मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 14

3
खण्डिका 1

अथ अत आज्यम् ।

14,1.1

आज्येन वै देवाः सर्वान्कामानाजयन्त्सर्वममृतत्वम् ।

14,1.2

तथो एव एतद्यजमान आज्येन एव सर्वान्कामानाजयति सर्वममृतत्वम् ।

14,1.3

तद्वा इदम्षड्विधमाज्यम् ।

14,1.4

तूष्णीम्जपस्तूष्णीम्शंसः पुरोरुक्सूक्तमुक्थ वीर्यम्याज्या इति ।

14,1.5

षडृतुः संवत्सरः षड्विधः ।

14,1.6

एतेन वै देवाः षड्विधेन आज्येन षडृतुम्संवत्सरमाप्नुवन्षड्विधम् ।

14,1.7

संवत्सरेण सर्वान्कामान्त्सर्वममृतत्वम् ।

14,1.8

तथो एव एतद्यजमान एतेन एव षड्विधेन आज्येन षडृतुम्संवत्सरमाप्नोति षड्विधम् ।

14,1.9

संवत्सरेण सर्वान्कामान्त्सर्वममृतत्वम् ।

14,1.10

अथ यत्पुरस्तात्तूष्णीम्जपम्जपति ।

14,1.11

स्वर्गो वै लोको यज्ञः ।

14,1.12

तद्यत्पुरस्तात्तूष्णीम्जपम्जपति ।

14,1.13

स्वस्त्ययनमेव तत्कुरुते स्वर्गस्य लोकस्य समष्ट्यै ।

14,1.14

अथ एतम्तूष्णीम्शंसमुपांशु संशति ।

14,1.15

सर्वेषामेव कामानामाप्त्यै ।

14,1.16

अग्निर्ज्योतिर्ज्योतिरग्निरिति ।

14,1.17

तदिमंल्लोकंल्लोकानामाप्नोति ।

14,1.18

प्रातः सवनम्यज्ञस्य ।

14,1.19

इन्द्रो ज्योतिर्ज्योतिरिन्द्र इति ।

14,1.20

तदन्तरिक्ष लोकंल्लोकानामाप्नोति ।

14,1.21

माध्यंदिनम्सवनम्यज्ञस्य ।

14,1.22

सूर्यो ज्योतिर्ज्योतिः सूर्य इति ।

14,1.23

तदमुंल्लोकंल्लोकानामाप्नोति ।

14,1.24

तृतीय सवनम्यज्ञस्य ।

14,1.25

अथ वै निविदसावेव यो असौ तपति ।

14,1.26
खण्डिका 2

एष हि इदम्सर्वम्निवेदयन्नेति ।

14,2.1

सा पुरस्तात्सूक्तस्य प्रातः सवने धीयते ।

14,2.2

पुरस्ताद्द्ह्येष तदा भवति ।

14,2.3

मध्ये सूक्तस्य माध्यंदिने सवने ।

14,2.4

मध्ये ह्येष तदा भवति ।

14,2.5

उत्तमाः परिशिष्य तृतीय सवने ।

14,2.6

पश्चाद्द्ह्येष तर्हि परिक्रान्तो भवति ।

14,2.7

तदेतस्य एव रूपेण निविदम्दधदेति ।

14,2.8

तदु वा आहुरञ्जयो वै प्रातः सवनम्वहन्ति ।

14,2.9

शिति पृष्ठा माध्यंदिनम्सवनम् ।

14,2.10

श्वेत अनुकाशास्तृतीय सवनमित्यादित्येन एव ।

14,2.11

द्वादश पदाम्पुरोरुचमुपसंशंसति ।

14,2.12

द्वादश वै मासाः संवत्सरः ।

14,2.13

संवत्सरस्य एव आप्त्यै ।

14,2.14

अथ सप्तर्चमाज्यम्शंसति ।

14,2.15

सप्त वै छन्दांसि ।

14,2.16

सर्वेषामेव छन्दसामाप्त्यै ।

14,2.17

तद्वा आनुष्टुभम्भवति ।

14,2.18

वागनुष्टुप् ।

14,2.19

तद्यत्किंच वाचा अनुष्टुभा व्यनूक्तम्तत्सर्वमाप्नोति ।

14,2.20

पदे विगृह्णाति ।

14,2.21

तत्प्रजात्यै रूपम् ।

