मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 13

3
खण्डिका 1

प्रजापतिर्वै यज्ञः ।

13,1.1

तस्मिन्त्सर्वे कामाः सर्वममृतत्वम् ।

13,1.2

तस्य एते गोप्तारो यद्धिष्ण्याः ।

13,1.3

तान्त्सदः पस्रप्स्यन्नमस्यति नमो नम इति ।

13,1.4

न हि नमस्कारमति देवाः ।

13,1.5

ते नमसिता होतारमतिसृजन्ते ।

13,1.6

स एतम्प्रजापतिम्यज्ञम्प्रपद्यते ।

13,1.7

तदत्र एव यजमानः सर्वान्कामानाप्नोति सर्वममृतत्वम् ।

13,1.8

अथ हविष्पङ्क्त्या चरन्ति ।

13,1.9

पशवो वै हविष्पङ्क्तिः ।

13,1.10

पशूनामेव आप्त्यै ।

13,1.11

तानि वै पञ्च हवींषि भवन्ति ।

13,1.12

दधि धानाः सक्तवः पुरोडाशः पयस्य इति ।

13,1.13

पञ्चपदा पक्तिः ।

13,1.14

पाङ्क्तो यज्ञः ।

13,1.15

पाङ्क्ताः पशवः ।

13,1.16

पाङ्क्तः पुरुषः ।

13,1.17

यज्ञस्य च पशूनाम्च आप्त्यै ।

13,1.18

सा इयम्निरुप्यते पशूनामेव परिग्रहाय ।

13,1.19

अथो सवनानामेव तीव्री काराय ।

13,1.20

अथ वै हविष्पङ्क्तिः प्राण एव ।

13,1.21

तस्माद्येन एव मैत्रावरुणः प्रेष्यति तेन होता यजति ।

13,1.22

समानो ह्ययम्प्राणः ।

13,1.23
खण्डिका 2

तदाहुर्यया वै प्रातर्यजत्यृक्सा तदहर्यात यामा भवत्यथ कस्मादेषा सर्वेषु सवनेष्वयात यामा इति ।

13,2.1

यदेव सवनैर्वितारयन्नेति ।

13,2.2

प्रातः प्रातः सावस्य इति तृतीय सवने ।

13,2.5

तेन अयात यामा ।

13,2.6

तदाहुः कस्मात्प्रातरेव पयस्या न माध्यंदिने न तृतीय सवन इति ।

13,2.7

यज्ञो वै मैत्रावरुणः ।

13,2.8

एतद्वै यज्ञो जायते यत्प्रातः सवने ।

13,2.9

पयो भाजनो वै तरुणः कुमारः ।

13,2.10

तद्यथा जाताय स्तनमुपदध्यादेवम्तत् ।

13,2.11

वृद्धो वा उत्तरयोः सवनयोः ।

13,2.12

यदा वै वर्धते ।

13,2.13

अतिस्तनो वै तदा ।

13,2.14

तस्मात्प्रातरेव पयस्या न माध्यंदिने न तृतीय सवन इति ।

13,2.15
खण्डिका 3

हविरग्रे वीहि इत्यनुसवनम्पुरोडाश स्विष्टकृतो यजति ।

13,3.1

अवत्सारोह प्राश्रवणो देवानाम्होता आस ।

13,3.2

तमेतस्मिन्द्युम्ने मृत्युः प्रत्यालिल्ये ।

13,3.3

अग्निर्वै मृत्युः ।

13,3.4

स हविरग्ने वीहि इति हविषा अग्निम्प्रीत्वा अथ अतिमुमुचे ।

13,3.5

तथो एव एवम्विद्वान्होता हविरग्ने वीहि इत्येव हविषा अग्निम्प्रीत्वा अथ अतिमुच्यते ।

13,3.6

एतैर्ह वा अन्तराकाशैर्देवाः स्वर्गंल्लोकम्जग्मुः ।

13,3.7

तानेतस्मिन्द्युम्ने मृत्युः प्रत्यालिल्ये ।

13,3.8

अग्निर्वै मृत्युः ।

13,3.9

ते हविरग्ने वीहि इति हविषा अग्निम्प्रीत्वा अथ अतिमुमुचिरे ।

13,3.10

तथो एव एवम्विद्वान्होता हविरग्ने वीहि इत्येव हविषा अग्निम्प्रीत्वा अथ अतिमुच्यते ।

