मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 3

3
खण्डिका 1

यद्दर्श पूर्ण मासयोरुपवसति ।

3,1.1

न ह वा अव्रतस्य देवा हविरश्नन्ति ।

3,1.2

तस्मादुपवसति ।

3,1.3

उत मे देवा हविरश्नीयुरिति ।

3,1.4

पूर्वाम्पौर्णमासीमुपवसेदिति पैङ्ग्यम् ।

3,1.5

उत्तरामिति कौषीतकम् ।

3,1.6

याम्पर्यस्तमयमुत्सर्पेदिति सा स्थितिः ।

3,1.7

पूर्वाम्पौर्णमासीमुपवसेदनिर्ज्ञाय पुरस्तादमावास्यायाम्चन्द्रमसम् ।

3,1.8

यदुपवसति तेन पूर्वाम्प्रीणाति ।

3,1.9

यद्यजते तेन उत्तराम् ।

3,1.10

उत्तरामुपवसेत् ।

3,1.11

उत्तरामु ह वै समुद्रो विजते सोममनु दैवतम् ।

3,1.12

एतद्वै देव सत्यम्यच्चन्द्रमाः ।

3,1.13

तस्मादुत्तरामुपवसेत् ।

3,1.14
खण्डिका 2

अथ यत्पुरस्तात्सामिधेनीनाम्जपति ।

3,2.1

स्वस्त्ययनमेव तत्कुरुते ।

3,2.2

हिंकृत्य सामिधेनीरन्वाह ।

3,2.3

वज्रो वै हिंकारः ।

3,2.4

वज्रेण एव तद्यजमानस्य पाप्मानम्हन्ति ।

3,2.5

त्रिर्हिम्करोति ।

3,2.6

त्रिवृद्वै वज्रः ।

3,2.7

वज्रमेव तदभिसम्पादयति ।

3,2.8

एतेन वै देवास्त्रिवृता वज्रेण एभ्यो लोकेभ्यो असुराननुदन्त ।

3,2.9

तथो एव एतद्यजमान एतेन एव त्रिवृता वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदति ।

