मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 23

3
खण्डिका 1

अन्तस्तृतीयमहः ।

23,1.1

ते देवा अन्तम्गत्वा चतुर्थमहरैच्छन् ।

23,1.2

तस्मादिच्छद्वत् ।

23,1.3

तदिष्ट्वा अविन्दन् ।

23,1.4

तस्माद्वित्तवत् ।

23,1.5

तदाहुर्यदन्तस्तृतीयमहरथ कस्माच्चतुर्थे अहन्न्यूङ्खयति इति ।

23,1.6

वाच एव तदायतनम्विराजो यच्चतुर्थमहः ।

23,1.7

अन्नम्विराडन्नम्वाक् ।

23,1.10

तामेव एतच्चतुर्थे अहन्विभावयति ।

23,1.11

यथा अयस्तप्तम्विनयेदेवम्तत् ।

23,1.12

वाचो विभूत्यै ।

23,1.13

तस्य एतानि छन्दो रूपाणि ।

23,1.14

संराड्वद्विराड्वत्स्वराड्वज्जातवदूतिमद्वीतिमत्परिवदभिवदुपवदिति ।

23,1.15

आग्निम्न स्व वृक्तिभिरिति वैमदमाज्यम् ।

23,1.16

विमदेन वै देवा असुरान्व्यमदन् ।

23,1.17

तद्यच्चतुर्थे अहन्विमदः शस्यते मध्यतश्च होत्रासु च ।

23,1.18

अङ्गादङ्गादेव तद्यजमानाः पाप्मानम्विमदन्ति ।

23,1.19

अग्निर्जातो अथर्वणा इति जातवत् । आग्निम्

23,1.20

तदेतस्य अह्नो रूपम् ।

23,1.21

ताः संशस्ता दश जगत्यः सम्पद्यन्ते ।

23,1.22

जगत्प्रातः सवनो ह्येष त्र्यहः ।

23,1.23

विंशतिर्गायत्रीः ।

23,1.24

गायत्री प्रातः सवनम्वहति ।

23,1.25

तदु ह प्रातः सवन रूपान्न अपैति ।

23,1.26

इति नु व्यूढे ।

23,1.27

उद्धृत्य एतदग्निम्नरो दीधितिभिररण्योरिति समूढे वैराजमाज्यम् ।

23,1.28

वैराजम्पृष्ठम्तत्सलोम ।

23,1.29

वासिष्ठमाज्यम् ।

23,1.30

वासिष्ठम्पृष्ठम्तत्सलोम ।

23,1.31

हस्त च्युती जनयन्त प्रशस्तमिति जातवत् ।

23,1.32

तदेतस्य अह्नो रूपम् ।

23,1.33

आनुष्टुभः प्रौगः ।

23,1.34

आनुष्टुभम्वै चतुर्थमहः ।

23,1.35

तदेनत्स्वेन छन्दसा समर्धयति ।

23,1.36
खण्डिका 2

तम्त्वा यज्ञेभिरीमह इति यज्ञवत्या मरुत्वतीयम्प्रतिपद्यते ।

23,2.1

पुनरारम्भ्यो वै चतुर्थे अहन्यज्ञः ।

23,2.2

यज्ञमेव तदारभते ।

23,2.3

श्रुधी हवमिन्द्र मा रिषण्य इति मरुत्वतीयम् ।

23,2.4

ता वा एतास्त्रिष्टुभो विराड्वर्णाः ।

23,2.5

ता अत्र क्रियन्ते ।

23,2.6

एता ह्यह्नो रूपेण सम्पन्नाः ।

23,2.7

इन्द्र मरुत्व इह पाहि सोममिति विज्ञात त्रैष्टुभम्सवन धरणम् ।

23,2.8

त्रैष्टुभो वा इन्द्रः ।

23,2.9

मध्यंदिन आयतनो वा इन्द्रः ।

23,2.10

तानि वा एतानि विज्ञात त्रैष्टुभानि सवन धरणान्यपि व्यूढच्छन्दसो मध्यंदिनान्न च्यवन्ते ।

