मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 10

3
खण्डिका 1

वज्रो वा एष यद्यूपः ।

10,1.1

तद्यदुपवसथे यूपमुच्छ्रयन्ति ।

10,1.2

वज्रेण एव तद्यजमानस्य पाप्मानमपघ्नन्ति ।

10,1.3

स न अपनत इव स्यात् ।

10,1.4

अशनायतो वा एतद्रूपम् ।

10,1.5

अभिनत इव उदरेण ।

10,1.6

अथ आहवनीयम्पुनरभ्यावृत्तः ।

10,1.7

तद्वै सुहितस्य रूपम् ।

10,1.8

अनशनायुका ह अस्य भार्या भवन्ति य एवम्रूपम्यूपम्कुरुते ।

10,1.9

पालाशम्ब्रह्म वर्चस कामः कुर्वीत ।

10,1.10

बैल्वमन्न अद्य कामः ।

10,1.11

खादिरम्स्वर्ग कामः ।

10,1.12

त्र्यरत्निः स्याल्लोकानाम्रूपेण ।

10,1.13

चतुररत्निः पशूनाम्रूपेण ।

10,1.14

पञ्च अरत्निः पङ्क्त्यै रूपेण ।

10,1.15

षडरत्निरृतूनाम्रूपेण ।

10,1.16

सप्त अरत्निश्छन्दसाम्रूपेण ।

10,1.17

अष्ट अरत्निर्गायत्र्यै रूपेण ।

10,1.18

नव अरत्निर्बृहत्यै रूपेन ।

10,1.19

दश अरत्निर्विराजो रूपेण ।

10,1.20

एकादश अरत्निस्त्रिष्टुभो रूपेण ।

10,1.21

द्वादश अरत्निर्जगत्यै रूपेण ।

10,1.22
खण्डिका 2

एता मात्राः सम्पदो यूपस्य ।

10,2.1

तासामेकाम्सम्पदमभिसम्पाद्य यूपम्कुर्वीत ।

10,2.2

तदु वा आहुर्न मिनेद्यूपम् ।

10,2.3

अपरिमित एव स्यात् ।

10,2.4

मितम्ह वै मितेन जयति ।

10,2.5

अमितममितेन ।

10,2.6

अपरिमितस्य अवरुद्ध्यै ।

10,2.7

यत्र एव मनसा वेलाम्मन्यते तत्कुर्वीत ।

10,2.8

तद्यूपस्य च वेदेश्च इति ह स्म आह ।

10,2.9

प्रजापतिर्वै मनः ।

10,2.10

यज्ञ उ वै प्रजापतिः ।

10,2.11

स्वयम्वै तद्यज्ञो यज्ञस्य जुषते ।

10,2.12

यन्मनो मनसः ।

10,2.13

वाजपेय यूप एव अवधृतः सप्तदश अरत्निः ।

10,2.14

सो अष्ट अश्रिर्निष्ठितो भवति ।

10,2.15

सर्वेषामेव कामानामष्ट्यै ।

10,2.16

अथ एनम्प्रणेनिजति ।

10,2.17

तद्यदेव इदम्परशुना क्रूरी कृत इव तष्ट इव भवति ।

10,2.18

तदेव अस्य एतदाप्याययति तद्भिषज्यति ।

10,2.19

अथ एनमभ्यञ्जति ।

10,2.20

तद्या एव इमाः पुरुषः आपः ।

10,2.21

ता एव अस्मिंस्तद्दधाति ।

10,2.22

स्वभ्यक्तम्स्वयमेव यजमानः कुर्वीत ।

10,2.23

तथा ह यजमानो अरूक्ष इव भवति ।

10,2.24
खण्डिका 3

अञ्जन्ति त्वामध्वरे देवयन्त इत्यक्तवतीमभिरूपामज्यमानाय अन्वाह ।

10,3.1

उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्ताज्जातो जायते सुदिनत्वे अह्नामूर्ध्व ऊ षु ण ऊतय ऊर्ध्वो नः पाह्यंहसो केतुना इत्युच्छ्रितवतीश्च उद्वतीश्च उच्छ्रीयमाणाय अन्वाह ।

