प्रजापतिर्हि यज्ञम्ससृजे ।
28,1.1तेन ह सृष्टेन देवा ईजिरे ।
28,1.2तेन ह इष्ट्वा सर्वान्कामानापुः ।
28,1.3तस्य हेतोरार्ध्यमपनिदधुः ।
28,1.4य एते प्रैषाश्च निगदाश्च ।
28,1.5अथ इतरेण यज्ञेन ऋषय ईजिरे ।
28,1.6ते ह विजज्ञुः ।
28,1.7असर्वेण ह वै यज्ञेन यजामहै न वै सर्वान्कामानाप्नुम इति ।
28,1.8ते ह श्रेमुः ।
28,1.9त एते प्रैषांश्च निगदांश्च ददृशुः ।
28,1.10तेन ह सप्रैषेण सनिगदेन इष्ट्वा सर्वान्कामानापुः ।
28,1.11एतावते ह वा उ प्रैषाश्च निगदाश्च ।
28,1.12यदृग्भिर्यज्ञस्य अनाप्तम्तदेभिः सर्वमाप्स्याम इति ।
28,1.13तानेतान्प्रैषान्विश्वामित्रो ददर्श ।
28,2.1अथो पुरोडाश प्रैषान् ।
28,2.2अथ इतर ऋषय इतरान् ।
28,2.3तदाहुः कस्मान्मैत्रावरुण एव सर्वेभ्यः प्रेष्यति इति ।
28,2.4एता ह वै देवताः प्रैषाणामाजिमीयुः ।
28,2.5तन्मित्रावरुणा उज्जिग्यतुः ।
28,2.6तस्मान्मैत्रावरुण एव सर्वेभ्यः प्रेष्यति ।
28,2.7स वै तिष्ठन्प्रेष्यति ।
28,2.8तिष्ठन्वै वीर्यवत्तमः ।
28,2.9तिष्ठन्नाश्रुत वदनतमः ।
28,2.10वीर्यवतीमाश्रुताम्देवेषु वाचमुद्यासमिति ।
28,2.11कुवक्र इव प्रणतो अनुब्रूयात् ।
28,2.12तथा ह वर्षुकः पर्जन्यो भवति इति ह स्म आह कौषीतकिः ।
28,2.13तद्द्ह स्म वै पुरा असुर रक्षसानि हवींषि विमथ्नते ।
28,2.14तत एता वामदेवो अभिरूपा अपश्यदग्निर्होता नो अध्वर इति ।
28,2.15ताभिर्ह अग्निम्परिनिण्युः ।
28,2.16ततो वै तानि रक्षांसि नाष्ट्रा अपजघ्निरे ।
28,2.17जुषस्व सप्रथस्तममिति जुष्टवतीमभिरूपामन्वाह ।
28,2.18जुष्टवतीमभिरूपाम्देवेषु वाचमुद्यासमिति ।
28,2.19इमम्नो यज्ञममृतेषु धेहि इति ।
28,2.20स्तोकानेव एताभिरग्नये स्वदयति ।
28,2.21एता ह वा उ तेषाम्पुरोनुवाक्या एता याज्याः ।
28,2.22तस्मादभिरूपा भवन्ति ।
28,2.23वैश्वामित्रीम्पुरोडाश स्विष्टकृतः पुरोनुवाक्यामन्वाह तस्या उक्तम्ब्राह्मणम् ।
28,3.1वैश्वामित्रीरनुसवनम्पुरोडाशानाम्पुरोनुवाक्या अन्वाह ।
28,3.2विश्वामित्रो ह एतान्पुरोडाश प्रैषान्ददर्श सलोमतायै ।
28,3.3माधुच्छन्दस्यावभिरूपे द्विदेवत्यानाम्प्रथमस्य पुरोनुवाक्ये अन्वाह ।
28,3.4मधुच्छन्दा ह एतान्द्विदेवत्य प्रैषान्ददर्श सलोमतायै ।
28,3.5गार्त्समदीम्च मैधातिथीम्च उत्तरयोरभिरूपे अन्वाह ।
28,3.6मैधातिथीः प्रातः सवन उन्नीयमानेभ्यो अन्वाह ।
28,3.7मेधातिथिर्ह प्रातः सवन इन्द्राय सोमम्प्रोवाच ।
28,3.8ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्या अनुरूपेण ।
28,3.9ता वा ऐन्द्र्यो भवन्ति ।
