मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 30

3
खण्डिका 1

त्रिष्टुभमादित्य ग्रहस्य पुरोनुवाक्यामन्वाह तस्या उक्तम्ब्राह्मणम् ।

30,1.1

अथ स्तुते पवमाने पशुना चरन्ति तस्य उक्तम्ब्राह्मणम् ।

30,1.2

अथ हविष्पङ्क्त्या चरन्ति तस्या उक्तम्ब्राह्मणम् ।

30,1.3

वामदेव्यास्तृतीय सवन उन्नीयमानेभ्यो अन्वाह ।

30,1.4

वामदेवो ह तृतीय सनव इन्द्राय सोमम्प्रोवाच ।

30,1.5

ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्या रूपेण ।

30,1.6

ता वा ऐन्द्रार्भव्यस्त्रिष्टुभो भवन्ति ।

30,1.7

इन्द्रमेव तदर्ध भाजम्सवनस्य करोति ।

30,1.8

ता वै नव अन्वाह ।

30,1.9

नव ह्यत्र चमसानुन्नयन्ति ।

30,1.10

यथा तु प्रायणम्तथा उदयनम् ।

30,1.11

अथ होत्राः सम्यजन्ति तासामुक्तम्ब्राह्मणम् ।

30,1.12

अन्धस्वत्यो मद्वत्यः पीतवत्यो जगत्यो याज्याः ।

30,1.13

जागतम्हि तृतीय सवनम् ।

30,1.14

अनुवषट्कुर्वन्त्याहुतीनामेव शान्त्यै ।

30,1.15

आहुतीनाम्प्रतिष्ठित्यै ।

30,1.16

अथ इडा अथ होतृ चमसस्तस्य उक्तम्ब्राह्मणम् ।

30,1.17

औपासनांस्तृतीय सवन उपास्यन्ति तेषामुक्तम्ब्राह्मणम् ।

30,1.18

त्रिष्टुभम्सावित्र ग्रहस्य पुरोनुवाक्यामन्वाह तस्या उक्तम्ब्राह्मणम् ।

30,1.19

अथ यदुक्थ अन्तरेण अग्नीन्पत्नीवतस्य यजति ।

30,1.20

तेन तौ होतारमनुसमश्नुवाते ।

30,1.21

ऐन्द्राग्नान्युक्थ्य उक्थानि भवन्त्तेषामुक्तम्ब्राह्मणम् ।

30,1.22

अथ एतान्यैन्द्राणि जागतानि सूक्तानि शंसन्ति ।

30,1.23

पशवो वै जगती ।

30,1.24

जागताः पशवः पशूनामेव आप्त्यै ।

30,1.25
खण्डिका 2

तान्यच्युतानि स्युरिति ह एक आहुः सवन धरणानि इति वदन्तः ।

30,2.1

अन्यान्यन्यानि इति त्वेव स्थितम् ।

30,2.2

अन्यदन्यद्द्ह्यहरुपयन्ति ।

30,2.3

अथ वारुणम्बार्हस्पत्यम्वैष्णवमिति शंसन्ति ।

30,2.4

जगती वा एतेषाम्छन्दस्त्रिष्टुबिन्द्रस्य ।

30,2.5

तद्यत्छन्दसी विपरीते द्विदेवत्यायै ।

30,2.6

ऐन्द्रावरुणमैन्द्रा बार्हस्पत्यमैन्द्रावैष्णवमिति शंसन्ति ।

30,2.7

ग्रहानेव एतैरनुशंसन्ति ।

30,2.8

एवम्हि ग्रहा गृहीता भवन्ति ।

30,2.9

चर्षणी धृतम्मघवानमुक्थ्यमिति मैत्रावरुणस्तस्य उक्तम्ब्राह्मणम् ।

30,2.10

वासिष्ठो अहरहः पर्यासो भवति ।

30,2.11

वसिष्ठो ह एतन्मैत्रावरुणीयायै तृतीय सवनम्ददर्श ।

30,2.12

तस्माद्वासिष्ठो अहरहः पर्यासो भवति ।

30,2.13

ककुप्सु मैत्रावरुणाय प्रणयन्ति तृतीये अहन् ।

30,2.14

तेनो स ब्राह्मणाच्छंसिनो वशमेति ।

30,2.15

अथ चतुर्थे अहन्त्स्वे स्वे छन्दसि प्रणयन्ति ।

30,2.16

स्वे स्व एव तच्छन्दसि प्रतितिष्ठन्तो यन्ति ।

30,2.17

गायत्रीषु मैत्रावरुणाय प्रणयन्त्युष्णिक्षु ब्राह्मणाच्छंसिने अनुष्टुप्स्वच्छावाकाय उत्तर उत्तरितायै ।

