तमाहरत्तेन अयजत ।

5,3.7

तेन इष्ट्वा वरुणमप्रीणात् ।

5,3.8

स प्रीतो वरुणो वरुण पाशेभ्यः सर्वस्माच्च पाप्मनः प्रजाः प्रामुञ्चत् ।

5,3.9

प्र ह वा अस्य प्रजा वरुण पाशेभ्यः सर्वस्माच्च पाप्मनः सम्प्रमुच्यते य एवम्वेद ।

5,3.10
खण्डिका 4

अथ यदग्निम्प्रणयन्ति ।

5,4.1

यमेव अमुम्वैश्वदेवे मन्थन्ति ।

5,4.2

तमेव तत्प्रणयन्ति ।

5,4.3

अथ यन्मथ्यते तस्य उक्तम्ब्राह्मणम् ।

5,4.4

अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्य भागौ विराजौ सम्याज्ये तस्य उक्तम्ब्राह्मणम् ।

5,4.5

अथ यन्नव प्रयाजा नव अनुयाजा नव एतानि हवींषि ।

5,4.6

तन्नक्षत्रियाम्विराजमाप्नोति ।

5,4.7

समानानि पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्तानि वैश्वदेविकानि ।

5,4.8

तेषामुक्तम्ब्राह्मणम् ।

5,4.9

अथ यदैन्द्राग्नो द्वादश कपालः ।

5,4.10

प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव ।

5,4.11
खण्डिका 5

अथो मध्यस्थो वा इन्द्रः ।

5,5.1

तस्मादेनम्मध्यतो यजति ।

5,5.2

अथ यद्वारुणी पयस्या ।

5,5.3

इन्द्रो वै वरुणः ।

5,5.4

स उ वै पयो भोजनः ।

5,5.5

तस्माद्वारुणी पयस्या ।

5,5.6

अथ यन्मारुती पयस्या ।

5,5.7

अप्सु वै मरुतः श्रिताः ।

5,5.8

तस्मादेनान्पयस्या यजति ।

5,5.9

आपो हि पयः ।

5,5.10

अथो इन्द्रस्य वै मरुतः ।

5,5.11

ऐन्द्रम्पयः ।

5,5.12

तस्मान्मारुती पयस्या ।

5,5.13

अथ यत्काय एक कपालः ।

5,5.14

प्रजापतिर्वै कः ।

5,5.15

तमेव तत्प्रीणाति ।

5,5.16

अथो सुखस्य एव एतन्नामधेयम्कमिति ।

5,5.17

सुखमेव तदात्मन्धत्ते ।

5,5.18

अथ यन्मिथुनौ गावौ ददाति ।

5,5.19

तत्प्रजात्यै रूपम् ।

5,5.20

अथ यद्वाजिनो यजति ।

5,5.21

तेषामुक्तम्ब्राह्मणम् ।

5,5.22

अथ यदप्सु वरुणम्यजति ।

5,5.23

स्व एव एनम्तदायतने प्रीणाति ।

5,5.24

अथ यत्परस्तात्पौर्णमासेन यजते ।

5,5.25

तथा ह अस्य पूर्व पक्षे वरुण प्रघासैरिष्टम्भवति ।

5,5.26
खण्डिका 6

ऐन्द्रो वा एष यज्ञ क्रतुर्यत्साकमेधाः ।

5,6.1

तद्यथा महा राजः पुरस्तात्सेनानीकानि प्रत्यूह्य अभयम्पन्थानमन्वियात् ।

5,6.2

एवमेव एतत्पुरस्ताद्देवता यजति ।

5,6.3

तद्यथा अदः सोमस्य महा व्रतम् ।

5,6.4

एवमेव एतदिष्टि महा व्रतम् ।

5,6.5

अथ यदग्निमनीकवन्तम्प्रथमम्देवतानाम्यजति ।

5,6.6

अग्निर्वै देवानाम्मुखम् ।

5,6.7

मुखत एव तद्देवान्प्रीणाति ।

5,6.8

अथ यन्मध्यंदिने मरुतः सांतपनात्यजति ।

