अथ यत्र ह तत्सर्व चरौ देवा यज्ञमतन्वत ।
29,1.1तान्ह अर्बुदः काद्रवेयो मध्यंदिन उपोदासृप्या उवाच ।
29,1.2एका वै व इयम्होत्रा न क्रियते ग्राव स्तोत्रिया ।
29,1.3ताम्वो अहम्करवाण्युप मा ह्वयध्वमिति ।
29,1.4ते ह तथा इत्यूचुः ।
29,1.5तम्ह उपजुहुविरे ।
29,1.6स एता ग्राव स्तोत्रिया अभिरूपा अपश्यत् ।
29,1.7प्र एते वदन्तु प्र वयम्वदाम इति प्रवदत्सु ।
29,1.8प्र हि ते वदन्ति प्रसवदति ।
29,1.9अथ यत्र बृहद्बृहदिति ।
29,1.10बृहद्वदन्ति मदिरेण मन्दिना इति तत्र ।
29,1.11वि षू मुञ्च इति विमुञ्चत्सु ।
29,1.12ता वै चतुर्दश भवन्ति ।
29,1.13दश वा अङ्गुलयश्चत्वारो ग्रावाणः ।
29,1.14एतदेव तदभिसम्पद्यन्ते ।
29,1.15ता वै जगत्यो भवन्ति ।
29,1.16जागता वै ग्रावाणः ।
29,1.17अथ यत्त्रिष्टुभा परिदधाति ।
29,1.18ता वै जगत्यो भवन्ति ।
29,1.16जागता वै ग्रावाणः ।
29,1.17अथ यत्त्रिष्टुभा परिदधाति ।
29,1.18तेनो मध्यंदिने त्रिष्टुबुपाप्ता ।
29,1.19स वै तिष्ठन्नभिष्टौति ।
29,1.20तिष्ठन्ति इव वै ग्रावाणः ।
29,1.21स वा उष्णीष्यपिनद्ध अक्षो अभितुष्टाव ।
29,1.22तस्माद्वप्येतर्ह्युष्णीष्येव ग्राव्णो अभिष्टौति ।
29,1.23अथो खल्वाहुः ।
29,1.24चक्षुर्हा ह स सर्प आस ।
29,1.25तदृत्विजो विषमपीयाय ।
29,1.26स एताः पावमानीर्विष अपमदनीरभितुष्टाव ।
29,1.27तद्यत्पावमानीर्विष अपमदनीरभिष्टौति ।
29,1.28यज्ञस्य एव शान्त्यै ।
29,1.29यजमानस्य च भिषज्यायै ।
29,1.30अथ स्तुते पवमाने दधि घर्मेण चरन्ति तस्य उक्तम्ब्राह्मणम्।
29,2.1अथ हविष्पङ्क्त्या चरन्ति तस्या उक्तम्ब्राह्मणम् ।
29,2.2वासिष्ठीर्मध्यंदिन उन्नीयमानेभ्यो अन्वाह ।
29,2.3वसिष्ठो ह मध्यंदिन इन्द्राय सोमम्प्रोवाच ।
29,2.4ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्या रूपेण ।
29,2.5ता वा ऐन्द्र्यस्त्रिष्टुभो भवन्ति ।
29,2.6ऐन्द्रम्हि त्रैष्टुभम्माध्यंदिनम्सवनम् ।
29,2.7ता वै दश अन्वाह ।
29,2.8दश ह्यत्र चमसानुन्नयन्ति ।
29,2.9अथ होत्राः सम्यजन्ति तासामुक्तम्ब्राह्मणम् ।
29,2.10ऐन्द्रीभिस्त्रिष्टुब्भिर्मध्यंदिने प्रस्थितानाम्यजन्ति ।
29,2.11ऐन्द्रम्हि त्रैष्टुभम्माध्यंदिनम्सवनम् ।
29,2.12अनुवषट्कुर्वन्त्याहुतीनामेव शान्त्यै ।
29,2.13आहुतीनाम्प्रतिष्ठित्यै ।
29,2.14अथ इडा अथ होतृ चमसस्तस्य उक्तम्ब्राह्मणम् ।
29,2.15हुतेषु दाक्षिणेषु दक्षिणा नीयन्ते तासामुक्तम्ब्राह्मणम् ।
