मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 27

3
खण्डिका 1

यद्दिव्युपरि तद्दशममहरिति ह स्म आह कौषीतकिः ।

27,1.1

तस्मात्तदविवाक्यम्भवति ।

27,1.2

न हि तदद्धा वेद कश्चन ।

27,1.3

न इदविद्वान्विब्रवाणि इति ।

27,1.4

मितमेतद्देव कर्म यद्दशममहरनुष्टुबेव ।

27,1.5

स यो व्याह ।

27,1.6

सो अतिरेचयति ।

27,1.7

ईश्वरो विवक्तारम्भ्रेषो अव्नेतोः ।

27,1.8

तदु वा आहुर्व्येव ब्रूयात् ।

27,1.9

नन्दति ह वै यज्ञो विदुषा आगच्छता ।

27,1.10

यन्मे असमृद्धम्भविष्यत्ययम्मे तत्समर्धयिष्यति इति ।

27,1.11

यदि कश्चित्प्रमत्त उपहन्यात् ।

27,1.12

यस्तदधीयात् ।

27,1.13

यस्तम्तत्र ब्रूयात् ।

27,1.14

स तम्देशम्पार्श्वतः स्वाध्यायमधीयीत ।

27,1.15

अपि वा गृहपतिर्वा ऋत्विजाम्वा एकः पर्यवसर्पेत् ।

27,1.16

स तम्देशम्पार्श्वतः स्वाध्यायम्शंसेत् ।

27,1.17
खण्डिका 2

यदि तथा न मन्येत ।

27,2.1

तम्प्रत्येव विब्रूयात् ।

27,2.2

उत्सृज्यते दशमे अहन्यनुष्टुप् ।

27,2.3

वागनुष्टुप् ।

27,2.4

सा एषा वाग्व्रत दोहुषी क्रूर वहा इव भवति ।

27,2.5

तस्मादुत्सृज्यते ।

27,2.6

न इद्वाचमासीदाम इति ।

27,2.7

अथ इतराणि छन्दांस्यनुष्टुभमभिसम्पादयति ।

27,2.8

तदेतन्नाह एव अभिमृशे शूद्राम् ।

27,2.9

नो एनाम्प्रसिसृक्षामि ।

27,2.10

नो त्वेव अन्यत्र यामक पौंश्चल्वायनम्मे अस्ति इति ।

27,2.11

अनुष्टुब्ब्ह्येषा दशमे अहन्परिगीता ।

27,2.12

तदाहुर्न अनुष्टुभ आयतनम्रिञ्च्यात् ।

27,2.13

विराजस्तत्र अनुब्रूयात् ।

27,2.14

समानम्वा एतच्छन्दो यद्विराट्च अनुष्टुप्च ।

27,2.15

न ह्येकेन अक्षरेण अन्यच्छन्दो भवति ।

27,2.16

नो द्वाभ्यामिति ।

27,2.17

तयोर्वा एतयोस्तृचयोः षडक्षराण्यभ्युद्यन्ति ।

27,2.18

अग्निम्नरो दीधितिभिररण्योरग्निष्टोम साम्नः स्तोत्रिय अनुरूपयोः षट् ।

27,2.19

तानि द्वादश अक्षराणि ।

27,2.20
खण्डिका 3

होता प्रातरनुवाके सम्पादयेत् ।

27,3.1

न आद्रियेत अत्र एव सम्पन्नम् ।

27,3.2

उष्णिगुदैति इति मेनिमहे ।

27,3.3

गायत्री वा ।

27,3.4

ताम्प्रातरनुवाके सम्पादयेत् ।

27,3.5

न आद्रियेत अत्र वै सम्पन्नम् ।

27,3.6

अग्ने तमद्य अश्वम्न स्तोमैरित्याज्यम् ।

27,3.7

तदेतत्सृष्टम्दशमाय अह्ने न सम्पादयेत् ।

27,3.8

न आद्रियेत अत्र एव सम्पन्नम् ।

27,3.9

माधुच्छन्दसः प्रौगस्तस्य उक्तम्ब्राह्मणम् ।

27,3.10

त्रिकद्रुकेषु महिषो यवाशिरम्तुविशुष्म इत्यतिच्छन्दसा मरुत्वतीयम्प्रतिपद्यते ।

27,3.11

सा सम्पन्ना चतुः षष्ट्यक्षरा ।

27,3.12

ते द्वे अनुष्टुभौ सम्पद्येते ।

27,3.13

तत्सम्पन्नम् ।

27,3.14

पिन्वन्त्यपीयया द्वौ प्रगाथौ संशंसति बृहदिन्द्राय गायत प्र व इन्द्राय बृहत इति ।