10,3.2

युवा सुवासाः परिवीत आगादिति परिवीतवत्या परिदधाति ।

10,3.3

अभिरूपा अन्वाअह ।

10,3.4

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

10,3.5

ता वै सप्त अन्वाह ।

10,3.6

सप्त वै छन्दांसि ।

10,3.7

सर्वेषामेव छन्दसामाप्त्यै ।

10,3.8

त्रिः प्रथमया त्रिरुत्तमया एकादश सम्पद्यन्ते ।

10,3.9

एकादश अक्षरा त्रिष्टुप् ।

10,3.10

त्रैष्टुभाः पशवः पशूनामेव आप्त्यै ।

10,3.11

इति न्वेक यूप एक पशौ च ।

10,3.12

अथ यद्येक यूप एकादशिनीमालभेरन् ।

10,3.13

पशौ पशावेव अध्वर्युः सम्प्रेष्यति ।

10,3.14

पशौ पशावेव युवा सुवासाः परिवीत आगादिति सा एव परिधानीया सा परिवीयमाणाय ।

10,3.15

इति न्वेक यूपे ।

10,3.16

अथ कथम्यूप एकादशिन्यामिति ।

10,3.17

एता एव सप्त सप्तादशभ्यो अनुब्रूयात् ।

10,3.18

अथ यमुत्तमम्सम्मिन्वन्ति ।

10,3.19

तस्मिन्यत्सूक्तस्य परिशिष्येत तदनुवर्तयेत् ।

10,3.20

प्रगातह्स्य उपरिष्टात्तत् ।

10,3.21

शृङ्गाणि इव इत्शृङ्गिणाम्सम्ददृश्र इति सर्वानेव अभिवदति ।

10,3.22

युवा सुवासाः परिवीत आगादिति सा एव परिधानीया सा परिवीयमाणाय ।

10,3.23
खण्डिका 4

तमाहुरनुप्रहरेत् ।

10,4.1

यजमानो वा एष यद्यूपः ।

10,4.2

स्वर्लो लोक आहवनीयः ।

10,4.3

तदेव एनम्स्वर्गंल्लोकम्गमयति ।

10,4.4

तत्स्वर्ग्यमिति ।

10,4.5

तदु वा आहुस्तिष्ठेदेव ।

10,4.6

यदिदमास्थानम्स्वरोस्तत ईश्वरा यदि न असुर रक्षसान्यन्ववपातोः ।

10,4.7

तस्मादेष वज्र उद्यतो यज्ञ वास्तौ तिष्ठेदेव असुर रक्षसान्यपघ्नन्नपबाधमानो यज्ञम्चैव यजमानम्च अभिगोपायन्निति ।

