प्रजापतिः प्रजाति कामस्तपो अतप्यत ।
6,1.1तस्मात्तप्तात्पञ्च अजायन्त ।
6,1.2अघिर्वायुरादित्यश्चन्द्रमा उषाः पञ्चमी ।
6,1.3तानब्रवीद्यूयमपि तप्यध्वमिति ।
6,1.4ते अदीक्षन्त ।
6,1.5तान्दीक्षितांस्तेपानानुषाः प्राजापत्य अप्सरो रुपम्कृत्वा पुरस्तात्प्रत्युदैत् ।
6,1.6तस्यामेषाम्मनः समपतत् ।
6,1.7ते रेतो असिञ्चन्त ।
6,1.8ते प्रजापतिम्पितरमित्यब्रुवन् ।
6,1.9रेतो वा असिचामहै तन्नो मामुया भूदिति ।
6,1.10स प्रजापतिर्हिरण्मयम्चमसमकरोदिषु मात्रमूर्ध्वमेवम्तिर्यञ्चम् ।
6,1.11तस्मिन्नेनत्समसिञ्चत् ।
6,1.12तत उदतिष्ठत्सहस्र अक्षः सहस्र पात् ।
6,1.13सहस्रेण प्रतिहिताभिः ।
6,1.14स प्रजापतिम्पितरमभ्यायच्छत् ।
6,1.15तमब्रवीत्कथा मा अभ्यायच्छसि इति ।
6,1.16नाम मे कुर्वित्यब्रवीत् ।
6,1.17न वा इदमविहितेन नाम्ना अन्नमत्स्यामि इति ।
6,1.18स वै त्वमित्यब्रवीद्भव एव इति ।
6,2.1यद्भव आपस्तेन ।
6,2.2न ह वा एनम्भवो हिनस्ति ।
6,2.3न अस्य प्रजाम्न अस्य पशून्न अस्य ब्रुवाणम्चन ।
6,2.4अथ य एनम्द्वेष्टि ।
6,2.5स एव पापीयान्भवति ।
6,2.6न स य एवम्वेद ।
6,2.7तस्य व्रतमार्द्रमेव वासः परिदधीत आपो वै न परिचक्षीत इति ।
6,2.8तम्द्वितीयमभ्यायच्छत् ।
6,2.9तमब्रवीत्कथा मा अभ्यायच्छसि इति ।
6,2.10द्वितीयम्मे नाम कुर्वित्यब्रवीत् ।
6,2.11न वा इदमेकेन नाम्ना अन्नमत्स्यामि इति ।
6,2.12स वै त्वमित्यब्रवीत्शर्व एव इति ।
6,2.13यत्शर्वो अग्निस्तेन ।
6,2.14न ह वा एनम्शर्वो हिनस्ति ।
6,2.15न अस्य प्रजाम्न अस्य पशून्न अस्य ब्रुवाणम्चन ।
6,2.16अथ य एनम्द्वेष्टि ।
6,2.17स एव पापीयान्भवति ।
6,2.18न स य एवम्वेद ।
6,2.19तस्य व्रतम्सर्वमेव न अश्नीयादिति ।
6,2.20तम्तृतीयमभ्यायच्छत् ।
6,2.21तमब्रवीत्कथा मा अभ्यायच्छसि इति ।
6,2.22तृतीयम्मे नाम कुर्वित्यब्रवीत् ।
6,2.23न वा इदम्द्वाभ्याम्नामभ्यामन्नमत्स्यामि इति ।
6,2.24स वै त्वमित्यब्रवीत्पशु पतिरेव इति ।
6,2.25यत्पशु पतिर्वायुस्तेन ।
6,2.26न ह वा एनम्पशु पतिर्हिनस्ति ।
6,2.27न अस्य प्रजाम्न अस्य पशून्न अस्य ब्रुवाणम्चन ।
6,2.28अथ य एनम्द्वेष्टि ।
6,2.29स एव पापीयान्भवति ।
6,2.30नस य एवम्वेद ।
6,2.31तस्य व्रतम्ब्राह्मणमेव न परिवदेदिति ।
6,2.32तम्चतुर्थमभ्यायच्छत् ।
6,2.33तमब्रवीत्कथा मा अभ्यायच्छसि इति ।
6,2.34चतुर्थम्मे नाम कुर्वित्यब्रवीत् ।
6,2.35न वा इदम्त्रिभिर्नामभिरन्नमत्स्यामि इति ।
6,2.36स वै त्वमित्यब्रवीदुग्र एव देव इति ।
6,2.37यदुग्रो देव ओषधयो वनस्पतयस्तेन ।