29,2.16वैश्वामित्रीम्मरुत्वतीय ग्रहस्य पुरोनुवाक्यामन्वाह तस्या उक्तम्ब्राह्मणम् ।
29,2.17वामदेव्यम्मैत्रावरुणस्य पृष्ठम्भवति ।
29,3.1शान्तिर्वै भेषजम्वामदेव्यम् ।
29,3.2शान्तिरेव एषा भेषजम्यज्ञे क्रियते ।
29,3.3नौधसम्ब्राह्मणाच्छंसिनः ।
29,3.4तद्वै निधनवद्भवति ।
29,3.5प्रतिष्ठा वै निधनम्प्रतिष्ठित्या एव ।
29,3.6कालेयमच्छावाकस्य ।
29,3.7तद्वा ऐडम्बृहतीषु कुर्वन्ति ।
29,3.8पशवो वा इडा ।
29,3.9पशवो बृहती ।
29,3.10बार्हताः पशवः पशूनामेव आप्त्यै ।
29,3.11अथ एतान्त्साम प्रगाथाननुशंसन्ति ।
29,3.12तथा एषाम्होतुर्न्यायादनितम्भवति ।
29,3.13पञ्चर्चे मैत्रावरुणस्य च अच्छावाकस्य च उक्थ मुखे भवतः ।
29,3.14एकादशर्चौ पर्यासौ ।
29,3.15अन्तावेव एतत्सदृशौ कुर्वतः ।
29,3.16विश्वामित्रस्य च वामदेवस्य च मैत्रावरुणः शंसति ।
29,3.17वामदेव्यम्ह्यस्य पृष्ठम्भवति ।
29,3.18विश्वामित्रस्य च वसिष्ठस्य च ब्राह्मणाच्छंसी ।
29,3.19वासिष्ठो ह्यस्य पर्यासो भवति ।
29,3.20भरद्वाजस्य च विश्वामित्रस्य च अच्छावाकः ।
29,3.21वैश्वामित्रो ह्यस्य पर्यासो भवति ।
29,3.20भरद्वाजस्य च विश्वामित्रस्य च अच्छावाकः ।
29,3.21वैश्वामित्रो ह्यस्य पर्यासो भवति ।
29,3.22ते वै चतुर्णामृषीणाम्शंसन्ति ।
29,3.23आ चतुरम्वै द्वन्द्वम्मिथुनम्प्रजननम्प्रजात्यै ।
29,3.24वैश्वामित्रे मैत्रावरुणस्य च ब्राह्मणाच्छंसिनश्च उक्थ मुखे भवतः ।
29,3.25पर्यासो अच्छावाकस्य ।
29,3.26वाग्वै विश्वामित्रः ।
29,3.27वाचा एव तत्सर्वतो यज्ञम्तन्वत इत्येतद्ब्राह्मणम् ।
29,3.28प्रायणीय उदयनीययोरैकाह्यम्च भवति ।
29,4.1वामदेव्यम्मैत्रावरुणस्य अहरहः पृष्ठम्भवति ।
29,4.2शान्तिर्वै भेषजम्वामदेव्यम् ।
29,4.3शान्तिरेव एषा भेषजमहरहर्यज्ञे क्रियते ।
29,4.4अथ एतान्कद्वतः प्रगाथानहरहः शंसन्ति ।
29,4.5को वै प्रजापतिः ।
29,4.6प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्ति ।
29,4.7अथो अशान्तानि वा एते अहीन सूक्तान्यन्यान्यन्यान्युपयुञ्जाना यन्ति ।
29,4.8तान्येव एतैः कद्वद्भिः प्रगाथैरहरहः शमयन्तो यन्ति ।
29,4.9अथ एतास्तन्त्र्यास्त्रिष्टुभ उक्थ प्रतिपदो अहरहः शस्यन्ते ।
29,4.10बलम्वै वीर्यम्त्रिष्टुप् ।
29,4.11बल एव तद्वीर्ये अहरहः प्रतितिष्ठन्तो यन्ति ।
29,4.12अप प्रच इन्द्र विश्वानमित्रानिति सौकीर्तिम्मैत्रावरुणो अपनुत्तवतीम्पाप्मन एव अपनुत्त्यै ।
