देव चक्रम्वा एतत्परिप्लवम्यत्संवत्सरः ।
20,1.1तदमृतम् ।
20,1.2तस्मिन्नेतत्षट्तयमन्न अद्यम् ।
20,1.3ग्राम्याश्च पशव आरण्याश्च ओषधयश्च वनस्पतयश्च अप्सु चरम्च परिप्लवम्च ।
20,1.4तद्देवाः समारुह्य सर्वांल्लोकाननु परिप्लवन्ते ।
20,1.5देव लोकम्पितृ लोकम्जीव लोकम् ।
20,1.6इममुप उदकमग्नि लोकम् ।
20,1.7ऋत धामानम्वायु लोकम् ।
20,1.8अपराजितमिन्द्र लोकम् ।
20,1.9अधिदिवम्वरुण लोकम् ।
20,1.10प्रतिदिवम्मृत्यु लोकम् ।
20,1.11रोचनम्ब्रह्मणो लोकम् ।
20,1.12नाकम्सत्तमंल्लोकानाम् ।
20,1.13तद्यदभिप्लवमुपयन्ति ।
20,1.14संवत्सरमेव त यजमानाः समारोहन्ति ।
20,1.15तस्मिन्नेतत्षट्तयमन्न अद्यमाप्नुवन्ति ग्राम्यांश्च पशूनारण्यांश्च ओषधीश्च वनस्पतींश्च अप्सु चरम्च परिप्लवम्च ।
20,1.16द्विर्ज्योतिउ उपयन्ति ।
20,1.17तेन द्वयमन्न अद्यमाप्नुवन्ति ग्राम्यांश्च पशूनारण्यांश्च ।
20,1.18द्विर्गामुपयन्ति ।
20,1.19तेन द्वयमन्न अद्यमाप्नुवन्त्योषधीश्च वनस्पतींश्च ।
20,1.20द्विरायुरुपयन्ति ।
20,1.21तेन द्वयमन्न अद्यमाप्नुवन्त्यप्सु चरम्च परिप्लवम्च ।
20,1.22ज्योतिः प्रथममहरु उपयन्ति ।
20,2.1तस्य तान्येव छन्दो रूपाणि यानि प्रथमस्य अह्नः ।
20,2.2प्र वो देवाय अग्नय इत्याज्यम्प्रवत् ।
20,2.3प्रवद्वै प्रथमस्य अह्नो रूपम् ।
20,2.4माधुच्छन्दसः प्रौगः ।
20,2.5रथन्तरम्वै साम सृज्यमानम्माधुच्छन्दस प्रौगो अन्वसृज्यत ।
20,2.6तद्रूपेण कर्म समर्धयति ।
20,2.6एतद्वा आर्ध्नुकम्कर्म यद्रूप समृद्धम् ।
20,2.8इन्द्रो रथाय प्रवतम्कृणोति इति मरुत्वतीयम्प्रवत् ।
20,2.9प्रवद्वै प्रथमस्य अह्नो रूपम् ।
20,2.10आ याह्यर्वानुपवन्धुरा इष्टा इति निष्केवल्यमावत् ।
20,2.11आवद्वै प्रथमस्य अह्नो रूपम् ।
20,2.12युञ्जते मन उत युञ्जते धिय इति सावित्रम्युक्तवत् ।
20,2.13युक्तवद्वै प्रथमस्य अह्नो रूपम् ।
20,2.14प्र द्यावा यज्ञैः पृथिवी ऋतावृधा इति द्यावा पृथिवीयम्प्रवत् ।
20,2.15उशिजो जग्मुरभि तानि वेदसा इत्यभिवत् ।
20,2.18तद्राथन्तरम्रूपम् ।
20,2.19कथा देवानाम्कतमस्य यामनी इति वैश्वदेवम् ।
20,2.20कतम ऊती अभ्या ववर्तति इत्यभिवत् ।
20,2.21तद्राथन्तरम्रूपम् ।
20,2.22वैश्वानराय पृथु पाजसे विप इति वैश्वानरीयम् ।
20,2.23तस्मिन्त्सुम्नानि यजमान आ चक इत्यावत् ।
20,2.24आवद्वै प्रथमस्य अह्नो रूपम् ।
20,2.25प्रत्यक्षसः प्रतवसो विरप्शिन इति मारुतम्प्रवत् ।
20,2.26प्रवद्वै प्रथमस्य अह्नो रूपम् ।
20,2.27एहि प्र होता व्रतमस्य मायया इति जातवेदसीयम्प्रवत् ।
20,2.28प्रवद्वै प्रथमस्य अह्नो रूपम् ।
20,2.29इमंल्लोकम्प्रथमेन अह्ना आप्नुवन्ति ।
20,2.30अग्निम्देवम्देवतानाम् ।
20,2.31नाम अधिभूतम्वाचमात्मन्दधते ।
20,2.32गाम्द्वितीयमहरुपयन्ति ।
20,3.1तस्य तान्येव छन्दो रूपाणि यानि द्वितीयस्य अह्नः ।
