मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 9

3
खण्डिका 1

ब्रह्म वै अग्निः ।

9,1.1

तद्यदुपवसथे अग्निम्प्रणयति ।

9,1.2

ब्रह्मणा एव तद्यजमानस्य पाप्मानमपघ्नन्ति ।

9,1.3

पुरस्तादाहवनीयेन ।

9,1.4

पश्चाद्गार्हपत्येन ।

9,1.5

उत्तरत आग्नीध्रियेण ।

9,1.6

दक्षिणतो मार्जालीयेन ।

9,1.7

ये अन्तः सदसम्तैर्मध्यतः ।

9,1.8

तस्मादुपवसथे प्राञ्चमग्निम्प्रणयन्ति ।

9,1.9

वि धिष्ण्यान्हरन्ति ।

9,1.10

यजमानस्य एव पाप्मनो अपहत्यै ।

9,1.11

देवा वै दीक्षिष्यमाणा वाचमपासादयन्त ।

9,1.12

बहु त्वमुच्च अवचम्निगच्छसि ।

9,1.15

ताम्देवास्तत्र न अभाजन्त ।

9,1.16

सा प्रायणीये तामु तत्र नो भव ।

9,1.17

सा क्रये तामु तत्र नो भव ।

9,1.18

सा आतिथ्ये तामु तर नो भव ।

9,1.19

सो वा एतदुपसदो नाचन आगच्छन्निर्विद्य एव ।

9,1.20

तस्मादु तत्र उपांशु चरेयुः ।

9,1.21

यथा एव एव मिथः संशृण्वीरन् ।

9,1.22
खण्डिका 2

सो वा एतदुपवसथे अग्नौ प्रणीयमान आगच्छत् ।

9,2.1

ताम्देवास्तत्र अभजन्त ।

9,2.2

तस्मादु तत्र प्रथमत एव उच्चैरनुब्रूयात् ।

9,2.3

यथा एनामागतामनुबुध्येरन्न अभक्ताम्यज्ञे ।

9,2.4

प्र देवम्देव्या धिया इति प्रवन्तम्तृचम्प्रह्रियमाणाय अन्वाह ।

9,2.5

इडायास्त्वा पदे वयमिति ।

9,2.6

इयम्वा इडा ।

9,2.7

अस्याम्हि इदम्सर्वमीट्टे ।

9,2.8

जातवेदो निधीमहि इति निहितवता अर्धर्चेन निधीयमानमनुस्तौति ।

9,2.9

अग्ने विश्वेभिः स्वनीक देवैः सीद होतः स्व उ लोके चिकित्वान्निहोता होतृ षदने विदान इति सन्नवतीभिः सन्नमनुस्तौति ।

