द्वात्रिंशी प्रथमो मासो द्वात्रिंश्युत्तमः ।
26,1.1द्वात्रिंशदक्षर अनुष्टुप् ।
26,1.2वागनुष्टुप् ।
26,1.3तद्वाचा प्रयन्ति ।
26,1.4वाचमनूत्त्तिष्ठन्ति ।
26,1.5अष्टाविंशिनावभितो विषुवन्तम्मासौ ।
26,1.6अष्टाविंशत्यक्षर उष्णिक् ।
26,1.7औष्णिह्यो ग्रीवाः ।
26,1.8अथ एतत्शिरो यज्ञस्य यद्विषुवान् ।
26,1.9ग्रीवा एव तत्कल्पयित्वा तासु शिरः प्रतिदधति ।
26,1.10तदाहुः कतरेषामेषो अह्नामवरेषाम्परेषामिति ।
26,1.11न अवरेषाम्न परेषामित्याहुः ।
26,1.12उभयेषाम्वा एषो अह्नाम् ।
26,1.13उभयानि वै तस्य एतान्यहानि ।
26,1.14तदाहुः कति षडहाः संवत्सर इति ।
26,1.15षष्टिः षडहाः षडहशः ।
26,1.16तदेतदव्यवलम्बि संवत्सर अयणम् ।
26,1.17तद्य एवम्संवत्सरस्य अहानि युञ्जन्ति ।
26,1.18त एतान्त्सर्वान्कामानृध्नुवन्ति ये संवत्सरे ।
26,1.19अथ ये अतो अन्यथा संवत्सरस्य अहानि युञ्जन्ति ।
26,1.20न ते तान्त्सर्वान्कामानृध्नुवन्ति ये संवत्सरे ।
26,1.21अथ ह एक ऊर्ध्वानेव मासानुपयन्त्यूर्ध्वान्यहानि ।
26,2.1ऊर्ध्वम्वा उ वयम्संवत्सरम्रोहाम इति वदन्तः ।
26,2.2मासा एव आवर्तेरन्न अहानि इत्येके ।
26,2.3य एव एष पृष्ठ्यः षडहः पुनः परस्तात्पर्येति तेन मासा आवृत्ता इति वदन्तः ।
26,2.4तदाहुर्विदूर रूपम्वा एतद्यत्त्रिवृच्च त्रयस्त्रिंशश्च स्तोमौ ।
26,2.5तद्यथा गिरि शिखरात्कर्तमभि प्रस्कन्देदेवम्तत्स्तोम कृन्तत्रम् ।
26,2.6तस्मादेव अहानि वर्तेरन् ।
26,2.7नो मासा अस्तोम कृन्तत्रताया इति ।
26,2.8अथ अतो गो आयुषोर्मीमांसा ।
26,2.9विहृते गो आयुषी उपेयुः ।
26,2.10अहोरात्रे वै गो आयुषी ।
26,2.11विहृते वा इमे अहोरात्रे अन्योन्यस्मिन् ।
26,2.12अथो द्यावा पृथिवी वै गो आयुषी ।
26,2.13विहृते वा इमे द्यावा पृथिवी अन्योन्यस्मिन् ।
26,2.14अथो प्राण अपानौ वै गो आयुषी ।
26,2.15विहृतौ वा इमौ प्राण अपानावन्योन्यस्मिन्प्रतितिष्ठतः ।
26,2.16ते ह एक ऊर्ध्वे उपयन्त्यूर्ध्वे उपेतव्ये गो आयुषी इति ।
26,2.17अन्वाभिप्लविकाः स्तोमा आवर्तत्न्ते दशरात्रमनुपृष्ठ्यस्स्तोमा इति वदन्तः ।
26,2.18तद्यदेव इदम्द्वितीयमहर्यच्च तृतीयमेते वा उ गो आयुषी ।
26,2.19अथ कश्चित्शस्त्रे वा अनुवचने वा प्रमत्त उपहन्याद्विचिकित्सा वा स्यादुपहतमबुद्धमतिक्रान्तम्मन्यमानो मनसा वृत्त अन्तमीक्षमाणो विनिवृत्य उपहतमनुपहतम्कृत्वा आनन्तर्यात्प्रयोगः स्याद्वृत्त अन्तादिति मीमांसन्ते ।
26,2.3अथ ह स्म आह पैङ्ग्यो न आनन्तर्यात्प्रयोगः स्यादतिरिक्तो वा एष मन्त्रः स्याद्यो अवचनाद्द्विरुच्यते ।
26,2.3तस्मान्न आन्तर्यात्प्रयोगः स्यादिति ह स्म आह पैङ्ग्यः ।
26,2.3अथ ह स्म आह कौषीतकिः परिमित फलानि वा एतानि कर्माणि येषु परिमितो मन्त्र गणः प्रयुज्यते ।
26,2.3अथ अपरिमित फलानि येषु अपरिमितो मन्त्र गणः प्रयुज्यते ।
26,2.3मनो वा एतद्यदपरिमितम्प्रजापतिर्वै मनो यज्ञ उ वै प्रजापतिः स्वयम्वै तद्यज्ञो यज्ञस्य जुषते यन्मनो मनसस्तस्मादानन्तर्यात्प्रयोगः स्यादिति ह स्म आह कौषीतकिर् ।
