आपस्तपो अतप्यन्त ।
25,1.1तास्तपस्तप्त्वा गर्भमदधत ।
25,1.2तत एष आदित्यो अजायत षष्ठे मासि ।
25,1.3तस्मात्सत्रिणः षष्ठे मासिदिवा कीर्त्यमुपयन्ति ।
25,1.4स षण्मासानुदन्नेति षडावृत्तः ।
25,1.5तस्मात्सत्रिणः षडेव ऊर्ध्वान्मासो यन्ति षडावृत्तान् ।
25,1.6अन्तरेण उ ह वा एतमशनाया च पुनर्मृत्युश्च ।
25,1.7अपाशनायाम्च पुनर्मृत्युम्च जयन्ति ये वैषुवतमहरुपयन्ति ।
25,1.8तस्य एतानि छन्दो रूपाणि ।
25,1.9सूर्यवद्भानुमज्ज्योतिष्मद्रुक्मवद्रुचितवद्द्हर्यतवदिति ।
25,1.10समुद्रादूर्मिर्मधुमानुदारदित्याज्यम् ।
25,1.11समुद्राद्द्ह्येषो अद्भ्य उदैति ।
25,1.12इन्द्र एकम्सूर्यमेकम्जजान इति सूर्यवत् ।
25,1.13तदेतस्य अह्नो रूपम् ।
25,1.14ताः संशस्ता एकविंशतिमनुष्टुभः सम्पद्यन्ते ।
25,1.15एकविंशो वा एष य एष तपति ।
25,1.16तदेनम्स्वेन रूपेण समर्धयन्ति ।
25,1.17त्रैष्टुभः प्रौगः ।
25,1.18विषुवान्वा एषो अह्नाम् ।
25,1.19विषुपान्छन्दसाम्त्रिष्टुप् ।
25,1.20तदेनत्स्वेन छन्दसा समर्धयति ।
25,1.21कुविदङ्ग नमसा ये वृधास इति वायव्यम् ।
25,2.1अवासयन्नुषसम्सूर्येण इति सूर्यवत् ।
25,2.2तदेतस्य अह्नो रूपम् ।
25,2.3अत एव उत्तरम्तृचमैन्द्रवायवम्यावत्तरस्तन्वो यावदोज इति ।
25,2.4यावन्नरश्चक्षसा दीध्याना इत्येतेन रूपेण ।
25,2.5उद्वाम्चक्षुर्वरुण सुप्रतीकमिति मैत्रावरुणम् ।
25,2.6देवयोरेति सूर्यस्ततन्वानिति सूर्यवत् ।
25,2.7तदेतस्य अह्नो रूपम् ।
25,2.8आ गोमता नासत्या रथेन इत्याश्विनम् ।
25,2.9तस्य ऊर्ध्वम्भानुम्सविता देवो अश्रेदिति तृतीया भानुमती ।
25,2.10तदेतस्य अह्नो रूपम् ।
25,2.11आ नो देव शवसा याहि शुष्मिन्नित्यैन्द्रम् ।
25,2.12तनूषु शूराः सूर्यस्य साताविति सूर्यवत् ।
25,2.13तदेतस्य अह्नो रूपम् ।
25,2.14प्र ब्रह्म एतु सदनादृतस्य इति वैश्वदेवम् ।
25,2.15वि रश्मिभिः ससृजे सूर्यो गा इति सूर्यवत् ।
25,2.16तदेतस्य अह्नो रूपम् ।
25,2.17उत स्या नः सरस्वती जुषोणा इति सारस्वतम् ।
25,2.18द्वार आवृतस्य सुभगे व्यावरित्येतेन रूपेण ।
25,2.19एष वा उ वासिष्ठस्तृच क्लृप्तस्त्रैष्टुभः प्रौगः ।
25,2.20प्रजापतिर्वै वसिष्ठः ।
25,2.21स तन्ता यज्ञस्य ।
25,2.22स पुनस्ततावयात यामा भवति ।
25,2.23प्रजापतावेव तत्सर्वान्कामानृध्नुवन्ति ।
25,2.24तदाहुर्न त्रैष्टुभम्प्रातः सवनम्स्यान्मोहयति क्लृप्तच्छन्दसो यज्ञ मुखमिति ।
25,2.25ऐकाहिकमेव स्यात् ।
25,2.26ज्योतिर्वा एकाहः ।
25,2.27ज्योतिरेष य एष तपति ।