6,2.38न ह वा एनमुग्रो देवो हिनस्ति ।
6,2.39न अस्य प्रजाम्न अस्य पशून्न अस्य ब्रुवाणम्चन ।
6,2.40अथ य एनम्द्वेष्टि ।
6,2.41स एव पापीयान्भवति ।
6,2.42न स य एवम्वेद ।
6,2.43तस्य व्रतम्स्त्रिया एव विवरम्न ईक्षेत इति ।
6,2.44तम्पञ्चममभ्यायच्छत् ।
6,3.1तमब्रवीत्कथा मा अभ्यायच्छसि इति ।
6,3.2पञ्चमम्मे नाम कुर्वित्यब्रवीत् ।
6,3.3न वा इदम्चतुर्भिर्नामभिरन्नमत्स्यामि इति ।
6,3.4स वै त्वमित्यब्रवीन्महानेव देव इति ।
6,3.5यन्महान्देव आदित्यस्तेन ।
6,3.6न ह वा एनम्महान्देवो हिनस्ति ।
6,3.7न अस्य प्रजाम्न अस्य पशून्न अस्य ब्रुवाणम्चन ।
6,3.8अथ य एनम्द्वेष्टि ।
6,3.9स एव पापीयान्भवति ।
6,3.10न स य एवम्वेद ।
6,3.11तस्य व्रतमुद्यन्तमेव एनम्न ईक्षेत अस्तम्यन्तम्च इति ।
6,3.12तम्षष्ठमभ्यायच्छत् ।
6,3.13तमब्रवीत्कथा मा अभ्यायच्छसि इति ।
6,3.14षष्ठम्मे नाम कुर्वित्यब्रवीत् ।
6,3.15न वा इदम्पञ्चभिर्नामभिरन्नमत्स्यामि इति ।
6,3.16स वै त्वमित्यब्रवीद्रुद्र एव इति ।
6,3.17यद्रुद्रश्चन्द्रमास्तेन ।
6,3.18न ह वा एनम्रुद्रो हिनस्ति ।
6,3.19न अस्य प्रजाम्न अस्य पशून्न अस्य ब्रुवाणम्चन ।
6,3.20अथ य एनम्द्वेष्टि ।
6,3.21स एव पापीयान्भवति ।
6,3.22न स य एवम्वेद ।
6,3.23तस्य व्रतम्विमूर्तमेव न अश्नीयान्मज्जानम्च इति ।
6,3.24तम्सप्तममभ्यायच्छत् ।
6,3.25तमब्रवीत्कथा मा अभ्यायच्छसि इति ।
6,3.26सप्तमम्मे नाम कुर्वित्यब्रवीत् ।
6,3.27न वा इदम्षड्भिर्नामभिरन्नमत्स्यामि इति ।
6,3.28स वै त्वमित्यब्रवीदीशान एव इति ।
6,3.29यदीशानो अन्नम्तेन ।
6,3.30न ह वा एनमीशानो हिनस्ति ।
6,3.31न अस्य प्रजाम्न अस्य पशून्न अस्य ब्रुवाणम्चन ।
6,3.32अथ य एनम्द्वेष्टि ।
6,3.33स एव पापीयान्भवति ।
6,3.34न स य एवम्वेद ।
6,3.35तस्य व्रतमन्नमेव इच्छमानम्न प्रत्याचक्षीत इति ।
6,3.36तमष्टममभ्यायच्छति ।
6,3.37तमब्रवीत्कथा मा अभ्यायच्छसि इति ।
6,3.38अष्टमम्मे नाम कुर्वित्यब्रवीत् ।
6,3.39न वा इदम्सप्ताभिर्नामभिरन्नमत्स्यामि इति ।
6,3.40स वै त्वमित्यब्रवीदशनिरेव इति ।
6,3.41यदशनिरिन्द्रस्तेन ।
6,3.42न ह वा एनमशनिर्हिनस्ति ।
6,3.43न अस्य प्रजाम्न अस्य पशून्न अस्य ब्रुवाणम्चन ।
6,3.44अथ य एनम्द्वेष्टि ।
6,3.45स एव पापीयान्भवति ।
6,3.46न स य एवम्वेद ।
6,3.47तस्य व्रतम्सत्यमेव वदेद्द्हिरण्यम्च बिभृयादिति ।
6,3.48स एषो अष्ट नामा ।
6,3.49अष्टधा विहितो महान्देवः ।
6,3.50आ ह वा अस्य अष्टमात्पुरुषात्प्रजा अन्नमत्ति ।