5,6.9

मध्यंदिने वै संतपति ।

5,6.10

तस्मान्मध्यंदिने मरुतः सांतपनान्यजति ।

5,6.11

अथो इन्द्रस्य वै मरुतः ।

5,6.12

ऐन्द्रो मध्यंदिनः ।

5,6.13

तस्मान्मध्यंदिने मरुतः सांतपनान्यजति ।

5,6.14

अथ यत्सायम्गृह मेधीयेन चरन्ति ।

5,6.15

पुष्टि कर्म वा एतद्यद्गृह मेधीयः ।

5,6.16

सायम्पोषः ।

5,6.17

तस्मात्पोषवन्तावाज्य भागौ भवतः ।

5,6.18

यजमानमेव तत्पोषयति ।

5,6.19

अथ यत्प्रातः पूर्ण दर्वेण चरन्ति ।

5,6.20

पूर्वे द्युः कर्मणा एव एतत्प्रातः कर्म उपसंतनोति ।

5,6.21
खण्डिका 7

अथ य मरुतः क्रीडिनो यजति ।

5,7.1

इन्द्रस्य वै मरुतः क्रीडिनः ।

5,7.2

तस्मादेनानिन्द्रेण उपसंहितान्यजति ।

5,7.3

अथ यन्महा इन्द्रमन्ततो यजति ।

5,7.4

अन्तम्वै श्रेष्ठी भजते ।

5,7.5

तस्मादेनमन्ततो यजति ।

5,7.6

अथ यदग्निम्प्रणयन्ति यन्मथ्यते तस्य उक्तम्ब्राह्मणम् ।

5,7.7

अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्य भागौ विराजौ सम्याज्ये तस्य उक्तम्ब्राह्मणम् ।

5,7.8

अथ यन्नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन्नवमः ।

5,7.9

तन्नक्षत्रियाम्विराजमाप्नोति ।

5,7.10

समानानि षट्संचराणि हवींषि भवन्त्यैन्द्राग्न अन्तानि वारुण प्रघासिकानि ।

5,7.11

तेषामुक्तम्ब्राह्मणम् ।

5,7.12

अथ यन्महा इन्द्रम्यजति तस्य उक्तम्ब्राह्मणम् ।

5,7.13

अथ यद्वैश्व कर्मण एक कपालः ।

5,7.14

असौ वै विष्व कर्मा यो असौ तपति ।

5,7.15

एतमेव तत्प्रीणाति ।

5,7.16

अथ यदृषभम्ददाति ।

5,7.17

ऐन्द्रो हि यज्ञ क्रतुः ।

5,7.18
खण्डिका 8

अथ यदपर अह्णे पितृ यज्ञेन चरन्ति ।

5,8.1

अपक्षय भाजौ वै पितरः ।

5,8.2

तस्मादपर अह्णे पितृ यज्ञेन चरन्ति ।

5,8.3

तदाहुर्यदपर पक्ष भाजः पितरो अथ कस्मादेतान्पूर्व पक्षे यजन्ति इति ।

5,8.4

दैवा वा एते पितरः ।

5,8.5

तस्मादेनान्पूर्व पक्षे यजन्ति ।

5,8.6

अथ यदेकाम्सामिधेनीमन्वाह ।

5,8.7

सकृदिव वै पितरः ।

5,8.8

तस्मादेकाम्सामिधेनीमन्वाह ।

5,8.9

सा वा अनुष्टुब्भवति ।

5,8.10

वागनुष्टुप् ।

5,8.11

पराञ्च उ वै पितरः ।

5,8.12

तानेव एतद्वाचा अनुष्टुभा आगमयति ।

5,8.13

अथ यद्यजमानस्य आर्षेयम्न आह ।

5,8.14

न इद्यजमानम्प्रवृणजानि इति ।

5,8.15

अथ एतम्निगदमन्वाह तस्य उक्तम्ब्राह्मणम् ।

5,8.16

अथ यत्सोमम्पितृमन्तम्पितॄन्वा सोमवतः पितॄन्बर्हिषदः पितॄनग्निष्वात्तानित्यावाहयति ।