26,2.3मितम्ह वै मितेन जयत्यमितममितेन अपरिमितस्य अवरुद्ध्या अनुल्बणमेतदिति ह स्म आह कौषीतकिर् ।
26,2.3न आहुतिम्जुहुयात्तथा ह यजमानः स्वर्गांल्लोकान्त्सर्वान्कामान्सर्वा अष्टीः सर्वम्च अमृतत्वमाप्नोति सर्वेषाम्च भूतानाम्श्रैष्ठ्यम्स्वाराज्यमाधिपत्यम्पर्येति यस्य एवम्क्रियते ।
26,2.3अथ यद्यूर्ध्वम्परिधानात्प्रणव वषट्कारयोर्वा ऊर्ध्वम्याज्या पुरोनुवाक्ययोर्बुध्येत अतिक्रान्तमुल्बणमेतस्याम्वेलायाम्भवति इति ह स्म आह प्रागहिः ।
26,2.4तस्मान्न एतस्याम्वेलायामतिक्रान्तमुल्बणम्सदस्यो बोधयेत इति ह स्म आह पैङ्ग्यः ।
26,2.4स्थाणुम्वा ऋच्छति गर्ते वा पतति धीयते वा प्र वा मीयत इति ह स्म आह यद्यतिक्रान्तमुल्बणम्सदस्यो बोधयेत ।
26,2.4कृतस्य अनावृत्तिरिति ह स्म आह आरुणिर्गुण लोप इति श्वेतकेतुस्तस्मान्न अतिक्रान्तमुल्बणम्सदस्यो बोधयेत इति ह स्म आह पैङ्ग्यः ।
26,2.4अंहो वा एतद्यज्ञस्य यद्यतिक्रान्तमुल्बणम्सदस्यो बोधयेत इति तस्मान्न अतिक्रान्तमुल्बणम्सदस्यो बोधयेत इति ह स्म आह पैङ्ग्यः ।
26,2.4अथ ह स्म आह दैवोदासिः प्रतर्दनो नैमिषीयाणाम्सत्रमुपगम्य उपास्यद्य विचिकित्साम्पप्रच्छ यद्यतिक्रान्तमुल्बणम्सदस्यो बोधयेत ऋत्विजाम्वा अन्यतमो बुध्येत कथम्वो अनुल्बणम्स्यातिति ।
26,2.5त उ ह तूष्णीमासुस्तेषामलीकयुर्वाचस्पतो ब्रह्मा आस स ह उवाच न अहमेतद्वेद हन्त पूर्वेषामाचार्यम्स्थविरम्जातूकर्ण्यम्पृछानि इति ।
26,2.5तम्ह पप्रच्छ यद्यतिक्रान्तमुल्बणम्कर्ता वा स्वयम्बुध्येत अन्यो वा बोधयेत कथम्तदुल्बणमनुल्बणम्भवेत्पुनर्वचनम्वा निगदम्वा याज्याम्वा यद्वा अन्यत्सर्वम्तत्पुनर्ब्रूयादिति यावन्मात्रमुल्बणम्तावद्ब्रूयादृचम्वा अर्धर्चम्वा पादम्वा पदम्वा वर्णम्वा इति ह स्म आह जातूकर्ण्यः ।
26,2.5अथ ह स्म आह कौषीतकिर्न मन्त्रम्पुनर्ब्रूयान्न आहुतिम्जुहुयादनुल्बणमेतदिति ह स्म आह कौषीतकिः ।
26,2.5यद्द्हि होतारो यज्ञस्य किंचिदुल्बणमबुध्यमानाः कुर्वन्ति सर्वम्तदग्निर्दैवो होता अनुल्बणम्करोति तदेतदृचा अभ्युदितम् ।
26,2.5यत्पाकत्रा मनसा दीन दक्षा न यज्ञस्य मन्वते मर्त्यासः अग्निष्टद्द्होता क्रतुविद्विजानन्यजिष्ठो देवामृतुशो यजाति इति यच्च आह संस्थिते यज्ञे अयाड्यज्ञम्जातवेदा इत्ययाक्षीदिमम्यज्ञम्जातवेदा इति तदाह अन्तरः पूर्वो अस्मिन्निषद्य इति यदाह अग्निर्ह दैवो होता मानुषाद्द्होतुः पूर्वो निषद्य यजत इति तदाह आशिषमेव उत्तरेण अर्धर्चेन वदति पूर्वया वा ऋचा ।
26,2.6षष्ठे वा अहन्देवाः स्तोमांश्च मासांश्च आप्नुयुः ।
26,3.1त आप्त्वा स्तोमानेतानेव पृष्ठ्य स्तोमान्द्वन्द्वम्समास्यन् ।
26,3.3कुतो ह्यन्यम्स्तोममाहरिष्यन् ।
26,3.3तावेतौ त्रिवृत्पञ्चदशौ स्तोमौ सप्तममहर्वहतश्चतुर्विंश स्तोमो भूत्वा ।
26,3.4अथ एतौ सप्तदश त्रिणवौ नवममहर्वहतो अष्टा चत्वारिंश स्तोमो भूत्वा ।
26,3.5अथ एतावेकविंश त्रयस्त्रिंशौ स्तोमौ नवममहर्वहतो अष्टा चत्वारिंश स्तोमो भूत्वा ।