25,2.28ज्योतिषा एव तज्ज्योतिः समर्धयति ।
25,2.29तस्य प्र वो देवाय अग्नये त्वम्हि क्षैतवद्यश इत्येते उभे तदाज्यम् ।
25,2.30ता एकविंशतिमनुष्टुभस्तासामुक्तम्ब्राह्मणम् ।
25,2.31माधुच्छन्दसः प्रौगस्तस्य उक्तम्ब्राह्मणम् ।
25,2.32कया शुभा सवयसः सनीडा इति मरुत्वतीयम् ।
25,3.1शुभा भा इत्येतेन रूपेण ।
25,3.2त्यम्सु मेषम्महया स्वर्विदमिति जागतमधारयो दिव्या सूर्य दृश इति सूर्यवत् ।
25,3.3तदेतस्य अग्नो रूपम् ।
25,3.4जनिष्ठा उग्रः सहसे तुराय इत्येतस्मिंस्त्रैष्टुभे निविदम्दधाति ।
25,3.5अप ध्वान्तमूर्णुहि पूर्धि चक्षुरित्येतेन रूपेण ।
25,3.6ता वा उभय्यस्त्रिष्टुब्जगत्यः शस्यन्ते ।
25,3.7त्रिष्टुब्जगत्योर्ह वा एष आहित आदित्यः प्रतिष्ठितस्तपति ।
25,3.8तदेनम्प्रत्यक्षमाप्नुवन्ति ।
25,3.9बृहदेतस्य अह्नः पृष्ठम्स्यादिति ह एक आहुः ।
25,3.10बार्हतो वा एष य एष तपति ।
25,3.11तदेनम्स्वेन रूपेण समर्धयन्ति ।
25,3.12बृहदेतत्तपति इति वदन्तः ।
25,3.13अथो अपृष्ठम्वा एतद्यन्महा दिवा कीर्त्यम् ।
25,3.14अथ एते एव प्रत्यक्षे पृष्ठे यद्बृहद्रथन्तरे ।
25,3.15तस्माद्बृहदेव एतस्य अह्नः पृष्ठम्स्यादिति ।
25,3.16यद्यु सूर्यवति प्रगाथे बृहत्कुर्युः ।
25,3.17तस्माद्बृहदेव एतस्य अह्नः पृष्ठम्स्यादिति ।
25,3.16यद्यु सूर्यवति प्रगाथे बृहत्कुर्युः ।
25,3.17सूर्यवतश्च प्रगाथानेतस्य एव अह्नो रूपेण ।
25,3.18इन्द्रः किल श्रुत्या अस्य वेद इत्युक्थ मुखीया स हि जिष्णुः पथिकृत्सूर्याय इति सूर्यवती ।
25,3.19तदेतस्य अह्नो रूपम् ।
25,3.20महा दिवा कीर्त्यमेव एतस्य अह्नः पृष्ठम्स्यादिति सा स्थितिः ।
25,3.21असौ वा एतत्प्रत्यक्षम्साम यो असौ तपति यन्महा दिवा कीर्त्यम् ।
25,3.22तदेनम्स्वेन साम्ना समर्धयन्ति ।
25,3.23तद्द्ह एके त्रिष्टुप्सु कुर्वन्ति ।
25,3.24त्रैष्टुभो वा एष य एष तपति ।
25,3.25तदेनम्स्वेन रूपेण समर्धयन्ति ।
25,3.26बृहतीषु स्यादित्यु ह एक आहुः ।
25,3.27बार्हतो वा एष य एष तपति ।
25,3.28तदेनम्स्वेन रूपेण समर्धयन्ति ।
25,3.29जगतीषु स्यादिति त्वेव स्थितम् ।
25,3.30जागतो वा एष य एष तपति ।
25,3.31तदेनत्स्वेन छन्दसा समर्धयति ।
25,3.32विभ्राड्बृहत्पिबतु सोम्यम्मध्विति स्तोत्रियस्तृचो विश्व भ्राड्भ्राजो महि सूर्यो दृश इति विवान्भ्राजिष्मान्त्सूर्यवान् ।
25,4.1तदेतस्य अह्नो रूपम् ।
25,4.2वि सूर्यो मध्ये अमुचद्रथम्दिव इत्यनुरूपो विवान्त्सूर्यवान् ।
25,4.3जागतमु वै समानम्छन्दः ।
