मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 4

3
खण्डिका 1

अनुनिर्वाप्यया वै देवा असुरानपाघ्रत ।

4,1.1

तथो एव एतद्यजमानो अनुनिर्वाप्यया एव द्विषतो भ्रातृव्यानपहते ।

4,1.2

स वा इन्द्राय विमृध एकादश कपालम्पुलोडाशम्निर्वपति ।

4,1.3

इन्द्रो वै मृधाम्विहन्ता ।

4,1.4

स एव अस्य मृधो विहन्ति ।

4,1.5

अथो आमावास्यमेव एतत्प्रत्याहरति यत्पौर्णमास्यामिन्द्रम्यजति ।

4,1.6

अत्र संस्थित दर्श पूर्ण मासौ यजमानो यद्यपर पक्षे भङ्गम्नीयात् ।

4,1.7

न अस्य यज्ञ विकर्षः स्यात् ।

4,1.8

अथ यदमावास्यायामदितिम्यजति ।

4,1.9

यज्ञस्य एव सभारतायै ।

4,1.10

सा सम्याज्यातो विमृद्वती भवति ।

4,1.11
खण्डिका 2

अथ अतो अभ्युदितायाः ।

4,2.1

एहि ह वा एष यज पथात् ।

4,2.2

यस्य उपवसथे पुरस्ताच्चन्द्रो दृश्यते ।

4,2.3

सो अग्नये दात्रे अष्टा कपालम्पुरोडाशम्निर्वपति ।

4,2.4

अग्निर्वै दाता ।

4,2.5

स एव अस्मै यज्ञम्ददाति ।

4,2.6

इन्द्राय प्रदात्रे सायम्दोहितम्दधि ।

4,2.7

इन्द्रो वै प्रदाता ।

4,2.8

स एव अस्मै यज्ञम्प्रयच्छति ।

4,2.9

विष्णवे शिपि विष्टाय प्रातर्दोहिते पयसि चरुम् ।

4,2.10

यज्ञो वै विष्णुः ।

4,2.11

स एव अस्मै यज्ञम्ददाति ।

4,2.12

तद्यदेता देवता याति ।

4,2.13

न इद्यज्ञ पथादयानि इति ।

4,2.14

तिसृधन्वम्दक्षिणा ।

4,2.15

तत्स्वस्त्ययनस्य रूपम् ।

4,2.16
खण्डिका 3

अथ अतो अभ्युद्दृष्टायाः ।

4,3.1

एहि ह वा एष यज्ञ पथात् ।

4,3.2

यस्य उपसवथे पश्चाच्चन्द्रो दृश्यते ।

4,3.3

सो अग्नये पथि कृते अष्टा कपालम्पुरोडाशम्निर्वपति ।

4,3.4

अग्निर्वै पक्षिकृत् ।

4,3.5

स एव एनम्यज्ञ पथमपिपातयति ।

4,3.6

इन्द्राय वृत्रघ्न एकादश कपालम् ।

4,3.7

इन्द्रो वै वृत्रहा ।

4,3.8

स एव एनम्पुनर्यज्ञ पथमपिपातयति ।

4,3.9

वैश्वानरीयम्द्वादश कपालम् ।

4,3.10

असौ वै वैश्वानरो यो असौ तपति ।

4,3.11

एष एव एनम्पुनर्यज्ञ पथमपिपातयति ।

4,3.12

तद्यदेता देवता यजति ।

4,3.13

न इद्यज्ञ पथादयानि इति ।

4,3.14

दण्ड उपानहम्दक्षिणा ।

4,3.15

तदभयस्य रूपम् ।

4,3.16
खण्डिका 4

अथ अथो दाक्षायण यज्ञस्य ।

4,4.1

दाक्षायण यज्ञेन इष्यन्फाल्गुन्याम्पौर्णमास्याम्प्रयुङ्क्ते ।

4,4.2

मुखम्वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी ।

4,4.3

तस्मात्तस्यामदीक्षित अयनानि प्रयुज्यन्ते ।

4,4.4

अथो दक्षो ह वै पार्वतिरेतेन यज्ञेन इष्ट्वा सर्वान्कामानाप ।

4,4.5

तद्यद्दाक्षायण यज्ञेन यजते ।

4,4.6

सर्वेषामेव कामानामाप्त्यै ।

4,4.7

नाशने काममापयीत ।

4,4.8

सोमम्राजानम्चन्द्रमसम्भक्षयानि इति मनसा ध्यायन्नश्नीयात् ।