26,3.6तेषाम्गायत्र्या प्रथमो मितस्त्रिष्टुभा द्वितीयो जगत्या तृतीयः ।
26,3.7तद्यच्छन्दोभिर्मिताः ।
26,3.8तस्माच्छन्दोमाः ।
26,3.9अथ याः षट्स्तोत्रिया अष्टा चत्वारिंशम्स्तोममतियन्ति ।
26,3.10तास्ता ऋतव इत्याहुः ।
26,3.11षड्ड्ह्यृतवः ।
26,3.12ताभिर्दशममहस्तायते ।
26,3.13अन्त्ः षष्ठमहः ।
26,3.14अथ पुनस्ततिरेव सप्तममहः ।
26,3.15तस्मात्ततवन्ति सप्तमे अहन्त्सूक्तानि शस्यन्ते प्रायणीय रूपेण ।
26,3.16पुनः प्रायणीयम्हि सप्तममहः ।
26,3.17प्र वः शक्राय भावने भरध्वमित्याज्य प्रवत् ।
26,4.1प्रवद्वै प्रथमस्य अह्नो रूपम् ।
26,4.2त्रैष्टुभः प्रौगः ।
26,4.3प्र वीरया शुचयो दद्रिरे वामिति वायव्यम्प्रवत् ।
26,4.4प्रवद्वै प्र्थमस्य अह्नो रूपम् ।
26,4.5अत एव उत्तरम्तृचमैन्द्रावायवम्ते सत्येन मनसा दीध्याना इति ।
26,4.6स्वेन युक्तासः क्रतुना वहन्ति इति युक्तवत् ।
26,4.7युक्तवद्वै प्रथमस्य अह्नो रूपम् ।
26,4.8उद्वाम्चक्षुर्वरुण सुप्रतीकमिति मैत्रावरुणम् ।
26,4.9देवयोरेति सूर्यस्ततन्वानिति ततवत् ।
26,4.10ततवद्वै सप्तमस्य अह्नो रूपम् ।
26,4.11आ गोमता नासत्या रथेन आ नो देव शवसा याहि शुष्णिन्प्र वो यज्ञेषु देवयन्तो अर्चन्प्र क्षोदसा धायसा सस्र एष इति ।
26,4.12एहि वा वै प्र इति वा प्रायणीय रूपम् ।
26,4.13तस्मादावन्ति च प्रवन्ति च सप्तमे अहन्त्सूक्तानि शस्यन्ते प्रायणीय रूपेण ।
26,4.14पुनः प्रायणीयम्हि सप्तममहः ।
26,4.15तदाहुर्यत्किंच छन्दः प्रातः सवने युज्येत अर्धर्चश एव तस्य शस्त्रमिति गायत्र्यै रूपेण अथो प्रातः सवन रूपेण इति ।
26,4.16तदु ह स्म आह कौषीतकिः ।
26,4.17न त्रिष्टुब्जगत्यावेतत्स्थाने अर्धर्चशः शस्त्राय ।
26,4.18यद्यपि प्रातः सवने युज्येताम् ।
26,4.19पच्छ एव एनयोः शस्त्रमिति सा स्थितिः ।
26,4.20बृहत्पृष्ठम्राथन्तरम्शस्त्रम् ।
26,4.21तन्मिथुनम्प्रजात्यै रूपम् ।
26,4.22कय शुभा सवयसः सनीडा इति मरुत्वतीयम् ।
26,5.1तदेतत्संज्ञा श्रीः सूक्तम् ।
26,5.2एतेन ह वा इन्द्रश्च मरुतश्च समजानत ।
26,5.3अभिसंजानते ह वा अस्मै स्वा श्रैष्ठ्याय य एवम्वेद ।
26,5.4कया मती कुत एतास एत इत्यावद्राथन्तरम् ।
26,5.5त्यम्सु मेषम्महया स्वर्विदमिति जागतम् ।
26,5.6ऐन्द्रम्ववृत्यामवसे सुवृक्तिभिरित्यावद्राथन्तरम् ।
26,5.7त्रैष्टुभ जागते जागतम्जगन्मध्यंदिनो ह्येष त्र्यहः ।
26,5.8तदाहुर्यद्रथन्तरम्पृष्ठम्सप्तमस्य अह्न आयतनेन अथ कस्मादन्वहम्बृहत्क्रियत इति ।
26,5.9तानि वा एतान्यहानि महा स्तोमानि भवन्ति ।
26,5.10तस्मादन्वहम्बृहत्क्रियते ।
26,5.11एतेषामेव अह्नाम्सबलतायै ।
26,5.12एतेषाम्छन्दोमानामसमवप्लुताया इति ।
26,5.13बृहत आतानम्शस्त्वा रथन्तरस्य योनिम्शंसति ।
26,5.14न आह एव नः पिता यो अन्य वादम्सा एव आसीदिति ह स्म आह कौषीतकिः ।
26,5.15यत्र तु क्वच एते सामनी समाने अहन्त्सम्निपतेताम् ।
26,5.16अन्वेव तत्र इतरस्य इतरस्य वा योनिमनुशंसेत् ।
