अतिरिक्त सोमो व एष यदाश्विनम् ।
18,1.1यद्वै यज्ञस्य अतिरिच्यते ।
18,1.2भ्रातृव्यस्तेन यजमानस्य प्रत्युद्यमी भवति ।
18,1.3अथ यत्परस्तादाश्विनौ यजति ।
18,1.4अश्विनौ वै देवानाम्भिषजौ ।
18,1.5भैषज्यमेव तत्कुरुते ।
18,1.6अथ यत्र ह तत्सविता सूर्याम्प्रायच्छत्सोमाय राज्ञे ।
18,1.7यदि वा प्रजापतेः ।
18,1.8तत्सहस्रमन्वाकरोद्दुहित्र ऊह्यमानायै ।
18,1.9तदासाम्देवतानामासीत् ।
18,1.10ता अब्रुवन्नाजिमायाम अस्मिन्त्सहस्र इति ।
18,1.11ता आजिमायन् ।
18,1.12तदश्विना उदजयताम्रासभेन ।
18,1.13तस्माद्बह्व्यो देवताः शस्यन्ते ।
18,1.14अथ आश्विनमित्याख्यायते ।
18,1.15तत उ ह एतदुत रासभो न सर्वमिव जवम्धावति ।
18,1.16सुतम्मया इति हतम्मन्यमानः सहस्रम्शंसेत् ।
18,1.17सहस्रम्ह्युदजयताम् ।
18,1.18तदाहुर्यद्बृहत्या आयतनानि पृष्ठानि भवन्त्यथ कस्मात्त्रिष्टुभा प्रतिपद्यत इति ।
18,1.19त्रिः शस्ता एषा तिस्रश्च बृहत्यः सम्पद्यन्त एका च गायत्री ।
18,1.20इदमु ह संधे रूपम्यत्तिस्रो बृहत्यः ।
18,1.21पथम रूपम्गायत्री ।
18,1.22अथ यद्बृहतीमभिसम्पादयति ।
18,1.23बृहती ह्यभिवृतम्सम्पद्यते ।
18,1.24अथ यद्बार्हतीनाम्प्रतिपदाम्प्रथमम्प्रथमम्प्रगाथम्पुनरादायम्ककुप्कारम्शंसति ।
18,1.25पुनरादायम्वै सामगाः स्तुवते ।
18,1.26तस्य एव एतद्रूपम्क्रियते ।
18,1.27आग्नेयम्क्रतुम्शंसति ।
18,2.1तदिमंल्लोकमाप्नोति ।
18,2.2उषस्यम्शंसति ।
18,2.3तदन्तरिक्ष लोकमाप्नोति ।
18,2.4आश्विनम्शंसति ।
18,2.5तदमुंल्लोकमाप्नोति ।
18,2.6सौर्यम्क्रतुम्शंसति ।
18,2.7अस्ति वै चतुर्थो देव लोक आपः ।
18,2.8तमेव अस्य तेन आप्नोति ।
18,2.9प्रगाथम्शंसति ।
18,2.10पशवो वै प्रगाथ ।
18,2.11पशूनामेव आप्त्यै ।
18,2.12अथो प्राण अपानौ वै बार्हतः प्रगाथः ।
18,2.13द्यावा पृथिवीयम्शंसति ।
18,2.16प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।
18,2.17द्विपदाम्शंसति ।
18,2.18प्रतिष्ठानीयम्वै छन्दो द्विपदा प्रतिष्हित्या एव ।
18,2.19बार्हस्पत्यया परिदधाति ।
18,2.20ब्रह्म वै बृहस्पतिः ।
18,2.21ब्रह्मण्येव तदन्ततः प्रतितिष्ठति ।
18,2.22अथ एषा सम्पद्भवति ।
18,2.23त्रीणि गायत्री शतानि ते द्वे बृहती शते ।
18,2.24सप्ततिमनुष्टुभः सप्ततिम्पङ्क्तयश्चत्वारिंशत्शतम्बृहतीनाम् ।
18,2.25त्रयाणाम्त्रिष्टुप्शतानाम्गायत्री शतमुद्धृत्य तानि त्रीणि बृहती शतानि ।
18,2.26तच्च गायत्री शतम्जगती शतम्च ते द्वे बृहती शते ।