6,3.51वसीयान्वसीयान्ह एव अस्य प्रजायामाजायते य एवम्वेद ।
6,3.52प्रजापतिस्तपो अतप्यत ।
6,4.1स तपस्तप्त्वा प्राणादेव इमंल्लोकम्प्रावृहति ।
6,4.2अपानादन्तरिक्ष लोकम् ।
6,4.3व्यानादमुंल्लोकम् ।
6,4.4स एतांस्त्रींल्लोकानभ्यतप्यत ।
6,4.5सो अग्निमेव अस्माल्लोकादसृजत ।
6,4.6वायुमन्तरिक्ष लोकादादित्यम्दिवः ।
6,4.7स एतानि त्रीणि ज्योतींष्यभ्यतप्यत ।
6,4.8सो अग्नेरेव ऋचो असृजत ।
6,4.9वायुर्यजूंष्यादित्यात्सामानि ।
6,4.10स एताम्त्रयीम्विद्यामभ्यतप्यत ।
6,4.11स यज्ञमतनुत ।
6,4.12स ऋचा एव अशंसत् ।
6,4.13यजुषा प्राचरत्साम्ना उदगायत् ।
6,4.14अथ एतस्या एव त्रय्यै विद्यायै तेजो रसम्प्रावृहत् ।
6,4.15एतेषामेव वेदानाम्भिषज्यायै ।
6,4.16स भूरित्यृचाम्प्रावृहत् ।
6,4.17भुव इति यजुषाम्स्वरिति साम्नाम् ।
6,4.18तेन दक्षिणतो ब्रह्मा आसीत् ।
6,4.19तस्य दक्षिणतो वर्षीयानुदीचीन प्रवणो यज्ञः संतस्थे ।
6,4.20तस्य ह वै दक्षिणतो वर्षीयानुदीचीन प्रवणो यज्ञः संतिष्ठते ।
6,4.21यस्य एवम्विद्वान्ब्रह्मा भवति ।
6,5.1तदाहुर्यदृचा होता होता भवति यजुषा अध्वर्युरध्वर्युः साम्ना उद्गाता उद्गाता केन ब्रह्मा ब्रह्मा भवति इति ।
6,5.2यमेव अमुम्त्रय्यै विद्यायै तेजो रसम्प्रावृहति ।
6,5.3तेन ब्रह्मा ब्रह्मा भवति ।
6,5.4तदाहुः किंविदम्किम्छन्दसम्ब्राह्मणम्वृणीत इति ।
6,5.5अध्वर्युमित्येके ।
6,5.6स परिक्रमाणाम्क्षेत्रज्ञो भवति इति ।
6,5.7छन्दोगमित्येके ।
6,5.8तथा ह अस्य त्रिभिर्वेदैर्हविर्यज्ञाः संस्क्रियन्त इति ।
6,5.9बह्वृचमिति त्वेव स्थितम् ।
6,5.10एतत्परिसरणावितरौ वेदौ ।
6,5.11अत्र भूयिष्ठा होत्रा आयत्ता भवन्ति इति ।
6,5.12ऋग्भिर्ग्रहा गृह्यन्ते ।
6,5.13ऋक्षु सामानि गीयन्ते ।
6,5.14तस्माद्बह्वृच एव स्यात् ।
6,5.15तदाहुः कियद्ब्रह्मा यज्ञस्य संस्करोति कियदन्य ऋत्विज इति ।
6,5.16अर्धमिति ब्रूयात् ।
6,5.17द्वे वै यज्ञस्य वर्तनी ।
6,5.18वाचा अन्या संस्क्रियते ।
6,5.19मनसा अन्या ।
6,5.20सा या वाचा संस्क्रियते ।
6,5.21तामन्य ऋत्विजः संस्कुर्वन्ति ।
6,5.22अथ या मनसा ताम्ब्रह्मा ।
6,5.23तस्माद्यावदृचा यजुषा साम्ना कुर्युः ।
6,5.24तूष्णीम्तावद्ब्रह्मा आसीत ।
6,5.25अर्धम्हि तद्यज्ञस्य संस्करोति ।
6,5.26अथ यत्र एनम्ब्रूयुः ।
6,5.27ब्रह्मन्प्रचरिष्यामो ब्रह्मन्प्रणेष्यामो ब्रह्मन्प्रस्थास्यामो ब्रह्मन्त्स्तोष्याम इति वा ।
6,5.28ओमित्येतावता प्रसुयात् ।
6,5.29एतद्द्ह वा एकमक्षरम्त्रयीम्विद्याम्प्रति प्रति ।
