देवा वै मृत्युम्पाप्मानमपजिघांसमाना ब्रह्मणः सलोकताम्सायुज्यमीप्सन्त एतमभिप्लवम्षडहमपश्यन् ।
21,1.1त एतेन अभिप्लवेन अभिप्लुत्य मृत्युम्पाप्मानमपहत्य ब्रह्मणः सलोकताम्सायुज्यमापुः ।
21,1.2तथो एव एतद्यजमाना एतेन एव अभिप्लवेन अभिप्लुत्य मृत्युम्पाप्मानमपहत्य ब्रह्मणः सलोकताम्सायुज्यमाप्नुवन्ति ।
21,1.3त एतेन पूर्वेण त्र्यहेण अभिप्लुत्य गवा चतुर्थे अहन्नयतन्त गमनाय एव ।
21,1.4आयुः पञ्चममहरुपायन्त्सर्व आयुत्वाय ।
21,1.5ज्योतिः षष्ठमहः पुनः परस्तात्पर्यास्यन्मृत्योरेव पाप्मनो न अन्ववायनाय ।
21,1.6गाम्चतुर्थमहरुपयन्ति ।
21,1.7तस्य तान्येव छन्दो रूपाणि यानि चतुर्थस्य अह्नः ।
21,1.8होता अजनिष्ट चेतन इत्याज्यम्जातवत् ।
21,1.9जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,1.10मैधातिथः प्रौगः ।
21,1.11बृहद्वै साम सृज्यमानम्मैधातिथः प्रौगो अन्वसृज्यत ।
21,1.12तद्रूपेण कर्म समर्धयति ।
21,1.13एतद्वा आर्ध्निकम्कर्म यद्रूप समृद्धम् ।
21,1.14जनिष्ठा उग्रः सहसे तुराय इति मरुत्वतीयम्जातवद् ।
21,1.15जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,1.16उग्रो जज्ञे वीर्याय स्वधावानिति निष्केवल्यम्जातवत् ।
21,1.17जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,1.18तद्देवस्य सवितुर्वार्यम्महदिति सावित्रम् ।
21,2.1अजीजनत्सविता सुम्नमुक्थ्यमिति जातवत् ।
21,2.2जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,2.3ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् ।
21,2.4सुजन्मनी धिषणे अन्तरीयत इति जातवत् ।
21,2.5जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,2.6अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम्जातवत् ।
21,2.7जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,2.8अग्निरिन्द्रो वरुणो मित्रो अर्यमा इति वैश्वदेवम् ।
21,2.9यज्ञम्जनित्वी तन्वी नि मामृजुरिति जातवत् ।
21,2.10जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,2.11वैश्वानराय पृथु पाजसे विप इति वैश्वानरीयम् ।
21,2.12तस्मिन्त्सुम्नानि यजमान आ चक इत्यावत् ।
21,2.13आवद्वै चतुर्थस्य अह्नः प्रायणीय रूपम् ।
21,2.14पुनः प्रायणीयम्हि चतुर्थमहः ।
21,2.15जात आपृणो भुवनानि रोदसी इति जातवत् ।
21,2.16जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,2.17प्र ये शुम्भन्ते जनयो न सप्तय इति मारुतम्जातवत् ।
21,2.18जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,2.19जनस्य गोपा अजनिष्ट जागृविरिति जातवेदसीयम्जातवत् ।
21,2.20जातवद्वै चतुर्थस्य अह्नो रूपम् ।
21,2.21अन्नम्चतुर्थेन अह्ना आप्नुवन्ति ।
21,2.22चन्द्रमसम्देवम्देवतानाम् ।
21,2.23दिशो अधिभूतम्श्रोत्रमात्मन्दधते ।
21,2.24आयुः पञ्चममहरुपयन्ति ।
21,3.1तस्य तान्येव छन्दो रूपाणि यानि पञ्चमस्य अह्नः ।
21,3.2अग्न ओजिष्ठमा भर इत्याज्यम् ।
21,3.3प्र नो राया परीणसा इति राया इत्रयिमत् ।
21,3.4रयिमदिति वा अस्य रूपम् ।
21,3.5अध्यासवत्तत्पङ्क्ते रूपम् ।
21,3.6संहार्यः प्रौगः ।
21,3.7रथन्तरम्वै साम सृज्यमानम्संहार्यः प्रौगो अन्वसृज्यत ।