18,2.27पञ्चाशत्त्रिष्टुभः पञ्चाशदुष्णिहः शतम्बृहत्यः सम्पद्यन्ते ।
18,2.28अथ याः सप्त पञ्चाशतम्बृहत्यो अत्र एव ताः सम्पन्नात्ः ।
18,2.29अथ ये द्वापञ्चाश्यौ त्रिष्टुभौ द्विपदा च तास्तिरो बृहत्यः सम्पद्यन्ते ।
18,2.30तन्नानाच्छन्दस्यानाम्सहस्रम्सत्सहस्रम्बृहत्यः सम्पद्यन्ते ।
18,2.31न सहस्रमतिशंसेन्न अर्वाक्सहस्रादित्येषा ह एव स्थितिः ।
18,2.32प्रो त्वेव आश्विनस्य विभूतिरिति दिश्यते ।
18,3.1एष आग्नेयः क्रतुः ।
18,3.2आग्नेयादेव ऋतोर्न निश्च्यवेत ।
18,3.3अथ यद्याग्नेयम्क्रतुम्पुरा कालात्समतीयात् ।
18,3.4आश्विनमनु यत्किंच द्विदेवत्यमृक्षु तदनुवर्तयेत् ।
18,3.5सौर्ये क्रतौ पावमानीर्यथाच्छन्दसम् ।
18,3.6गायत्रीर्गायत्रे त्रिष्टुभस्त्रैष्टुभे जगतीर्जागते ।
18,3.7सर्वम्सूर्य न्यङ्गम्सौर्यस्य आयतने ।
18,3.8सर्वानैन्द्रान्प्रगाथान्प्रगाथस्य आयतने ।
18,3.9सर्वम्द्यावा पृथिवीयम्द्यावा पृथिवीयस्य आयतने ।
18,3.10सर्वा द्विपदा द्विपदाया आयतने ।
18,3.11सर्वम्बार्हस्पत्यम्पुरस्तात्परिधानीयायै ।
18,3.12एतद्वै किंचिदिव ऋचाम्न प्रदिश्यते ।
18,3.13अथ वै चक्रीवदाश्विनम् ।
18,3.14आलम्बधे चक्रे अकूध्रीच्यो अक्षः ।
18,3.15आ वाम्रथो अश्विना श्येनपत्वा इति स उद्धिः ।
18,3.16अथ चत्वार्यागस्त्यानि युक्तानि ।
18,3.17स एष देव रथः ।
18,3.18स एतेन देव रथेन स्वस्ति स्वर्गंल्लोकम्समश्नुते ।
18,3.19ससुपर्णम्स्यात् ।
18,3.20वयो वै सुपर्णः ।
18,3.21तद्यथा पक्षि वयो भूत्वा एवम्तत्स्वस्ति स्वर्गंल्लोकम्समश्नुते ।
18,3.22द्विरेव आश्विनाय आह्वयेते प्रतिपदे च एव परिधानीयायै च ।
18,3.23तद्यथा प्रतिघातेन अनिवेष्ट्यमानो धावयेदेवम्तत् ।
18,3.24अथ अतः परिधानस्य एव मीमांसा ।
18,4.1यदादित्यो रराट्यामतिसर्पेत् ।
18,4.2यदा एनम्स्वयम्होता निर्जानीयात् ।
18,4.3यदास्य लोहितमावीयात् ।
18,4.4यदेव एनम्सर्वे रश्मयः प्रत्युप्येरन् ।
18,4.5स कालः परिधानस्य ।
18,4.6एतस्मिन्ह वा एष काले अपहत पाप्मा विविक्त पाप्मा भवति ।
18,4.7अपहते पाप्मानम्विविच्यते पाप्मना य एतस्मिन्काले परिदधाति ।
18,4.8अथ यद्यभ्रम्स्यात् ।
18,4.9एतद्वा अस्य तद्रूपम्येन प्रजा बिभर्ति ।
18,4.10इदमेकम्यदयम्प्राणो अध्यात्मम् ।
18,4.11अतिरोहितो मदित्येव तम्मन्यमानः परिदध्यात् ।
18,4.12विभ्राज आहुतिम्जुहुयादनिर्ज्ञायमान आदित्ये ।
18,4.13यो अनुपयुक्तः स्यात् ।
18,4.14आविरेभ्यो भवति ।
18,4.15द्वाभ्याम्यजेत् ।
18,4.16द्वाभ्याम्ह्याश्विनमित्याख्यायते ।