25,4.4विश्वहा त्वा सुमनसः सुचक्षस इति त्वेव स्थितः सरुयः सौर्यस्य ।
25,4.5ज्योग्जीवाः प्रति पश्येम सूर्या इत्येतेन रूपेण ।
25,4.6बण्महानसि सूर्य इति सूर्यवान्त्साम प्रगाथः ।
25,4.7तदेतस्य अह्नो रूपम् ।
25,4.8अथ बृहद्रथन्तरयोर्योनी शंसति ।
25,4.9इन्द्रः किल श्रुत्या अस्य वेद इत्युक्थ्य मुखीया स हि जिष्णु पथिकृत्सूर्याय इति सूर्यवती ।
25,4.10तदेतस्य अह्नो रूपम् ।
25,4.11शम्नो भव चक्षसा शम्नो अह्ना इति त्वेव स्थिता सौरी सौर्यस्य ।
25,4.12तत्सूर्य द्रविणम्धेहि चित्रमित्येतेन रूपेण ।
25,4.13य एक इद्द्हव्यश्चर्षणीनामिति त्रैष्टुभम् ।
25,4.14दिव्यानि दीपयो अन्तरिक्षा इत्येतेन रूपेण ।
25,4.15एवम्नु यदि महा दिवा कीर्त्यम्पृष्ठम्भवति ।
25,4.16यद्यु वै बृहत्स्व योनौ कुर्युः ।
25,4.17बृहत आतानम्शस्त्वा रथन्तरस्य योनिम्शंसति ।
25,4.18इन्द्रः किल श्रुत्या अस्य वेद इत्युक्थ्य मुखीया स हि जिष्णुः पथिकृत्सूर्याय इति सूर्यवती ।
25,4.19तदेतस्य अह्नो रूपम् ।
25,4.20द्यौर्न य इन्द्र अभि भूम अर्य इति त्रैष्टुभमिन्द्रः कुत्साय सूर्यस्य साताविति सूर्यवत् ।
25,5.1तदेतस्य अह्नो रूपम् ।
25,5.2न चेत्स्व योनौ ।
25,5.3श्रायन्त इव सूर्यमिति सूर्यवान्त्स्तोत्रियः ।
25,5.4तदेतस्य अह्नो रूपम् ।
25,5.5यद्द्याव इन्द्र ते शतमित्यनुरूपः सहस्रम्सूर्या इति सूर्यवान् ।
25,5.6तदेतस्य अह्नो रूपम् ।
25,5.7यः सत्राहा विचर्षणिरिति साम प्रगाथस्तनूष्वप्सु सूर्य इति सूर्यवान् ।
25,5.8तदेतस्य अह्नो रूपम् ।
25,5.9अथ बृहद्रथन्तरयोर्योनी शंसति ।
25,5.10इन्द्रः किल श्रुत्या अस्य वेद इत्युक्थ मुखीया तस्या उक्तम्ब्राह्मणम् ।
25,5.11य एक इद्द्हव्यश्चर्षणीनामिति त्रैष्टुभम्तस्य उक्तम्ब्राह्मणम् ।
25,5.12एवम्नु यदि बृहत्स्व योनौ वा अस्व योनौ वा कुर्युः ।
25,5.13अनुभय सामानम्चेत्कुर्युः ।
25,5.14समानमोक्थ्य मुखीयायै ।
25,5.15उद्धरेद्बृहद्रथन्तरयोर्योनी ।
25,5.16तमु ष्टुहि यो अभिभूत्योजा इति त्रैष्टुभम् ।
25,5.17गीर्भिर्वर्ध वृषभम्चर्षणीनामित्येतेन रूपेण ।
25,5.18समानमुत्तरम् ।
25,5.19अभि त्यम्मेषम्पुरु हूतमृब्मियमिति जागतमादित्सूर्यम्दिव्य आरोहयो दृश इति सूर्यवत् ।
25,5.20तदेतस्य अह्नो रूपम् ।
25,5.21ता वा उभय्यस्त्रिष्टुप्जगत्यः शस्यन्ते ।
25,5.22त्रिष्टुब्जगत्योर्ह वा एष आहित आदित्यः प्रतिष्ठितस्तपति ।
25,5.23तदेनम्प्रत्यक्षम्स्पृशन्ति ।
25,5.24प्र ते महे विदथे शंसिषम्हरी इति ।