14,2.22

वि इव वै स्त्रियै पुमान्गृह्णाति ।

14,2.23

यद्वेव विगृह्णाति ।

14,2.24

प्रतिष्ठयोस्तद्रूपम् ।

14,2.25

अथो एतद्द्ह वै मृत्योरास्यम्यदेते पदे अन्तरेण ।

14,2.26

स यो अत्र अव अनन्तम्ब्रूयात् ।

14,2.27

मृत्योरास्यमापाति न जीविष्यति इति तथा ह स्यात् ।

14,2.28
खण्डिका 3

तस्मादनवानम्संक्रामेत् ।

14,3.1

अमृतम्वै प्राणः ।

14,3.2

अमृतेन तन्मृत्युम्तरति ।

14,3.3

समस्तेन उत्तरेण अर्धर्चेन प्रणौति ।

14,3.4

वज्रमेव तत्पाप्मने भ्रातृव्याय प्रहरति ।

14,3.5

ता दश गायत्र्यः सम्पद्यन्ते ।

14,3.6

अष्ट अक्षरम्हि दशमम्पदम् ।

14,3.7

गायत्री वै सा या अनुष्टुप् ।

14,3.8

गायत्रमग्नेश्छन्दः ।

14,3.9

दश प्रातः सवने अध्वर्युर्ग्रहान्गृह्णाति ।

14,3.10

नवसु बहिष्पवमानेन स्तुवते ।

14,3.11

हिंकारो दशमः ।

14,3.12

दश इमाः ।

14,3.13

ते नाना कुर्वन्तो विराजमभिषम्पादयन्ति ।

14,3.14

एतद्वै कृत्स्नमन्न अद्यम्यद्विराडेव ।

14,3.15

तत्सम्पाद्य यजमाने प्रतिदधाति ।

14,3.16

त्रिः प्रथमया त्रिरुत्तमया एकादश सम्पद्यन्ते ।

14,3.17

याज्या द्वादशी ।

14,3.18

द्वादश वै मासाः संवत्सरः ।

14,3.19

संवत्सरस्य एव आप्त्यै ।

14,3.20

ताः संशस्ताः षोडश गायत्र्यः सम्पद्यन्ते ।

14,3.21

तद्गायत्रीमाज्यमभिसम्पद्यते ।

14,3.22

आग्नेन्द्र्या यजति ।

14,3.23

इन्द्रमेव तदर्ध भाजम्सवनस्य करोति ।

14,3.24

तस्याम्देवता अन्वाभजत इति ह स्म आह कौषीतकिः ।

14,3.25

त्रयस्त्रिंशदक्षरा वै विराट् ।

14,3.26

त्रयस्त्रिंशद्देवताः ।

14,3.27

अक्षर भाजो देवताः करोति ।

14,3.28

अग्न इन्द्रश्च दाशुषो दुरोण इति पदम्परिशिष्य विराजो अर्धर्चे अवानिति ।

14,3.29

श्रीर्विराडन्न अद्यम् ।

14,3.30

श्रियाम्तद्विराज्यन्न अद्ये प्रतितिष्ठति ।

14,3.31

उत्तरेण विराजो अर्धर्चेन वषट्करोति ।

14,3.32

स्वर्ग एव तल्लोके यजमानम्दधाति ।

14,3.33

अनुवषट्करोत्याह्तीनामेव शान्त्यै ।

14,3.34

आहुतीनाम्प्रतिष्ठित्यै ।

14,3.35
खण्डिका 4

श्ॐसावो इति प्रातः सवन आह्वयते ।

14,4.1

श्ॐसामो दैव इत्यध्वर्युः ।

14,4.2

तान्यष्टावक्षराणि ।

14,4.3

उक्थमवाचि इति प्रातः सवन उपांशु होता ब्रूयात् ।

14,4.4

उक्थशा इत्यध्वर्युः ।

14,4.5

तान्यष्टौ ।

14,4.6

गायत्र्या सवनम्प्रतिपद्य गायत्र्याम्प्रत्यष्ठताम् ।

14,4.7

अध्वर्यो श्ॐसावो इति माध्यंदिने सवने आह्वयते ।

14,4.8

श्ॐसामो दैव इत्यध्वर्युः ।

14,4.9

तान्येकादश अक्षराणि ।

14,4.10