21,3.8तद्रूपेण कर्म समर्धयति ।
21,3.9एतद्वा आर्ध्नुकम्कर्म यद्रूप समृद्धम् ।
21,3.10क्व स्य वीरः को अपश्यदिन्द्रमिति मरुत्वतीयम् ।
21,3.11यो राया वज्री सुत सोममिच्छन्निति रया इति रयिमत् ।
21,3.12रयिमदिति वा अस्य रूपम् ।
21,3.13एतायामा उप गवुअंत इन्द्रमिति निष्केवल्यम् ।
21,3.14गव्यन्त इति पशुमत् ।
21,3.15पशुमदिति वा अस्य रूपम् ।
21,3.16उदु ष्य देवः सविता हिरण्यया इति सावित्रम् ।
21,3.17घृतेन पाणी अभि प्रुष्णुते मख इति घृतेन इति पशुमत् ।
21,3.18पशुमदिति वा अस्य रूपम् ।
21,3.19घृतवती भुवनानामभिश्रिया इति द्यावा पृथिवीयम्घृतवत्तस्य उक्तम्ब्राह्मणम् ।
21,3.20ततम्मे अपस्तदु तायते पुनरित्यार्भवम् ।
21,3.21स्रुचा इव घृतम्जुहवाम विद्मना इति घृतवत्तस्य उक्तम्ब्राह्मणम् ।
21,3.22कथा देवानाम्कतमस्य यामनी इति वैश्वदेवम् ।
21,3.23सहस्रसा मेधसाताविव त्मना इति सहस्रसा इति पशुमत् ।
21,3.24पशुमदिति वा अस्य रूपम् ।
21,3.25पृक्षस्य वृष्णो अरुषस्य नू सह इति वैश्वानरीयम् ।
21,3.26अपामुपस्थे महिषा अगृभ्णत इति महिषा इति पशुमत् ।
21,3.27पशुमदिति वा अस्य रूपम् ।
21,3.28प्रवः स्पडक्रन्त्सुविताय दावन इति मारुतम् ।
21,3.29गवामिव श्रियसे शृङ्गमुत्तममिति गवामिव इति पशुमत् ।
21,3.30पशुमदिति वा अस्य रूपम् ।
21,3.31चित्र इत्शिशोस्तरुणस्य वक्षथ इति जातवेदसीयम् ।
21,3.32वाजिन्तमाय सह्यसे सुपित्र्या इति वाजिन्निति पशुमत् ।
21,3.33पशुमदिति वा अस्य रूपम् ।
21,3.34अध्यासवत्तत्पङ्क्ते रूपम् ।
21,3.35पशून्पञ्चमेन अह्ना आप्नुवन्ति ।
21,3.36रुद्रम्देवम्देवतानाम् ।
21,3.37यशो अधिभूतम्वीर्यमात्मन्दधते ।
21,3.38ज्योतिः षष्ठमहरुपयन्ति ।
21,4.1तस्य तान्येव छन्दो रूपाणि यानि षष्ठस्य अह्नः ।
21,4.2सखायः सम्वः सम्यञ्चमित्याज्यम् ।
21,4.3सखाय इति सर्व रूपम् ।
21,4.4सर्व रूपम्वै षष्ठमहः ।
21,4.5तस्मात्सखाय इति सर्वानेव अभिवदति ।
21,4.6संहार्यः प्रौगः ।
21,4.7बृहद्वै साम सृज्यमानम्संहार्यः प्रौगो अन्वसृज्यत ।
21,4.8तद्रूपेण कर्म समर्धयति ।
21,4.9एतद्वा आर्ध्नुकम्कर्म यद्रूप समृद्धम् ।
21,4.10महानिन्द्रो नृवदा चर्षणिप्रा इति मरुत्वतीयम् ।
21,4.11उरुः पृथुः सुकृतः कर्तृभिर्भूदिति निनर्तिः ।
21,4.12अन्तः षष्ठमहः ।
21,4.13नीव वा अन्तम्गत्वा नृत्यति ।
21,4.14कद्र्यन्हि तत इयात् ।
21,4.15यो जात एव प्रथमो मनस्वानिति निष्केवल्यम् ।
21,4.16तस्य तदेव अन्त रूपम्यद्भूत अनुवादि यो दासम्वर्णमधरम्गुहाकरि इति ।
21,4.17यदेतद्भूतमिव अभि ।
21,4.18सोदर्कम्भवति तद्द्वितीयमन्त रूपम् ।
21,4.19तद्देवस्य सवितुर्वार्यम्महदिति सावित्रम् ।
21,5.1दिवो धर्ता भुवनस्य प्रजापतिरिति ।
21,5.2दिव इति तदमुष्य लोकस्य रूपम् ।
21,5.3घृतेन द्यावा पृथिवी अभिवृते इति द्यावा पृथिवीयम्घृतवत् ।
21,5.4सर्व देवत्यम्वै घृतम् ।
21,5.5सर्व देवत्यम्षष्ठमहः ।
21,5.6तस्माद्घृतवत् ।
21,5.7किमु श्रेष्ठः किम्यविष्ठो न आजगन्नित्यार्भवम् ।
21,5.8श्रेष्ठो यविष्ठ इति निनर्तिः ।
21,5.9अन्तः षष्ठमहः ।
21,5.10नीव वा अन्तम्गत्वा नृत्यति ।