9,2.10

त्वम्दूतस्त्वमु नः परस्पा इति दूतवत्या परिदधाति ।

9,2.11

अभिरूपा अन्वाह ।

9,2.12

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

9,2.13

ता वा अष्टौ भवन्ति ।

9,2.14

एताभिर्वै देवाः सर्वा अष्टीराश्नुवत ।

9,2.15

तथो एव एतद्यजमान एताभिरेव सर्वा अष्टीरश्नुते ।

9,2.16

त्रिः प्रथमया त्रिरुत्तमया द्वादश सम्पद्यन्ते ।

9,2.17

द्वादश वै मासाः संवत्सरः ।

9,2.18

संवत्सरस्य एव आप्त्यै ।

9,2.19

ताः समनूक्ता अष्टादश गायत्र्यः सम्पद्यन्ते ।

9,2.20

आग्नेयमेव छन्दोभिः ।

9,2.21

यस्य ह कस्य च षट्समानस्य छन्दसस्ता गायत्रीमभिसम्पद्यन्ते ।

9,2.22

यस्य सप्त ता उष्णिहम् ।

9,2.23

यस्य अष्टौ ता अनुष्टुभम् ।

9,2.24

यस्य नव ता बृहतीम् ।

9,2.25

यस्य दश ताः पङ्क्तिम् ।

9,2.26

यस्य एकादश तास्त्रिष्टुभम् ।

9,2.27

यस्य द्वादश ता जगतीम् ।

9,2.28
खण्डिका 3

वाक्च वै मनश्च हविर्धाने ।

9,3.1

वाचि च वै मनसि च इदम्सर्वम्हितम् ।

9,3.2

तद्यद्द्हविर्धाने प्रवर्तयन्ति ।

9,3.3

सर्वेषामेव कामानामाप्त्यै ।

9,3.4

द्वे हविर्धाने भवतः ।

9,3.5

छदिस्तृतीयमभिनिदधति ।

9,3.6

तैर्यत्किंच त्रिविधमधिदैवतमध्यात्मम्तत्सर्वमाप्नोति ।

9,3.7

प्रेताम्यज्ञस्य शम्भुवा इति प्रवतीम्प्रवर्त्यमानाभ्यामन्वाह ।

9,3.8

द्यावा नः पृथिवी इमम्तयोरिद्घृतवत्पय इति ।

9,3.9

आशीर्वती पूर्वा ।

9,3.10

अथो द्विदेवत्या द्वयोर्हविर्धानयोः ।

9,3.11

यामध्वर्युर्वर्त्मन्याहुतिम्जुहोति ताम्पूर्वया अनुवदति ।

9,3.12

यद्द्हविर्धाने प्रवर्तयन्ति तदुत्तरया ।

9,3.13

यमे इव यतमाने यदा एतमित्यभिरूपया हविर्धाने अनुस्तौति ।

9,3.14

प्र वाम्भरन्मानुषा देवयन्त इति ।

9,3.15

बहवो ह्येते हरन्ति ।

9,3.16

अधि द्वयोरदधा उक्थ्यम्वचो विश्वा रूपाणि प्रति मुञ्चते कविरिति ।

9,3.17

यच्छर्दिस्तृतीयमभिनिदधति तत्पूर्वया अनुवदति ।

9,3.18

यद्द्हविर्धाने परिश्रयन्ते तदुत्तरया ।

9,3.19

अतो रराट्यामेव उत्तरयाण्।

9,3.20

ते यदा मन्येत अत्र न इङ्गयिष्यन्ति इति ।

9,3.21

यदा एने नभ्यस्थे कुर्युः ।

9,3.22

अथा वामुपस्थमद्रुहा इति ।

9,3.23

यदा वै क्षेमो अथ उपस्थः ।

9,3.24
खण्डिका 4

परि त्वा गिर्वणो गिर इति परिवत्या परिदधाति ।

9,4.1

अभिरूपा अन्वाह ।

9,4.2

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

9,4.3

ता वा अष्टौ भवन्ति ।

9,4.4

एताभिर्वै देवाः सर्वा अष्टीराश्नुवत ।

9,4.5

तथो एव एतद्यजमान एताभिरेव सर्वा अष्टीरश्नुते ।

9,4.6

त्रिः प्रथमया त्रिरुत्तमया द्वादश सम्पद्यन्ते ।

9,4.7

द्वादश वै मासाः संवत्सरः ।

9,4.8

संवत्सरस्य एव आप्त्यै ।

9,4.9

यद्वेव त्रिः प्रथमाम्त्रिरुत्तमाम् ।

9,4.10

यज्ञस्य एव तद्बर्सौ नह्यति स्थेम्ने अविस्रंसाय ।

9,4.11

तदु होतारमभिभाषन्ते यथा होतरभयमसत्तथा कुर्विति ।

9,4.12

सम्प्रेषितः पुरर्चः प्रतिपदनाद्दक्षिणस्य पादस्य प्रपदेन प्रत्यञ्चंल्लोकमपास्यति ।

9,4.13

अपेतो जन्यम्भयमन्य जन्यम्च वृत्रहन् ।

9,4.14

अप चक्रा अवृत्सत इति ।

9,4.15

अत उ ह चक्राणामभ्याचारः ।

9,4.16

तत उ ह तस्मा अर्धाय अभयम्भवति ।

9,4.17

स प्रान्यन्दक्षिणस्य हविर्धानस्य उत्तरम्वर्त्म उपनिश्रयीत ।

9,4.18

अयम्वै लोको दक्षिणम्हविर्धानम् ।

9,4.19

प्रतिष्ठा वा अयंल्लोकः ।

9,4.20

प्रतिष्ठायामनुच्छिन्नो असानि इति ।

9,4.21

यत्र तिष्ठन्परिदध्यात् ।

9,4.22

च्योष्यत इति तथा ह स्यात् ।

9,4.26

तस्मात्परिधाय दक्षिणम्बाहुमन्वावृत्य वाचम्यमो यथेतम्प्रत्येत्य ।

9,4.27

यत्र प्रथमाम्तिष्ठन्नन्ववोचत् ।

9,4.28

तत्स्थित्वा अत्र च अग्नि प्रहरणे च ।

9,4.29

अथ यथा आवसथमभ्युपेयात् ।

9,4.30
खण्डिका 5

ब्रह्म वा अग्निः क्षत्रम्सोमः ।

9,5.1

तद्यदुपवसथे अग्नीषोमौ प्रणयन्ति ।

9,5.2

ब्रह्म क्षत्राभ्यामेव तद्यजमानस्य पाप्मानमपघ्नन्ति ।

9,5.3

तदु वा आहुरासीन एव होता एताम्प्रथमामनुब्रूयात् ।

9,5.4

सर्वाणि ह वै भूतानि सोमम्राजानम्प्रणीयमानमनु प्रच्यवन्ते ।

9,5.5

तद्यदासीनो होता एतामृचमन्वाह ।

9,5.6

तदेव सर्वाणि भूतानि यथा आयतनम्नियच्छति इति ।

9,5.7

सावीर्हि देव प्रथमाय पित्र इति सावित्रीम्प्रथमामन्वाह ।

9,5.8

सवितृ प्रसूततायै ।

9,5.9

सवितृ प्रसूतस्य ह वै न काचन रिष्टिर्भवत्यरिष्ट्यै ।

9,5.10

उत्तिष्ठ ब्रह्मणस्पत इत्युत्थापयति प्रैतु ब्रह्मणस्पतिरिति प्रणयति ब्राह्मणस्पत्ये अभिरूपे अन्वाह ।