26,5.17यद्यु कण्व रथन्तरम्कुर्युः ।
26,5.18न अस्य योनिमनुशंसेत् ।
26,5.19न ह्यन्येषाम्पृष्ठानाम्योनिः शस्या भवति इति ।
26,5.20तमु ष्टुहि यो अभिभूत्योजा त्यम्मेषम्पुरु हूतमृग्मियमित्युभे अभिवती ।
26,5.21तद्राथन्तरम्रूपम् ।
26,5.22त्रैष्टुभ जागते जागतम्जगन्मध्यंदिनो ह्येष त्र्यहः ।
26,5.23द्वे द्वे सूक्ते निष्केवल्य मरुत्वतीययोः शस्येते प्रथमे छन्दोमे ।
26,5.24द्विपाद्यजमानः ।
26,5.25प्रतिष्ठित्यै ।
26,5.26तानि चत्वारि सम्पद्यन्ते ।
26,5.27पशवो वै छन्दोमाः ।
26,5.28चतुष्टया वै पशवः ।
26,5.29अथो चतुष्पादाः पशूनामेव आप्त्यै ।
26,5.30तत्सवितुर्वरेण्यमिति सावित्रम् ।
26,6.1धियो यो नः प्रचोदयादिति प्रवत् ।
26,6.2प्रवद्वै प्रथमस्य अह्नो रूपम् ।
26,6.3प्रेताम्यज्ञस्य शम्भुवा इति द्यावा पृथिवीयम्प्रवत् ।
26,6.4प्रवद्वै प्रथमस्य अह्नो रूपम् ।
26,6.5अयम्देवाय जन्मन इत्यार्भवम् ।
26,6.6स्तोमो विप्रेभिरासय इत्यावत् ।
26,6.7आवद्वै प्रथमस्य अह्नो रूपम् ।
26,6.8ऋजु नीती नो वरुण इति वैश्वदेवम्नीतवत् ।
26,6.9नीतवद्वै सप्तमस्य अह्नो रूपम् ।
26,6.10आ अयाहि वनसा सह इति द्विपदा आवत् ।
26,6.11आवद्वै प्रथमस्य अह्नो रूपम् ।
26,6.12ओमासश्चर्षणी धृत इति वैश्वदेवम् ।
26,6.13विश्वे देवास आ गत इत्यावत् ।
26,6.14आवद्वै प्रथमस्य अह्नो रूपम् ।
26,6.15गायत्रम्गायत्र तृतीय सवनो ह्येष त्र्यहः ।
26,6.16वैश्वानरो न ऊतय इति वैश्वानरीयम् ।
26,6.17आ प्र यातु परावत इत्यावत् ।
26,6.18आवद्वै प्रथमस्य अह्नो रूपम् ।
26,6.19प्र यद्वस्त्रिष्टुभमिषमिति मारुतम्प्रवत् ।
26,6.20प्रवद्वै प्रथमस्य अह्नो रूपम् ।
26,6.21अर्चन्तस्त्वा हवामह इति जातवेदसीयम् ।
26,6.22त्वया यज्ञम्वि तन्वत इति ततवत् ।
26,6.23ततवद्वै सप्तमस्य अह्नो रूपम् ।
26,6.24गायत्रम्गायत्र तृतीय सवनो ह्येष त्र्यहः ।
26,6.25इत्याग्निमारुत सूक्तानि ।
26,6.26इत्येतस्य अह्नः सूक्तानि ।
26,6.27तदुक्थ्यम्संतिष्ठते ।
26,6.28तस्य साप्तिर्या प्रथमस्य अह्नः ।
26,6.29अयम्वै लोकः प्रथमश्छन्दोमः ।
26,6.30अन्तरिक्ष लोको द्वितीयः ।
26,7.1असौ लोकः उत्तमः ।
26,7.2तस्मान्महद्वन्ति मध्यमे अहन्त्सूक्तानि शस्यन्ते ।
26,7.3महद्द्हि इदमन्तरिक्षम् ।
26,7.4अथो अभ्यारब्धवन्ति स्युः ।
26,7.5परमेव एतदहरभिवदति ।
26,7.6परमेव एतदहरभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः ।
26,7.7अग्निः वो देवमग्निभिः सजोषा इत्याज्यम् ।
26,7.8यदा महः संवरणाद्व्यस्थादिति महद्वत्सदभ्यारब्धवत् ।
26,7.9त्रैष्टुभः प्रौगः ।
26,7.10कुविदङ्ग नमसा ये वृधास इति वायव्यम्वृद्धवत् ।
26,7.11महद्वद्द्ह्येतदहः ।
26,7.12अत एव उत्तरम्तृचमैन्द्र वायवम्यावत्तरस्तन्वो यावदोज इति ।
26,7.13यावन्नरश्चक्षसा दीध्याना इत्यभ्यारब्धवत् ।
26,7.14प्रति वाम्सूर उदिते सूक्तैरिति मैत्रावरुणम् ।
26,7.15मित्रम्हुवे वरुणम्पूत दक्षमित्यभ्यारब्धवत् ।