10,4.8

अथ यूप्य एको द्रव्य एको गर्त्य एकः ।

10,4.9

यो अवाचीन वकलः स गर्त्यः ।

10,4.10

तस्य आशाम्न इयात् ।

10,4.11

अथ य ऊर्ध्व वकलो द्रव्यः स मानुषः ।

10,4.12

कामम्तस्य अपि कुर्वीत ।

10,4.13

अथ यस्य प्रसव्यादित्यस्य आवृतमन्वावृत्ता वकलाः ।

10,4.14

स यूप्यः स स्वर्ग्यमेकस्थो भ्रातृव्यः ।

10,4.15

यो वा अनुवृतः पलाशैरामूलात्स्यात् ।

10,4.16

सो अनग्नः स पशव्यः ।

10,4.17

तम्पशु कामः कुर्वीत ।

10,4.18
खण्डिका 5

अग्नीषोमयोर्वा एष आस्यमापद्यते यो दीक्षते ।

10,5.1

तद्यदुपवसथे अग्नीषोमीयम्पशुमालभते ।

10,5.2

आत्म निष्क्रियणो ह एव अस्य एष तेन आत्मानम्निष्क्रीणीय अनृणो भूत्वा अथ यजते ।

10,5.3

तस्मादु तस्य न अश्नीयात् ।

10,5.4

पुरुषो हि स प्रतिमया ।

10,5.5

तदु वा आहुर्हविर्हविर्वा आत्म निष्क्रयणम् ।

10,5.6

हविषो हविषि एव स तर्हि न अश्नीयात् ।

10,5.7

य आत्म निष्क्रयणमिति न अश्नीयात् ।

10,5.8

तस्मादु काम एव अशितव्यम् ।

10,5.9

अहोरात्रे वा अग्नीषोमौ ।

10,5.10

तद्यद्दिवा वपया चरन्ति ।

10,5.11

तेन अहः प्रीतमाग्नेयम् ।

10,5.12

रात्रिमनु संतिष्ठते ।

10,5.13

तेन रात्रिः सौमी प्रीता ।

10,5.14

सा एषा अहो रात्रयोरतिमुक्तिः ।

10,5.15

अत्यहोरात्रे यज्ञेन मुच्यते।

10,5.16

न एनम्ते आप्नुतः ।

10,5.17

य एवम्विद्वानेतम्पशुमालभते ।

10,5.18
खण्डिका 6

तमाहुर्द्विरूपः स्यात्शुक्लम्च कृष्णम्च अहो रात्रयो रूपेण इति ।

10,6.1

शुक्लम्वा च लोहितम्चग्नीषोमयो रूपेण इति ।

10,6.2

तस्य एकादश प्रयाजा एकादश अनुयाजा एकादश उपयाजाः ।

10,6.3

तानि त्रयस्त्रिंशत् ।

10,6.4

त्रयस्त्रिंशद्वै सर्वे देवाः ।

10,6.5

सर्वेषामेव देवानाम्प्रीत्यै ।

10,6.6

प्राणा वै प्रयाजा अपाना अनुयाजाः ।

10,6.7

तस्मात्समा भवन्ति ।

10,6.8

समाना हि इमे प्राण अपानाः ।

10,6.9

तदाहुः कस्मादृचा प्रयाजेषु यजति प्रतीकैरनुयाजेष्विति ।

10,6.10

रेतः सिक्तिर्वै प्रयाजाः ।

10,6.11

रेतोधेयमनुयाजाः ।

10,6.12

तस्मादृचा प्रयाजेषु यजति प्रतीकैरनुयाजेष्विति ।

10,6.13

अथ यत्सर्वमुत्तममाह ।

10,6.14

स्वर्ग एव तल्लोके यजमानम्दधाति ।

10,6.15

आप्रीभिराप्रीणाति ।

10,6.16

सर्वेण ह वा एष आत्मना सर्वेण मनसा यज्ञम्सम्भरते यो यजते ।

10,6.17

तस्य रिरिचान इव आत्मा भवति ।

10,6.18

तमस्य एताभिराप्रीभिराप्रीणाति ।

10,6.19

तद्यदाप्रीणाति ।

10,6.20

तस्मादाप्र्यो नाम ।

10,6.21
खण्डिका 7

पर्यग्निम्पशुम्करोति रक्षसामपहत्यै ।

10,7.1

अग्निर्वै रक्षसामपहन्ता ।

10,7.2

त्रिः प्रसवि पर्यग्नि करोति ।

10,7.3

तद्यथा तिस्रो अग्नि पुरः कुर्यादेवम्तत् ।

10,7.4

तस्मात्पुनः परीहि इत्यग्निधम्ब्रूयात् ।

10,7.5

यमिच्छेन्न प्रच्यवेत इति ।

10,7.6

दैव्याः शमितार उत च मनुष्या आरभध्वमुपनयत मेध्या दुर आशासाना मेधपतिभ्याम्मेधमिति ।