25,6.1तस्य नव शस्त्वा आहूय निविदम्दधाति ।
25,6.2आविष्कृधि हरये सूर्याय इति सूर्यवत् ।
25,6.3तदेतस्य अह्नो रूपम् ।
25,6.4सर्व हरेश्चतस्रो अभ्युदैति ।
25,6.5आ सत्यो यातु मघवानृजीषी इत्येकविंशतिः ।
25,6.6महि ज्योती रुरुचुर्यद्द्ह वस्तोरित्येतेन रूपेण ।
25,6.7ताः पञ्चविंशतिः ।
25,6.8विश्वजिते धनजिते स्वर्जित इति षड्जगत्यः ।
25,6.9इन्द्राय सोमम्यजताय हर्यतमित्येतेन रूपेण ।
25,6.10ता एकत्रिंशत् ।
25,6.11तासु जगतीषु दूरोहणम्रोहति ।
25,6.12जागतो वा एष य एष तपति ।
25,6.13यजमाना दूरोहणः ।
25,6.14एतमेव तद्यजमाना रोहन्ति ।
25,6.15तदन्तरिक्ष लोकमाप्नुवन्ति ।
25,6.19त्रि पच्छस्तृतीयम् ।
25,6.20तदमुंल्लोकमाप्नुवन्ति ।
25,6.21केवलीम्स आवेशः ।
25,6.22त्रिपच्छो अर्धर्चशः पच्छः ।
25,6.23तदस्मिंल्लोके प्रतितिष्ठन्ति ।
25,6.24प्रतिष्ठायामप्रच्युत्याम् ।
25,6.25सा एषा दूरोहणीया संशस्ता सप्त जगत्यः सम्पद्यन्ते ।
25,7.1ता अष्ट त्रिंशत् ।
25,7.2एष प्र पूर्वीरव तस्य चंरिष इति जागतम्षडृचमिन्द्रम्सिषक्त्युषसम्न सूर्य इति सूर्यवत् ।
25,7.3तदेतस्य अह्नो रूपम् ।
25,7.4ताश्चतुश्चत्वारिंशत् ।
25,7.5पतङ्गमक्तमसुरस्य मायया इति तिस्रः ।
25,7.6ताम्द्योतमानाम्स्वर्यम्मनोषामित्येतेन रूपेण ।
25,7.7ताः सप्त चत्वारिंशत् ।
25,7.8उरुम्नो लोकमनु नेषि विद्वानिति त्रिः शस्तया परिधानीयया ।
25,7.9स्वर्वज्ज्योतिरभयम्स्वस्ति इत्येतेन रूपेण ।
25,7.10ताः पञ्चाशत् ।
25,7.11पूर्वा एक पञ्चाशत् ।
25,7.12ता एक शतमृचो भवन्ति ।
25,7.13शत आयुर्वै पुरुषः शत पर्वा शत वीर्यः शत इन्द्रियः ।
25,7.14उप या एक शततमी स यजमान लोकः ।
25,7.15तदत्र एव यजमानान्त्संस्कुर्वन्ति ।
25,7.16तदत्र यजमानान्त्संस्कृत्य आदौ महा व्रतीयेन अह्ना प्रजनयन्ति इति पङ्गी सम्पत् ।
25,7.17अथ कौषीतकेः ।
25,7.18समानमोक्थ्य मुखीयायै ।
25,7.19ऋतुर्जनित्रीयम्त्रयोदशर्चमुद्धृत बृहद्रथन्तरे ।
25,7.20तस्य एव एकादश स्व योनौ ।
25,7.21नव अन्यत्र ।
25,7.22तद्रूपा मिनन्तदपा एक ईयत इत्येतेन रूपेण ।
25,7.23आ इन्द्र याहि हरिभिरिति पञ्चदश ।
25,7.24सरूपैरा सु नो गहि इत्येतेन रूपेण ।
25,7.25बरोरेकादश शस्त्वा निविदम्दधाति ।
25,7.26मध्य एकशतस्य एक पञ्चाशतम्शस्त्वा द्वे बरोरभ्युदैति ।
25,7.27आ सत्यो यातु मघवानृजीषी इत्येकविंशतिस्तास्त्रयोविशंतिः ।
25,7.28विश्वजित इति षट्ता एकयान त्रिंशत् ।
25,7.29दूरोहणीयाः सप्त ता षट्त्रिंशत् ।