26,7.16अप स्वसुरुषसो नग्जिहीत इत्याश्विनम् ।
26,7.17अश्वा मघा गो मघा वाम्हुवेम इत्यभ्यारब्धवत् ।
26,7.18अयम्सोम इन्द्र तुभ्यम्सुन्व इत्यैन्द्रम् ।
26,7.19ब्रह्मन्वीर ब्रह्म कृतिम्जुषाण इत्यभ्यारब्धवत् ।
26,7.20प्र ब्रह्माणो अङ्गिरसो नक्षन्त इति वैश्वदेवम् ।
26,7.21प्र क्रन्दनुर्नभन्यस्य वेत्वित्यभ्यारब्धवत् ।
26,7.22उत स्या नः सरस्वती जुषाण इति सारस्वतम् ।
26,7.23वर्ध शुभ्रे स्तुवते रासि वाजानिति वृद्धवत् ।
26,7.24महद्वद्द्ह्येतदहः ।
26,7.25राथन्तरम्पृष्ठम्बार्हतम्शस्त्रम् ।
26,7.26तन्मिथुनम्प्र्जात्यै रूपम् ।
26,7.27महानिन्द्रो नृवदा चर्षणिप्रा इति त्रैष्टुभानाम्प्रथमम्मरुत्वतीयानाम् ।
26,8.1महद्वत्सदभ्यारब्धवत् ।
26,8.2इमा उ त्वा पुरुतमस्य कारोरिति द्वितीयम् ।
26,8.3हव्यम्वीर हव्या हवन्त इत्यभ्यारब्धवत् ।
26,8.4क्व स्य वीरः को अपश्यदिन्द्रमिति तृतीयम् ।
26,8.5सुख रथमीयमानम्हरिभ्यामित्यभ्यारब्धवत् ।
26,8.6महश्चित्त्वमिन्द्र यत एतानिति चतुर्थम् ।
26,8.7महश्चिदसि त्यजसो वरूत इति महद्वद्सदभ्यारब्धवत् ।
26,8.8तमस्य द्यावा पृथिवी सचेतसा इति पञ्चमम् ।
26,8.9यदा एतत्कृण्वानो महिमानमिन्द्रियमिति महद्वत्सदभ्यारब्धवत् ।
26,8.10त्रैष्टुभ जागते जागतम्जगन्मध्यंदिनो ह्येष त्र्यहः ।
26,8.11त्वम्महानिन्द्र तुभ्यम्ह क्षा इति त्रैष्टुभानाम्प्रथमम्निष्केवल्यानाम् ।
26,8.12महद्वत्सदभ्यारब्धवत् ।
26,8.13त्वम्महानिन्द्र यो ह शुष्मैरिति द्वितीयम्महद्वत् ।
26,8.14महद्वद्द्ह्येतदहः ।
26,8.15अपूर्व्या पुरुतमान्यस्मा इति तृतीयम् ।
26,8.16महे वीराय तवसे तुराय इति महद्वत्सदभ्यारब्धवत् ।
26,8.17ताम्सु ते कीर्तिम्मघवन्महित्वा इति चतुर्थम् ।
26,8.18महद्वत्सदभ्यारब्धवत् ।
26,8.19इमाम्ते धियम्प्र भरे महो महीमिति पञ्चमम् ।
26,8.20महद्वद्सदभ्यारब्धवत् ।
26,8.21त्रैष्टुभ जागते जागतम्जगन्मध्यंदिनो ह्येष त्र्यहः ।
26,8.22पञ्च पञ्च सूक्तानि निष्केवल्य मरुत्वतीययोः शस्यन्ते मध्यमे छन्दोमे ।
26,8.23पशवो वै छन्दोमाः ।
26,8.24पाङ्क्ताः पशवः ।
26,8.25पशूनामेव आप्त्यै ।
26,8.26तानि दश सम्पद्यन्ते ।
26,8.27दश दशिनी विराट् ।
26,8.28श्रीर्विराडन्न अद्यम् ।
26,8.29श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
26,8.30हिरण्य पाणिमूतय इति सावित्रम् ।
26,9.1अपाम्नपातमवस इति महद्वत्सदभ्यारब्धवत् ।
26,9.2मही द्यौः पृथिवी च न इति द्यावा पृथिवीयम्महद्वत् ।
26,9.3महद्वद्द्ह्येतदहः ।
26,9.4युवाना पितरा पुनरित्यार्भवम् ।
26,9.5इन्द्रेण च मरुत्वतादित्येभिश्च राजभिरित्यभ्यारब्धवत् ।
26,9.6देवानामिदवो महदिति वैश्वदेवम् ।
26,9.7वामम्नो अस्त्वर्यमन्वामम्वरुण शंस्यमिति महद्वत्सदभ्यारब्धवत् ।
26,9.8इमा नु कम्भुवना सीषधाम इति द्विपदाः ।
26,9.9इन्द्रश्च विश्वे च देवा इत्यभ्यारब्धवत् ।
26,9.10विश्वे देवा ऋता वृध इति वैश्वदेवम्वृद्धवत् ।
26,9.11महद्द्ह्येतदहः ।