30,2.18

तथा एषाम्चतुर्भिश्चतुर्भिरक्षरैश्छन्दांस्यभ्युद्यन्ति ।

30,2.19

पङ्क्तिषु मैत्रावरुणाय प्रणयन्ति पञ्चमे अहन् ।

30,2.20

पाङ्क्तम्हि पञ्चममहः ।

30,2.21
खण्डिका 3

द्विपदासु षष्ठे अहन्प्रणयन्ति सर्वेषाम् ।

30,3.1

द्वैपदम्हि षष्ठमहः ।

30,3.2

अथो गूर्दम्भद्रमुद्वंश पुत्रमिति सामानि कुर्वन्ति ।

30,3.3

अथो द्विपदा सहचराणि वै शिल्पानि भवन्ति ।

30,3.4

तस्मात्शिल्पानि शस्यन्ते ।

30,3.5

न इत्शिल्पेभ्यो अगाम इति ।

30,3.6

नाभानेदिष्ठेन अत्र होता रेतः सिचति ।

30,3.7

तन्मैत्रावरुणाअय प्रयच्छति ।

30,3.8

तत्स वालखिल्याभिर्विकरोति ।

30,3.9

अथ एता वालखिल्या विहृताः शंसति ।

30,3.10

पच्छः प्र्थमे सूक्ते विहरति ।

30,3.11

पर्वश एव एनम्त्त्सम्भरति ।

30,3.12

अर्धर्चशो द्वितीये ।

30,3.13

द्वे वै पुरुषः कपले ।

30,3.14

ते एव तत्संदधाति ।

30,3.15

ऋचमृचम्तृतीये ।

30,3.16

कृत्स्नमेव एनम्तत्सम्भरति ।

30,3.17

विपर्यस्येन्नाराशंसे ।

30,3.18

तस्माद्विपर्यस्ता गर्भा जायन्ते ।

30,3.19

तार्क्ष्ये दूरोहणम्रोहति ।

30,3.20

वायुर्वै तार्क्ष्यः ।

30,3.21

प्राणो वै वायुः ।

30,3.22

प्राणमेव तद्यजमाना रोहन्ति ।

30,3.23
खण्डिका 4

तम्ब्राह्मणाच्छंसिने प्रयच्छति ।

30,4.1

तम्स सुकीर्तिना योनिना प्रतिगृह्णाति जातम् ।

30,4.2

अथ एतम्वृषाकपिम्पङ्क्ति शंसम्शंसति ।

30,4.3

पञ्चपदा पङ्क्तिः ।

30,4.3

पाङ्क्तो वै यज्ञो यज्ञस्य अवाप्त्यै ।

30,4.5

न्यूङ्खयति ।

30,4.6

अन्नम्वै न्यूङ्खः ।

30,4.7

जात एव अस्मिंस्तदन्न अद्यम्प्रतिदधाति ।

30,4.8

अथ एतत्कुन्तापम्यथा छन्दसम्शंसति ।

30,4.9

सर्वेषामेव छन्दसामाप्त्यै ।

30,4.10

नाराशंसी रैभीः कारव्या इन्द्र गाथा भूतेच्छदः पारिक्षितीरेतश प्रलापमिति ।

30,4.11

एतशो ह वै मुनिर्यज्ञस्य आयुर्ददर्श ।

30,4.12

स ह पुत्रानुवाच ।

30,4.13

पुत्रका यज्ञस्य आयुरदर्शम्तदभिलप्ष्यामि ।

30,4.13

मामाम्दृप्तम्मन्ध्वमिति ।

30,4.15

ते ह तथा इत्यूचुः ।

30,4.16

तद्द्ह अभिललाप ।

30,4.17

तस्य ह ज्येष्ठः पुत्रो अभिसृप्य मुखमपिजग्राह ।

30,4.18

अदृपद्वै नः पिता इति ।

30,4.19

तम्ह उवाच ।

30,4.20

अपनश्य धिक्त्वा जाल्मास्तु ।

30,4.21

पापिष्ठाम्ते प्रजाम्करिष्यामि ।

30,4.22

यद्वै मे जाल्म मुखम्न अप्यग्रहीष्यः ।

30,4.23

शत आयुषम्गामकरिष्यम्सहस्र आयुषम्पुरुषमिति ।

30,4.23

तस्मादैतशायना आजानेयाः सन्तो भृगूणाम्पापिष्ठाः पित्रा अभिशप्ताः स्वया देवतया स्वेन प्रजापतिना ।