25,7.30अभूरेको रयि पते रयीणामिति त्रैष्टुभम्पञ्चर्चम्दश प्रपित्वे अध सूर्यस्य इति सूर्यवत् ।
25,7.31तदेतस्य अह्नो रूपम् ।
25,7.32ता एक चत्वारिंशत् ।
25,7.33त्यमू षु वाजिनम्देव जूतमिति तार्क्ष्यस्तिस्रः ।
25,7.34सूर्य इव ज्योतिषा अपस्ततान इत्येतेन रूपेण ।
25,7.35ताश्चतुश्चत्वारिंशत् ।
25,7.36पतङ्गस्तिस्रस्ताः सप्त चत्वारिंशत् ।
25,7.37उरुम्नो लोकमनु नेषि विद्वानिति त्रिः शस्तया परिधानीयया ताः पञ्चाशत् ।
25,7.38पूर्वा एक पञ्चाशत् ।
25,7.39ता एकशतमृचो भवन्ति तासामुक्तम्ब्राह्मणम् ।
25,7.40युञ्जते मन उत युञ्जते धिय इति सावित्रमुत सूर्यस्य रश्मिभिः समुच्यसि इति सूर्यवत् ।
25,8.1तदेतस्य अह्नो रूपम् ।
25,8.2ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम्देवो देवी धर्मणा सूर्यः शुचितिति सूर्यवत् ।
25,8.3तदेतस्य अह्नो रूपम् ।
25,8.4किमु श्रेष्ठः किम्यविष्ठो न आजगन्नित्यार्भवम् ।
25,8.7यदावाख्यच्चमसान्चतुरः कृतानित्यवाख्यदित्येतेन रूपेण ।
25,8.6देवान्हुवे बृहत्श्रवसः स्वस्तय इति वैश्वदेवम्ये सूर्यस्य ज्योतिषो भागमानशुरिति सूर्यवज्ज्योतिष्मत् ।
25,8.7तदेतस्य अह्नो रूपम् ।
25,8.8वैश्वानराय धिषणामृता वृध इति वैश्वानरीयम्रुरुचानम्भानुना ज्योतिषा महामिति रुचितवद्भानुमज्ज्योतिष्मत् ।
25,8.9तदेतस्य अह्नो रूपम् ।
25,8.10प्रयज्यवो मरुतो भ्राजदृष्टय इति मारुतम्विरोकिणः सूर्यस्य इव रश्मय इति सूर्यवत् ।
25,8.11तदेतस्य अह्नो रूपम् ।
25,8.12वेदिषदे प्रिय धामाय सुद्युत इति जात वेदसीयम् ।
25,8.13ज्योती रथम्शुक्र वर्णम्तमोहनमित्येतेन रूपेण ।
25,8.14इत्याग्निमारुत सूक्तानि ।
25,8.15इत्येतस्य अह्नः सूक्तानि ।
25,8.16तदग्निष्टोमः संतिष्ठते ।
25,8.17ज्योतिर्वा अग्निष्टोमः ।
25,8.18ज्योतिरेष य एष तपति ।
25,8.19ज्योतिष्येव तज्ज्योतिः प्रतिष्ठापयन्ति ।
25,8.20ते अमृतत्वमाप्नुवन्ति ये वैषुवतमहरुपयन्ति ।
25,8.21उप्रादित्यस्यास्तमयादेतदहः संस्थापयिषेयुः ।
25,8.22सप्रातरनुवाकमेतदहर्दिवा कीर्त्यम्भवति ।
25,9.1सप्रातरनुवाकेन सपत्नी सम्याजेन एतेन अह्ना पुरादित्यस्यास्तमयात्समीप्सेयुः ।
25,9.2अग्निम्मन्ये पितरमग्निमापिमित्येतया होता तदहः प्रातरनुवाकम्प्रतिपद्यते ।
25,9.3आपिमित्यापो रेवत्यै रूपेण ।
25,9.4दिवि शुक्रम्यजतम्सूर्यस्य इति सूर्यवती ।
25,9.5तदेतस्य अह्नो रूपम् ।
25,9.6तदु ह स्म आह कौषीतकिः ।
25,9.7प्रजापतिर्वै प्रातरनुवाकः ।
25,9.8न तमस एतम्यथा यथमेव तमुपाकुर्युः ।