20,3.2त्वम्हि क्षैतवद्यश इत्याज्यम् ।
20,3.3त्वम्विचक्षणे श्रव इति विवत् ।
20,3.4तदस्य अन्तरिक्षस्य रूपम् ।
20,3.5विवृतमिव हि इदमन्तरिक्षम् ।
20,3.6गार्त्समदः प्रुगः ।
20,3.7बृहद्वै साम सृज्यमानम्गार्त्समदः प्रौगो अन्वसृज्यत ।
20,3.8तद्रूपेण कर्म समर्धयति ।
20,3.9एतद्वा आर्ध्नुकम्कर्म यद्रूप समृद्धम् ।
20,3.10विश्वानरस्य वस्पतिमिति मरुत्वतीयस्य प्रतिपद्विवती तस्या उक्तम्ब्राह्मणम् ।
20,3.11इन्द्र इत्सोमपा एक इत्यनुचरः ।
20,3.12इन्द्रः सुतपा विश्व आयुरिति विवांस्तस्य उक्तम्ब्राह्मणम् ।
20,3.13उत्तिष्ठ ब्रह्मणस्पत इत्युद्वान्ब्राह्मणस्पत्यः ।
20,3.14उत्तिष्ठ इत्युद्वत् ।
20,3.15उद्वद्वै द्वितीयमहः ।
20,3.16इमा उ त्वा पुरुतमस्य कारोरिति उद्वत्तस्य उक्तम्ब्राह्मणम् ।
20,3.17सुत इत्त्वम्निमिश्ल इन्द्र सोम इति निष्केवल्यम् ।
20,3.18स्तोमे ब्रह्मणि शस्यमान उक्थ इत्युद्वत्तस्य उक्तम्ब्राह्मणम् ।
20,3.19विश्वो देवस्य नेतुरिति वैश्वदेवस्य प्रतिपद्विवती तस्या उक्तम्ब्राह्मणम् ।
20,3.20आ विश्वदेवम्सत्पतिमित्यनुचरो विवांस्तस्य उक्तम्ब्राह्मणम् ।
20,3.21द्वे वैश्वदेवानाम्प्रतिपदौ ।
20,3.22द्वावनुचरौ ।
20,3.23द्वे अहोरात्रे ।
20,3.24षडृतुः संवत्सरः षड्विधः ।
20,3.25अनु द्वे द्यावा पृथिवी द्वे इमे प्रतिष्ठे ।
20,3.26षडङ्गो अयमात्मा षड्विधः ।
20,3.27अनु द्वाविमौ प्राण अपानौ ।
20,3.28षडिमे प्राणाः ।
20,3.29अनु तन्न संवत्सर सम्पदो यन्ति ।
20,3.30न आत्म संस्कृतेर्न प्राण संस्कृतेः ।
20,3.31अभूद्देवः सविता वन्द्यो नु न इति सावित्रमुद्वत्तस्य उक्तम्ब्राह्मणम् ।
20,4.1ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम्विवत्तस्य उक्तम्ब्राह्मणम् ।
20,4.2ततम्मे अपस्तदु तायते पुनरित्यार्भवमुद्वत्तस्य उक्तम्ब्राह्मणम् ।
20,4.3देवान्हुवे बृहत्श्रवसः स्वस्तय इति वैश्वदेवमुद्वत्तस्य उक्तम्ब्राह्मणम् ।
20,4.4पृक्षस्य वृष्णो अरुषस्य नू सह इति वैश्वानरीयम्वृषण्वत् ।
20,4.5वृषा वा इन्द्रः ।
20,4.6वृषा त्रिष्टुप् ।
20,4.7तस्माद्वृषण्वत् ।
20,4.8वृष्णे शर्धाय सुमखाय वेधस इति मारुतम्वृषण्वत्तस्य उक्तम्ब्राह्मणम् ।
20,4.9यज्ञेन वर्धत जातवेदसमिति जातवेदसीयम् ।
20,4.10समिधानम्सुप्रयसम्स्वर्णरमित्युद्वत्तस्य उक्तम्ब्राह्मणम् ।
20,4.11अन्तरिक्ष लोकम्द्वितीयेन आह्ना आप्नुवन्ति ।
20,4.12वायुम्देवम्देवतानाम् ।
20,4.13आयुरधिभूतम्प्राणमात्मन्दधते ।
20,4.14आयुस्तृतीयमहरुपयन्ति ।
20,5.1तस्य तान्येव छन्दो रूपाणि यानि तृतीयस्य अह्नः ।
20,5.2त्वमग्ने वसूंरिह इत्याज्यम् ।
20,5.3स्वयम्सम्भृतम्वा एतच्छन्दो यदह्नो रूपेण सम्पद्यते ।
20,5.4तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह इति ।