10,7.7

तद्द्ह एक आहुः ।

10,7.8

यजमानो वै मेध पतिरिति ।

10,7.9

को मनुष्य इति ब्रूयात् ।

10,7.10

देवता एव मेध पतिरिति ।

10,7.11

षड्विंशतिरस्य वङ्क्रय इति ।

10,7.12

पर्शव उ ह वै वङ्क्रयः ।

10,7.13

उभयतो असृक्पर्यवानिति ।

10,7.14

असृग्भाजनानि ह वै रक्षांसि भवन्ति ।

10,7.15

न इद्रक्षसाम्भागेन दैवम्भागम्प्रसजानि इति ।

10,7.16

स एषो अध्रिगुः संशासनमेव ।

10,7.17

अङ्गानि मा परिकर्तोरिति ।

10,7.18

यद्द्ह वा अदुष्टम्तद्देवानाम्हविः ।

10,7.19

न वै ते दुष्टम्हविरदन्ति ।

10,7.20

नवकृत्वो अध्रिगाववानिति ।

10,7.21

नव इमे प्राणाः ।

10,7.22

प्राणानेव तद्यजमाने दधाति ।

10,7.23

सर्वायुत्वाय अस्मिंल्लोके ।

10,7.24

अमृतत्वाय अमुष्मिन् ।

10,7.25

त्रिः परिदधात्यपर अक्त्वाय ।

10,7.26

सकृत्पुरस्तादाह ।

10,7.27

सकृदिव वै पितरः ।

10,7.28

पितृ देवत्य इव वै पशुरालभ्यमानो भवति ।

10,7.29

अथ यत्त्रिरुपरिष्टादाह ।

10,7.30

त्रिर्वै देवत्याः ।

10,7.31

देव देवत्यमेव एनम्तदयात यामानम्करोति ।

10,7.32
खण्डिका 8

परिधाय उपांशु जपत्युभावपापश्च इति ।

10,8.1

अपापो ह वै देवानाम्शमिता ।

10,8.2

तस्मा एव एनम्तत्सम्प्रयच्छति ।

10,8.3

स हि देवाननुवेद ।

10,8.4

अथ स्तोकीया अन्वाह ।

10,8.5

स्तोकानेव एताभिरग्नये स्वदयति ।

10,8.6

एता ह वा उ तेषाम्पुरोनुवाक्या एता याज्याः ।

10,8.7

तस्मादभिरूपा भवन्ति ।

10,8.8

स्वाहा कृतिभिर्श्चरित्वा वपया चरन्ति ।

10,8.9

प्रयाजानेव तत्पशु भाजः कुर्वन्ति ।

10,8.10

न स्वाहा कृतीश्च वपाम्च अन्तरेण वाचम्विसृजेत ।

10,8.11

प्राणा वै स्वाहा कृतयः ।

10,8.12

आत्मा वपा ।

10,8.13

न इत्प्राणांश्च आत्मानम्च अन्येन अन्तर्दधाति इति ।

10,8.14

अथ यदनुष्टुभो अग्नीषोमीयस्य पशोः पुरोनुवाक्या भवन्ति ।

10,8.15

गायत्री वै सा या अनुष्टुप् ।

10,8.16

गायत्रमग्नेश्छन्दः ।

10,8.17

अथ यत्त्रिष्टुभो याज्याः ।

10,8.18

क्षत्रस्य एतच्छन्दो यत्त्रिष्टुप् ।

10,8.19

क्षत्रम्सोमः ।

10,8.20

तद्यथा छन्दसम्देवते प्रीणाति ।

10,8.21

अथ वै पशुमालभ्यमानम्पुरोडाशो अनुनिरुप्यते ।

10,8.22

अथ यत्र पुरोडाशो निरुप्यते ।

10,8.25

तत्पुरोडाश स्विष्टकृदच्युतः ।

10,8.26

अग्निर्वै स्विष्टकृत् ।

10,8.27

तस्मादच्युतो भवति ।

10,8.28

वैश्वामित्रीम्पुरोडाश स्विष्टकृदच्युतः ।

10,8.26

पुरोनुवाक्यामनूच्य वैश्वामित्र्या यजति ।

10,8.29

ततिर्वै यज्ञस्य पुरोडाशः ।

10,8.30

वाग्वै विश्वामित्रः ।

10,8.31

वाचा यज्ञस्तायते ।

10,8.32
खण्डिका 9

अथ मनोतामन्वाह ।

10,9.1

सर्वा ह वै देवताः पशुमालभ्यमानमुपसंगच्छन्ते मम नाम ग्रहीष्यति मम नाम ग्रहीष्यति इति ।