4,4.9

तदसौ वै सोमो राजा विचक्षणश्चन्द्रमाः ।

4,4.10

तमेतमपर पर्क्षम्देवा अभिषुण्वन्ति ।

4,4.11

तद्यदपर पक्षम्दाक्षायण यज्ञस्य व्रतानि चरन्ति ।

4,4.12

देवानामपि सोम पीथो असानि इति ।

4,4.13

अथ यदुपवसथे अग्नीषोमीयमेकादश कपालम्पुरोडाशम्निर्वपति ।

4,4.14

य एव असौ सोमस्य उपवसथे अग्नीषोमीयः ।

4,4.15

तमेव अस्य तेन आप्नोति ।

4,4.16

अथ यत्प्रातरामावास्येन यजते ।

4,4.17

ऐन्द्रम्वै सुत्यमहः ।

4,4.18

तत्सुत्यमहराप्नोति ।

4,4.19

अथ यदमावास्याया उपवसथ ऐन्द्राग्नम्द्वादश कपालम्पुरोडाशम्निर्वपति ।

4,4.20

ऐन्द्राग्नम्वै सामतस्तृतीय सवनम् ।

4,4.21

तत्तृतीय सवनमाप्नोति ।

4,4.22

अथ यन्मैत्रावरुणी पयस्या ।

4,4.23

मैत्रावरुणी वा अनूबन्ध्या ।

4,4.24

तदनूबन्ध्यामाप्नोति ।

4,4.25

स एष सोमो हविर्यज्ञाननुप्रविष्टः ।

4,4.26

तस्माददीक्षितो दीष्कित व्रतो भवति ।

4,4.27
खण्डिका 5

अथ अत इडादधस्य ।

4,5.1

इडादधेन इष्यन्नेतस्यामेव पौर्णमास्याम्प्रयुङ्क्ते तस्या उक्तम्ब्राह्मणम् ।

4,5.2

स एष पशु कामस्य अन्न अद्य कामस्य यज्ञः ।

4,5.3

तेन पशु कामो अन्न अद्य कामो यजेत ।

4,5.4

तत्र तथा एव व्रतानि चरति ।

4,5.5

दाक्षायण यज्ञस्य हि समासः ।

4,5.6

अथ अतः सार्वसेनि यज्ञस्य ।

4,5.7

सार्वसेनि यज्ञेन इष्यन्नेतस्यामेव पौर्णमास्याम्प्रयुङ्क्ते तस्या उक्तम्ब्राह्मणम् ।

4,5.8

स एष तु स्तूर्षमाणस्य यज्ञः ।

4,5.9

स य इच्छेद्द्विषन्तम्भ्रातृव्यम्स्तृण्वीय इति ।

4,5.10

स एतेन यजने स्तृणुते ह ।

4,5.11

अथ अतः शौनक यज्ञस्य ।

4,5.12

शौनक यज्ञेन इष्यन्नेतस्यामेव पौर्णमास्याम्प्रयुङ्क्ते तस्या उक्तम्ब्राह्मणम् ।

4,5.13

स एष प्रजाति कामस्य यज्ञः ।

4,5.14

तेन प्रजाति कामो यजेत ।

4,5.15

तद्यदध्वर्युर्हवींषि प्रजनयति तत्प्रजात्यै रूपम् ।

4,5.16
खण्डिका 6

अथ अतो वसिष्ठ यज्ञस्य ।

4,6.1

वसिष्ठ यज्ञेन इष्यन्फाल्गुन्याममावास्यायाम्प्रयुङ्क्ते ।

4,6.2

ब्रह्म वै पौर्णमासी ।

4,6.3

क्षत्रममावास्या ।

4,6.4

क्षत्रमिव एष यज्ञः ।

4,6.5

क्षत्रेण शत्रून्त्सहा इति ।

4,6.6

वसिष्ठो अकामयत हत पुत्रः प्रजायेन प्रजया पशुभिरभि सौदासान्भवेयमिति ।

4,6.7

स एतम्यज्ञ क्रतुमपश्यद्वसिष्ठ यज्ञम् ।

4,6.8

तेन इष्ट्वा प्राजायत प्रजया पशुभिरभि सौदासानभवत् ।

4,6.9

तथो एव एतद्यजमानो यद्वसिष्ठ यज्ञेन यजने ।

4,6.10

प्रजायते प्रजया पशुभिरभि द्विषतो भ्रातृव्यान्भवति ।

4,6.11

अथ अतः साकम्प्रस्थाय्यस्य ।

4,6.12

साकम्प्रस्थाय्येन इष्यन्नेतस्यामेव अमावास्यायाम्प्रयुङ्क्ते तस्या उक्तम्ब्राह्मणम् ।