25,9.9तत्तस्य समृद्धम् ।
25,9.10तथा यथा यथमुपांश्वन्तर्यामौ हूयेते ।
25,9.11तदु तयोः समृद्धमिति ।
25,9.12वसिष्ठमाप्री सूक्तम्सम्रश्मिभिस्ततनः सूर्यस्य इति सूर्यवत् ।
25,9.13तदेतस्य अह्नो रूपम् ।
25,9.14शुक्र एतस्य अह्नः पिङ्ग अक्षो होता स्यादिति ह एक आहुः ।
25,9.15अमुम्वा एतेन अह्ना ईप्सन्ति यो असौ तपति ।
25,9.16तद्यथा श्रेयांसमाहरन्नुपेयादेवम्तत् ।
25,9.17यथा उपपादमिति त्वेव स्थितम् ।
25,9.18शस्त्रेण एव एतस्य अह्नो रूपम्सम्पाद्यिषेयुः ।
25,9.19सौर्यः पशुरुपालम्भ्यः सवनीयस्य ।
25,9.20स उपांशु भवति ।
25,9.21स यस्तम्निर्ब्रूयात् ।
25,9.22यस्तम्तत्र ब्रूयात् ।
25,9.23दुश्चर्मा किलासी भविष्यति इति तथा ह स्यात् ।
25,9.24ते वा एते चत्वार एव पशव उपांशु भवन्ति ।
25,9.25सौर्यः सावित्रः प्राजापत्यो वाग्देवत्य इति ।
25,9.26अथ अन्ये निरुक्ताः ।
25,9.27अथ त्रीन्त्स्वर साम्न आवृत्तानुपयन्ति तेषामुक्तम्ब्राह्मणम् ।
25,9.28त्रयोदशमधिचरम्मासमाप्नुवन्ति यद्विश्वजितमुपयन्ति ।
25,10.1एतावान्वै संवत्सरो यदेष त्रयोदशो मासः ।
25,10.2तदत्र एव सर्वः संवत्सर आप्तो भवति ।
25,10.3तमाहुरेकाहः षडह इति ।
25,10.4यद्यन्वहम्षडहे क्रियते ।
25,10.5एकाहे तद्विश्वजिति क्रियते ।
25,10.6तद्वा इदम्बहु विश्व रूपम्विश्वजिति क्रियते ।
25,10.7यत्सर्वाणि प्ष्ठानि सर्वे स्तोमा उच्च अवचाः समवधीयन्ते ।
25,10.8वैराजमेव अस्य प्रत्यक्षम्पृष्ठम्भवति ।
25,10.9माध्यंदिने पवमाने रथन्तरम् ।
25,10.10बृहत्तृतीये पवमाने क्रियते ।
25,10.11शाक्वरम्मैत्रावरुणस्य ।
25,10.12वैरूपम्ब्राह्मणाच्छंसिनः ।
25,10.13रैवतमच्छावाकस्य ।
25,10.14त एतम्त्रयोदशमधिचरम्मासमाप्नुवन्ति ।
25,10.15एतद्द्हि त्रयोदशम् ।
25,10.16पृष्ठ्यान्युपयन्ति ।
25,10.17तस्य अग्निम्नरो दीधितिभिररण्योरिति वैराजमाज्यम् ।
25,10.18वैराजम्पृष्ठम्तस्य उक्तम्ब्राह्मणम् ।
25,10.19वासिष्ठमाज्यम् ।
25,10.20वासिष्ठम्पृष्ठम्तस्य उक्तम्ब्राह्मणम् ।
25,10.21माधुच्छन्दसः प्रौगस्तस्य उक्तम्ब्राह्मणम् ।
25,10.22कया शुभा सवयसः सनीडा इति मरुत्वतीयम् ।
25,10.23कद्वत्कया शुभीयम् ।
25,10.24को वै प्रजापतिर्विश्वजित् ।
25,10.25यावेव अमू वैराजस्य स्तोत्रिय अनुरूपौ त स्तोत्रिय अनुरूपौ ।
25,10.26तयोस्तथा एव न्यूङ्खयति यथा अदश्चतुर्थे अहन् ।
25,10.27न हि वैराजम्तत्स्थानमन्यूङ्खनाय ।
25,10.28तदिदास भुवनेषु ज्येष्ठमिति निष्केवल्यम् ।
25,11.1यज्ञो वै भुवनेषु ज्येष्ठः ।