10,9.2

तासाम्सर्वासाम्पशावेव मनांस्योतानि भवन्ति ।

10,9.3

ता अत्र प्रीणाति ।

10,9.4

तथा ह आसाम्सर्वासाममोघाय एव उपसमेतम्भवति ।

10,9.5

तदाहुर्यन्नाना देवताः पशव आलभ्यन्ते अथ कस्मादाग्नेयमेव अन्वाह इति ।

10,9.6

तिस्रो वै देवानाम्मनोताः ।

10,9.7

अग्निर्वै देवानाम्मनोता ।

10,9.8

तस्मिन्ह्येषाम्मनांस्योतानि भवन्ति ।

10,9.9

अथो वाग्वै देवानाम्मनोता ।

10,9.10

तस्याम्ह्येषाम्मनांस्योतानि भवन्ति ।

10,9.11

अथो गौर्वै देवानाम्मनोता ।

10,9.12

तस्याम्ह्येषाम्मनांस्योतानि भवन्ति ।

10,9.13

अग्निर्सर्वा मनोताः ।

10,9.14

अग्नौ मनोताः संगच्छन्ते ।

10,9.15

तस्मादाग्नेयमेव अन्वाह इति ।

10,9.16

ता वै त्रयोदश भवन्ति ।

10,9.17

त्रयोदश वै पशोरवदानानि भवन्ति ।

10,9.18

त्रिः प्रथमया त्रिरुत्तमया सप्तदश सम्पद्यन्ते ।

10,9.19

सप्तदशो वै प्रजापतिः ।

10,9.20

एतद्वा आर्ध्नुकम्कर्म यत्प्रजापति सम्मितम् ।

10,9.21

सप्तदश सामिधेनीरन्वाह ।

10,9.22

सप्तदशो वै प्रजापतिः ।

10,9.23

एतद्वा आर्ध्नुकम्कर्म यत्प्रजापति सम्मितम् ।

10,9.24

अथ यत्र पशुरालभ्यते ।

10,9.25

तद्वनस्पतिरच्युतः ।

10,9.26

अग्निर्वै वनस्पतिः ।

10,9.27

स वै देवभ्यो हविः श्रपयति ।

10,9.28
खण्डिका 10

तस्मादच्युतो भवति ।

10,10.1

स उ वै पयो भाजनः ।

10,10.2

अत्र अग्निः सर्वेषु हविह्षु भागी भवति ।

10,10.3

तदाहुर्यद्धाम भाजो देवा अथ कस्मात्पाथो भाग्वनस्पतिरिति ।

10,10.4

धाम वै देवा यज्ञस्य अभजन्त ।

10,10.5

पाथः पितरः ।

10,10.6

पितृ देवत्य इव वै पशुः ।

10,10.7

पितृ देवत्यम्पयः ।

10,10.8

तस्मादिति ब्रूयात् ।

10,10.9

तदाहुः कस्मात्सौम्य एव अध्वरे प्रवृत आहुती जुह्वति न हविर्यज्ञ इति ।

10,10.10

अकृत्स्ना एव वा एषा देव यज्या यद्द्हविर्यज्ञः ।

10,10.11

अथ एषा एव कृत्स्ना देव यज्ञा यत्सौम्यो अध्वरः ।

10,10.12

तस्मात्सौम्य एव अध्वरे प्रवृत आहुती जुह्वति न हविर्यज्ञ इति ।

10,10.13

जुष्टो वाचो भूयासम्जुष्टो वाचस्पतेर्देवि वाक् ।

10,10.14

यत्ते वाचो मधुमत्तमम्तस्मिन्नो अद्य धाः स्वाहा सरस्वत्या इति पुरस्तात्स्वाहा कारेण जुहोति ।

10,10.15

वाचम्तदुत्सृजते ।

10,10.16

तस्माद्वागत ऊर्ध्व उत्सृष्टा यज्ञम्वहति ।

10,10.17

मनसा उत्तराम् ।

10,10.18

मनहा हि मनः प्रीतम्मनः प्रीतम् ।

10,10.19