30,4.25
खण्डिका 5

आदित्य आङ्गिरसीरुपसंशंसति ।

30,5.1

आदित्याश्च ह वा अङ्गिरसश्च अस्पर्धन्त ।

30,5.2

वयम्पूर्वे स्वर्गम्लोकमेष्याम इत्यादित्याः ।

30,5.3

वयमित्यङ्गिरसः ।

30,5.3

ते अङ्गिरस आदित्यान्प्रजिघ्युः ।

30,5.5

श्वः सुत्या नो याजयत न इति ।

30,5.6

तेषाम्ह अग्निर्दूत आस ।

30,5.7

त आदित्या ऊचुः ।

30,5.8

अथ अस्माकमद्य सुत्या ।

30,5.9

तेषाम्नस्त्वमेव होता असि ।

30,5.10

बृहस्पतिर्ब्रह्माय अस्य उद्गाता घोर आङ्गिरसो अध्वर्युरिति ।

30,5.11

तान्न प्रत्याचचक्षिरे ।

30,5.12

तमेताभिः शिशिक्षुः ।

30,5.13

तदेता अभिवदन्ति ।

30,5.13

ते अश्वम्श्वेतम्दक्षिणाम्निण्युरेतमेव य एष तपति ।

30,5.15

तत उ ह आदित्याः स्वरीयुः ।

30,5.16

स्वरेति य एवम्वेद ।

30,5.19

दिशाम्क्लृप्तीः शंसति ।

30,5.18

दिशो ह अस्मै कल्पन्ते ।

30,5.19

जन कल्पाः शंसति ।

30,5.20

जना ह अस्मै कल्पन्ते ।

30,5.21

प्रवल्हिकाः प्रतीराधानतिवादामाहनस्याः सर्वा वाचो वदति ।

30,5.22

तस्मात्पुरुषः सर्वा वाचो वदति । ण्ण्ण्

30,5.23

एकैकामितरे पशवः ।

30,5.23

ता वा अष्टौ भवन्ति ।

30,5.25

एताभिर्वै देवाः सर्वा अष्टीराश्नुवत ।

30,5.26

तथो एव एतद्यजमाना एताभिरेव सर्वा अष्टीरश्नुवते ।

30,5.27

कपृन्नरः कपृथमुद्दधातन यद्द्ह प्राचीरजगन्ता इति द्वे एक पातिन्यौ ।

30,5.28

ता दश संपद्यन्ते ।

30,5.29

दश दशिनी विराट् ।

30,5.30

श्रीर्विराडन्न अद्यम् ।

30,5.31

श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

30,5.32

दाधिक्रीम्शंसति ।

30,5.33

वाग्वै दाधिक्री ।

30,5.33

वाचमेव अस्मिंस्तद्दधाति ।

30,5.35

पावमानम्शंसति ।

30,5.36

पवित्रम्वै पावमान्यः ।

30,5.37

पुनात्येव एनत्तत् ।

30,5.38
खण्डिका 6

तमच्छावाकाय प्रयच्छति ।

30,6.1

तम्स एवयामरुता चारयति जातम् ।

30,6.2

न्यूङ्खयति ।

30,6.3

न्यूङ्ख मानक इव वै प्रथमम्चिचर्षंश्चरति ।

30,6.4

तदेनममृताच्छन्दसो अमृतत्वाय प्रजनयन्ति ।

30,6.5

ते अमृतत्वमाप्नुवन्ति य षष्ठमहरुपयन्ति ।

30,6.6

स्तोत्रिया अनुरूपौ शस्त्वा वालखिल्याः शंसति ।

30,6.7

आत्मा वै स्तोत्रिया अनुरूपौ ।

30,6.8

प्राणा वालखिल्याः ।

30,6.9

अनन्तर्हिता उ ह इमे आत्मनः प्राणाः ।

30,6.10

तदाहुः कस्माद्वालखिल्या इति ।

30,6.11

यद्वा उर्वरयोरसम्भिन्नम्भवति ।

30,6.12

खिल इति वै तमाचक्षते ।

30,6.13

वाल मात्रा उ हि इमे प्राणा असम्भिन्नाः ।