20,5.5तत्तृतीयस्य अह्नो रूपम् ।
20,5.6औष्णिहो वैश्वमनस प्रौगः ।
20,5.7रथन्तरम्वै साम सृज्यमानमौष्णिहो वैश्वमनसः प्रौगो अन्वसृज्यत ।
20,5.8तद्रूपेण कर्म समर्धयति ।
20,5.9एतद्वा आर्ध्नुकम्कर्म यद्रूप समृद्धम् ।
20,5.10तंतमिद्राधसे मह इति मरुत्वतीयस्य प्रतिपत् ।
20,5.11तंतमिति निनर्तिः ।
20,5.12अन्तस्तृतीयमहः ।
20,5.13नीव वा अन्तम्गत्वा नृत्यति ।
20,5.14कद्र्यन्हि तत इयात् ।
20,5.15प्रैतु ब्रह्मणस्पतिरिति प्रवान्ब्राह्मणस्पत्यः ।
20,5.18त्रय इति तत्तृतीयस्य अह्नो रूपम् ।
20,5.17प्रैतु ब्रह्मणस्पतिरिति प्रवान्ब्राह्मणस्पत्यः ।
20,5.18प्र देव्येतु सूनृता इति निनर्तिः ।
20,5.19अन्तस्तृतीयमहः ।
20,5.20नीव वा अन्तम्गत्वा नृत्यति ।
20,5.21कद्र्यन्हि तत इयात् ।
20,5.22तिस्रो मरुत्वतीयानाम्प्रतिपदस्त्रयो अनुचरास्त्रयो ब्राह्मणस्पत्याः ।
20,5.23त्रयो वा इमे लोकाः ।
20,5.24इमानेव तल्लोकानाप्नुवन्ति ।
20,5.25तिष्ठा हरी रथ आ युज्यमाना इति मरुत्वतीयम् ।
20,5.26तिष्ठ इति स्थितवत् ।
20,5.27तदन्त रूपम् ।
20,5.28अन्तस्तृतीयमहः ।
20,5.29तिष्ठति इव वा अन्तम्गत्वा ।
20,5.30कद्र्यन्हि तत इयात् ।
20,5.31इन्द्रस्य नु वीर्याणि प्र वोचमिति निष्केवल्यम् ।
20,5.32तस्य तदेव अन्त रूपम्यद्भूत अनुवाद्यहन्नहिमन्वपस्ततर्द इति ।
20,5.33यदेतद्भूतमिव अभि ।
20,5.34उदु ष्य देवः सविता हिरण्यया इति सावित्रम् ।
20,6.1घृतेन पाणी अभि प्रुष्णुते मख इति घृतवत् ।
20,6.2बहु देवत्यम्वै घृतम् ।
20,6.3बहुदेवत्यम्तृतीयमहः ।
20,6.4तस्माद्घृतवत् ।
20,6.5घृतेन द्यावा पृथिवी अभीवृते इति द्यावा पृथिवीयम्घृतवत्तस्य उक्तम्ब्राह्मणम् ।
20,6.6तक्षन्रथम्सुवृतम्विद्मना अपस इत्यार्भवम् ।
20,6.7तक्षन्हरी इन्द्र वाहा वृषण्वसू इति निनर्तिः ।
20,6.8अन्तस्तृतीयमहः ।
20,6.9नीव वा अन्तम्गत्वा नृत्यति ।
20,6.10कद्र्यन्हि तत इयात् ।
20,6.11आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्वदेवम् ।
20,6.12अप्रायुवो रक्षितारो दिवेदिव इति निनर्तिः ।
20,6.13अन्तस्तृतीयमहः ।
20,6.14नीव वा अन्तम्गत्वा नृत्यति ।
20,6.15कद्र्यन्हि तत इयात् ।
20,6.16वैश्वानराय धिषणामृता वृध इति वैश्वानरीयम् ।
20,6.17घृतम्न पूतमग्नये जनामसि इति घृतवत्तस्य उक्तम्ब्राह्मणम् ।
20,6.18आ रुद्रास इन्द्रवन्तः सजोषस इति मारुतम् ।
20,6.19तृष्णजे न दिव उत्सा उदन्यव इति ।
20,6.20दिव इति तदमुष्य लोकस्य रूपम् ।
20,6.21त्वामग्न ऋतायवः समीधिर इति जातवेदसीयम् ।
20,6.22त्वाम्त्वामिति सप्रभृति ।
20,6.23यथा वै सोदर्कमेवम्सप्रभृत्यन्त रूपम् ।
20,6.24अमुंल्लोकम्तृतीयेन अह्ना आप्नुवन्ति ।
20,6.25आदित्यम्देवम्देवतानाम् ।
20,6.26रूपमधिभूतम्चक्षुरात्मन्दधते चक्षुरात्मन्दधते ।
20,6.27