मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 22

3
खण्डिका 1

प्रथममहरयमेव लोक आयतनेन ।

22,1.1

अग्निर्गायत्री त्रिवृत्स्तोमो रथन्तरम्साम ।

22,1.2

तन्न्वस्य निदानम् ।

22,1.3

तस्य एता छन्दो रूपाणि ।

22,1.4

करिष्यन्प्रथमे पदे सदेवम् ।

22,1.5

यद्वै भविष्यत्तत्करिष्यत् ।

22,1.6

यद्वै भविष्यत्तत्करिष्यत् ।

22,1.6

आवत्प्रवदेषवदर्षवदद्यवद्युक्तवद्युञ्जानवज्ज्योतिष्मदिति ।

22,1.7

उपप्रयन्तो अध्वरमित्याज्यम्प्रवत् ।

22,1.8

प्रवद्वै प्रथमस्य अह्ने रूपम् ।

22,1.9

गायत्रम्गायत्र प्रातः सवनो ह्येष त्र्यहः ।

22,1.10

इति नु व्यूढे ।

22,1.11

उद्धृत्य एतत्प्र वो देवाय अग्नय इति समूढे तस्य उक्तम्ब्राह्मणम् ।

22,1.12

माधुच्छन्दस प्रौगस्तस्य उक्तम्ब्राह्मणम् ।

22,1.13

आ यात्विन्द्रो अवस उप न इति मरुत्वतीयमावत् ।

22,1.14

आवद्वै प्रथमस्य अह्नो रूपम् ।

22,1.15

स्वर्णरादवसे नो मरुत्वानिति स एव अस्मिन्मरुन्न्यङ्गः ।

22,1.16

आ न इन्द्रो दूरादा न आसादिति निष्केवल्यमावत् ।

22,1.17

आवद्वै प्रथमस्य अह्नो रूपम् ।

22,1.18

सम्पातौ निष्केवल्य मरुत्वतीये भवतः प्रथमे अहन् ।

22,1.19

सम्पातैर्वै देवाः स्वर्गंल्लोकम्समपतन् ।

22,1.20

तस्मादत्र प्रथमौ शस्येते स्वर्ग्यौ ।

22,1.21

तद्यत्सम्पातौ निष्केवल्य मरुत्वतीये भवतः प्रथमे अहन् ।

22,1.22

स्वर्गस्य एव लोकस्य समष्ठ्या इति ।

22,1.23
खण्डिका 2

युञ्जते मन उत युज्ञते धियः प्र द्यावा यज्ञैः पृथिवी ऋतावृधा इह इह वो मनसा बन्धुता नर इत्यार्भवम् ।