30,6.14

तद्यदसम्भिनाः ।

30,6.15

तस्माद्वालखिल्याः ।

30,6.16

तार्क्ष्ये दूरोहणम्रोहति इति तदुक्तम् ।

30,6.17

गायत्रीषु ब्राह्मणाच्छंसिने प्रणयन्ति द्वितीये अहन् ।

30,6.18

तेनो स मैत्रावरुणस्य वशमेति ।

30,6.19

प्र मंहिष्ठाय बृहते बृहद्रय इति जागतम्षडृचम्तस्य उक्तम्ब्राह्मणम् ।

30,6.20

द्विस्तावद्यावन्मैत्रावरुणस्य ।

30,6.21

कार्ष्णो अहरहः पर्यासो भवति ।

30,6.22

कृष्णो ह एतदाङ्गिरसो ब्राह्मणाच्छंसीयायै तृतीय सवनम्ददर्श ।

30,6.23

तस्माद्कार्ष्णो अहरहः पर्यासो भवति ।

30,6.24
खण्डिका 7

उष्णिक्ष्वच्छावाकाय प्रणयन्ति प्रथमे अहन् ।

30,7.1

तेनो स ब्राह्मणाच्छंसिनो वशमेति ।

30,7.2

ऋतुर्जनित्रीयम्त्रयोदशर्चम्तस्य उक्तम्ब्राह्मणम् ।

30,7.3

द्विस्तावद्यावद्ब्राह्मणाच्छंसिन एका च उप ।

30,7.4

भारद्वाजो अहरहः पर्यासो भवति ।

30,7.5

भरद्वाजो ह एतदच्छावाकीयायै तृतीय सवनम्ददर्श ।

30,7.6

तस्माद्भारद्वाजो अहरहः पर्यासो भवति ।

30,7.7

वैष्णवे विपर्यस्यत्यच्छावाकः ।

30,7.8

पर्यासावितरौ ।

30,7.9

द्विपर्यासुअ मैत्रावरुणश्च ब्राह्मणाच्छंसी च ।

30,7.10

एक पर्यासो अच्छावाकः ।

30,7.11

तद्यदच्युत पर्यासो अच्छावाकः ।

30,7.12

प्रतिष्ठा वा अच्छावाकः प्रतिष्ठित्या एव ।

30,7.13

षट्त्रिंशतम्मैत्रावरुणश्चतुर्विंशे शंसति ।

30,7.14

चत्वारिंशतम्ब्राह्मणाच्छंसी ।

30,7.15

चतुश्चत्वारिंशतमच्छावाकः ।

30,7.16

तद्विंशति शतम् ।

30,7.17

विंशति शतम्वा ऋतोरहानि ।

30,7.18

तदृतुमाप्नुवन्ति ।

30,7.19

ऋतुना संवत्सरम् ।

30,7.20

ये च संवत्सरे कामाः ।

30,7.21
खण्डिका 8

पञ्च पञ्च सूक्तानि तृतीय सवने मैत्रावरुणः शंसति सर्वेषु छन्दोमेषु ।

30,8.1

पशवो वै छन्दोमाः ।

30,8.2

पाङ्क्ताः पशवः ।

30,8.3

पशूनामेव आप्त्यै ।

30,8.4

चत्वारि सूक्तानि ब्राह्मणाच्छंसी शंसति प्रथमे छन्दोमे ।

30,8.5

पशवो वै छन्दोमाः ।

30,8.6

चतुष्टया वै पशवः ।

30,8.7

अथो चतुष्पादाः पशूनामेव आप्त्यै ।

30,8.8

पञ्च पञ्च सूक्तान्युत्तरयोश्छन्दोमयोः ।

30,8.9

पशवो वै छन्दोमाः ।

30,8.10

पाङ्क्ताः पशवः ।

30,8.11

पशूनामेव आप्त्यै ।

30,8.12

पञ्च सूक्तान्यच्छावाकः शंसति प्रथमे छन्दोमे ।

30,8.13

पशवो वै छन्दोमाः ।

30,8.14

पाङ्क्ताः ऋतवः संवत्सरः ।

30,8.18

संवत्सरस्य एव आप्त्यै ।

30,8.19

चतुराहावानि शस्त्राणि ।

30,8.20

पशवो वा उक्थानि ।

30,8.21

चतुष्टया वै पशवः ।