29,4.13यदार्षेये सूक्ते तदार्षेये उक्थ मुखीये इतरयोः ।
29,4.14ब्रह्मणा ते ब्रह्म युजा युनज्म्युरुम्नो लोकमनु नेषि विद्वानिति ब्रह्मवत्युरुवत्यौ ।
29,4.15ब्रह्मणि च एव तदुरु गाये च अहरहः प्रतितिष्ठन्तो यन्ति ।
29,4.16अथ एतान्शिल्पानि मध्यमे त्र्यहे शस्यन्ते ।
29,5.1शिल्पवान्ह्येष मध्यमस्त्र्यहो भवति ।
29,5.2विराजश्च वैमद्यश्च चतुर्थे अहन् ।
29,5.3वैराजम्हि चतुर्थमहः ।
29,5.4पङ्क्तयश्च महा पङ्क्तयश्च पञ्चमे अहन् ।
29,5.5पाङ्क्तम्हि पञ्चममहः ।
29,5.6अतिच्छन्दसः षष्ठे अहन् ।
29,5.7आतिच्छन्दसम्हि षष्ठमहः ।
29,5.8अथो अपृष्ठम्वा उ तद्यदन्यत्र बृहत्यै क्रियते ।
29,5.9च्यवन्त उ वा अत्र बृहत्यै पृष्ठानि ।
29,5.10शिल्पेष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति ।
29,5.11अथो अन्तरिक्षम्वा एष मध्यमस्त्र्यहः ।
29,5.12अनारम्भणम्वा इदमन्तरिक्षमप्रतिष्ठानम् ।
29,5.13शिल्पेष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति ।
29,5.14तानि वै तृचानि भवन्ति ।
29,5.15त्रिवृद्वै शिल्पम्नृत्तम्गीतम्वादितमिति ।
29,5.16तेष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति ।
29,5.17मा चिदन्यद्वि शंसत मा भेम मा श्रमिष्म इति मैथाथम्मैत्रावरुणस्य दशमे अहन्बृहतीषु पृष्ठम्भवति ।
29,5.18न हि तस्य प्राग्दशमादह्नो बृहतीषु पृष्ठम्भवति ।
29,5.19एकस्था वै श्रीः ।
29,5.20श्रीर्वै बृहती ।
29,5.21श्रियामेव तदन्ततः प्रतितिष्ठन्ते यन्ति ।
29,5.22द्विपदाः शस्त्वा ऐकाहिकानि शंसन्ति ।
29,6.1प्रतिष्ठा वा एकाहः प्रतिष्ठा दशममहः ।
29,6.2प्रतिष्ठानीयम्वै छन्दो द्विपदाः प्रतिष्ठित्या एव ।
29,6.3नौधसम्ब्राह्मणाच्छंसिनस्तस्य उक्तम्ब्राह्मणम् ।
29,6.4पङ्क्तिषु ब्राह्मणाच्छंसिने च अच्छावाकाय च प्रणयन्ति पञ्चमे अहन् ।
29,6.5पाङ्क्तम्हि पञ्चममहः ।
29,6.6गायत्रीषु ब्राह्मणाच्छंसिने प्रणयन्ति षष्ठे अहन् ।
29,6.7रैवतस्य एव अह्नो रूपेण ।
29,6.8अहीन सूक्तानि षष्ठे अहनि शंसन्ति ।
29,6.9अहीन संतत्या अहीन रूपतायै ।
29,6.10अहीनान्त्सर्वान्कामानाप्नुम इति ।
29,6.11न ह्यत्र किंचन हीयते ।
29,6.12उदु ब्रह्माण्यैरत श्रवस्य इत्यहरहः पर्यासः ।
29,6.13ऋतवो वा उदुब्रह्मीयम् ।
29,6.14ऋतुष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति ।
29,6.15ता वै षड्भवन्ति ।