28,3.10ऐन्द्रो हि यज्ञ क्रतुः ।
28,3.11ता वै गायत्र्यो भवन्ति ।
28,3.12गायत्रम्प्रातः सवनम् ।
28,3.13ता वै नव अन्वाह ।
28,3.14नव न्वा अत्र चमसानुन्नयन्ति ।
28,3.15षडु ह एके प्रातः सवन उन्नीयमानेभ्यो अन्वाहुः ।
28,3.16स्वयमच्छावाकः सप्तमीम् ।
28,3.17सप्त सप्त उत्तरयोः सवनयोः ।
28,3.18सप्त वै प्राञ्च आसीना वषट्कुर्वन्ति इति वदन्तः ।
28,3.19तद्वै खलु यथा सूक्तमेव अनुब्रूयात् ।
28,3.20होतुर्ह्येव एताः पुरोनुवाक्या भवन्ति ।
28,3.19होतुर्ह्येव अनुचमसमेतांश्चमसानुन्नयन्ति ।
28,3.22अथ होत्राः सम्यजन्ति ।
28,3.23यजमानमेव तदनृणतायै सम्प्रमुञ्चन्ति ।
28,3.24मित्रम्वयम्हवामह इति मैत्रावरुण्या मैत्रावरुणः स्वया एव देवतया ।
28,3.25यज्म मुखस्य अनवर अर्ध्यै ।
28,3.26इन्द्र त्वा वृषभम्वयमित्यैन्द्र्या ब्राह्मणाच्छंसी ।
28,3.27ऐन्द्रो हि यज्ञ क्रतुः ।
28,3.28मरुतो यस्य हि क्षय इति मारुत्यो पोता ।
28,3.29यत्र ह तदिन्द्रम्मरुतः पुपुवुः ।
28,3.30तदेनानिन्द्रः सोम पीथे अन्वाभेजे ।
28,3.31तस्मात्स मारुत्या पोता प्रथमतश्च अन्ततश्च यजति ।
28,3.32अग्ने पत्नीरिह आ वह इत्याग्निपात्नीवत्या त्वष्टृमत्या न नेष्टा ।
28,3.33त्वष्टा वै देवानाम्पात्नीवतो नेष्टा ऋत्विजाम् ।
28,3.34तस्मात्स आग्निपात्नीवत्या त्वष्टृमत्या नेष्टा प्रथमतश्च अन्ततश्च यजति ।
28,3.35उक्ष अन्नाय वशा अन्नाय इत्याग्नेय्याग्नीध्रः ।
28,3.36अग्निम्हि स समिन्धे ।
28,3.37तस्मात्स आग्नेय्याग्नीध्रः प्रथमतश्च अन्ततश्च यजति ।
28,3.38अथ यत्र ह तन्नाभानेदिष्ठो मानवो अङ्गिरः सु उपहवमीषे ।
28,4.1स एताम्होत्रामच्छावाकीयाम्प्रोवाच ।
28,4.2स वा उपहूतायामिडायामाजगाम ।
28,4.3तस्मात्तन्न प्रवृणते ।
28,4.4स वा एतस्मात्पूर्वस्मादुत्तरादवान्तर देशादाजगाम ।
28,4.5तस्मादेतस्याम्दिश्यासीनो अच्छावाक उपहवमिच्छते ।
28,4.6तदाहुः कस्मादच्छावाकाय पुरोडाश दृगलम्परिहरन्ति इति ।
28,4.7अलीकयुर्ह वाचस्पतो नैमिशीयानाम्दीक्षा उपसत्सु ब्रह्मा आस ।
28,4.8स ह प्रसुते अच्छावाकीयाम्चकार ।
28,4.9ते ह ऊचुः ।
28,4.10अस्मै वा इमम्पुरा ब्रह्म भागम्पर्यहरन् ।
28,4.11कस्मा एनम्परिहराम इति ।
28,4.12तस्मा एव एनम्परिहरत इत्यूचुः ।
28,4.13तम्तस्मै परिजह्रुः ।
28,4.14स एष ब्रह्म भाग एव ।
28,4.15अथो इडा भाजो वा इतरे चमसाः ।
28,4.16तस्मादच्छावाकाय पुरोडाश दृगलम्परिहरन्ति ।
28,4.17चमसस्य एव अपरीडतायै ।
28,4.18अथ एनमध्वर्युराह अच्छावाक वदस्व यत्ते वाद्यमिति ।