18,4.17अनवानम्गायत्रीमुक्त्वा विराजो अर्धर्चे अवानिति ।
18,4.18श्रीर्विराडन्न अद्यम् ।
18,4.19श्रियाम्तद्विराज्यन्न अद्ये प्रतितिष्ठति ।
18,4.20उत्तरेण विराजो अर्धर्चेन वषट्करोति ।
18,4.21स्वर्ग एव तल्लोके यजमानम्दधाति ।
18,4.22विराजा एव यजेदिति ह स्म आह कौषीतकिः ।
18,4.23त्रयस्त्रिंशदक्षरा वै विराट् ।
18,4.24त्रयस्त्रिंशद्देवताः ।
18,4.25अक्षर भाजो देवताः करोति ।
18,4.26अश्विना वायुना युवम्सुदक्ष इति त्वेव स्थिता आश्विनी त्रिष्टुप्तिरो अह्न्यवती ।
18,4.27तिरो अह्न्या हि सोमा भवन्ति ।
18,4.28अथो बलम्वै वीर्यम्त्रिष्टुप् ।
18,4.29बलमेव तद्वीर्यम्यजमाने दधाति ।
18,4.30अनुवषट्करोत्याहुतीनामेव शान्त्यै ।
18,4.31आहुतीनाम्प्रतिष्ठित्यै ।
18,4.32संसन्नेषु छन्दोगेषु प्रवृत होमीये आहुती जुहोति ।
18,4.33महत्शस्त्रम्वाक्च मनश्च प्रीते उद्यच्छातमिति ।
18,4.34अथ हारि योजनेन चरन्ति ।
18,5.1हरी एव तत्प्रीणन्ति ।
18,5.2अत्र देवाः स अश्वाः प्रीता भवन्ति ।
18,5.3त्रिष्टुभम्हारि योजनस्य पुरोनुवाक्यामनूच्य जगत्या यजति ।
18,5.4बलम्वै वीर्यम्त्रिष्टुप् ।
18,5.5पशवो जगती ।
18,5.6बल एव तद्वीर्ये अन्ततः पशुषु च प्रतितिष्ठति ।
18,5.7मद्वती याज्या मद्वद्द्हि तृतीय सवनम् ।
18,5.8अनुवषट्करोत्याहुतीनामेव शान्त्यै ।
18,5.9आहुतीनाम्प्रतिष्ठित्यै ।
18,5.10तासाम्भूयिष्ठा धानानामाददीत ।
18,5.11पशवो वै धानाः ।
18,5.12भूमानमेव तत्पशूनामात्मन्धत्ते ।
18,5.13अथ यदृचम्जपन्ति स्वस्त्ययनमेव तत्कुर्वते ।
18,5.14ता आहवनीयस्य भस्म अन्ते निवपन्ति ।
18,5.15योनिर्वै पशूनामाहवनीयः ।
18,5.16स्व एव एनांस्तद्गोष्ठे अनपक्रमे दधति ।
18,5.17अथ शाकलान्जुह्वति ।
18,5.18तद्यथा अहिर्जीर्णायै त्वचो निर्मुच्येत ।
18,5.19इषीका वा मुञ्जात् ।
18,5.20एवमेव एते सर्वस्मात्पाप्मनः सम्प्रमुच्यन्ते ।
18,5.21अथ सव्यावृतो अप्सु सोमानुपपरायन्ति ।
18,5.22तानिह अन्तर्वेद्यासादयन्ति ।
18,5.23तद्द्हि सोमस्य आयतनम् ।
18,5.24व्यपदधति दर्भ प्ञ्जूलानि ।
18,5.25यदा वा आपश्च औषधयश्च संगच्छन्ते ।
18,5.26अथ कृत्स्नः सोमः ।
18,5.27ता वैष्णव्या ऋचा निनयन्ति ।
18,5.28यज्ञो वै विष्णुः ।
18,5.29यज्ञ एव एनांस्तदन्ततः प्रतिष्ठापयन्ति ।
18,5.30अथ प्राणान्त्सम्मृशन्ते ।
18,6.1तद्यदेव अत्र प्राणानाम्क्रूरी कृतम्यद्विलिष्टम्तदेव एतदाप्याययन्ति तद्भिषज्यन्ति ।
18,6.2भक्ष परिधीन्कुर्वते ।
18,6.3मानुषेण एव तद्भक्षेण दैवम्भक्षमन्तर्दधते ।
18,6.4अवभृथः ।