13,3.11

तानि वा एतानि षडक्षराणि हविरग्ने वीहि इति ।

13,3.12

षडङ्गो अयमात्मा षड्विधः ।

13,3.13

तदात्मना एव आत्मानम्निष्क्रीय अनृणो भूत्वा अथ यजते ।

13,3.14

स एषो अवत्सारस्य प्राश्रवणस्य मन्त्रः ।

13,3.15

स न मन्येत केन वा नु केन वा यजामि इति ।

13,3.16

ऋषि कृतेन मन्त्रेण ऋचा यजामि इत्येव विद्यात् ।

13,3.17

अथ सोम इति वै पशुमवोचाम ।

13,3.18

एवम्पुरोडाशान् ।

13,3.19
खण्डिका 4

दश त्वा एते सोम अंशवः ।

13,4.1

प्रत्नो अंशुर्यमेतमभिषुण्वन्ति ।

13,4.2

तृप्तो अंशुरापः ।

13,4.3

रसो अंशुर्व्रीहिः ।

13,4.4

वृषो अंशुर्यवः ।

13,4.5

शुक्रो अंशुः पयः ।

13,4.6

जीवो अंशुः पशुः ।

13,4.7

अमृतो अंशुर्हिरण्यम् ।

13,4.8

ऋगंशुर्यजुरंशुः साम अंशुरिति ।

13,4.9

एत वा उ दश सोम अंशवः ।

13,4.10

यदा वा एते सर्वे संगच्छन्ते ।

13,4.11

अतः सोमो अतः सुतः ।

13,4.12

पुरोडाशैर्चरित्वा द्विदेवत्यश्चरन्ति ।

13,4.13

आत्मा वै यजमानस्य पुरोडाशाः ।

13,4.14

प्राणा द्विदेवत्याः ।

13,4.15

तद्यत्पुरोडाशैश्चरित्वा द्विदेवत्यैश्चरन्ति ।

13,4.16

तथा ह यजमानः सर्वमायुरस्मिंल्लोक एत्य आप्नोत्यमृतत्वमक्षितिम्स्वर्गे लोके ।

13,4.17

ते वा एते प्राणा एव यद्द्विदेवत्याः ।

13,4.18

वागेव इन्द्रः ।

13,4.19

प्राणो वायुः ।

13,4.20

चक्षुर्मैत्रावरुणः ।

13,4.21

श्रोत्रमाश्विनः ।

13,4.22
खण्डिका 5

तस्मादनवानम्यजति प्राणानाम्संतत्यै ।

13,5.1

संतता इव हि इमे प्राणाः ।

13,5.2

न अनुवषट्करोति ।

13,5.3

प्राणा वै द्विदेवत्याः ।

13,5.4

संस्था अनुवषट्कारः ।

13,5.5

न इत्पुरा कालात्प्राणान्त्संस्थापयानि इति ।

13,5.6

यक्ता इव हि इमे प्राणाः ।

13,5.7

ऐन्द्रावायवम्पूर्व अर्धम्सादयति ।

13,5.8

पूर्व अर्ध्यो ह्येष एषाम्प्राणामभिधानतम इव ।

13,5.9

अभित इतरौ पश्चादुपनिदधाति ।

13,5.10

अभित इव हि इदम्चक्शुश्च श्रोत्रम्च ।

13,5.11

तानवगृह्य आस्ते ।

13,5.12

न इत्प्रवृत्त अन्ता इति ।

13,5.13

न अपिदधाति ।

13,5.14

प्राणा वै द्विदेवत्याः ।

13,5.15

न इत्प्राणानपिदधानि इति ।

13,5.16

इदम्ते सोम्यम्मध्विति प्रस्थितानाम्याज्या मधु श्चुताम्मधुमती ।

13,5.17

अनुवषट्करोत्याहुतीनामेव शान्त्यै ।

13,5.18

आहुतीनाम्प्रतिष्ठित्यै ।

13,5.19

अथ होत्राः सम्यजन्ति ।

13,5.20

यजमानमेव तदनृणतायै सम्प्रमुञ्चन्ति ।

13,5.21

द्विदेवत्यानाम्प्रथमो भक्षः ।

13,5.22

अथ इडा अथ होतृ चमस्ह ।

13,5.23

आत्मा वै यजमानस्य पुरोडाशाः ।

13,5.24

प्राणा द्विदेवत्याः ।

13,5.25

अन्नम्पशव इडा ।

13,5.26

अन्नेन वै प्राणाश्च आत्मा च संहितः ।

13,5.27

तस्माद्द्विदेवत्यानाम्प्रथमो भक्षः ।

13,5.28

अथ इडा अथ होतृ चमसः ।

13,5.29

तानध्वर्यवे प्रयच्छति ।

13,5.30

न अनुसृजत्या शेषस्य अवनयनात् ।

13,5.31

प्राणा वै द्विदेवत्याः ।

13,5.32

न इत्प्राणाननुसृजानि इति ।

13,5.33

द्विरैन्द्रवायवस्य भक्षयति ।

13,5.34

द्विर्हि तस्य वष्टक्करोति ।

13,5.35

सकृन्मैत्रावरुणस्य ।

13,5.36

सकृदाश्विनस्य ।

13,5.37

सर्वतः परिहारमाश्विनस्य भक्षयति ।

13,5.38

सर्वतो ह्यनेन श्रोत्रेण शृणोति ।

13,5.39
खण्डिका 6