26,9.12गायत्रम्गायत्र तृतीय सवनो ह्येष त्र्यहः ।
26,9.13वैश्वानरो अजीजनदिति वैश्वानरीयम् ।
26,9.14क्ष्मया वृधान ओजसा इति वृद्धवत् ।
26,9.15महद्वत्सदभ्यारब्धवत् ।
26,9.16कद्द्ह नूनम्कध प्रिय इति मारुतमभ्यारब्धवत् ।
26,9.17दूतम्वो विश्व वेदसमिति जात वेदसीयम् ।
26,9.18अग्ने मृड महानसि इति वा ।
26,9.19अष्टर्चमष्टमस्य अह्नः ।
26,9.20पूर्वम्तु स्थितम् ।
26,9.21महानारोधनम्दिव इति महद्वत्सदभ्यारब्धवत् ।
26,9.22पूर्वम्तु स्थितम् ।
26,9.21महानारोधनम्दिव इति महद्वत्सदभ्यारब्धवत् ।
26,9.22गायत्रम्गायत्र तृतीय सवनो ह्येष त्र्यहः ।
26,9.23इत्याग्नि मारुत सूक्तानि ।
26,9.24इत्येतस्य अह्नः सूक्तानि ।
26,9.25तदुक्थ्यम्संतिष्ठते ।
26,9.26तस्य सा आप्तिर्या द्वितीयस्य अह्नः ।
26,9.27अन्तो गतिर्नवममहः ।
26,10.1असौ द्यौरसौ लोकः ।
26,10.2तस्माद्गतवन्ति नवमे अहन्त्सूक्तानि शस्यन्ते ।
26,10.3अगन्म महा नमसा यविष्ठम्सोमस्य मा तवसम्वक्ष्यग्न इत्येते उभे तदाज्यम् ।
26,10.4अगम्न इति गतवत् ।
26,10.5तदन्त रूपम् ।
26,10.6अन्तो नवममहः ।
26,10.7एति इव वा गन्तम्गत्वा ।
26,10.8कद्र्यन्हि तत इयात् ।
26,10.9अस्थुरत्र धेनवः पिन्वमाना इति स्थितवत् ।
26,10.10तदन्त रूपम् ।
26,10.11अन्तो नवममहः ।
26,10.12तिष्ठति इव वा अन्तम्गत्वा ।
26,10.13कद्र्यन्हि तत इयात् ।
26,10.14अगन्म महा नमसा यविष्ठमित्येतदेव तृचमाज्यम्स्यादिति ह स्म आह पैङ्ग्यः ।
26,10.15अगन्म इति गतवत् ।
26,10.16तदन्त रूपम् ।
26,10.17अन्तो नवममहः ।
26,10.18ऐति इव वीत इति ह स्म ह कौषीतकिः ।
26,11.21सोमस्य मा तवसम्वक्ष्यग्न इत्येतदुपसंशंसेत् ।
26,11.1तस्य तदेव अन्त रूपम्यद्भूत अनुवादि प्राञ्चम्यज्ञम्चकृम दिवः शशासुरिति ।
26,11.2यदेतद्भूतमिव अभि ।
26,11.3अत्र न्वा अपि स्तोमो न व्याप्तव्य इति ह स्म आह पैङ्ग्यः ।
26,11.4यद्यृग्भिरेव स्तोमो व्याप्यत इति ।
26,11.5अक्षरैर्ह ऋक्स्तोमम्व्यश्नुते ।
26,11.6अक्षरैर्ह पदैर्वा निविद्वा पुरोरुग्वा ऋचम् ।
26,11.7व्याप्तो ह वा उ तत्र स्तोमो भवति यत्र निविद्वा पुरोरुग्वा शस्यते ।
26,11.8तस्माद्व्याप्यत एव ।
26,11.9तृचमाज्यम्स्याद्यददः पैङ्ग्यस्य वचसा ।
26,11.10उभे इति त्वेव स्थितम् ।
26,11.11एतेन ह वा अह्ना वसिष्ठश्च विश्वामित्रश्च समजानताम् ।
26,11.12अभिसंजानते ह वा अस्मै स्वा श्रैष्ठ्याय य एवम्वेद ।
26,11.13तस्मादुभे एव स्याताम् ।
26,11.14वासिष्ठम्पूर्वम्वैश्वामित्रमुत्तरम् ।
26,11.15त्रैष्टुभः प्रौगः ।
26,11.16आ वायो भूष शुचिपा उप न इति वायव्यम्च ऐन्द्रावायवम्च ।
26,12.1आगत इति गतवत् ।
26,12.2तदन्त रूपम् ।
26,12.3अन्तो नवममहः ।
26,12.4ऐति इव वा अन्तम्गत्वा ।
26,12.5कद्र्यन्हि तत इयात् ।
26,12.6प्र सोता जीरो अध्वरेष्वस्थादिति स्थितवत् ।
26,12.7तदन्त रूपम् ।
26,12.8अन्तो नवममहः ।
26,12.9तिष्ठति इव वा अन्तम्गत्वा ।
26,12.10कद्र्यन्हि तत इयात् ।
26,12.11दिवि क्षयन्ता रजसः पृथिव्यामिति मैत्रावरुणम् ।