18,6.5अमुमेव एतत्सवनैरीप्सन्ति यो असौ तपति ।
18,6.6उद्यन्तम्प्रातः सवनेन ।
18,6.7मध्ये सन्तम्माध्यंदिनेन सवनेन ।
18,6.8अस्तम्यन्तम्तृतीय सवनेन ।
18,6.9स वा एषो अपः प्रविश्य वरुणो भवति ।
18,6.10तस्माद्वारुणमेक कपालम्पुरोडाशम्निर्वपन्ति ।
18,7.1एकस्था वै श्रीः ।
18,7.2श्रीर्वै वरुणः ।
18,7.3श्रियामेव तदन्ततः प्रतितिष्ठन्ति ।
18,7.4ते अन्तरेण चात्वाल उत्करा उपनिष्क्रामन्ति ।
18,7.5तद्द्हि यज्ञस्य तीर्थमाप्नानम्नाम ।
18,7.6तदेतदृचा अभ्युदितम् ।
18,7.7आप्नानम्तीर्थम्किमिह प्र वोचदिति ।
18,7.8एतेन वै देवास्तीर्थेन यज्ञम्प्रपद्य सर्वान्कामानापुः ।
18,7.9तथो एव एतद्यजमान एतेन एव तीर्थेन यज्ञम्प्रपद्यते ।
18,7.10सर्वान्कामानाप्नोति ।
18,7.11ते यस्याम्दिश्यापो भवन्ति ताम्दिशमभ्यावृत्य चरन्ति ।
18,7.12सा वै प्राची दिग्यस्याम्देवताः ।
18,7.13चतुरः प्रयाजान्यजत्यृते बर्हिष्कम् ।
18,7.14बर्हिष्मन्तमुत्सृजति ।
18,7.15न ह्यत्र बर्हिः स्तीर्यते ।
18,7.16वार्त्रघ्नावाज्य भागौ भवतः पाप्मन एव वधाय ।
18,7.17अथो ह अस्य पौर्णमासात्तन्त्रादनितम्भवति ।
18,7.18अप्सुमन्तौ ह एके कुर्वन्ति ।
18,7.19वार्त्रघ्नौ त्वेव स्थितौ ।
18,7.20अथ यदप्सु वरुणम्यजति ।
18,7.21स्व एव एनम्तदायतने प्रीणाति ।
18,7.22अथ यदग्नीवरुणौ यजति ।
18,7.23अत्र अग्निः सर्वेषु हविह्षु भागी भवति ।
18,7.24द्वावनुयाजौ यजत्यृते बर्हिष्कम् ।
18,7.25बर्हिष्मन्तमुत्सृजति ।
18,7.26प्रजा वै बर्हिः ।
18,7.21न इत्प्रजामप्सु प्रवृणजानि इति ।
18,7.28त एक शतम्प्रयाज अनुयाजा भवन्ति ।
18,8.1शत आयुर्वै पुरुषः शत वीर्यः शत इन्द्रियः ।
18,8.2उप य एक शततमः स आत्मा ।
18,8.3तदेतदङ्गिरसामयनम् ।
18,8.4स एतेन अयनेन प्रतिपद्य अङ्गिरसाम्सलोकताम्सायुज्यमाप्नोति ।
18,8.5अथ याः षड्वा अष्टौ वा वषट्कृतयः ।
18,8.6तदादित्यानामयनम् ।
18,8.7स एतेन अयनेन प्रतिपद्य आदित्यानाम्सलोकताम्सायुज्यमाप्नोति ।
18,8.8अनूबन्ध्या ।
18,8.9चतुर्थमेव एतत्सवनम्यदनूबन्ध्या ।
18,8.10तस्मादच्युता भवति ।
18,8.11चतुर्थम्ह्येव एतत्सवनानाम् ।
18,8.12सा वै मैत्रावरुणी भवति ।
18,8.13अग्नीषोमीयो हि पुरस्तात्कृतो भवति ।
18,8.14तस्मान्मैत्रावरुणी भवति ।
18,8.15यज्ञस्य एव सभारतायै ।
18,8.16अथ यदप्सु वरुणम्यजति ।
18,8.17अत्र मित्रो हीनो भवति ।
18,8.18तस्मान्मैत्रावरुणी भवति ।
18,8.19मित्रस्य एव अनुलब्ध्यै ।
18,8.20अथ यदि पशुरानीतो अनुपाकृतो म्रियेत ।