3,2.10

एकादश सामिधेनीरन्वाह ।

3,2.11

एकादश अक्षरा वै त्रिष्टुप् ।

3,2.12

त्रैष्टुभ इन्द्रः ।

3,2.13

तदुभा इन्द्राग्नी आप्नोति ।

3,2.14

त्रिः प्रथमया त्रिरुत्तमया पञ्चदश सम्पद्यते ।

3,2.15

पञ्चदश वै पूर्व पक्ष अपर पक्षयोरहानि ।

3,2.16

तत्सामिधेनीभिः पूर्व पक्ष अपर पक्षावाप्नोति ।

3,2.17

अथो वज्रो वै सामिधेन्यः ।

3,2.18

पञ्चदशो वै वज्रः ।

3,2.19

वज्रेण एव तद्यजमानस्य पाप्मानम्हन्ति ।

3,2.20

यद्वेव त्रिः प्रथमाम्त्रिरु उत्तमाम् ।

3,2.21

यज्ञस्य एव तद्बर्सौ नह्यति स्थेम्ने अविस्रंसाय ।

3,2.22

तासाम्वै त्रीणि षष्टि शतान्यक्षराणाम्भवन्ति ।

3,2.23

त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् ।

3,2.24

तत्सामिधेनीभिः संवत्सरस्य अहान्याप्नोति ।

3,2.25

ता वै गायत्र्यो भवन्ति ।

3,2.26

गायत्रो वा अग्निर्गायत्रच्छन्दाः ।

3,2.27

स्वेन एव तत्छन्दसा अग्निम्स्तौति ।

3,2.28

अभिरूपा भवन्ति ।

3,2.29

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

3,2.30

उत्तमायै तृतीये वचने प्रणवेन निगदमुपसंदधाति ।

3,2.31
खण्डिका 3

अग्ने महानसि ब्राह्मण भारत इति ।

3,3.1

अग्निर्वै भरतः ।

3,3.2

स वै देवेभ्यो हव्यम्भरति ।

3,3.3

अथ यद्यजमानस्य आर्षेयमाह ।

3,3.4

न ह वा अनार्षेयस्य देवा हविरश्नन्ति ।

3,3.5

तस्मादस्य आर्षेयमाह ।

3,3.6

अथ एतम्पञ्चदश पदम्निगदमुपसंदधाति ।

3,3.9

एषा ह वै सामिधेनीनाम्निवित् ।

3,3.8

तस्मात्पञ्चदश पदो भवति ।

3,3.9

पञ्चदश हि सामिधेन्यः ।

3,3.10

स वा अच्छन्दस्कृतो भवति ।

3,3.11

द्वयम्वा इदम्सर्वम्छन्दस्कृतम्च अच्छन्दस्कृतम्च ।

3,3.12

तेन सर्वेण अग्निम्स्तवानि इति ।

3,3.13

तस्य सप्त पदानि समस्य अवस्येत् ।

3,3.14

सप्त वै छन्दांसि ।

3,3.15

सर्वेषामेव छन्दसामाप्त्यै ।

3,3.16

अथ चत्वार्यथ चत्वारि ।

3,3.17

चतुष्टयम्वा इदम्सर्वम् ।

3,3.18

अस्य एव सर्वस्य आप्त्यै ।

3,3.19

अथ यद्व्यवग्राहम्देवता आवाहयति ।

3,3.20

नाना ह्याभ्यो हवींषि गृहीतानि भवन्ति ।

3,3.21

तस्माद्व्यवग्राहम्देवता आवाहयति ।

3,3.22

अथ यदग्निमग्निना आवाहयति ।

3,3.23

एषा वा अग्नेर्यज्ञिया तनूर्या अस्य हव्य वाट् ।

3,3.24

सा वा असौ यददो अमुष्यादित्यस्य उपरिष्टाद्दिवि इव भाति ज्योतिरिव ।

3,3.25

तद्यदाह अग्निमग्न आवह इति ।

3,3.26

तामावह इत्येव तदाह ।

3,3.27

अथ यद्देवानाज्यपानावाहयति ।

3,3.28