28,5.1अच्छावाक उपहवमिच्छस्व इत्येव एनम्तदाह ।
28,5.2अच्छा वो अग्निमवस इत्यच्छावाक आग्नेयीरन्वाह ।
28,5.3आग्नेयम्प्रातः सवनम् ।
28,5.4ता वा अनुष्टुभो भवन्ति ।
28,5.5गायत्री वै सा अनुष्टुप् ।
28,5.6गायत्रमग्नेश्छन्दः ।
28,5.7ता वै तिस्रो भवन्ति ।
28,5.8त्रिवृद्वा अग्निरङ्गारा अर्चिर्धूम इति ।
28,5.9उत्तमायै तृतीये वचने प्रणवेण निगदमुपसंदधाति ।
28,5.10यजमान होतरध्वर्यो अग्नीद्ब्रह्मन्पितर्नेष्टरुत उपवक्तरिति ।
28,5.11प्रशास्ता वा उपवक्ता ।
28,5.12अपि वा ऋचा अभ्युदितम् ।
28,5.13उपवक्ता जनानामिति ।
28,5.14इषेषयध्वमूर्जोर्जयध्वम् ।
28,5.15अन्नम्वा इषमन्नमूर्जम् ।
28,5.16अन्नेन समुक्षध्वमित्येव एनांस्तदाह ।
28,5.17नि वो जामयो जिहताम्न्यजामय इति ।
28,5.18यच्च जामि यच्च अजामि ।
28,5.19तद्वो निजिहतामित्येव एनांस्तदाह ।
28,5.20अपि वा ऋचा अभ्युदितम् ।
28,5.21जामिमजामिम्प्र मृणीहि शत्रूनिति ।
28,5.22नि सपत्ना यामनि बाधितास इति ।
28,5.23निहता वः सपत्ना समरण इत्येव एनांस्तदाह ।
28,5.24जेषथ अभीत्वरीम्जेषथ अभित्वर्या इति ।
28,5.25सेना अभीत्वरी ।
28,5.26सेनया सेनाम्जयत इत्येव एनांस्तदाह ।
28,5.27श्रवद्व इन्द्रः शृणवद्वो अग्निरिति ।
28,5.28शृणोतु न इन्द्रः शृणोत्वग्निरित्याशिषमेव तद्वदते ।
28,5.29प्रस्थाय इन्द्र अग्निभ्याम्सोमम्वोचत उपो अस्मान्ब्राह्मणान्ब्राह्मण आह्वयध्वमिति ।
28,5.30सर्वेष्वेव तदुपहवमिच्छते ।
28,5.31तम्होता उपह्वयते ।
28,5.32स हि तेषाम्श्रेष्ठी भवति ।
28,5.33यम्वै श्रैष्ठ्युपह्वयते ।
28,5.34स उपहूत इति ह स्म आह ।
28,5.35प्रत्यस्मै पिपीषत इत्यच्छावाक उन्नीयमानाय अन्वाह ।
28,6.1ता वै चतस्रो भवन्ति ।
28,6.2चतुष्टयम्वा इदम्सर्वम् ।
28,6.3अस्य एव सर्वस्य आप्त्यै ।
28,6.4ऐन्द्रीरन्वाह ।
28,6.5ऐन्द्रो हि यज्ञ क्रतुः ।
28,6.6ता वा अनुष्टुभो भवन्ति संशंसायै ।
28,6.7बृहत्युत्तमा भवति ।
28,6.8श्रीर्वै बृहती ।
28,6.9श्रियामेव तदन्ततः प्रतितिष्ठति ।
28,6.10प्रातर्यावभिरा गतमित्यैन्द्राग्न्या यजति ।
28,6.11ऐन्द्राग्नम्ह्यस्य उक्थम्भवति ।
28,6.12गायत्र्या गायत्रम्प्रातः सवनम् ।
28,6.13अनुवषट्करोत्याहुतीनामेव शान्त्यै ।
28,6.14आहुतीनाम्प्रतिष्ठित्यै ।
28,6.15अनवानम्प्रातः सवने यजेयुरिति ह स्म आह पैङ्ग्यः ।
28,6.16क्षिप्रम्देवेभ्यो हविः प्रयच्छाम इति ।
28,6.17अर्धर्चश इति कौषीतकिः ।
28,6.18एतद्वै छन्दसाम्पर्व यदर्धर्चः ।
28,6.19पर्वश एव तद्देवेभ्यो हविः प्रयच्छति ।