6,5.30तथा ह अस्य त्रय्या विद्यया प्रसूतम्भवति ।
6,6.1ब्रह्मणि वै यज्ञः प्रतिष्ठितः ।
6,6.2यद्वै यज्ञस्य स्खलितम्वा उल्बणम्वा भवति ।
6,6.3ब्रह्मण एव तत्प्राहुः ।
6,6.4तत्स त्रय्या विद्यया भिषज्यति ।
6,6.5अथ यद्यृच्युल्बणम्स्यात् ।
6,6.6चतुर्गृहीतमाज्यम्गृहीत्वा गार्हपत्ये प्रायश्चित्त आहुतिम्जुहुयाद्भूः स्वाहा इति ।
6,6.7तदृचमृचि दधाति ।
6,6.8ऋच ऋचे प्रायश्चित्तम्करोति ।
6,6.9अथ यदि यजुष्युल्बणम्स्यात् ।
6,6.10चतुर्गृहीतमाज्यम्गृहीत्वा अन्वाहार्य पचने प्रायश्चित्त आहुतिम्जुहुयाद्द्हविर्यज्ञ आग्नीध्रिये सौम्ये अध्वरे भुवः स्वाहा इति ।
6,6.11तद्यजुर्यजुषि दधाति ।
6,6.12यजुषा यजुषे प्रायश्चित्तिम्म्करोति ।
6,6.13अथ यदि साम्न्युल्बणम्स्यात् ।
6,6.14चतुर्गृहीतमाज्यम्गृहीत्वा आहवनीये प्रायश्चित्त आहुतिम्जुहुयात्स्वः स्वाहा इति ।
6,6.15तत्साम सामन्दधाति ।
6,6.16साम्ना साम्ने प्रायश्चित्तिम्करोति ।
6,6.17अथ यद्यविज्ञातमुल्बणम्स्यात् ।
6,6.18चतुर्गृहीतमाज्यम्गृहीत्वा आहवनीय एव प्राय्श्चित्त आहुतिम्जुहुयाद्भूर्भुवः स्वः स्वाहा इति ।
6,6.19एष ह वै यज्ञस्य व्यृद्धिम्समर्धयति य एताभिर्व्याहृतिभिः प्रायश्चित्तिम्करोति ।
6,7.1न ह वा उपसृतो ब्रूयान्न अहमेतद्वेद इत्येता व्याहृतीर्विद्वान् ।
6,7.2सर्वम्ह वा उ स वेद य एता व्याहृतीर्वेद ।
6,7.3तद्यथा ह वै दारुणः श्लेष्म संश्लेषणम्स्यात्परिचर्मण्यम्वा ।
6,7.4एवमेव एता व्याहृतयः सर्वस्यै त्रय्यै विद्यायै संश्लेषिण्यः ।
6,7.5अथ यद्ब्रह्म सदनात्तृणम्निरस्यति ।
6,7.6शोधयत्येव एनत्तत् ।
6,7.7अथ उपविशति इदमहमर्वावसोः सदसि सीदामि इति ।
6,7.8अर्वावसुर्ह वै देवानाम्ब्रह्मा ।
6,7.9तमेव एतत्पूर्वम्सादयत्यरिष्टम्यज्ञम्तनुतादिति ।
6,7.10अथ उपविश्य जपति बृहस्पतिर्ब्रह्मा इति ।
6,7.11बृहस्पतिर्ह वै देवानाम्ब्रह्मा ।
6,7.12तस्मिन्नेव एतदनुज्ञामिच्छते ।
6,8.1प्रणीतासु प्रणीयमानासु वाचम्यच्छत्या हविष्कृत उद्वादनात् ।
6,8.2एतद्वै यज्ञस्य द्वारम् ।
6,8.3तदेव एतदशून्यम्करोति ।
6,8.4इष्टे च स्विष्टकृत्या अनुयाजानाम्प्रसवात् ।
6,8.5एतद्द्ह वै यज्ञस्य द्वितीयम्द्वारम् ।
6,8.6तदेव एतदशून्यम्करोति ।
6,8.7अथ यत्र ह तद्देवा यज्ञमतन्वत ।
6,8.8तत्सवित्रे प्राशित्रम्परिजह्रुः ।
6,8.9तस्य पाणी प्रचिच्छेद ।
6,8.10तस्मै हिरण्मयौ प्रतिदधुः ।
6,8.11तस्माद्द्हिरण्य पाणिरिति स्तुतः ।
6,8.12तद्भगाय परिजह्रुः ।
6,8.13तस्य अक्षिणी निर्जघान ।
6,8.14तस्मादाहुरन्धो भग इति ।
6,8.15तत्पूष्णे परिजह्रुः ।