प्रयाज अनुयाजांस्तदावाहयति ।

3,3.29

अथ यदग्निम्होत्राय आवाहयति ।

3,3.30

स्विष्टकृतम्तदावाहयति ।

3,3.31

अथ यत्स्वम्महिमानमावाहयति ।

3,3.32

वायुम्तदावाहयति ।

3,3.33

वायुर्वा अग्नेः स्वो महिमा ।

3,3.34
खण्डिका 4

तेन हि सम्पद्य महिमानम्गच्छति ।

3,4.1

यद्वेव वाचा अन्वाह वाचा यजति ।

3,4.2

तेन उ ह एव अस्य स्वो महिमा इष्टो भवति ।

3,4.3

आ च वह जातवेदः सुयुजा च यज इत्याह ।

3,4.4

आवह च जातवेदो देवान्त्सयुजा च देवता यज इत्येव एनम्तदाह ।

3,4.5

अथ यत्परस्तात्सामिधेनीनाम्जपति ।

3,4.6

वज्रो वै सामिधेन्यः ।

3,4.7

तमेव एतत्शमयति पुरस्ताच्च उपरिष्टाच्च ।

3,4.8

अथ यत्स्रुगादापनेन स्रुचावादापयति ।

3,4.9

देव रथमेव तद्युनक्ति देवेभ्यो हविः प्रदास्यन् ।

3,4.10

स एतेन देव रथेन स्वस्ति स्वर्गंल्लोकम्समश्नुते ।

3,4.11

प्रयाजान्यजति ।

3,4.12

ऋतवो वै प्रयाजाः ।

3,4.13

ऋतूनेव तत्प्रीणाति ।

3,4.14

ते वै पञ्च भवन्ति ।

3,4.15

तैर्यत्किंच पञ्च विधमधिदैवतमध्यात्मम्तत्सर्वमाप्नोति ।

3,4.16

समिधो यजति वसन्तमेव ।

3,4.17

वसन्ते वा इडम्सर्वम्समिद्यते ।

3,4.18

तनूनपातम्यजति गीष्ममेव ।

3,4.19

ग्रीष्मे हि तन्वम्तपति ।

3,4.20

इडो यजति वर्षा एव ।

3,4.21

वर्षाभिर्हि ईडितमन्न अद्यमुत्तिष्ठति ।

3,4.22

बर्हिर्यजति शरदमेव ।

3,4.23

शरदि हि बर्हिष्ठा ओषधयो भवन्ति ।

3,4.24

स्वाहा कृतिमन्तम्यजति हेमन्तमेव ।

3,4.25

हेमन्ते वा इदम्सर्वम्स्वाहा कृतम् ।

3,4.26

तदाहुर्यत्पञ्च प्रयाजाः षडृतवः क्वैतम्षष्ठमृतुम्यजति इति ।

3,4.27

यदेव चतुर्थे प्रयाजे समानयति तदेनमितरेष्वनुविभजति ।

3,4.28
खण्डिका 5

अथ यदुत्तमे प्रयाजे देवताः समावपति ।

3,5.1

प्रयाज भाज एव एनास्तत्करोति ।

3,5.2

तद्यथा अग्निः सर्वेषु हविह्षु भागी भवति ।

3,5.3

एवम्तदग्नेर्भागे देवता भागिनीः करोति ।

3,5.4

न अत्र अग्निम्होत्रादित्याह ।

3,5.5

पशवो वै प्रयाजाः ।

3,5.6

रुद्रः स्विष्टकृत् ।

3,5.7

न इद्रुद्रेण यजमानस्य पशून्प्रसजानि इति ।

3,5.8

स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्विति ह एक आहुः ।

3,5.9

न तथा कुर्यात् ।

3,5.10

अर्धम्ह वै यज्ञस्य आज्यमर्धम्हविः ।

3,5.11

स यद्द्ह अन्यतरद्ब्रूयात् ।

3,5.12

अर्धम्ह वै यज्ञस्य समिष्टम्स्यादर्धमसमिष्टम् ।

3,5.13

तस्मात्स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य हविषो व्यन्त्वित्येव ब्रूयात् ।