29,6.16षड्वा ऋतवः ।
29,6.17ऋतुष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति ।
29,6.18कालेयमच्छावाकस्य तस्य उक्तम्ब्राह्मणम् ।
29,7.1षट्पदास्वच्छावाकाय प्रणयन्ति षष्ठे अहन् ।
29,7.2षष्ठस्य एव अह्नो रूपेण ।
29,7.3अभि तष्टा इव दीधया मनीषामित्यहरहः पर्यासः ।
29,7.4प्रजापतिर्वा अभितष्टीयम् ।
29,7.5प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्ति ।
29,7.6तद्वा अनिरुक्तम्भवति ।
29,7.7अनिरुक्त उ वै प्रजापतिः ।
29,7.8तत्प्राजापत्यम्रूपम् ।
29,7.9सा वा अत्र एका एव निरुक्ता ।
29,7.10एक उ वै प्रजापतिः ।
29,7.11तत्प्रजापत्यम्रूपम् ।
29,7.12दशर्चम्भवति ।
29,7.13दश इमे प्राणाः ।
29,7.14प्राणानेव तद्यज्ञेषु च यजमानेषु च दधाति ।
29,7.15द्विषु उक्ता होत्राणाम्मध्यंदिनाः ।
29,7.16द्व्युक्थस्य एव होतुः प्रत्युद्यमाय ।
29,7.17अथो संवत्सरो वै होता ।
29,7.18ऋतवो होत्राशंसिनः ।
29,7.19तद्यद्द्वन्द्वम्समस्ता ऋतव आख्यायन्ते ग्रीष्मो वर्षा हेमन्त इति ।
29,7.20तस्माद्द्विषु उक्ता होत्राणाम्मध्यंदिनाः ।
29,7.21अथो आत्मा वै होता ।
29,7.22अङ्गानि होत्राश्मसिनः ।
29,7.23तद्यद्द्विगुणान्यङ्गानि भवन्ति ।
29,7.24तस्माद्द्विषु उक्ता होत्राणाम्मध्यंदिनाः ।
29,7.25स्तोम अतिशंसम्प्रातः सवनेषु शस्त्वा अहीन सूक्तानि मध्यंदिनेषु शंसन्ति चतुर्विंशे अभिजित्विषुवति बृहत्पृष्ठे विश्वजिति महाव्रतीये अहन् ।
29,8.1अहीनो ह्येतान्यहानि ।
29,8.2तद्यदहीन सूक्तानि मध्यंदिनेषु शंसन्ति ।
29,8.3पराञ्चीनि वा एतान्यहान्यभ्यावर्तीनि ।
29,8.4न इत्पाञ्चो अगाम इति ।
29,8.5अहीन सूक्तानि शस्त्वा ऐकाहिकीभिः परिदधति ।
29,8.6प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
29,8.7पाङ्क्ताः पशवः ।
29,8.10पशूनामेव आप्त्यै ।
29,8.11चत्वारि चत्वारि सूक्तानि ब्राह्मणाच्छंसी च अच्छावाकश्च शंसतः सर्वेषु छन्दोमेषु ।
29,8.12पशवो वै छन्दोमाः ।
29,8.13चतुष्टया वै पशवः ।
29,8.14अथो चतुष्पादाः पशूनामेव आप्त्यै ।
29,8.15पञ्च आहावानि शस्त्राणि ।
29,8.16पशवो वा उक्थानि ।
29,8.17पाङ्क्ताः पशवः ।
29,8.18पशूनामेव आप्त्यै ।
29,8.19ऐकाहिका उक्थ्य याज्याः ।
29,8.20प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
29,8.21अनुवषट्कुर्वन्त्याहुतीनामेव शान्त्यै ।
29,8.22आहुतीनाम्प्रतिष्ठित्या आहुतीनाम्प्रतिष्ठित्यै ।
29,8.23