9,5.11

ब्रह्म वै ब्रह्मणस्पतिः ।

9,5.12

ब्रह्मणा एव तद्ब्रह्म समर्धयति ।

9,5.13

होता देवो अमर्त्य उप त्वा अग्ने दिवे दिव इति केवल आग्नेयौ तृचावन्वाह ।

9,5.14

अग्निम्हि पूर्वम्हरन्ति ।

9,5.15

तौ वा इतवन्तौ भवतः ।

9,5.16

ह्रियमाणम्ह्यग्निम्स्तौति ।

9,5.17

स यत्र उपाधिगच्छेद्भूतानाम्गर्भमादध इति ।

9,5.18

तद्गर्भ कामायै गर्भम्ध्यायात् ।

9,5.19

लभते ह गर्भम् ।

9,5.20

अथ अग्नीध्रे अग्निम्निदधति ।

9,5.21

तदध्वर्युराहुतिम्जुहोति ।

9,5.22

ताम्सम्प्रत्येतामनुब्रूयादग्ने जुषस्व पति हर्य तद्वच इति ।

9,5.23

तस्या एव एषा याज्या जुषस्व प्रति हर्या इत्यभिरूपा ।

9,5.24
खण्डिका 6

अथ केवलम्सोमम्प्राञ्चम्हरन्ति ।

9,6.1

तस्मात्केवलीः सौमीरन्वाह ।

9,6.2

सोमो जिगाति गातुविदिति इतवत्तृचमनुब्रुवन्ननुसमेति ।

9,6.3

अथ अध्वर्युराहवनीये पुनराहुतिम्जुहोति ।

9,6.4

ताम्सम्प्रत्येतामनुब्रूयादुप प्रियम्पनिप्नतमिति ।

9,6.5

तस्या एव एषा याज्या आहुती वृधमित्यभिरूपा ।

9,6.6

अथ पूर्वया द्वारा राजानम्प्रपादयन्ति ।

9,6.7

तस्मिन्प्रपाद्यमाने तमस्य राजा वरुणस्तमश्विना इति ।

9,6.8

व्रजम्च विष्णुः सखिवामपोर्णुत इत्यभिरूपाम्प्रपाद्यमानाय अन्वाह ।

9,6.9

अन्तश्च प्रागा अदितिर्भवासि इति प्रपन्नवतीम्प्रपन्नाय ।

9,6.10

श्येनो न योनिम्सदनम्धिया कृतम्गणानाम्त्वा गण पतिम्हवामहे अस्तभ्नाद्द्यामसुरो विश्व देवा इति सन्नवतीभिः सन्नमनुस्तौति ।

9,6.11

एवा वन्दस्व वरुणम्बृहन्तमित्याशीर्वत्या परिदधाति ।

9,6.12

अभिरूपा अन्वाह ।

9,6.13

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

9,6.14

ता वै विंशतिमन्वाह ।

9,6.15

ता विराजमभिसम्पद्यन्ते ।

9,6.16

वैराजः सोमः ।

9,6.17

अन्नम्विराडन्नम्सोमः ।

9,6.18

अन्नेन तदन्न अद्यम्समर्धयति ।

9,6.19

त्रिः प्रथमया त्रिरु उत्तमया चतुर्विंशतिः सम्पद्यन्ते ।

9,6.20

चतुर्विंशतिर्वै संवत्सरस्य अर्ध मासाः ।

9,6.21

संवत्सरस्य एव आप्त्यै ।

9,6.22

एवम्नु यदि पूर्वया द्वारा राजानम्प्रपादयेयुः ।

9,6.23

यद्यु वा अपरया ।

9,6.24

तेन एव होता अनुसमियात् ।

9,6.25

आत्मा वै यज्ञस्य होता ।

9,6.26

प्राणः सोमः ।

9,6.27

न इत्प्राणादात्मानमपादधानि इति ।

9,6.28

उत्तरतो दक्षिणा तिष्ठन्परिदधाति ।

9,6.29

यशो वै सोमो राजा अन्न अद्यम् ।

9,6.30

अमुत एव तदर्वागात्मन्यशो धत्ते यशो धत्ते ।

9,6.31