3,5.14

अथ यत्पौर्णमास्याम्वार्त्रघ्नावाज्य भागौ भवतः ।

3,5.15

पौर्णमासेन वा इन्द्रो वृत्रमहन् ।

3,5.16

अथ यदमावास्यायाम्वृधन्वन्तौ ।

3,5.17

क्षयम्वा अत्र चन्द्रो गच्छति ।

3,5.18

तमेव एतदाप्याययति तम्वर्धयति ।

3,5.19
खण्डिका 6

तौ वै जुषाण याज्यौ भवतः ।

3,6.1

समान हविषौ हि प्रयाजैर्भवतः ।

3,6.2

अथो ब्रह्म वै जुषाणः ।

3,6.3

ब्राह्मणा एव तद्देवेभ्यो हविः प्रयच्छति ।

3,6.4

तौ वै त्रिवृतौ भवतः ।

3,6.5

ये यजामहो निगदो वषट्कारः ।

3,6.6

चक्षुर्वा आज्य भागौ ।

3,6.7

त्रिवृद्वै चक्षुः शुक्लम्कृष्णम्लोहितमिति ।

3,6.8

तौ न पशौ न सोमे करोति ।

3,6.9

पशुना वै चक्षुष्मानध्वरः ।

3,6.10

न इच्चतुरक्षम्बीभत्समध्वरम्करवाणि इति ।

3,6.11

अथ यदावत्योण्हूतवत्यः पुरोनुवाक्या भवन्ति ।

3,6.12

प्रवत्यः प्रत्तवत्यो याज्याः ।

3,6.13

हूत्वा एव तद्देवेभ्यो हविः प्रयच्छति ।

3,6.14

ता वै गायत्री त्रिष्टुभौ भवन्ति ।

3,6.15

ब्रह्म वै गायत्री ।

3,6.16

क्षत्रम्त्रिष्टुप् ।

3,6.19

ब्रह्म क्षत्राभ्यामेव तद्देवेभ्यो हविः प्रयच्छति ।

3,6.20

ऋगन्ते वषट्करोति ।

3,6.21

तथा ह अस्य सर्वा याज्या रूपवत्यो भवन्ति ।

3,6.22

षडिति वषट्करोति ।

3,6.23

षड्वा ऋतवः ।

3,6.24

ऋतूनेव तत्प्रीणाति ।

3,6.25
खण्डिका 7

बार्हत राथन्तरम्वषट्कुर्यात्पुरस्ताद्दीर्घमुपरिष्टाद्द्ह्रस्वम् ।

3,7.1

यद्द्ह्रस्वम्तद्रथन्तरम् ।

3,7.2

यद्दीर्घम्तद्बृहति ।

3,7.3

अथो इयम्वै रथन्तरमसौ बृहत् ।

3,7.4

अनयोरेव तत्प्रतितिष्ठति ।

3,7.5

अथो एतावान्वै वाचो विकारः ।

3,7.7

सर्वेण एव तद्वाचो विकारेण देवेभ्यो हविः प्रयच्छति ।

3,7.7

भूर्भुव इति पुरस्ताद्ये यजामहस्य जपति ।

3,7.8

वषट्कृत्या अनुजपत्योजः सहः सह ओजः स्वरिति ।

3,7.9

वज्रो वै वषट्कारः ।

3,7.10

तमेव एतत्शमयति पुरस्ताच्च उपरिष्टाच्च ।

3,7.11

अथो एते एव वषट्कारस्य प्रीयतमे तनू यदोजश्च सहश्च ।

3,7.12

ताभ्यामेव एनम्शमयति ।

3,7.13

अथ यदग्निम्प्रथमम्देवतानाम्यजति ।

3,7.14

अग्निर्वै देवानाम्मुखम् ।

3,7.15

मुखत एव तद्देवान्प्रीणाति ।

3,7.17

अथ यत्पौर्णमास्यामग्नीषोमौ यजति ।

3,7.17

अग्नीषोमौ वा अन्तर्वृत्र आस्ताम् ।

3,7.18

ताविन्द्रो न अशक्नोदभि वज्रम्प्रहर्तुम् ।

3,7.19

यदुपांशु यजति तेन सोमम्प्रीणाति ।

3,7.22

यन्निरुक्तम्तेन अग्निम् ।

3,7.23
खण्डिका 8

अथ यदमावास्यायामिन्द्राग्नी यजति ।

3,8.1

प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव ।

3,8.2

अथ यत्सम्नयन्निन्द्रम्यजति महा इन्द्रम्वा ।

3,8.3

एतज्ज्योतिर्वा अमावास्या ।

3,8.4

न ह्यत्र चन्द्रो दृश्यते ।

3,8.5

अथ यदसम्नयन्पुरोडाशावन्तरेण उपांश्वाज्यस्य यजत्यजामितायै ।

3,8.6

अथ यत्सम्नयन्त्सान्नाय्यस्य अन्तरेण उपांश्वाज्यस्य यजति तस्य उक्तम्ब्राह्मणम् ।

3,8.7

