अस्मिन्वै लोक उभये देव मनुष्या आसुः ।
1,1.1ते देवाः स्वर्गंल्लोकम्यन्तो अग्निमूचुः ।
1,1.2त्वम्नो अस्य लोकस्य अध्यक्ष एधि इति ।
1,1.3तानग्निरुवाच ।
1,1.4अथ यद्वो अहम्घोर संस्पर्शतमो अस्मि ।
1,1.5अनपचायितारो मनुष्याः ।
1,1.6कथम्वस्तद्भविष्यति यन्मनुष्येष्विति ।
1,1.7ते देवा ऊचुः ।
1,1.8तस्य वै ते वयम्घोरास्तनूर्विनिधास्यामः ।
1,1.9अथ या एव ते शिवा शग्मा यज्ञिया तनूः ।
1,1.10तया इह मनुष्येभ्यो भविष्यसि इति ।
1,1.11तस्य अप्सु पवमानामदधुः ।
1,1.12वायौ पावकाम् ।
1,1.13आदित्ये शुचिम् ।
1,1.14अथ या एव अस्य शिवा शग्मा यज्ञिया तनूरासीत् ।
1,1.15तया इह मनुष्येभ्यो अतपत् ।
1,1.16एता वा अग्नेस्तन्वः ।
1,1.17तद्यदेता देवता यजति ।
1,1.18अत्र अग्निः साङ्गः सतनूः प्रीतो भवति ।
1,1.19ता वै तिस्रो भवन्ति ।
1,1.20त्रयो वा इमे लोकाः ।
1,1.21इमानेव तल्लोकानाप्नोति ।
1,1.22पौर्णमासम्प्रथमायै तन्त्रम्भवति ।
1,2.1आमावास्यम्द्वितीयायै ।
1,2.2तेन ह अस्य दर्श पूर्ण मासावन्वारब्धौ भवतः ।
1,2.3ईडितवत्यौ हव्यवाड्वत्यौ प्रथमायै सम्याज्ये ।
1,2.4तत्सम्याज्या रूपम् ।
1,2.5द्व्यग्नी द्वितीयायै ।
1,2.6द्वौ हि अग्नी यजति ।
1,2.7सप्तसस सामिधेनीका तृतीया ।
1,2.8सप्तदश सामिधेनीका वा इष्टि पशु बन्धाः ।
1,2.9तदिष्टि पौश्बन्धानाप्नोति ।
1,2.10सद्वन्तावाज्य भागौ भवतः ।
1,2.11असानि इति वा अग्नीनाधत्ते ।
1,2.12स्यामिति कामयते ।
1,2.13स यदि ह वा अपि स्वैषावीर इव सन्नग्नीनाधत्ते ।
1,2.14क्षिप्र एव सम्भवति ।
1,2.15क्षिप्रे भोग्यतामश्नुते ।
1,2.16यः सद्वन्तौ कुरुते ।
1,2.17विराजौ सम्याज्ये ।
1,2.18श्रीर्विराडन्न अद्यम् ।
1,2.19श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
1,2.20ता वै गायत्र्यो भवन्ति ।
1,2.21गायत्रो वा अग्निर्गायत्रच्छन्दाः ।
1,2.22स्वेन एव तच्छन्दसा अग्नीनाधत्ते ।
1,2.23ता वा उपांशु भवन्ति ।
1,2.24रेतः सिक्तिर्वा अग्न्याध्येयम् ।
1,2.25उपांशु वै रेतः सिच्यते ।
1,2.26अभिरूपा भवन्ति ।
1,2.27यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।
1,2.28द्वादश दद्यात् ।
1,2.29द्वादश वै मासाः संवत्सरः ।
1,2.30संवत्सरस्य एव आप्त्यै ।
1,2.31अश्वम्त्रयोदशम्ददाति ।
1,2.32यस्त्रयोदशो मासस्तस्य आप्यै ।
1,2.33देव असुरा वा एषु लोकेषु सम्यत्ता आसुः ।
1,3.1तेभ्यो अग्निरपाक्रामत् ।
1,3.2स ऋतून्प्राविशत् ।
1,3.3ते देवा हत्वा असुरान्विजित्य अग्निमन्वैच्छन् ।
1,3.4तम्यमश्च वरुणश्च अन्वपश्यताम् ।
1,3.5तमुपामन्त्रयन्त ।
1,3.6तमज्ञपयन् ।
1,3.7तस्मै वरमददुः ।
1,3.8स ह एतम्वरम्वव्रे ।
1,3.9प्रयाजान्मे अनुयाजांश्च केवलान्घृतम्च अपाम्पुरुषम्च ओषधीनामिति ।
1,3.10तस्मादाहुराग्नेयाः प्रयाज अनुयाजा आग्नेयमाज्यमिति ।
1,3.11ततो वै देवा अभवन् ।
1,3.12परा असुराः ।
1,3.13भवत्यात्मना ।
1,3.14परा अस्य द्वेष्यो य एवम्वेद ।
1,3.15तदाहुः कस्मिन्नृतौ पुनरादधीत इति ।
1,3.16वर्षास्विति ह एक आहुः ।
1,3.17वर्षासु वै सर्वे कामाः ।
1,3.18सर्वेषामेव कामानामाप्त्यै ।