27,3.15

तत्सम्पन्नम् ।

27,3.16

ऐकाहिकम्मरुत्वतीयम् ।

27,3.17

प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।

27,3.18
खण्डिका 4

कया नश्चित्र आ भुवत्कया त्वम्न ऊत्या इति वामदेव्यस्य योनौ रथन्तरमूढम्भवत्याग्नेयम्साम ऐद्रीषु ।

27,4.1

तन्मिथुनम्प्रजात्यै रूपम् ।

27,4.2

यावन्तः प्रगाथास्तावन्त्यौष्णिहानि तृचानि ।

27,4.3

धाय्यामन्या द्विपदा भजते ।

27,4.4

सप्तदशीमन्या सूक्तस्य ।

27,4.5

तत्सम्पन्नम् ।

27,4.6

ऐकाहिकम्निष्केवल्यम् ।

27,4.7

प्रतिष्ठा वा एकाहः प्रतिष्ठा दशममहः ।

27,4.8

प्रतिष्ठानीयम्वै छन्दो द्विपदे प्रतिष्ठित्या एव ।

27,4.9

अभि त्यम्देवम्सवितारमोण्योः कवि क्रतुमित्यतिच्छन्दसा वैश्वदेवम्प्रतिपद्यते ।

27,4.10

सा सम्पन्ना चतुः षष्ट्यक्षरा ।

27,4.11

ते द्वे अनुष्टुभौ सम्पदेते ।

27,4.12

तत्सम्पन्नम् ।

27,4.13

अभिवाननुचरस्तस्य उक्तम्ब्राह्मणम् ।

27,4.14

अथ नित्यमेव ऐकाहिकम्तृतीय सवनम् ।

27,4.15

प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।

27,4.16

तत्र पुरस्तादानोभद्रीयस्य प्रशुक्रीयम्शंसति ।

27,4.17

प्रतिष्ठा वा एकाहः प्रतिष्ठा दशममहः ।

27,4.18

प्रतिष्ठानीयम्वै छन्दो द्विपदाः प्रतिष्ठित्या एव ।

27,4.19
खण्डिका 5

विराट्सु वामदेव्यमग्निष्टोम साम भवति ।

27,5.1

श्रीर्विराडन्न अद्यम् ।

27,5.2

श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

27,5.3

अथो शान्तिर्वै भेषजम्वामदेव्यम् ।

27,5.4

शान्तिरेव एषा भेषजमन्ततो यज्ञे क्रियते ।

27,5.5

अथ यत्समूढस्य अतिरिक्त उक्थमुपयन्ति ।

27,5.6

तेन ह अतिरिक्त उक्थमाप्नुवन्ति ।

27,5.7

अथ एष दशमस्य अह्नो दोहः ।

27,5.8

यथा सहस्रम्च पञ्चदश च अनुष्टुभः स्युः ।

27,5.9

तथा एतदहः सम्पादयेत् ।

27,5.10

पञ्चदश उद्धृत्य शतस्य शतस्य चतस्रश्चतस्र उद्धरति ।

27,5.11

ताश्चत्वारिंशत् ।

27,5.12

पूर्वाः पञ्चदश ।

27,5.13

ताः पञ्च पञ्चाशदुद्धृताः ।

27,5.14

अथ इतरे त्रिंशद्द्वात्रिंशद्वर्गाः ।

27,5.15

अथ एषा पद्या अनुष्टुप् ।

27,5.16

गायत्र्यै च उष्णिहश्च षट्पदानि विराजस्त्रीणि तानि नव ।

27,5.17

बृहत्यै चत्वारि तानि त्रयोदश ।

27,5.18

पङ्क्तेः पञ्च तान्यष्टादश ।

27,5.19

त्रिष्टुभश्चत्वारि तानि द्वाविंशतिः ।

27,5.20

जगत्यै च अतिच्छन्दसश्च अष्टौ तानि त्रिंशत् ।

27,5.21

द्विपदायै द्वे तानि द्वात्रिंशत् ।

27,5.22

इत्येषा पद्य अनुष्टुबेकत्रिंशी भवति ।

27,5.23
खण्डिका 6

अथ एषा देवत्या अनुष्टुप् ।

27,6.1

अष्टौ वसव एकादश रुद्रा द्वादश आदित्या इन्द्रो द्वात्रिंश इत्येषा देवत्या अनुष्टुप्द्वात्रिंशी भवति ।