अथ यदग्निम्स्विष्टकृतमन्ततो यजति ।

3,8.8

एष ह वै देवेभ्यो हविः प्रयच्छति ।

3,8.9

यो वा अन्नम्विभजत्यन्ततः स भजते ।

3,8.10

अथो रुद्रो वै स्विष्टकृत् ।

3,8.11

अन्त भाग्वा वा एषः ।

3,8.12

तस्मादेनमन्ततो यजति ।

3,8.13

तस्य तच्छन्दसौ याज्या पुरोनुवाक्ये निगदो व्यवैति ।

3,8.14

तेन अजामि भवति ।

3,8.15

वषट्कृत्या अप उपस्पृशति ।

3,8.16

शान्तिर्वै भेषजमापः ।

3,8.17

शान्तिरेव एषा भेषजम्यज्ञे क्रियते ।

3,8.18

अथ यत्प्रदेशिन्यामिडायाः पूर्वमञ्जनमधर ओष्ठे निलिम्पते ।

3,8.19

उत्तरमुत्तर ओष्ठे ।

3,8.20

अयम्वै लोको अधर ओष्ठः ।

3,8.21

असौ लोकः उत्तर ओष्ठः ।

3,8.22

अथ यदोष्ठावन्तरेण तदिदमन्तरिक्षम् ।

3,8.23

तद्यद्प्राश्नाति ।

3,8.24

इमानेव तल्लोकाननुसंतन्वन्प्रीणाति ।

3,8.25
खण्डिका 9

अथ यदिडामुपह्वयते ।

3,9.1

सर्वेष्वेव तद्भूतेषु उपहवमिच्छते ।

3,9.2

अथो अन्नम्वा इडा ।

3,9.3

अन्नमेव तदात्मन्धत्ते ।

3,9.4

अथो पशवो वा इडा ।

3,9.4

पशूनामेव आप्त्यै ।

3,9.6

तस्याम्चतुरवानिति ।

3,9.9

तथा पञ्चपदी भवति ।

3,9.11

पञ्चपदा पङ्क्तिः ।

3,9.12

पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।

3,9.13

अथ यज्जपेन उत्त्तर इडाम्प्राश्नाति ।

3,9.14

ब्रह्म वै जपः ।

3,9.15

ब्रह्मणा एव एनाम्तत्शमयति ।

3,9.16

अथ यदध्वर्युर्बर्हिषदम्पुरोडाशम्करोति ।

3,9.17

पितॄनेव तत्प्रीणाति ।

3,9.18

अथ यत्पवित्रवति मार्जयन्ते ।

3,9.19

शान्तिर्वै भेषजमापः ।

3,9.20

शान्तिरेव एषा भेषजम्यज्ञे क्रियते ।

3,9.21

अथ यदन्वाहार्यमाहरन्ति ।

3,9.22

एतद्दक्षिणौ वै दर्श पूर्ण मासौ ।

3,9.23

तस्मादेनमाहरन्ति ।

3,9.24

अथ यत्समिधमनुमन्त्रयते ।

3,9.25

इध्मस्य वा एषा एक अतिशिष्टा भवति ।

3,9.26

तस्मादेनामनुस्तौति ।

3,9.27
खण्डिका 10

अथ यत्त्रीननुयाजान्यजैत् ।

3,10.1

त्रयो वा इमे लोकाः ।

3,10.2

इमानेव तल्लोकानाप्नोति ।

3,10.3

अथ यत्सर्वमुत्तममाह ।

3,10.4

प्रतिष्ठा वै स्विष्टकृत्प्रतिष्ठित्या एव ।

3,10.5

अथ यत्सूक्त वाकमाह ।

3,10.6

प्रतिष्ठा वै सूक्त वाकः प्रतिष्ठित्या एव ।

3,10.7

अथ यद्द्यावा पृथिव्योः कीर्तयति ।

3,10.8

प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।

3,10.9

अग्निरिदम्हविरजुषत इति ह एक आहुः ।

3,10.10

न तथा कुर्यात् ।

3,10.11

अभ्यावर्तते ह अस्य देवता पुनर्यज्ञ इति मन्वाना ।

3,10.12

पुनर्मे हविः प्रदास्यति इति ।

3,10.13

सा यजमानस्य आशिषो निवर्तयति य इदम्हविरित्याह ।

3,10.14

तस्माद्द्हविरजुषत हविरजुषत इत्येव ब्रूयात् ।

3,10.15

अथो या एव एतद्देवताः पुरस्ताद्यजति ।

3,10.16

ताभिरेव एतदन्ततः प्रतितिष्ठति ।

3,10.17

अथ यत्सूक्त वाके यजमानस्य नाम गृह्णाति ।

3,10.18

एष ह वै दैव आत्मा यजमानस्य यमृत्विजः संस्कुर्वन्ति ।

3,10.19