6,8.16तस्य दन्तान्परोवाप ।
6,8.17तस्मादाहुरदन्तकः पूषा करम्भ भाग इति ।
6,8.18ते देवा ऊचुः ।
6,8.19इन्द्रो वै देवानामोजिष्ठो बलिष्ठस्तस्मा एनत्परिहरत इति ।
6,9.1तत्तस्मै परिजह्रुः ।
6,9.2तत्स ब्रह्मणा शमयाम्चकार ।
6,9.3तस्मादाह इन्द्रो ब्रह्मा इति ।
6,9.4तत्प्रतीक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति ।
6,9.5मित्रस्य एव एन्तत्तच्चक्षुषा शमयति ।
6,9.6अथ एन्तत्प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम्प्रतिगृह्णामि इति ।
6,9.7एताभिरेव एनत्तद्देवताभिः शमयति ।
6,9.8तद्व्यूह्य तृणानि प्राग्दण्डम्स्थण्डिले सादयति पृथिव्यास्त्वानाभौ सादयाम्यादित्या उपस्थ इति ।
6,9.9पृथिवी वा अन्नानाम्शमयित्री ।
6,9.10शमयत्येव एनत्तत् ।
6,9.11तत आदाय प्राश्नात्यग्नेष्ट्वास्येन प्राश्नामि इति ।
6,9.12अग्निर्वा अन्नानाम्शमयिता ।
6,9.13शमयत्येव एनत्तत् ।
6,9.14अथ अपो अन्वाचामति शान्तिरसि इति ।
6,9.15शान्तिर्वै भ्षजमापः ।
6,9.16शान्तिरेव एषा भेषजम्यज्ञे क्रियते ।
6,9.17अथ प्राणान्त्सम्मृशते ।
6,9.1तद्यदेव अत्र प्राणानाम्क्रूरी कृतम्यद्विलिष्टम्तदेव एतदाप्याययति तद्भिषज्यति ।
6,9.2इन्द्रस्य त्वा जठरे सादयामि इति नाभिमन्ततो अभिमृशते ।
6,9.3इन्द्रो ह्येव एनत्शमयाम्चकार ।
6,9.4अथ यत्सावित्रेण जपेन प्रसौति ।
6,9.5सविता वै प्रसविता कर्मण एव प्रसवाय ।
6,9.6प्रजापतिर्ह यज्ञम्ससृजे ।
6,9.7सो अग्न्याधेयेन एव रेतो असृजत ।
6,9.8देवान्मनुष्यानसुरानित्यग्निहोत्रेण ।
6,9.9दर्श पूर्ण मासाभ्यामिन्द्रमसृजत ।
6,9.10तेभ्य एतदन्न पानम्ससृजे ।
6,9.11एतान्हविर्यज्ञान्त्सौम्यमध्वरमिति ।
6,9.12अथो यम्यम्काममैच्छंस्तम्तमेतैरयनैरापुः ।
6,9.13अन्न अद्यमाग्रयणेन ।
6,9.14तदाहुः कस्मादयनानि इति ।
6,9.15गमनान्येव भवन्ति कामस्य कामस्य स्वर्गस्य च लोकस्य ।
6,9.16चातुर्मास्यैराप्नुवन्त्स्वर्गांल्लोकान्त्सर्वान्कामान्त्सर्वा अष्टीः सर्वममृतत्वम् ।
6,10.1स एष प्रजापतिः संवत्सरश्चतुर्विंशो यच्चातुर्मास्यानि ।
6,10.2तस्य मुखमेव वैश्वदेवम् ।
6,10.3दर्श पूर्ण मासौ पर्वाणि ।
6,10.4अहो रात्राण्यस्थि मज्जानानि ।
6,10.5बाहू वरुण प्रघासाः ।
6,10.6प्राणो अपानो व्यान इत्येतास्तिस्र इष्टयः ।
6,10.7आत्मा महा हविः ।
6,10.8या इमा अन्तर्देवतास्तदन्या इष्टीः ।
6,10.11सर्वम्वै प्रजापतिः संवत्सरश्चतुर्विंशः ।
6,10.12सर्वम्चातुर्मास्यानि ।
6,10.13तत्सर्वेण सर्वमाप्नोति य एवम्वेद य एवम्वेद ।
6,10.14