5,8.17

दैवा वा एते पितरः ।

5,8.18

तस्मादेनानावाहयति ।

5,8.19

अथ यदग्निम्कव्य वाहनमावाहयति ।

5,8.20

एतत्स्विष्टकृतो वै पितरः ।

5,8.21

तस्मादेनमावाहयति ।

5,8.22

न ह एके स्वम्महिमानमावाहयन्ति यजमानस्य एष महिमा इति वदन्तः ।

5,8.23

आवाहयेदिति त्वेव स्थितम् ।

5,8.24

अग्नेर्ह्येव एष महिमा ।

5,8.25

अथ यत्प्रयाज अनुयाजेभ्यो बर्हिष्मन्ता उत्सृजति ।

5,8.26

प्रजा वै बर्हिः ।

5,8.27

तेन प्रजाम्प्रवृणजानि इति ।

5,8.28

ते वै षड्भवन्ति ।

5,8.29

षड्वा ऋतवः ।

5,8.30

ऋतवः पितरः ।

5,8.31

पितॄनेव तत्प्रीणाति ।

5,8.32

अथ यज्जीवनवन्तावाज्य भागौ भवतः ।

5,8.33

यजमानमेव तज्जीवयति ।

5,8.34

अथ यत्तिस्रस्तिस्र एक एकस्य हविषो भवन्ति ।

5,8.35

त्रीणि वै हवींषि भवन्ति ।

5,8.36

तेषाम्समवद्यति ।

5,8.37

तस्मात्तिस्रस्तिस्र एक एकस्य हविषो भवन्ति ।

5,8.38

अथो देव कर्मणा एव एतत्पितृ कर्म व्यावर्तयति ।

5,8.39

अथो परामु वै परावतम्पितरो गताः ।

5,8.40

आह्वयत्येव एनान्प्रथमया ।

5,8.41

द्वितीयया आगमयति ।

5,8.42

प्र एव तृतीयया यच्छति ।

5,8.43
खण्डिका 9

अथ यदग्निम्कव्य वाहनमन्ततो यजति ।

5,9.1

एतत्स्विष्टकृतो वै पितरः ।

5,9.2

तस्मादेनमन्ततो यजति ।

5,9.3

अथ यदप उपस्पृशति तस्य उक्तम्ब्राह्मणम् ।

5,9.4

अथ यदिडामुपहूय अवघ्राय न प्राश्नन्ति ।

5,9.5

पशवो वै इडा ।

5,9.6

न इद्यजमानस्य पशुन्प्रवृणजानि इति ।

5,9.7

अथ यदध्वर्युः पितृभ्यो ददाति ।

5,9.8

पितॄनेव तत्प्रीणाति ।

5,9.9

अथ यत्पवित्रवति मार्जयन्ते तस्य उक्तम्ब्राह्मणम् ।

5,9.10

अथ यदृचम्जपन्ति स्वस्त्ययनमेव तत्कुर्वते ।

5,9.11

अथ यदुदञ्चः परेत्य गार्हपत्या आहवनीया उपतिष्ठन्ते ।

5,9.12

प्रीत्वा एव तद्देवेष्वन्तततो अर्थम्वदन्ते ।

5,9.13

अथो दक्षिणा संस्थो वै पितृ यज्ञः ।

5,9.14

तमेव एतदुदक्संस्थम्कुर्वन्ति ।

5,9.15

अथ यत्प्राञ्च उपनिष्क्रम्य आदित्यमुपतिष्ठन्ते ।

5,9.16

देव लोको वा आदित्यः ।

5,9.17

पितृ लोकः पितरः ।

5,9.18

देव लोकमेव तत्पितृ लोकादभ्युत्क्रामन्ति ।

5,9.19

अथ यत्सूक्त वाके यजमानस्य नाम न गृह्णाति ।

5,9.20

न इद्यजमानम्प्रवृणजानि इति ।

5,9.21

अथ यत्पत्नी सम्याजैर्न चरन्ति ।

5,9.22

न इत्पत्न्यः प्रवृणजाम इति ।

5,9.23