तस्मादस्य नाम गृह्णाति ।

3,10.20

अत्र हि जायते ।

3,10.21

उच्चैर्गृह्णीयाद्यद्यप्याचार्यः स्यात् ।

3,10.22

तथा ह यजमानो अप्राच्यावुको भवति ।

3,10.23

अथ पञ्च आशिषो वदत इडायाम्तिस्रस्ता अष्टौ ।

3,10.24

एताभिर्वै देवाः सर्वा अष्टीरश्नुवत ।

3,10.25

तथो एव एतद्यजमान एताभिरेव सर्वा अष्टीरश्नुते ।

3,10.26

अथ बर्हिषि प्राञ्चमञ्जलिम्निधाय जपति नम उप इति ।

3,10.27

न हि नमस्कारमति देवाः ।

3,10.28

अथ यत्शम्योर्वाकमाह ।

3,10.29

प्रतिष्ठा वै शम्योर्वाकः प्रतिष्ठित्या एव ।

3,10.30

अथो शम्युर्ह वै बार्हस्पत्यः सर्वान्यज्ञान्शमयाम्चकार ।

3,10.31

तस्मात्शम्योर्वाकमाह ।

3,10.32

अथ यदप उपस्पृशति ।

3,10.33

शान्तिर्वै भेषजमापः ।

3,10.34

शान्तिरेव एषा भेषजम्यज्ञे क्रियते ।

3,10.35
खण्डिका 11

अथ यद्गार्हपत्ये पत्नी सम्याजैश्चरन्ति ।

3,11.1

गार्हपत्य भाजो वै पत्न्यः ।

3,11.2

आहवनीय भाग्यजमानः ।

3,11.3

तस्माद्गार्हपत्ये पत्नी सम्याजैश्चरन्ति ।

3,11.4

ते वै चत्वारो भवन्ति ।

3,11.5

आ चतुरम्वै द्वन्द्वम्मिथुनम्प्रजननम्प्रजात्यै ।

3,11.6

ते वा उपांशु भवन्ति ।

3,11.7

रेतः सिक्तिर्वै पत्नी सम्याजाः ।

3,11.8

उपांशु वै रेतः सिच्यते ।

3,11.9

अभिरूपा भवन्ति ।

3,11.10

यद्यजे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

3,11.11

अथ सोमम्त्वष्टारम्देवानाम्पत्नीरग्निम्गृहपतिमिति ।

3,11.12

एता ह वै देवता मिथुनानामीशते ।

3,11.13

ता अत्र प्रीणन्ति ।

3,11.14

ता अस्मै प्रीता मिथुनानि दधति ।

3,11.15
खण्डिका 12

सोमम्प्रथमम्यजति ।

3,12.1

रेतस्तत्सिञ्चति ।

3,12.2

त्वष्टारम्द्वितीयम् ।

3,12.3

त्वष्टा वै रेतः षिक्तम्विकरोति ।

3,12.4

ततः पत्न्यः ।

3,12.5

पत्नी सम्याजा ह्येते ।

3,12.6

अथ यदग्निम्गृहपतिमन्ततो यजति ।

3,12.7

एतत्स्विष्टकृतो वै पत्न्यः ।

3,12.8

तस्मादेनमन्ततो यजति ।

3,12.9

अथ य अप उपस्पृशति तस्य उक्तम्ब्राह्मणम् ।

3,12.10

अथ यदृचम्जपति स्वस्त्ययनमेव तत्कुरुते ।

3,12.11

अथ यदिलामुपह्वयते यन्मार्जयते यत्शम्योर्वाकमाह तस्य उक्तम्ब्राह्मणम् ।

3,12.12

अथ यद्वेदे पत्नीम्वाचयति ।

3,12.13

वृषा वै वेदः ।

3,12.14

योषा पत्नी ।

3,12.15

मिथुनमेव तत्पत्नीषु दधाति ।

3,12.16

तस्मात्पत्नी वेद तृणान्यन्तर ऊरू कुरुते ।

3,12.17

अथ यद्वेदम्स्तृणाति ।

3,12.18

तेन ह अस्य दर्श पूर्ण मासौ संततौ भवतः ।

3,12.19

अथो एतेन एव अस्य अग्निहोत्रम्स्तीर्ण बर्हिर्भवति ।

3,12.20

अथ यद्वेद अतिशेषमुपतिष्ठते ।

3,12.21

आशिषमेव तद्वदते ।

3,12.22

अथ यदाहवनीयमुपतिष्ठते ।

3,12.23

प्रीत्वा एव तद्देवेष्वन्ततो अर्थम्वदते ।

3,12.24

अथ यदप उपस्पृशति ।

3,12.25

शान्तिर्वै भेषजमापः ।

3,12.26

शान्तिरेव एषा भेषजमन्ततो यज्ञे क्रियते अन्ततो यज्ञे क्रियते ।

3,12.27