18,8.21ऋत्विग्भ्यस्तम्कारयेत् ।
18,8.22अथ अन्यम्तद्रूपम्तद्वर्णमालभेरन् ।
18,8.23तमाप्रीतम्पर्यग्नि कृतमुदञ्चम्नयेयुः ।
18,8.24तस्य अनु न्यायमितरम्कर्षयेयुः ।
18,8.25तयोर्नाना वपे उत्खिद्य नाना श्रपयित्वा नाना वदाय समाने वषट्कारे जुहुयुः ।
18,8.26तयोर्नाना एव पशु पुरोडाशौ श्रपयित्वा नाना वदाय समाने वषट्कारे जुहुयुः ।
18,8.27तयोर्नाना एव हविषी श्रपयित्वा नाना वदाय समाने वषट्कारे जुयुहुः ।
18,8.28एवम्तृतीय गुदावेवम्जाघन्यौ ।
18,8.29यदि त्वप्येकया एव आप्रिय आप्रीतः स्यात् ।
18,8.30तेन एव प्रचुरेयुरिति सा स्थितिः ।
18,8.31प्राणा वै आप्र्यः ।
18,8.32प्राणानेव अस्मिंस्तद्दधाति ।
18,8.33अथ यद्यष्टापदी स्यात्कथम्स्यादिति ।
18,9.1गर्भस्य त्वचो वपा रूपम्फाली करणान्गर्भमिति शामित्रे श्रपयित्वा इतरस्य वषट्कारेषु शामित्र एव जुहुयुः ।
18,9.2रक्षांसि ह वा एतद्यज्ञम्गच्छन्ति यदत्र एतादृग्भवति ।
18,9.3तानि तेन अपहन्ति ।
18,9.4तदरक्षो हतम् ।
18,9.5एवम्नु यदि पशुरनूबन्ध्या भवति ।
18,9.6यद्यु वै पयस्या ।
18,9.7अथ यदि गो पशुर्भवति ।
18,9.10गो संस्तवौ वै मित्रावरुणौ ।
18,9.11तस्माद्गो पशुर्भवति ।
18,9.12अथ यत्त्रिष्टुभो याज्या भवन्ति ।
18,9.13बलम्वै वीर्यम्त्रिष्टुप् ।
18,9.14बलमेव तद्वीर्यम्यजमाने दधाति ।
18,9.15युवम्वस्त्राणि पीवसा वसाथे इति वपायै याज्या ।
18,9.16पीवसा इत्तद्वपायै मेदसो रूपम् ।
18,9.17यद्बंहिष्ठम्न अतिविधे सुदानू इति पुरोडाशस्य ।
18,9.18बंहिष्ठमिति बहुल इव हि पुरोडाशः ।
18,9.19प्र बाहवा सिसृतम्जीवसे न इति हविषः ।
18,9.20बाहव इति तद्द्हविषो अङ्गानाम्रूपम् ।
18,9.21उदन्नुदवसति ।
18,9.22उदन्हि जीव लोकः ।
18,9.23उदन्नुदवसाय वैष्णव्या ऋचा पूर्ण आहुतिम्जुहोति ।
18,9.24यज्ञो वै विष्णुः ।
18,9.25यज्ञमेव तदारभते ।
18,9.26पञ्च कपालः पुरोडाशो भवति ।
18,9.27पञ्च पदा पङ्क्तिः ।
18,9.28पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
18,9.29यद्यु वा अष्टा कपालः पौर्णमासमेव तन्त्रम्भवति ।
18,9.30प्रतिष्ठा वै पौर्णमासम्प्रतिष्ठित्या एव ।
18,9.31इदम्त्वेव प्रत्यक्षम्पुनराधेयस्य रूपम्यत्पद पङ्क्तयो याज्या पुरोनुवाक्याः ।
18,9.32तथा एव व्यतिषक्ताः ।
18,9.33तस्याम्संस्थितायाम्यजमानो अग्निहोत्रम्जुहोति ।
18,9.34संस्थिते ह्यग्न्याधेये अग्निहोत्रम्हूयते ।
18,9.35तस्मात्तस्याम्संस्थितायाम्यजमानो अग्निहोत्रम्जुहुयादिति यजमानो अग्निहोत्रम्जुहुयादिति ।
18,9.36