अथ यदुदञ्चः परेत्य त्र्यम्बकैश्चरन्ति ।

5,9.24

रुद्रमेव तत्स्वायाम्दिशि प्रीणन्ति ।

5,9.25

अथो दक्षिणा संस्थो वै पितृ यज्ञः ।

5,9.26

तमेव एतदुदक्संस्थम्कुर्वन्ति ।

5,9.27

अथ यदन्तत इष्ट्वा इष्ट्या यजते ।

5,9.28

एतत्संस्था वै साकमेधाः ।

5,9.29

तस्मादन्तत इष्ट्वा इष्ट्या यजते ।

5,9.30

अथ यत्परस्तात्पौर्णमासेन यजते ।

5,9.31

तथा ह अस्य पूर्व पक्षे साकमेधैरिष्टम्भवति ।

5,9.32
खण्डिका 10

त्रयोदशम्वा एतन्मासमाप्नोति यत्शुनासीर्येण यजते ।

5,10.1

एतावान्वै संवत्सरो यदेष त्रयोदशो मासः ।

5,10.2

तदत्र एव सर्वः संवत्सर आप्तो भवति ।

5,10.3

अथ यत्शुनासीरौ यजति ।

5,10.4

शान्तिर्वै भेषजम्शुना सीरौ ।

5,10.5

शान्तिरेव एषा भेषजमन्ततो यज्ञे क्रियते ।

5,10.6

स यद्यग्निर्मथ्यते यद्वैश्वदेवस्य तन्त्रम्तत्तन्त्रम् ।

5,10.7

यद्यु न मथ्यते पौर्णमासमेव तन्त्रम्भवति ।

5,10.8

प्रतिष्ठा वै पौर्णमासम्प्रतिष्ठित्या एव ।

5,10.9

अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्य भागौ विराजौ सम्याज्ये तस्य उक्तम्ब्राह्मणम् ।

5,10.10

अथ यन्नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन्नवमः ।

5,10.11

तन्नक्षत्रियाम्विराजमाप्नोति ।

5,10.12

समानानि त्वेव पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्ताइ वैश्वदेकिकानि ।

5,10.13

तेषामुक्तम्ब्राह्मणम् ।

5,10.14

अथ यत्शुना सीरौ यजति ।

5,10.15

तयोरुक्तम्ब्राह्मणम् ।

5,10.16

अथ यद्वायुम्यजति ।

5,10.17

प्राणो वै वायुः ।

5,10.18

प्राणमेव तदात्मन्धत्ते ।

5,10.19

अथ यत्सौर्य एक कपालः ।

5,10.20

असौ वै सूर्यो यो असौ तपति ।

5,10.21

एतमेव तत्प्रीणाति ।

5,10.22

अथ यत्श्वेता दक्षिणा ।

5,10.23

एतमेव तत्प्रीणाति ।

5,10.24

एतस्य एव तद्रूपम्क्रियते ।

5,10.25

अथ यत्प्रायश्चित्त प्रतिनिधीन्कुर्वन्ति यदाहुतीर्जुह्वति ।

5,10.26

स्वस्त्ययनमेव तत्कुर्वते ।

5,10.27

यज्ञस्य एव शान्त्यै ।

5,10.28

यजमानस्य च भिषज्यायै ।

5,10.29

अथ यत्स्वैरग्निभिर्यजमानम्संस्कुर्वन्ति ।

5,10.30

देव रथो व अग्नयः ।

5,10.31

देव रथ एव एनम्तत्समारोपयन्ति ।

5,10.32

स एतेन देव रथेन स्वर्गंल्लोकमेति ।

5,10.33

सुकृताम्यत्र लोकः सुकृताम्यत्र लोकः ।

5,10.34