4,6.13

स एष श्रैष्ठ्य कामस्य पौरुष कामस्य यज्ञः ।

4,6.14

तेन श्रैष्ठ्य कामः पौरुष कामो यजते ।

4,6.15

तद्यत्साकम्सम्प्रतिष्ठन्ते ।

4,6.16

साकम्सम्प्रयजन्ते ।

4,6.17

साकम्सम्भक्षयन्ते ।

4,6.18

तस्मात्साकम्प्रस्थाय्यः ।

4,6.19
खण्डिका 7

अथ अतो मुन्ययनस्य ।

4,7.1

मुन्ययनेन इष्यन्नेतस्यामेव पौर्णमास्याम्प्रयुङ्क्ते तस्या उक्तम्ब्राह्मणम् ।

4,7.2

स एष सर्व कामस्य यज्ञः ।

4,7.3

तेन सर्व कामो यजेत ।

4,7.4

अथ अतस्तुरायणस्य ।

4,7.5

तुरायणेन इष्यन्नेतस्यामेव पौर्णमास्याम्प्रयुङ्क्ते तस्या उक्तम्ब्राह्मणम् ।

4,7.6

स एष स्वर्ग कामस्य यज्ञः ।

4,7.7

ब्रह्मणा एव तदात्मानम्समर्धयति ।

4,7.11

तानि वै त्रीणि हवींषि भवन्ति ।

4,7.12

त्रयो वा इमे लोकाः ।

4,7.13

इमानेव तल्लोकानाप्नोति ।

4,7.14
खण्डिका 8

अथ अत आग्रयणस्य ।

4,8.1

आग्रयणेन अन्न अद्य कामो यजेत वर्षासागते श्यामाक सस्ये ।

4,8.2

श्यामाकानुद्धर्तव आह ।

4,8.3

सा या तस्मिन्काले अमावास्या उपसम्पद्येत ।

4,8.4

तया इष्ट्वा अथ एतया इष्ट्या यजेत ।

4,8.5

यदि पौरुणमासी ।

4,8.6

एतया इष्ट्वा अथ पौर्णमासेन यजेत ।

4,8.7

यद्यु नक्षत्रमुपेप्सेत् ।

4,8.8

पूर्व पक्षे नक्षत्रमुदीक्ष्य यस्मिन्कल्याणे नक्षत्रे कामयेत तस्मिन्यजेत ।

4,8.9

तस्यै सप्तदश सामिधेन्यः सद्वान्तावाज्य भागौ विराजौ सम्याज्ये तस्य उक्तम्ब्राह्मणम् ।

4,8.10

सौम्यश्चरुः ।

4,8.11

सोमो वै राजा ओषधीनाम् ।

4,8.12

तदेनम्स्वया दिशा प्रीणाति ।

4,8.13

अथ यन्मधु पर्कम्ददाति ।

4,8.14

एष ह्यारण्यानाम्रसः ।

4,8.15
खण्डिका 9

अथ वसन्त आगते पक्वेषु वेणु यवेषु ।

4,9.1

वेणु यवानुद्धर्तव आह ।

4,9.2

तस्या एतदेव पर्व एतत्तन्त्रमेषा देवता एषा दक्षिणा एतद्ब्राह्मणम्।

4,9.3

ताम्ह एक आग्नेयीम्वा वारुणीम्वा प्राजापत्याम्वा कुर्वन्त्येतत्तन्त्रामेव एतद्ब्राह्मणाम् ।

4,9.4

अथ व्रीहि सस्ये वा यव सस्ये वा आगते ।

4,9.5

आग्रयणीयानुद्धर्तव आह ।

4,9.6

तस्या एतदेव पर्व एतत्तन्त्रम् ।

4,9.7

अथ यदैन्द्राग्नो द्वादश कपालः ।

4,9.8

इन्द्राग्नी वै देवानाम्मुखम् ।

4,9.9

मुखत एव तद्देवान्प्रीणाति ।

4,9.10

अथ यद्वैश्वदेवश्चरुः ।

4,9.11

एते वै सर्वे देवा यद्विश्वे देवाः ।

4,9.12

सर्वेषामेव देवानाम्प्रीत्यै ।

4,9.13

अथ यद्द्यावा पृथिवीय एक कपालः ।

4,9.14

द्यावा पृथिवी वै सस्यस्य साधयित्र्यै ।

4,9.15

प्रतिष्ठा पृथिवी ओद्म्ना असावनुवेद ।

4,9.16

तद्यदेता देवता यजति ।

4,9.17

एताभिर्देवताभिः शान्तमन्नमत्स्यामि इति ।

4,9.18
खण्डिका 10

अथ य प्रथजम्गाम्ददाति ।

4,10.1

पथम कर्म ह्येतत् ।

4,10.2

यद्येतस्यै ग्लायात् ।

4,10.3

पौर्णमासम्वा अमावास्यम्वा हविष्कुर्वीत नवानामुभयस्य आप्त्यै ।

4,10.4

अपि वा पौर्णमासे वा अमावास्ये वा हवींष्यनुवर्तयेद्देवतानामपरिहाणाय ।

4,10.5

अपि वा यवाग्वा एव सायम्प्रातरग्निहोत्रम्जुहुयान्नवानामुभयस्य आप्त्यै ।

4,10.6

अपि वा स्थाली पाकमेव गार्हपत्ये श्रपयित्वा नवानामेताभ्य आग्रयण देवताभ्य आहवनीये जुहुयात्स्विष्टकृच्चतुर्थीभ्यो अमुष्यै स्वाहा अमुष्यै स्वाहा इति देवतानामपरिहाणाय ।

4,10.7

अपि वा अग्निहोत्रीमेव नवानादयित्वा तस्यै दुग्धेन सायम्प्रातरग्निहोत्रम्जुहुयादुभयस्य आप्त्यै ।

4,10.8

एत एतावन्तः पाताः ।

4,10.9

तेषाम्येन कामयेत तेन यजेत ।

4,10.10

त्रिहविस्तु स्थिता ।

4,10.11

त्रयो वा इमे लोकाः ।

4,10.12

इमानेव तल्लोकानाप्नोति इमानेव तल्लोकानाप्नोति ।

4,10.13