28,6.20अथ अत ऋतु प्रैषाणामेव मीमांसा ।
28,6.21कण्वो ह एतानृतु प्रैषान्ददर्श ।
28,6.22मेधातिथिर्याज्याः ।
28,6.23काण्वो ह वै मेधातिथिः ।
28,6.24तेन तौ मृत्युम्पाप्मानमपजिघ्नाते ।
28,6.25स य इच्छेन्मृत्युम्पाप्मानमपहन्यामिति ।
28,6.26पुरुषो वै यज्ञः ।
28,6.28तस्य वागेव आज्यम् ।
28,6.29सा वा एका एव भवति ।
28,6.30तस्मादेक देवत्यमाज्यम्शंसति ।
28,6.31प्राणाः प्रौगम् ।
28,6.32ते वा इमे बहवः प्राणाः ।
28,6.33तस्माद्बह्व्यो देवताः प्रौगे शस्यन्ते ।
28,6.34बाहू मैत्रावरुणश्च अच्छावाकश्च ।
28,7.1तौ वै द्विगुणौ भवतः ।
28,7.2तस्मात्तौ प्रातः सवने द्विदेवत्याः शंसतः ।
28,7.3इयमेव वेना सेवनी मध्यम्ब्राह्मणाच्छंसी ।
28,7.4तस्माद्ब्राह्मणाच्छंसी प्रातः सवन एक देवत्याः शंसति ।
28,7.5आत्मा मध्यंदिनः ।
28,7.6स वा एक एव भवति ।
28,7.7तस्मान्मध्यंदिने होत्रा आशंसिन एकदेवत्याः शंसन्ति ।
28,7.8होता च निष्केवल्यम् ।
28,7.9ऊरू मैत्रावरुणश्च अच्छावाकाश्च ।
28,7.10तौ वै द्विगुणौ भवतः ।
28,7.11तस्मात्तौ तृतीय सवने द्विदेवत्याः शंसतः ।
28,7.12इदमेव शिश्नम्मध्यम्ब्राह्मणाच्छंसी ।
28,7.13तस्माद्द्विरूपम्जायते स्त्री च पुमांश्च ।
28,7.14तस्माद्ब्राह्मणाच्छंसी तृतीय सवने द्विदेवत्याः शंसति ।
28,7.15ब्राह्मणाच्छंसी भूयिष्ठाः शंसति ।
28,7.16मध्यम्वै ब्राह्मणाच्छंसी ।
28,7.17तस्मादिदमात्मनो मध्यम्स्थविष्ठम् ।
28,7.18अथ यदावन्तः स्तोत्रिया अनुरूपा भवन्ति तत्प्रथमस्य अह्नो रूपम् ।
28,8.1वैश्वामित्रौ मैत्रावरुणस्य च अच्छावाकस्य च स्तोत्रियौ भवतः ।
28,8.2वासिष्ठौ नवर्चौ पर्यासौ ।
28,8.3अन्तावेव एतत्सदृशौ कुर्वतः ।
28,8.4स्तोत्रियान्शस्त्वा श्वः स्तोत्रियाननुरूपम्कुर्वते ।
28,8.5अहीन संतत्या अहीन रूपतायै ।
28,8.6अहरेव तदह्नो अनुरूपम्कुर्वते ।
28,8.7अहर्वा अह्नो अनुरूपम् ।
28,8.8तदाहुः कस्मात्स्तुतमनुशस्यते कस्मात्स्तोममतिशंसन्ति इति ।
28,8.9न वै तत्स्तुतम्भवति यन्न अनुशस्यते ।
28,8.10न स स्तोमो देवान्गच्छति यम्न अतिशंसन्ति ।
28,8.11तस्मात्स्तुतमनुशस्यते तस्मात्स्तोममतिशंसन्ति इति ।
28,8.12चतुराहावानि शस्त्राणि ।
28,8.13पशवो वा उक्थानि ।
28,8.14चतुष्टया वै पशवः ।
28,8.15अथो चतुष्पादाः पशूनामेव आप्त्यै ।
28,8.16ऐकाहिका उक्थ याज्याः ।
28,8.17प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
28,8.18अनुवषट्कुर्वन्त्याहुतीनामेव शान्त्यै ।
28,8.19आह्तीनाम्प्रतिष्ठित्या आहुतीनाम्प्रतिष्ठित्यै ।
28,8.20