26,12.12क्षयन्त इति क्षितिवत् ।
26,12.13तदन्त रूपम् ।
26,12.14अन्तो नवममहः ।
26,12.15क्षियति इव वा अन्तम्गत्वा ।
26,12.16कद्र्यन्हि तत इयात् ।
26,12.17आ विश्व वारा अश्विना गतम्न इत्याश्विनम् ।
26,12.18प्र तत्स्थानमवाचि वाम्पृथिव्यामिति स्थितवत् ।
26,12.19तदन्त रूपम् ।
26,12.20अन्तो नवममहः ।
26,12.21तिष्ठति इव वा अन्तम्गत्वा ।
26,12.22कद्र्यन्हि तत इयात् ।
26,12.23इन्द्रम्नरो नेमधिता हवन्त इत्यैन्द्रम् ।
26,12.24यत्पार्या युनजते धियस्ता इति पार्याः पर अर्ध्याः ।
26,12.25तदन्त रूपम् ।
26,12.26अन्तो नवममहः ।
26,12.27अन्ते अन्तम्दधाति ।
26,12.28ऊर्ध्वो अग्निः सुमतिम्वस्वो अश्रेदिति वैश्वदेवम् ।
26,12.29अश्रेदिति श्रितवत् ।
26,12.30तदन्त रूपम् ।
26,12.31अन्तो नवममहः ।
26,12.32श्रियति इव वा अन्तम्गत्वा ।
26,12.33कद्र्यन्हि तत इयात् ।
26,12.34प्र क्षोदसा धायसा सस्र एष इति सारस्वतम् ।
26,12.35प्रबाबधान इति निनर्तिः ।
26,12.36अन्तो नवममहः ।
26,12.37नीव वा अन्तम्गत्वा नृत्यति ।
26,12.38कद्र्यन्हि तत इयात् ।
26,12.39एते वा उ वासिष्ठास्तृच ऋक्ल्प्तास्त्रैष्टुभाः प्रौगाः ।
26,12.40प्रजापतिर्वै वसिष्ठः ।
26,12.41स तन्ता यज्ञस्य ।
26,12.42स पुनस्ततावयात यामा भवति ।
26,12.43प्रजापतावेव तत्सर्वान्कामानृध्नुवन्ति ।
26,12.44बृहत्पृष्ठम्शस्त्रम् ।
26,12.45तन्मिथुनम्प्रजात्यै रूपम् ।
26,12.46त्र्यर्यमा मनुषो देव ताता इति त्रैष्टुभानाम्प्रथमम्मरुत्वतीयानाम् ।
26,13.1त्रि इति तत्तृतीयस्य अह्नो रूपम् ।
26,13.2इन्द्रो रथाय प्रवतम्कृणोति इति द्वितीयम् ।
26,13.3यमध्यस्थान्मघवा वाजयन्तमित्यध्यस्थादिति स्थितवत् ।
26,13.4तदन्त रूपम् ।
26,13.5अन्तो नवममहः ।
26,13.6तिष्ठति इव वा अन्तम्गत्वा ।
26,13.7कद्र्यन्हि तत इयात् ।
26,13.8तिष्ठा हरी रथ आ युज्यमाना इति तृतीयम् ।
26,13.9तिष्ठ इति स्थितवत् ।
26,13.10तदन्त रूपम् ।
26,13.11अन्तो नवममहः ।
26,13.12तिष्ठति इव वा अन्तम्गत्वा ।
26,13.13कद्र्यन्हि तत इयात् ।
26,13.14गायत्साम नभन्यम्यथा वेरिति चतुर्थम् ।
26,13.15साम इति तदमुष्य लोकस्य रूपम् ।
26,13.16प्र मन्दिने पितुमदर्चता वच इति पञ्चमम् ।
26,13.17तस्य तदेव अन्त रूपम्यत्सोदर्कम् ।
26,13.18त्रैष्टुभ जागते जागतम्जगन्मध्यंदिनो ह्येष त्र्यहः ।
26,13.19आ सत्यो यातु मघवानृजीषी इति त्रैष्टुभानाम्प्रथमम्निष्केवल्यानाम् ।
26,13.20अव स्य शूर अध्वनो न अन्त इति ।
26,13.21तदन्त रूपम् ।
26,13.22अन्तो नवममहः ।
26,13.23अवस्यति इव वा अन्तम्गत्वा ।
26,13.24कद्र्यन्हि तत इयात् ।
26,13.25अस्मा इदु प्र तवसे तुराय इति द्वितीयम् ।
26,13.26अस्मा अस्मा इति सप्रभृति ।
26,13.27यथा वै सोदर्कमेवम्सप्रभृत्यन्त रूपम् ।
26,13.28द्यौर्न य इन्द्र अभि भूमार्य इति तृतीयम् ।
26,13.29द्यौरिति तदमुष्य लोकस्य रूपम् ।
26,13.30तत्त इन्द्रियम्परमम्पराचैरिति चतुर्थम् ।