25,11.2यज्ञ उ वै प्रजापतिर्विश्वजित् ।
25,11.3अथ यत्षष्ठस्य अह्नस्तृतीय सवनम्तत्तृतीय सवनम् ।
25,11.4प्राजापत्यम्वै षष्ठमहः ।
25,11.5प्रजापतिर्विश्वजित् ।
25,11.6ऐकाहिकी प्रतिपद् ।
25,11.7एकाहो वै विश्वजित् ।
25,11.8प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
25,11.9तदाहुरथ कस्माद्विश्वजिति सर्व पृष्ठ एकाहे तृतीय सवने शिल्पानि शस्यन्ते कस्मादग्निष्टोमे मध्यंदिन इति ।
25,11.10ये वा इमे अवाञ्चः प्राणास्तानि शिल्पानि ।
25,11.11पुरुषो वै यज्ञः ।
25,11.12तस्य य ऊर्ध्वा प्राणास्तत्प्रातः सवनम् ।
25,11.13आत्मा मध्यंदिनः ।
25,11.14ये अवाञ्चस्तत्तृतीय सवनम्ताइ शिल्पानि ।
25,11.15तस्मात्तृतीय सवने शिल्पानि शस्यन्ते ।
25,11.16एतद्द्ह्येषामायतनम् ।
25,11.17अथ यदग्निष्टोमे सत्रिये सांवत्सरिके विश्वजिति सर्व पृष्ठे मध्यंदिने शिल्पानि शस्यन्ते ।
25,11.18आत्मा वै पृष्ठानि ।
25,11.19प्राणाः शिल्पानि ।
25,11.20न वा अन्तरेण आत्मानम्प्राणाः ख्यायन्ते ।
25,11.21न प्राणानन्तरेण आत्मा ।
25,11.22नो एतन्नाना ।
25,11.23तस्मादग्निष्टोम एव अपि मध्यंदिने शिल्पानि शस्यन्ते ।
25,11.24न इत्प्राणेभ्य आत्मानमपादधानि इति ।
25,11.25अथो प्रजापतिर्वै विश्वजित् ।
25,12.1सर्वम्वै प्रजापतिर्विश्वजित् ।
25,12.2तत्सर्वेण सर्वमाप्नोति य एवम्वेद ।
25,12.3तत्र अग्नि मारुते रौद्रीम्शस्त्वा होता एवया मरुतम्पङ्क्ति शंसम्शंसति ।
25,12.4पाङ्क्तो वै यज्ञो यज्ञस्य एव अवाप्त्यै ।
25,12.5न इदच्छावाकस्य शिल्पमन्तरयाम इति ।
25,12.6अथो रुद्रो वै ज्येष्ठश्च श्रेष्ठश्च देवानाम् ।
25,12.7अतिच्छन्दाश्छन्दसाम् ।
25,12.8विश्वजिदेकाहानाम् ।
25,12.9तदेनत्स्वेन छन्दसा समर्धयति ।
25,12.10तस्य तिसृषु न्यूङ्खयति ।
25,12.11न्यूङ्खयितुम्चेद्द्रियेत ।
25,12.12सर्वास्वेव न्यूङ्खयेत् ।
25,12.13अन्नम्वै न्यूङ्खः ।
25,12.14अन्नम्प्राणः ।
25,12.15प्राणाः शिल्पानि ।
25,12.16प्राण एव तत्प्राणान्दधाति ।
25,12.17अथो विश्वजिता वै प्रजापतिः सर्वाः प्रजा अजनयत्सर्व उदजयत् ।
25,12.18एतद्वा एष जायते विश्वजिता यो यजते ।
25,12.19तस्मान्न्यूङ्खयति ।
25,12.20न्यूङ्खमानक इव वै प्रथमम्चिचर्षंश्चरति ।
25,12.21तदेनममृतात्छन्दसो अमृतत्वाय प्रजनयन्ति ।
25,12.22ते अमृतत्वमाप्नुवन्ति ये विश्वजितमुपयन्ति ।
25,12.23सो अग्निष्टोमः संतिष्ठते ।
25,12.24यः सत्रियः सांवत्सरिको विश्वजित् ।