1,3.19मध्या वर्षे पुनर्वसू नक्षत्रमुदीक्ष्य पुनरादधीत ।
1,3.20पुनर्मा वसु वित्तमुपनमत्विति ।
1,3.21अथो पुनः कामस्य उपाप्त्यै ।
1,3.22तद्वै न तस्मिन्काले पूर्व पक्षे पुनर्वसुभ्याम्सम्पद्यते ।
1,3.23या एव एषा आषाढ्या उपरिष्टादमावास्या भवति ।
1,3.24तस्याम्पुनरादधीत ।
1,3.25सा पुनर्वसुभ्याम्सम्पद्यते ।
1,3.26उपाप्तो अमावास्यायाम्कामो भवति ।
1,3.27उपाप्तो वर्षासु ।
1,3.28उपाप्तः पुनर्वस्वोः ।
1,3.29तस्मात्तस्याम्पुनरादधीत ।
1,3.30पञ्च कपालः पुरोडाशो भवति ।
1,3.31पञ्च पदा पङ्क्तिः ।
1,3.32पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
1,3.33विभक्तिभिः प्रयाज अनुयाजान्यजति ।
1,4.1ऋतवो वै प्रयाज अनुयाजाः ।
1,4.2ऋतुभ्य एनम्तत्समाहरन्ति ।
1,4.3अग्र आयाहि वीतये अग्निम्दूतम्वृणीमहे अग्निना अग्निः समिध्यते अग्निर्वृत्राणि जङ्घनदग्नेः स्तोमम्मनामहे अग्ना यो मर्त्यो दुव इत्येतामृचाम्प्रतीकानि विभक्तयः ।
1,4.4ता वै षड्भवन्ति ।
1,4.5षड्वा ऋतवः ।
1,4.6ऋतुभ्य एव एनम्तत्पुनर्समाहरति ।
1,4.7यथा यथमुत्तमौ प्रयाज अनुयाजौ यजति ।
1,4.8तथा ह अस्य प्रयाज अनुयाजेभ्यो अनितम्भवति ।
1,4.9वार्त्रघ्नः पूर्व आज्य भागः पाप्मन एव वधाय ।
1,4.10अथो ह अस्य पौर्णमासात्तन्त्रादनितम्भवति ।
1,4.11अग्निम्स्तोमेन बोधय इत्यग्नये बुद्धिमते पूर्वम्कुर्यादिति ह एक आहुः ।
1,4.12स्वपिति इव वा एतस्य अग्निर्यो अग्मिमुद्वासयते ।
1,4.13तदेव एनम्तत्पुनः प्रबोधयति इति ।
1,4.14वार्त्रघ्नस्त्वेव स्थितः ।
1,4.15अग्न आयूंषि पवस इत्युत्तरस्य पुरोनुवाक्या ।
1,4.16पवस इत्तत्सौम्यम्रूपम् ।
1,4.17केवल आग्नेयो हि यज्ञ क्रतुः ।
1,4.18तद्यत्पवमानस्य कीर्तयति ।
1,4.19तथा ह अस्य सौम्यादाज्य भागादनितम्भवति ।
1,4.20पद पङ्क्तयो याज्या पुरोनुवाक्याः ।
1,5.1पञ्च पदा पङ्क्तिः ।
1,5.2पाङ्क्तो वै यजो यज्ञस्य एव आप्त्यै ।
1,5.3व्यतिषक्ता भवन्ति ।
1,5.4व्यतिषक्ता इव वा इमे प्राणा आत्मानम्भुञ्जन्ति इति ।
1,5.5सा सर्वा एव ससामिधेनीक उपांशु भवत्यापूर्वाभ्यामनुयाजाभ्याम् ।
1,5.6आ ह्यतो विभक्तयो अनुप्रोता भवन्ति ।
1,5.7अथो सर्वे वै कामा विभक्तिषु ।
1,5.8तस्मादुपांशु भवन्ति ।
1,5.9सर्वेषामेव कामानामाप्त्यै ।
1,5.10उच्चैस्त्वेव उत्तमेन अनुयाजेन यजति ।
1,5.11उच्चैः सूक्त वाक शम्यु वाक आवाह ।
1,5.12तद्यथा विदमित्याविर्नष्टम्कुर्यात् ।
1,5.13एवम्तदाविः कामान्करोत्यापमिति ।
1,5.14त्रयम्ह एक उपांशु कुर्वन्ति विभक्तीरुत्तरमाज्य भागम्हविरिति ।
1,5.15एतावद्द्ह्यागन्तु भवति इति ।
1,5.16सा वा उपांशु निरुक्ता भवति ।
1,5.17द्वयम्वा अग्ने रूपम्निरुक्तम्च अनिरुक्तम्च ।
1,5.18तदेव अस्य तेन आप्नोति ।
1,5.19सर्व आग्नेयम्ह एके कुर्वन्ति ।
1,5.20न तथा कुर्यात् ।
1,5.21तस्यै पुनरुत्स्यूतो जरत्संव्याहः पुनः संस्कृतः कद्रथो अनड्वान्हिरण्यम्वा दक्षिणा ।
1,5.22पुनः कर्म ह्येतत् ।
1,5.23आदित्या द्वितीया ।
1,5.24प्रतिष्ठा वा अदितिः ।
1,5.25प्रतिष्ठित्या एव प्रतिष्ठित्या एव ।
1,5.26