26,13.31पराम्पराचैरिति निनर्तिः ।
26,13.32अन्तो नवममहः ।
26,13.33नीव वा अन्तम्गत्वा नृत्यति ।
26,13.34कद्र्यन्हि तत इयात् ।
26,13.35अहम्भुवम्वसुनः प्र्रुव्यस्पतिर्विश्वजिते धन जिते स्वर्जित इति द्वे ।
26,13.36अहमहमिति सप्र्भृति ।
26,13.37यथा वै सोदर्कमेवम्सप्रभृत्यन्त रूपम् ।
26,13.38जिते जित इति निनर्तिः ।
26,13.39अन्तो नवममहः ।
26,13.40नीव वा अन्तम्गत्वा नृत्यति ।
26,13.41कद्र्यन्हि तत इयात् ।
26,13.42त्रैष्टुभ जागते जागतम्जगन्मध्यंदिनो ह्येष त्र्यहः ।
26,13.43पञ्च सूक्तानि मरुत्वतीये शस्यन्ते उत्तमे छन्दोमे ।
26,13.44पशवो वै छन्दोमाः ।
26,13.45पाङ्क्ताः पशवः ।
26,13.46पशूनामेव आप्त्यै ।
26,13.47षडन्ततो निष्केवल्ये ।
26,13.48षड्वा ऋतवः संवत्सरः ।
26,13.49संवत्सरस्य एव आप्त्यै ।
26,13.50तान्येकादश सम्पद्यन्ते ।
26,13.51एकादश अक्षरा त्रिष्टुप् ।
26,13.52त्रैष्टुभाः पशवः पशूनामेव आप्त्यै ।
26,13.53अभि त्वा देव सवितरिति सावित्रम् ।
26,14.1अभि इत्यसौ लोकः ।
26,14.2तदमुष्य लोकस्य रूपम् ।
26,14.3प्र वाम्महि द्यवी अभि इति द्यावा पृथिवीयम् ।
26,14.4महि द्यव्यी अभि इति तदमुष्य लोकस्य रूपम् ।
26,14.5इन्द्र इषे ददातु न इत्येका ते नो रत्नानि धत्तन इति द्वे तत्तृचमार्भवम् ।
26,14.6एकमेकम्सुशस्तिभिरित्येकमेकमिति निनर्तिः ।
26,14.7अन्तो नवममहः ।
26,14.8नीव वा अन्तम्गत्वा नृत्यति ।
26,14.9कद्र्यन्हि तत इयात् ।
26,14.10अथ वैश्वदेवम्मनुः ।
26,14.11सर्व आयुर्वै मनुः ।
26,14.12आयुरेव तद्यज्ञे च यजमानेषु च दधाति ।
26,14.13विश्वे देवास आ गत इति वैश्वदेवम्भारद्वाजम् ।
26,14.14आ गत इति गतवत् ।
26,14.15तदन्त रूपम् ।
26,14.16अन्तो नवममहः ।
26,14.17ऐति इव वा अन्तम्गत्वा ।
26,14.18कद्र्यन्हि तत इयात् ।
26,14.19गायत्रम्गायत्र तृतीय सवनो ह्येष त्र्यहः ।
26,14.20दिवि पृष्टो अरोचत इति वैश्वानरीयम् ।
26,14.21दिवि इति तदमुष्य लोकस्य रूपम् ।
26,14.22मरुतो यस्य हि क्षय इति मारुतम् ।
26,14.23क्षय इति क्षितिवत् ।
26,14.24तदन्त रूपम् ।
26,14.25अन्तो नवममहः ।
26,14.26क्षियति इव वा अन्तम्गत्वा ।
26,14.27कद्र्यन्हि तत इयात् ।
26,14.28अग्निर्होता पुरोहित इति जात वेदसीयम् ।
26,14.29क्षयम्पावक शोचिष इति क्षयमिति क्षितिवत् ।
26,14.30तदन्त रूपम् ।
26,14.31अन्तो नवममहः ।
26,14.32क्षियति इव वा अन्तम्गत्वा ।
26,14.33कद्र्यन्हि तत इयात् ।
26,14.34गायत्रम्गायत्र तृतीय सवनो ह्येष त्र्यहः ।
26,14.35इत्याग्निमारुत सूक्तानि ।
26,14.36इत्येतस्य अह्नः सूक्तानि ।
26,14.37तदुक्थ्यम्संतिष्ठते ।
26,14.38तस्य सा आप्तिर्या तृतीयस्य अह्नः ।
26,14.39अन्वहम्द्विपदाः शस्यन्ते ।
26,14.40पशवो वै छन्दोमाः ।
26,14.41यजमानच्छन्दसम्द्विपदाः ।
26,14.42अधिष्टायामेव तत्पशूनाम्यजमानान्दधाति ।
26,14.43अधी इव वै पशून्पुरुषस्तिष्ठत्यधि इव वै पशून्पुरुषस्तिष्ठति ।
26,14.44