22,2.1

तेन नियच्छति ।

22,2.2

युक्तवन्ति च वै प्रवन्ति च प्रथमे अहन्त्सूक्तानि शस्यन्ते ।

22,2.3

तद्यदिह इह व इत्यार्भवम्करोति ।

22,2.4

तन्नियत्या अप्रच्युत्यै रूपम् ।

22,2.5

हयो न विद्वानयुजि स्वयम्धुरि इति वैश्वदेवम्युक्तवत् ।

22,2.6

युक्तवद्वै प्रथमस्य अह्नो रूपम् ।

22,2.7

तस्य द्वे उत्तमे उत्सृजति ।

22,2.8

कुविदेते अवधृते आग्निमारुते शस्येते इति ।

22,2.9

तदु ह स्म आह कौषीतकिः ।

22,2.10

शंसेदेव सूक्तस्य अव्यवच्छेदाय इति ।

22,2.11

न ह वा ऋक्शस्त्रेण यात यामा भवति ।

22,2.12

न अनुवचनेन ।

22,2.13

वषट्कारेण ह वै सा यात यामा भवति समाने अहन् ।

22,2.14

वैश्वानराय पृथु पाजसे विप इति वैश्वानरीयम् ।

22,2.15

तस्मिन्त्सुम्नानि यजमान आ चक इत्यावत् ।

22,2.16

आवद्वै प्रथमस्य अह्नो रूपम् ।

22,2.17

प्र शर्धाय मारुताय स्व भानव इति मारुतम्प्रवत् ।

22,2.18

प्रवद्वै प्रथमस्य अह्नो रूपम् ।

22,2.19

प्र तव्यसीम्नव्यसीम्धीतिमग्नय इति जातवेदसीयम्प्रवत् ।

22,2.20

प्रवद्वै प्रथमस्य अह्नो रूपम् ।

22,2.21

इमंल्लोकम्प्रथमेन अह्ना आप्नुवन्ति ।

22,2.22

गायत्रीम्छन्दस्त्रिवृतम्स्तोमम्रथन्तरम्साम ।

22,2.23

प्राचीम्दिशम्वसन्तमृतूनाम् ।

22,2.24

वसून्देवान्देव जातमग्निमधिपतिम् ।

22,2.25
खण्डिका 3

द्वितीयमहरन्तरिक्ष लोक आयतनेन ।

22,3.1

इन्द्रस्त्रिष्टुप्पञ्चदशः स्तोम ।

22,3.2

तन्न्वस्य निदानम् ।

22,3.3

तस्य एतानि छन्दो रूपाणि ।

22,3.4

कुर्वन्मध्ये पदे सदेवम् ।

22,3.5

यद्वै प्रत्यक्षमास्प्रक्षंस्तत्कुर्वत् ।

22,3.6

हतवद्वज्रवद्वृत्रहवद्वृषण्वदुद्वद्विवत्स्थितम्तन्वामिति ।

22,3.7

अग्निम्दूतम्वृणीमह इत्याज्यम् ।

22,3.8

होतारम्विश्ववेदसमिति विवत्तस्य उक्तम्ब्राह्मणम् ।

22,3.9

गायत्रम्गायत्र प्रातः सवनो ह्येष त्र्यहः ।

22,3.10

इति नु व्यूढे ।

22,3.11

उद्धृत्य एतत्त्वम्हि क्षैतवद्यश इति समूढे तस्य उक्तम्ब्राह्मणम् ।

22,3.12

आर्त्समदः प्रौगस्तस्य उक्तम्ब्राह्मणम् ।

22,3.13

तदेतस्य अह्नो रूपम् ।

22,3.16

या त ऊतिरवमा या परमा इति निष्केवल्यम् ।

22,3.17

ताभिरू षु वृत्रहत्ये अवीर्न इति वृत्रहवत् ।

22,3.18

तदेतस्य अह्नो रूपम् ।

22,3.19

विश्वो देवस्य नेतुरा विश्व देवम्सत्पतिमिति प्रतिपदनुचरौ तयोरुक्तम्ब्राह्मणम् ।

22,3.20
खण्डिका 4

तद्देवस्य सवितुर्वार्यम्महदिति सावित्रम् ।

22,4.1

त्रिरन्तरिक्षम्सविता महित्वना इति ।

22,4.2

तत्प्रत्यक्षमन्तरिक्षमभिवदति ।

22,4.3

तदेतस्य अह्नो रूपम् ।

22,4.4

ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम्विवत्तस्य उक्तम्ब्राह्मणम् ।