21,5.11कद्र्यन्हि तत इयात् ।
21,5.12अबुध्रमु त्य इन्द्रवन्तो अग्नय इति वैश्वदेवम् ।
21,5.13तस्य तदेव अन्त रूपम्यत्सोदर्कम् ।
21,5.14वैश्वानराय धिषणामृता वृध इति वैश्वानरीयम् ।
21,5.15घृतम्न पूतमग्नये जनामसि इति घृतवत्तस्य उक्तम्ब्राह्मणम् ।
21,5.16धारावरा मरुतो धृष्ण्वोजस इति मारुतम् ।
21,5.17धारावरा इति निनर्तिः ।
21,5.18अन्तः षष्ठमहः ।
21,5.19नीव वा अन्तम्गत्वा नृत्यति ।
21,5.20कर्द्यन्हि तत इयात् ।
21,5.21त्वमग्ने द्युभिस्त्वमाशुशुक्षणिरिति जातवेदसीयम् ।
21,5.22त्वम्त्वमिति सप्रभृति ।
21,5.23यथा वै सोदर्कमेवम्सप्रहृत्यन्त रूपम् ।
21,5.24अपः षष्ठेन अह्ना आप्नुवन्ति ।
21,5.25प्रजापतिम्देवम्देवतानाम् ।
21,5.26तेजो अधिभूतममृतमात्मन्दधते ।
21,5.27तदाहुः कस्माद्वैश्वदेवान्येव अन्वायात्यन्ते न एक देवत्याइ न द्वि देवत्यानि इति ।
21,6.1न एक देवत्येन यात यामम्भवति ।
21,6.2न द्वि देवत्येन ।
21,6.3वैश्व देवेन एव यात यामम्भवति ।
21,6.4तस्माद्वैश्वदेवान्येव अन्वायात्यन्ते ।
21,6.5एतेषामेव अह्नाम्सबलतायै ।
21,6.6एतेषामभिप्लवानामसम वीर्यताया इति ।
21,6.7ज्योतिः प्रथममहरुपयन्ति ।
21,6.8तस्य एव एक अहस्य रूपेण ।
21,6.9अयम्ह्येकाह उत्तरेषामह्नाम्ज्योतिः ।
21,6.10गाम्द्वितीयम् ।
21,6.11गच्छन्ति ह्यनेन ।
21,6.12आयुस्तृतीयम् ।
21,6.13यन्ति ह्यनेन ।
21,6.14अग्निष्टोमौ प्रथम उत्तमे अहनी ।
21,6.15चत्वार्युक्थ्यानि मध्ये ।
21,6.16ब्रह्म वा अग्निष्टोमः ।
21,6.17पशव उक्थ्यानि ।
21,6.18ब्रह्मणा एव तत्पशूनुभयतः परिगृह्य आत्मन्दधते ।
21,6.19तेषाम्वा एतेषाम्चतुर्णामुक्थ्यानाम्सहस्रम्स्तोत्रियाः ।
21,6.20साहस्राः पशवः ।
21,6.21प्र साहस्रम्पोषमाप्नोति य एवम्वेद ।
21,6.22पृष्ठ्या अन्तान्वा इतश्चतुरश्चतुरो अभिप्लवानुपयन्ति ।
21,6.23पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि ।
21,6.24पशुभिरेव तत्श्रियमुभयतः परिगृह्य आत्मन्दधते ।
21,6.25पृष्ठ्या आरम्भणान्वा ऊर्ध्वम्विषुवतश्चतुरश्चतुरो अभिप्लवानुपयन्ति ।
21,6.26पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि ।
21,6.27श्रिया एव तत्पशूनुभयतः परिगृह्य आत्मन्दधते ।
21,6.28क्लृप्तो वा अभिप्लवः क्लृप्तच्छन्दाः ।
21,6.29यो वै यज्ञ क्रतुः क्लृप्तच्छन्दा भवति ।
21,6.30सर्व जागतानि ह वै तस्य निविद्धानानि भवन्ति तृतीय सवने ।
21,7.1तथा यथा यथम्निविदो धीयन्ते ।
21,7.2ता एनान्यथा यथम्धीयमानाः सर्वेषु च लोकेषु सर्वेषु च कामेषु यथा यथम्दधति ।
21,7.3तद्यत्सर्व जागतानि तस्य निविद्धानानि भवन्ति तृतीय सवने ।
21,7.4तेनो यः सर्व जागते तृतीय सवने कामः स उपाप्तः ।
21,7.5यद्वेव एतास्तन्त्र्यास्त्रिष्टुभ उक्थ प्रतिपदो अहरहः शस्यन्ते ।
21,7.6तेनो यः सर्व त्रैष्टुभे तृतीय सवने कामः स उपाप्तः ।
21,7.7यद्वेव एषा तन्त्र्या गायत्र्यहरहः सुरूप कृत्नुः शस्यते ।
21,7.8तेनो यः सर्व गायत्रे तृतीय सवने कामः स उपाप्तः ।
21,7.9यद्वेव एष षडहः पुनः पुनः अभिप्लवते ।
21,7.10तस्मादभिप्लवो नाम ।
21,7.11अभिप्लवन्ते ह्यनेन स्वर्गाय लोकाय यजमानाः स्वर्गाय लोकाय यजमानाः ।
21,7.12