उक्थमवाचि इन्द्राय इति माध्यंदिने सवने उपांशु होता ब्रूयात् ।

14,4.11

उक्थशा इत्यध्वर्युः ।

14,4.12

तान्येकादश ।

14,4.13

त्रिष्टुभा सवनम्परिपद्य त्रिष्टुभि प्रत्यष्ठाताम् ।

14,4.14

अध्वर्यो शो श्ॐसावो इति तृतीय सवने अभ्यासमाह्वयते ।

14,4.15

शो श्ॐसामो दैव इत्यध्वर्युः प्रत्यभ्यस्यति ।

14,4.16

तानि द्वादश अक्षराणि ।

14,4.17

लोमशेन त्रयोदश ।

14,4.18

वाचि इन्द्राय उक्थम्देवेभ्य इति तृतीय सवने उपांशु होता ब्रूयात् ।

14,4.19

उखशा इत्यध्वर्युः ।

14,4.20

तानि द्वादश ।

14,4.21

सम्प्रति जगत्या सवनम्प्रतिपद्य जगत्याम्प्रत्यष्ठाताम् ।

14,4.22

एतद्वै तद्यन्मध्य ओप्यते ।

14,4.23

स यदि ह वा अपि व्यूढच्छन्दा भवति ।

14,4.24

क्लृप्तान्येव एवम्विदुषश्छन्दांसि यज्ञम्वहन्ति ।

14,4.25

अथो एतदेष ऋगभ्यनूक्ता इति ह स्म आह ।

14,4.26

यद्गायत्रे अधि गायत्रमाहितम्त्रैष्टुभाद्वा त्रैष्टुभम्निरतक्षत ।

14,4.27

यद्वा जगज्जगत्याहितम्पदम्य इत्तद्विदुस्ते अमृतत्वमानशुरिति ।

14,4.28

अथो यदिमा देवता एषु लोकेष्वध्यूढाः ।

14,4.29

गायत्रे अस्मिंल्लोके गायत्रो अयमग्निरध्यूढः ।

14,4.30

त्रैष्टुभे अन्तरिक्ष लोके त्रैष्टुभो वायुरध्यूढः ।

14,4.31

जागते अमुष्मिंल्लोके जागतो असावादित्यो अध्यूढः ।

14,4.32
खण्डिका 5

आज्यम्शस्त्वा प्रौगम्शंसति ।

14,5.1

आत्मा वै यजमानस्य आज्यम् ।

14,5.2

प्राणाः प्रौगम् ।

14,5.3

तद्यदाज्यम्शस्त्वा प्रौगम्शंसति ।

14,5.4

तथा ह यजमानः सर्वमायुरस्मिंल्लोक एत्य आप्नोत्यमृतत्वमक्षितिम्स्वर्गे लोके ।

14,5.5

पवमाने स्तुत आज्यम्शंसति ।

14,5.6

आज्ये स्तुते प्रौगम् ।

14,5.7

तदेतत्पवमान उक्थमेव यत्प्रौगम् ।

14,5.8

आज्यमेव आज्यस्य उक्थम् ।

14,5.9

ते एतद्विहरति ।

14,5.10

यथा रथस्य अन्तरौ रश्मी व्यतिषजेदेवम्तत् ।

14,5.11

ग्रहाननु शंसति इति ह स्म आह कौषीतकिः ।

14,5.12

यो असौ वायोरिन्द्र वाय्वोर्ग्रहः ।

14,5.13

तम्वायव्येन च ऐन्द्रवायवेन च ।

14,5.14

मैत्रावरुणम्मैत्रावरुणेन ।

14,5.15

आश्विनमाश्विनेन ।

14,5.16

यत्प्रस्थितानाम्यजति तदैन्द्रेण ।

14,5.17

यद्द्होत्राः सम्यजन्ति तद्वैश्वदेवेन ।

14,5.18

वागेव सरस्वती सर्वेषु सवनेषु ।

14,5.19

अथ वै पुरोरुगसावेव यो असौ तपति ।

14,5.20

एष हि पुरस्ताद्रोचते ।

14,5.21

अथ वै प्रुरुक्प्राण एव आत्मा सूक्तम् ।

14,5.22

अथ वै पुरोरुगात्मा एव ।

14,5.23

प्रजा पशवः सूक्तम्।

14,5.24

तस्मान्न पुरोरुचम्च सूक्तम्च अन्तरेण व्याह्वयते ।

14,5.25