22,4.5

तक्षन्रथम्सुवृतम्विद्मना अपस इत्यार्भवम् ।

22,4.6

तक्षन्हरी इन्द्र वाहा वृषण्वसू इति वृषण्वत्तस्य उक्तम्ब्राह्मणम् ।

22,4.7

यज्ञस्य वो रथ्यम्विश्पतिम्विशामिति शार्यातम्वैश्वदेवम् ।

22,4.8

वृषा केतुर्यजतो द्यामशायत इति वृषण्वत्तस्य उक्तम्ब्राह्मणम् ।

22,4.9

पृष्कस्य वृष्णो वृष्णे शर्धाय इति वृषण्वती तयोरुक्तम्ब्राह्मणम् ।

22,4.10

नू चित्सहोता अमृतो नि तुन्दत इति जातवेदसीयम् ।

22,4.11

होता यद्दूतो अभवद्विवस्वत इति विवत्तस्य उक्तम्ब्राह्मणम् ।

22,4.12

तस्य प्रातर्मक्षू धियावसुर्जगम्यादित्युत्तमा ।

22,4.13

परमेव एतदहरभिवदति ।

22,4.14

परमेव एतदहरभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः ।

22,4.15

अन्तरिक्ष लोकम्द्वितीयेन अह्ना आप्नुवन्ति ।

22,4.16

त्रिष्टुभम्छन्दः पञ्चदशम्स्तोमम्बृहत्साम ।

22,4.17

दक्षिणाम्दिशम्ग्रीष्ममृतूनाम् ।

22,4.18

रुद्रान्देवान्देव जातमिन्द्रमधिपतिम् ।

22,4.19
खण्डिका 5

तृतीयमहरसावेव लोक आयतनेन ।

22,5.1

वरुणो जगती सप्तदश स्तोमो वैरूपम्साम ।

22,5.2

तन्न्वस्य निदानम् ।

22,5.3

तस्य एतानि छन्दो रूपाणि ।

22,5.4

चकृवदुत्तमे पदे सदेवम् ।

22,5.5

यद्वै भूत अनुवादि तच्चकृवत् ।

22,5.6

अश्वावद्गोमद्रथवद्गतवत्स्थितवदन्तवत्सोदर्कमनिरुक्तम्सप्रभृति इति ।

22,5.7

युक्ष्वा हि देव हूतमानित्याज्यम् ।

22,5.8

तदाहुर्यदन्तस्तृतीयमहरथ कस्माद्युक्तवदाज्यमिति ।

22,5.9

एतेन वा अह्ना देवाः स्वर्गंल्लोकमायन् ।

22,5.10

युक्ता वै तदायन् ।

22,5.11

तस्मादिति ब्रूयात् ।

22,5.12

अश्वानग्ने रथीरि इव इति रतह्वत् ।

22,5.13

तदेतस्य अह्नो रूपम् ।

22,5.14

गायत्रम्गायत्र प्रातः सवनो ह्येष त्र्यहः ।

22,5.15

इति नु व्यूढे ।

22,5.16

उद्धृत्य एतत्त्वमग्ने वसूंरिह इति समूढे तस्य उक्तम्ब्राह्मणम् ।

22,5.17

औष्णिह आत्रेयः प्रौगः ।

22,5.18

जागतम्वै तृतीयमहः ।

22,5.19

तद्यदौष्णिह आत्रेयस्तृतीयस्य अह्नः प्रौगः ।

22,5.20

तत्प्रातः सवनम्जगती भजते ।

22,5.21

त्र्यर्यमा मनुषी देवताताअ इति मरुत्वतीयम् ।

22,5.22

त्रि इति तत्तृतीयस्य अह्नो रूपम् ।

22,5.23

यद्द्वाय इन्द्र ते शतमिति वैरूपस्य स्तोत्रियः ।

22,5.24

शतम्भूमीरुत स्युरिति निनर्तिः ।

22,5.25

अन्तस्तृतीयमहः ।

22,5.26

नीव वा अन्तम्गत्वा नृत्यति ।

22,5.32

कद्र्यन्हि तत इयात् ।

22,5.33

इन्द्र त्रि धातु शरणमिति त्रिवान्प्रगाथः ।

22,5.34

त्रि धात्विति तत्तृतीयस्य अह्नो रूपम् ।

22,5.35

अहम्भुवम्वसुनः पूर्व्यस्पतिरिति इन्द्र सूक्तम् ।

22,5.36

अहमहमिति सप्रभृति ।

22,5.37

यथा वै सोदर्कमेवम्सप्रभृत्यन्त रूपम्जागतम् ।

22,5.38

जागतम्वै तृतीयमहः ।

22,5.39

तदेनत्स्वेन छन्दसा समर्धयति ।

22,5.40

यो जात एव प्रथमो मनस्वानित्येतस्मिंस्त्रैष्टुभे निविदम्दधाति ।

22,5.41

तदेतदिन्द्र तनू सूक्तम् ।

22,5.42

एतस्मिन्ह गृत्समदो बाभ्रवो निविदम्दधदिन्द्रस्य प्रियम्धाम उपजगाम ।

22,5.43

उप ह वा इन्द्रस्य प्रियम्धाम गच्छति जयति परम्लोकम्य एतस्मिन्त्सूक्ते निविदम्दधाति ।

22,5.44

तस्य तदेव अन्त रूपम्यद्भूत अनुवादि यो दासम्वर्णमधरम्गुहाकरि इति ।

22,5.45

यदेतद्भूतमिव अभि ।

22,5.46

सोदर्कम्भवति तद्द्वितीयमन्त रूपम् ।

22,5.47
खण्डिका 6

अभि त्वा देव सवितरित्यभिवाननुचरः ।

22,6.1

पृष्ठानामेव नानात्वाय ।

22,6.2

तदाहुर्यदन्तस्तृतीयमहरथ कस्मादभिवाननुचर इति ।

22,6.3

एतेन वा अह्ना देवाः स्वर्गंल्लोकमायन् ।

22,6.4

अभिप्रेप्सन्तो वै तदायन् ।

22,6.5

तस्मादिति ब्रूयात् ।

22,6.6

उदु ष्य देवः सविता हिरण्यया घृतवती भुवनानामभिश्रिया इति घृतवती तयोरुक्तम्ब्राह्मणम् ।

22,6.7

अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम् ।

22,6.8

रथस्तिचक्रः परि वर्तते रज इति ।

22,6.9

त्रिचक्र इति तत्तृतीयस्य अह्नो रूपम् ।

22,6.10

परावतो ये दिधिषन्त आप्यमिति वैश्वदेवम् ।

22,6.11

अर्ध पद उदर्काण्येकानि ।

22,6.18

अथ एतत्तृतीय पद उदर्कम् ।

22,6.19

तत्तृतीयस्य अह्नो रूपम् ।

22,6.20

वैश्वानराय धिषणामृता वृध इति वैश्वानरीयम् ।

22,6.21

घृतम्न पूतमग्रन्ये जनामसि इति घृतवत्तस्य उक्तम्ब्राह्मणम् ।

22,6.22

धारा वरा मरुतो धृषण्वोजस इति मारुतम् ।

22,6.23

धारावरा इति निनर्तिः ।

22,6.24

अन्तस्तृतीयमहः ।

22,6.25

नीव वा अन्तम्गत्वा नृत्यति ।

22,6.26

कद्र्यन्हि तत इयात् ।

22,6.27

त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति जातवेदसीयम् ।

22,6.28

त्वम्त्वमिति सप्रभृति ।

22,6.29

यथा वै सोदर्कमेवम्सप्रभृत्यन्त रूपम् ।

22,6.30

अमुंल्लोकम्तृतीयेन अह्ना आप्नुवन्ति ।

22,6.31

जगतीम्छन्दः सप्तदशम्स्तोमम्वैरूपम्साम ।

22,6.32

प्रतीचीम्दिशम्वर्षा ऋतूनाम् ।

22,6.33

आदित्यान्देवान्देव जातम् ।

22,6.34

वरुणमधिपतिम्वरुणमधिपतिम् ।

22,6.35