25,13.1प्रतिष्ठा वा अग्निष्टोमः प्रतिष्ठित्या एव ।
25,13.2एकाह उ चेद्विश्वजिद्रात्रि सत्रस्य वा विषुवानतिरात्र एव स्यात् ।
25,13.3स कृत्स्नो विश्वजिद्यो अतिरात्रः ।
25,13.4अर्धम्वै विश्वजितो अह्ना क्रियते ।
25,13.5अर्धम्रात्र्या ।
25,13.6सर्व पराजिदु ह एव स यो अन्यत्र सर्व वेदसाद्वा सत्राद्वा क्रियते ।
25,13.7सर्व ज्यानिर्ह एव सा ।
25,13.8यो अन्यत्र विश्वजितः सर्वम्ददाति ।
25,13.9विश्वजिच्चेत्सर्वमेव ।
25,13.10सर्वमु चेद्विश्वजिदेव ।
25,13.11यो ह वै न सर्वम्ददामि इति ब्रुवन् ।
25,13.12कर्तपत्यमेव तज्जीयते प्र वा मीयते इति ह स्म आह ।
25,13.13सहस्रम्वा एनमवरुन्ध इति ह स्म आह कौषीतकिः ।
25,13.14सर्वम्वै तद्यत्सहस्रम् ।
25,13.15सर्वम्विश्वजित् ।
25,13.16तत्सर्वेण सर्वमाप्नोति य एवम्वेद ।
25,13.17वत्सच्छवीन्परिदधीत ।
25,13.18रिरिचान इव वा एतस्य आत्मा भवति यः सर्वम्ददाति ।
25,13.19वत्सम्वै पशवो वाञ्छन्ति ।
25,13.20पुनर्मा पशवो वाञ्छन्त्विति ।
25,13.21उदुम्बरे वसेत् ।
25,13.22ऊर्ग्वा अन्न अद्यमुदुम्बरः ।
25,13.23ऊर्जो अन्न अद्यस्य उपाप्त्यै ।
25,13.24नैषादे वसेत् ।
25,13.25एतद्वा अवर अर्ध्यमन्न अद्यम्नन्नैषादः ।
25,13.26अवर अर्ध्यस्य अन्न अद्यस्य उपाप्त्यै ।
25,13.27वैश्ये वसेत् ।
25,14.1वैश्यो वै पुष्यति इव ।
25,14.2यद्वैश्ये अन्न अद्यम्तस्य उपाप्त्यै ।
25,14.3क्षत्रिये वसेत् ।
25,14.4एतद्वै पर अर्ध्यमन्न अद्यम्यत्क्षत्रियः ।
25,14.5पर अर्ध्यस्य अन्न अद्यस्य उपाप्त्यै ।
25,14.6ब्राह्मणे समान्गोत्रे वसेत् ।
25,14.7यत्समाने गोत्रे अन्न अद्यम्तस्य उपाप्त्यै ।
25,14.8संवत्सरम्चरेदधः संवेश्य फाल कृष्टाश्य प्रतिगृह्णन्न अन्नम्याचन्निदम्तत्तदनुवसानः ।
25,14.9तत्तेन अनुवस्ते ।
25,14.10द्वादश रात्रम्चरित्वा अथ अन्यस्यै बुभूषायै स्यादिति ह स्म आह कौषीतकिः ।
25,14.11द्वादश वै मासाः संवत्सरः ।
25,14.12सा संवत्सरस्य प्रतिमा इति ।
25,14.13प्राजापत्यान्यनिरुक्तानि होत्राणामाज्यानि भवन्ति ।
25,14.14तस्य ता नः शक्तम्पार्थिवस्य युञ्जन्ति ब्रध्नमरुषम्ता हि शश्वन्त ईडते तमीडिष्व यो अर्चिषा इति वा स्तोत्रियाः ।
25,14.15ये षष्ठस्य अह्नः स्तोत्रियास्ते विश्वजितो अनुरूपाः ।
25,14.16प्राजापत्यम्वै षष्ठमहः ।
25,14.17प्रजापतिर्विश्वजित् ।
25,14.18इतरे पञ्च तदुक्थम् ।
25,14.19पर्यासैः परिदधति ।
25,14.20प्रतिष्ठा वै पर्यासाः ।
25,14.21प्रतिष्ठित्या एव प्रतिष्ठ्त्या एव ।
25,14.22