27,6.2

अथ याः पञ्च पञ्चाशदुद्धृताः ।

27,6.3

चतुश्चत्वारिंशत्ताः पङ्क्तयः ।

27,6.4

ततो याश्चत्वारिंशत्तदूधः ।

27,6.5

अथ याश्चतस्रो अतियन्ति ते स्तनाः ।

27,6.6

सा एषा स्तोम अक्षर अनुष्टुबेतेन ऊधसा एतैः स्तनैरेतमिन्द्रस्य आत्मानम्व्रत्यमहरभिक्षरति ।

27,6.7

सर्वेण अन्न अद्येन सर्वै रसैः सर्वैः कामैः सर्वेण अमृतत्वेन अभिक्षरति ।

27,6.8

एतस्या उ एव विक्षरेण छन्दोमाः स्तोमतश्च शस्त्रतश्च वर्धन्ते ।

27,6.9

यदु वै वेद तन्मयः सम्भवति ।

27,6.10

स य एवंविदस्य आयुषः परस्तादेतमिन्द्रस्य आत्मानम्व्रत्यमहरभिसम्भवति ।

27,6.11

तमेषा स्तोम अक्षर अनुष्टुबेतेन ऊधसा एतैः स्तनैः सर्वेण अन्न अद्येन सर्वै रसैः सर्वैः कामैः सर्वेण अमृतत्वेन अभिक्षरति ।