30,8.22

अथो चतुष्पादाः पशूनामेव आप्त्यै ।

30,8.23

षष्ठ एव अहन्मैत्रावरुणस्य पञ्च आहावम्भवति ।

30,8.24

पशवो वा उक्थानि ।

30,8.25

पाङ्क्ताः पशवः ।

30,8.26

पशूनामेव आप्त्यै ।

30,8.27

ऐकाहिका उक्थ्य याज्याः ।

30,8.28

प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।

30,8.29

अनुवषट्क्र्वन्त्याहुतीनामेव शान्त्यै ।

30,8.30

आहुतीनाम्प्रतिष्ठित्यै ।

30,8.31
खण्डिका 9

पञ्च छन्दांसि रात्रौ शंसन्ति ।

30,9.1

अनुष्टुभम्गायत्रीमुष्णिहम्त्रिष्टुभम्जगतीमिति ।

30,9.2

एतानि वै रात्रिच्छन्दसानि ।

30,9.3

पञ्च आहावा रात्रिः ।

30,9.4

वाजपेयस्य च अतिरिक्त उक्थम् ।

30,9.5

उक्थस्य अतिग्रहो रात्रिः ।

30,9.6

छन्दसे छन्दस एव तदाह्वयन्त इति ह स्म आह कौषीतकिरजामितायै ।

30,9.7

अथ यत्तिरो अह्न्यवतीम्त्रिष्टुभमाश्विन इक्थ ग्रहस्य पुरोनुवाक्यामन्वाह ।

30,9.8

तिरो अह्न्यवान्प्रैषः ।

30,9.9

तिरो अह्न्या हि सोमा भवन्ति ।

30,9.10

अथो बलम्वै वीर्यम्त्रिष्टुप् ।

30,9.11

बलमेव तद्वीर्यम्यजमाने दधाति ।

30,9.12

चतुराहावान्यप्तोर्यामस्य अतिरिक्त उक्थानि ।

30,9.13

पशवो वा उक्थानि ।

30,9.14

चतुष्टया वै पशवः ।

30,9.15

अथो चतुष्पादाः पशूनामेव आप्त्यै ।

30,9.16

क्षैत्रपत्यः परिधानीयाः कुर्वते ।

30,9.17

इयम्वै क्षेत्रम्पृथिवी ।

30,9.18

अस्यामदीनायामन्ततः प्रतिष्ठास्याम इति ।

30,9.19

अस्यामेव तददीनायामन्ततः प्रतितिष्ठन्ति ।

30,9.20

अथ यत्तिरो अह्न्यवत्यस्त्रिष्टुभो याज्या भवन्ति ।

30,9.21

तिरो अह्न्या हि सोमा भवन्ति ।

30,9.22

अथो बलम्वै वीर्यम्त्रिष्टुप् ।

30,9.23

बलमेव तद्वीर्यम्यजमाने दधाति ।

30,9.24

अनुवषट्कुर्वन्त्याहुतीनामेव शान्त्यै ।

30,9.25

आहुतीनाम्प्रतिष्ठित्यई ।

30,9.26

अथ हारियोजनेन चरन्ति तस्य उक्तम्ब्राह्मणम् ।

30,9.27

त्रिष्टुभम्हारियोजनस्य पुरोनुवाक्यामन्वाह तस्या उक्तम्ब्राह्मणम् ।

30,9.28

अथ यदतिप्रैषस्य पुरोनुवाक्यामन्वाह ।

30,9.29

अवीर्यो ह वा उ स प्रैषो यो अपुरोनुवाख्यः ।

30,9.30

अथो द्विदेवत्येषु वै पुरोनुवाक्या भवन्ति ।

30,9.31

सर्वेषु च प्रस्थितेषु ।

30,9.32

तस्मादस्य पुरोनुवाक्यामन्वाह ।

30,9.33

अथ यदतिप्रैषमाह ।

30,9.34

परमेव एतदहरभिवदति ।

30,9.35

परमेव एतदहरभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः परमेव एतदहरभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः ।

30,9.36