संस्रवान्होतृ चमसे अवनयति ।

13,6.1

इडा भाज एव एनांस्तत्करोति ।

13,6.2

अथ इडामुपह्वयते ।

13,6.3

उपोद्यच्छन्ति चमसान् ।

13,6.4

होतृ चमसमन्वारभते ।

13,6.5

असंस्पर्शन्नुपह्वयत इडाम् ।

13,6.6

वज्रो वा आज्यम् ।

13,6.7

रेतः सोमः ।

13,6.8

न इद्वज्रेण रेतो हिनसानि इति ।

13,6.9

तस्याम्न सुन्वदाह ।

13,6.10

न आशिषो निराह ।

13,6.11

उपहूय इडामवघ्राय अवस्यति ।

13,6.12

प्राश्नात्युत्तरा इडाम् ।

13,6.13

अथ अप आचम्य होतृ चमसम्भक्षयति ।

13,6.14

एतद्वै परममन्न अद्यम्यत्सोमः ।

13,6.15

परममेव एतदन्न अद्यम्सर्वे समुपहूय भक्षयन्ति ।

13,6.16

अथ वै प्रत्युपहवो अच्छावाकस्य ।

13,6.17

प्रत्येता वामा सूक्तायम्सुन्वन्यजमानो अग्रभीत् ।

13,6.20

उत पतिष्ठा उत उपवक्तरुत नो गाव उपहूता इति ।

13,6.19

यदि न उपजुहूषति ।

13,6.20

उत उपहूत इत्यभ्यस्यति यद्युपजुहूषते ।

13,6.21

प्रत्युपहूतो अच्छावाको निवर्तध्वम्मा अनुगाता इत्येतस्य सूक्तस्य यावतीः पर्याप्नुयात्तावतीरनुद्रवेत् ।

13,6.22

होता वा अच्छावाकमप्रतिकामिनम् ।

13,6.23

सो तत्र प्रायश्चित्तिः ।

13,6.24
खण्डिका 7

प्राणा वै ऋतु याजाः ।

13,7.1

तद्यदृतु याजैश्चरन्ति ।

13,7.2

प्राणानेव तद्यजमाने दधति ।

13,7.3

स वा अयम्त्रेधा विहितः प्राणः प्राणो अपानो व्यान इति ।

13,7.4

षडृतुना इति यजन्ति ।

13,7.5

प्राणमेव तद्यजमाने दधति ।

13,7.6

चत्वार ऋतुभिरिति यजन्ति ।

13,7.7

अपानमेव तद्यजमाने दधति ।

13,7.8

द्विरृतुना इत्युपरिष्टात् ।

13,7.9

व्यानमेव तद्यजमाने दधाति ।

13,7.10

तथा ह यजमानः सर्वमायुरस्मिंल्लोक एत्य आप्नोत्यमृतत्वमक्षितिम्स्वर्गे लोके ।

13,7.11

ते वा एते प्राणा एव यदृतु याजाः ।

13,7.12

तस्मादनवानम्यजन्ति प्राणानाम्संतत्यै ।

13,7.13

संतता इव हि इमे प्राणाः ।

13,7.14

न अनुवषट्कुर्वन्ति ।

13,7.15

प्राणा वा ऋतु याजाः ।

13,7.16

संस्था अनुवषट्कारः ।

13,7.17

न इत्पुरा कालात्प्राणान्त्संस्थापयाम इति ।

13,7.18

युक्ता इव हि इमे प्राणाः ।

13,7.19

तदाहुः कस्माद्द्होता यक्षद्द्होता यक्षदित्येव सर्वेभ्यः प्रेष्यति इति ।

13,7.20

वाग्वै होता ।

13,7.21

वाग्यक्षद्वाग्यक्षदित्येव तदाह ।

13,7.22

अथो सर्वे वा एते सप्त होतारः ।

13,7.23

अपि वा ऋचा अभ्युदितम् ।

13,7.24

सप्त होतार ऋतुषो यजन्ति इति ।

13,7.25

अथ यद्द्विरुपरिष्टाद्व्यादिशत्यजामितायै ।

13,7.26

ते वै द्वादश भवन्ति ।

13,7.27

द्वादश वै मासाः संवत्सरः ।

13,7.28

संवत्सरस्य एव आप्त्यै ।

13,7.29

स यो अत्र भक्षयेत् ।

13,7.30

यस्तम्तत्र ब्रूयात् ।

13,7.31

अशान्तो भक्षो अननुवषट्कृतः ।

13,7.32

प्राणानस्य व्यगान्न जीविष्यति इति तथा ह स्यात् ।

13,7.33

य उ वै न भक्षयेत् ।

13,7.34

यस्तम्तर ब्रूयात् ।

13,7.35

प्राणो भक्षः ।

13,7.36

प्राणादात्मानमन्तरगान्न जीविष्यति इति तथा ह एव स्यात् ।

13,7.37

लिम्पेदिव एव अव इव जिघ्रेदत्र च द्विदेवत्येषु चैति ।

13,7.38

तदु तत्र शासनम्वेदयन्ते ।

13,7.39

अथ यदमू व्यतिचरतः ।

13,7.40

न अन्योन्यमनुप्रपद्येते अध्वर्यू ।

13,7.41

तस्मादृतुरृतुम्न अनुप्रपद्यत ऋतुरृतुम्न अनुप्रपद्यते ।

13,7.42