27,6.12

य एवम्सम्पन्नम्दशममहः शंसति ।

27,6.13

तस्मादेवम्सम्पन्नम्दशममहः शंसेदिति ।

27,6.14
खण्डिका 7

अथ यदतिरिक्त उख्त्यमुपयन्ति ।

27,7.1

मन एव तत्प्रीणन्ति ।

27,7.2

तत्सर्व यज्ञैरनुशंसन्ति ।

27,7.3

एषा हि मनसो मात्रा ।

27,7.4

संस्थिते अहनि पुरा पत्नी सम्याजेभ्य एतस्मिन्काले संर्पसर्पन्ति ।

27,7.5

अयज्ञिया वै पत्न्यो बर्हिर्वेदि हि ता इति वदन्तः ।

27,7.6

संस्थितेषु पत्नी सम्याजेष्विति त्वेव स्थितम् ।

27,7.7

अत्र अल्पको भ्रातृव्य लोकः परिशिष्टो भवति इति ।

27,7.8

ते संर्पसृप्य सार्पराज्ञ्या ऋक्षु स्तुवते ।

27,7.9

इयम्वै सार्पराज्ञी ।

27,7.10

इयम्हि सर्पतो राज्ञी ।

27,7.11

अथो वाग्वै सार्पराज्ञी ।

27,7.12

वाग्ग्हि सर्पतो राज्ञी ।

27,7.13

अथो गौर्वै सार्पराज्ञी ।

27,7.14

गौर्हि सर्पतो राज्ञीइ ।

27,7.15

आयम्गौः पृश्निरक्रमीदित्येतम्तृचम्न अन्तरियात्स्तोत्रियस्य आनन्तरित्यै ।

27,7.16

अस्मासु नृम्णम्धा इति ।

27,7.17

अन्नम्वै नृम्णम् ।

27,7.18

अन्नमेव तद्यज्ञे च यजमानेषु च दधाति ।

27,7.19
खण्डिका 8

आत्मानम्पूर्वमाह ।

27,8.1

तथा अस्य आत्मा अनन्तरिता भवति ।

27,8.2

वातापेर्हवन श्रुत इति ।

27,8.3

इन्द्रो वै वातापिः ।

27,8.4

स ह वातमाप्त्वा शरीरान्निरहन् ।

27,8.5

प्रतिपरैत्यध्वर्युः ।

27,8.6

सो अनिरुक्ते गार्हपत्ये प्राजापत्ये द्वे आहुती जुहोति ।

27,8.7

प्रजापतिर्वै गार्हपत्यः ।

27,8.8

अनिरुक्त उ वै प्रजापतिः ।

27,8.9

आहुति संस्थे उ वै स्तुत शस्त्रे ।

27,8.10

समाप्तम्स्तोत्रम्समाप्तम्शस्त्रम्समाप्तम्ब्रह्म उद्यम् ।

27,8.11

अतो न्वेव अपि काम यजेयुः ।

27,8.12

अथ भक्षयेयुः ।

27,8.13

अयम्वै वेनः प्रजापतेः प्रत्यक्षम्तन्वस्ता होता वदेत् ।

27,8.14
खण्डिका 9

अन्नादी च अन्न पत्नी च ।

27,9.1

इयम्वा अन्न अद्यसावन्न पत्नी ।

27,9.2

भद्रा च कल्याणी च ।

27,9.3

भद्रा तत्सोमः ।

27,9.4

कल्याणी तत्पशवः ।

27,9.5

अनिलया च अपभया च ।

27,9.6

अनिलया तद्वायुः ।

27,9.7

न ह्येष इलयति ।

27,9.8

अपभया तन्मृत्युः ।

27,9.9

न ह्येष बिभेति ।

27,9.10

अनाप्ता च अनाप्या च ।

27,9.11

इयम्वा ननाप्ता ।

27,9.12

असौ द्यौरनाप्या ।

27,9.13

अनाधृष्टा च अनाधृष्या च ।

27,9.14

अयम्वा अग्निरनाधृष्टा ।

27,9.15

अभ्रातृव्या तत्संवत्सरः ।

27,9.19

सो असावेव गृहपतिर्यो असौ तपति ।

27,9.20

एष हि गृहाणाम्पतिः ।

27,9.21

तस्य ऋतव एव गृहाः ।

27,9.22

एष पतिः ।

27,9.23

एष उ देवो अपहत पाप्मा ।

27,9.24

उदाद्रवत्यध्वर्युः ।

27,9.25

अपिदधति सदसो द्वारौ शालायाश्च ।

27,9.26
खण्डिका 10

औदुम्बरीमन्वारभन्ते ।

27,10.1

ऊर्ग्वै अन्न अद्यमुदुम्बरः ।

27,10.2

ऊर्जो अन्न अद्यस्य उपाप्त्यै ।

27,10.3

उत्तमौ पाणी होता कुर्वीत ।

27,10.4

उत्तमो असानि इति ।

27,10.5

उत्तमो ह एव भवति ।

27,10.6

ते वाचम्यमा आसत आ नक्षत्राणाम्दर्शनात् ।

27,10.7

वाचम्ह वा एतद्भूतान्याप्याययन्ति यद्वाचम्यमानि शेरते ।

27,10.8

आपीनाम्वाचमव्यासिक्तामन्तत ऋध्नवाम इति ।

27,10.9

दृश्यमानेषु नक्षत्रेष्वदीक्षितो बहिस्तिष्ठन्नाह दीक्षिता वेद इति ।

27,10.10

अपोर्णुवन्ति सदसो द्वारौ ।

27,10.11

एवम्शालायै ।

27,10.12

ते यथा प्रपन्नमुपनिष्क्रम्य मार्जालीयन्यन्तेन नक्षत्रेषु चक्षुर्विसृजन्ते तच्चक्षुर्देव हितम्शुक्रमुच्चरदिति ।