संशस्य पुरोरुचा सूक्तम् ।

14,5.26

पुरोरुचे पुरोरुच एव आह्वयते ।

14,5.27

वायुरग्रेगास्तत्प्राण रूपम् ।

14,5.28

वायवा तदपानस्य रूपम् ।

14,5.29
खण्डिका 6

गायत्रम्प्रौगम्शंसति ।

14,6.1

तेन प्रातः सवनमाप्तम् ।

14,6.2

ऐन्द्रम्शंसति ।

14,6.3

तेन माध्यंदिनम्सवनमाप्तम् ।

14,6.4

वैश्वदेवम्शंसति ।

14,6.5

तेन तृतीय सवनमाप्तम् ।

14,6.6

अथ वैश्वदेवीम्पुरोरुचम्शंसति ।

14,6.7

सा षट्पदा भवति ।

14,6.8

ताम्तामृतव इत्याहुः ।

14,6.9

षड्ढ्यृतवः ।

14,6.10

तस्यै द्वे द्वे पदे अवग्राहम्शंसति ।

14,6.11

तस्माद्द्वन्द्वम्समस्ता ऋतव आख्यायन्ते ग्रीष्मो वर्षा हेमन्त इति ।

14,6.12

अत्र ह एके सारस्वतीम्पुरोरुचम्शंसन्ति ।

14,6.13

न तथा कुर्यात् ।

14,6.14

अतिरिक्तम्तत् ।

14,6.15

रुचिता वै वाक् ।

14,6.16

स्वयम्पुरोरुग्वै वाक् ।

14,6.17

वायवा याहि दर्शत अश्विना यज्वरीरिष इत्येते उभे तत्प्रौगम्नवर्चम्च द्वादशर्चम्च ।

14,6.18

तदेकविंशतिः ।

14,6.19

एकविंशो वै चतुष्टोमः स्तोमानाम्परमः ।

14,6.20

तत्परमम्स्तोममाप्नोति ।

14,6.21

यद्वेव एकविंशतिः ।

14,6.22

द्वादश मासाः पञ्चर्तवस्त्रय इमे लोकाः ।

14,6.23

असावादित्य एकविंशः ।

14,6.24

तेन एव तत्सलोकतायाम्यजमानमध्यूहति ।

14,6.25
खण्डिका 7

तानि वै सप्त तृचानि भवन्ति ।

14,7.1

सप्त वै छन्दांसि ।

14,7.2

सर्वेषामेव छन्दसामाप्त्यै ।

14,7.3

अथो एतैर्वै देवा असुराणाम्सप्त साप्तान्यवृञ्जत ।

14,7.4

तथो एव एतद्यजमान एतैरेव द्विषतो भ्रातृव्यस्य सप्त साप्तानि वृङ्क्ते ।

14,7.5

अग्नेरग्रे प्रातः सवनमासीत् ।

14,7.6

इन्द्रस्य माध्यंदिनम्सवनम् ।

14,7.7

विश्वेषाम्देवानाम्तृतीय सवनम् ।

14,7.8

सो अग्निरकामयत ।

14,7.9

स्यान्मे माध्यंदिने सवने अथो तृतीय सवन इति ।

14,7.10

इन्द्रो अकामयत ।

14,7.11

स्यान्मे प्रातः सवने अथो तृतीय सवन इति ।

14,7.12

विश्वे देवा अकामयन्त ।

14,7.13

स्यान्नो माध्यंदिने सवने अथो प्रातः सवन इति ।

14,7.14

ता अमुतो अर्वाच्यो देवतास्तृतीय सवनात्प्रातः सवनमभिप्रायुञ्जत ।

14,7.15

तद्यदभिप्रायुञ्जत ।

14,7.16

तत्प्रौगस्य प्रौगत्वम् ।

14,7.17

तस्माद्बह्व्यो देवताः प्रौगे शस्यन्ते ।

14,7.18

तस्मात्सर्वाणि सवनानि सर्व देवत्यानि भवन्ति ।

14,7.19

वैश्वेभिः सोम्यम्मध्वित्युक्थम्शस्त्वा यजति वैश्वदेव्याः ।

14,7.20

वैश्वदेवम्ह्येतदुक्थम् ।

14,7.21

गायत्र्या गायत्रम्प्रातः सवनम् ।

14,7.22

अन्विदु वषट्करवदन्विदु वषट्करवत् ।

14,7.23