27,10.13

ज्योतिर्वै नक्षत्राणि ।

27,10.14

ज्योतिरेव तदात्मन्दधते ।

27,10.15

ते परया द्वारा हविर्धाने प्रपद्यन्ते ।

27,10.16

अथ अध्वर्युरुत्तरस्य हविर्धानस्य कूबरीमभिपद्य आह सत्रस्य ऋधिम्गाय इति ।

27,10.17

गायति सत्रस्य ऋधिम् ।

27,10.18

तत्सत्रस्य ऋधिमाप्नुवन्ति ।

27,10.19

सर्वे साम्नो निधनमुपयन्ति ।

27,10.20

प्रतिष्ठा वै निधनम्प्रतिष्ठित्या एव ।

27,10.21

त उत्तरेण हविर्धाने गच्छन्त्यधोक्षम्वा उत्तरस्य ऐन्द्रीमतिच्छन्दसम्जपन्तः ।

27,10.22

अतिच्छन्दसा एव तदधोक्षम्पाप्मानमपघ्नते ।

27,10.23
खण्डिका 11

ते न्वा उ वयमुत्तरेण एव हविर्धाने परीम इति ह स्म आह कौषीतकिः ।

27,11.1

यज्ञस्य अनुसंचरम्सप्तऋषिभ्यो अनन्तर्हिता इति ।

27,11.2

ते अग्रेण हविर्धाने समुपविश्य काम ध्यायन्ति यम्यमिच्छन्ति ।

27,11.3

स उ ह एभ्यः कामः समृध्यते ।

27,11.4

अथ य उ बहु कामा भवन्ति ।

27,11.5

भूर्भुवः स्वरित्येतास्ते व्याहृतीर्जपन्ति ।

27,11.6

ते पाअञ्च उदञ्च उत्क्रम्य वाचम्निह्वयन्ते ।

27,11.7

न इद्वाक्पराच्यसदिति ।

27,11.8

वाचमेव तदात्मन्दधते ।

27,11.9

सुब्रह्मण्यया वाचम्विसृज्ञन्ते ।

27,11.10

ब्रह्म वै सुब्रह्मण्या ।

27,11.11

ब्रह्मणा एव तद्वाचम्विसृजन्ते ।

27,11.12

त आग्नीध्रे सह राजा संविशन्ते ।

27,11.13

तद्यथा राजानम्वा राज मात्रम्वा श्रान्तम्वेश्म प्रपाद्येयुः ।

27,11.14

एवमेव एतत्सोमम्राजानमहरहर्हविर्धानाभ्यामुपावहृत्य अग्नीध्रम्प्रपादयन्ति ।

27,11.15

त आग्नीध्रे सह राजा संविशन्ते ।

27,11.16

अथ यत्समूढम्दशरात्रमुपयन्ति ।

27,11.17

सर्वेषामेव कामानामाप्त्यै ।

27,11.18

अथ यद्व्यूढमुपयन्ति ।

27,11.19

सर्वेषामेव छन्दसामाप्त्यै ।

27,11.20

अथ यद्व्यूढ समूढा उपयन्ति ।

27,11.21

दशरात्रस्य एव नानात्वम् ।

27,11.22

समूढ उ ह एव अग्र आस ।

27,11.23

तानि छन्दांस्यन्योन्यस्य स्थानमभिदध्युः ।

27,11.24

सर्वाणि प्रथमाणि स्याम सर्वाणि मध्यमानि सर्वाण्युत्तमानि इति ।

27,11.25

अथो सर्वाण्येव एतच्छन्दांसि सर्व सवन भाञ्जि कुर्वन्ति ।

27,11.26
खण्डिका 12

गायत्र प्रातः सवनः प्रथमस्त्र्यहस्त्रिष्टुब्मध्यंदिनो जगत्तृतीय सवनः ।

27,12.1

जगत्प्रातः सवनो द्वितीयस्त्र्यहः गयत्र मध्यंदिनस्त्रिष्टुप्तृतीय सवनः ।

27,12.2

त्रिष्टुप्प्रातः सवनस्तृतीयस्त्र्यहो जगन्मध्यंदिनो गायत्र तृतीय सवनः ।

27,12.3

गायत्र्प्रातः सवनम्दशममहः ।

27,12.4

तत्समानाच्छन्दस समानम्छन्द उपसंगच्छन्ते ।

27,12.5

अथ यद्दशममहरनुष्टुभमभिसम्पादयति ।

27,12.6

वाग्वा एतदहः ।

27,12.7

वागनुष्टुप् ।

27,12.8

वाच्येव तद्वाचम्प्रतिष्ठापयन्ति ।

27,12.9

ते अमृतत्वमाप्नुवन्ति ये दशममहरुपयन्ति ये दशममहरुपयन्ति ।

27,12.10