23,2.11

त्रैष्टुभ इन्द्रः ।

23,2.12

न इदिन्द्रम्स्वादायतनाच्च्यवयाम इति ।

23,2.13

जातम्यत्त्वा परि देवा अभूषन्निति जातवत् ।

23,2.14

जातवद्वै चतुर्थस्य अह्नो रूपम् ।

23,2.15

इमम्नु मायिनम्हुव इति मरुत्वतीयम्गायत्रम् ।

23,2.16

गायत्र मध्यंदिनो ह्येष त्र्यहः ।

23,2.17

अथ अत इह न्यूङ्खयेदिह इति ।

23,2.18

स्तोत्रिय अनुरूपयोश्च एव उक्थ मुखीययोश्च न्यूङ्खः ।

23,2.19

अथ न आद्रियेत ।

23,2.20

आत्मा वै स्तोत्रियः प्रजा अनुरूपः ।

23,2.21

अन्नम्न्यूङ्खः ।

23,2.22

अन्नमेव तदात्मनि च प्रजानाम्च दधाति ।

23,2.23

आनुष्टुभम्न्यूङ्खम्न्यूङ्खयेदिति ह एक आहुः ।

23,2.24

आनुष्टुभम्वै चतुर्थमहः ।

23,2.25

तदेतत्स्वेन छन्दसा समर्धयति ।

23,2.26

वैराजम्न्यूङ्खम्न्यूङ्खयेदिति सा स्थितिः ।

23,2.27

अन्नम्विराडन्नम्न्यूङ्खः ।

23,2.28

अन्नमेव तद्यज्ञे च यजमानेषु च दधाति ।

23,2.29

मध्यमे पदे न्यूङ्खयेत् ।

23,2.30

आत्मा वै पूर्वम्पदम्प्रजा उत्तमम् ।

23,2.31

मध्यम्मध्यम्पदम् ।

23,2.32

मध्ये वा इदमात्मनो अन्नम्धीयते ।

23,2.33

तद्यथा अभिग्रासमन्नमद्यादेवम्तत् ।

23,2.34

इन्द्रमिद्देवतातय इत्यष्ट इन्द्रः प्रगाथः ।

23,2.35

एतेन वै देवाः सर्वा अष्टीराश्नुवत ।

23,2.36

तथो एव एतद्यजमाना एतेन एव सर्वा अष्टीरश्नुवते ।

23,2.37

कुह श्रुत इति कुह श्रुतीयाः ।

23,2.38

ता वै विराजो अनुष्टुभो वा भवन्ति ।

23,2.39

ता अत्र क्रियन्ते ।

23,2.40

एता ह्यह्नो रूपेण सम्पन्नाः ।

23,2.41

युध्मस्य ते वृषभस्य स्व राज इति विज्ञात त्रैष्टुभम्सवन धरणम्तस्य उक्तम्ब्राह्मणम् ।

23,2.42

स्व राज इति स्व राड्वत् ।

23,2.43

स्व राड्वदिति वा अस्य रूपम् ।

23,2.44

त्यमु वः सत्रासाहमिति निष्केवल्यम् ।

23,2.45

आ च्यावयस्यूतय इत्यूतिमत् ।

23,2.46

ऊतिमदिति वा अस्य रूपम् ।

23,2.47

गायत्रम्गायत्र मध्यंदिनो ह्येष त्र्यहः ।

23,2.48
खण्डिका 3

हिरण्य पाणिमूतय इत्यूतिमाननुचरस्तस्य उक्तम्ब्राह्मणम् ।

23,3.1

ऊतय इत्यूतिमत् ।

23,3.2

ऊतिमदिति वा अस्य रूपम् ।

23,3.3

आ देवो यातु सविता सुरत्नः प्र द्यावा यज्ञैः पृथिवी नमोभिः प्र ऋभुभ्यो दूतमिव वाचमिष्ये प्र शुक्र एतु देवी मनीषा इति ।

23,3.4

आ इति वा वै प्र इति वा प्रायणीय रूपम् ।

23,3.5

तस्मादावन्ति च प्रवन्ति च चतुर्थे अहन्त्सूक्तानि शस्यन्ते प्रायणीय रूपेण ।

23,3.6

पुनः प्रायणीयम्हि चतुर्थमहः ।

23,3.7

द्विपदाः शस्यन्ते ।

23,3.8

द्विपाद्वा अभिक्रमितुमर्हति ।

23,3.9

अभिक्रान्त्यै तद्रूपम् ।

23,3.10

तद्यथा उपरयाय स्वर्गस्य लोकस्य नेदीयस्तायाम्वसेदेवम्तत् ।

23,3.11

प्र संराजो असुरस्य प्रशस्तिमिति वैश्वानरीयम् ।

23,3.12

संराज इति संराड्वत् ।

23,3.13

संराड्वदिति वा अस्य रूपम् ।

23,3.14

क ईम्व्यक्ता नरः सनीडा इति मारुतम् ।

23,3.15

तस्य तद्ब्राह्मणम्यत्प्रशुक्रीयस्य ।

23,3.16

प्र यन्तु वाजास्तविषीभिरग्नय इति तिस्रो अधिकाः समूढे ।

23,3.17

आ त्वेषमुग्रमव ईमहे वयमिति ।

23,3.18

आ इति वा वै प्र इति वा प्रायणीय रूपम् ।

23,3.19

तस्मादावन्ति च प्रवन्ति च चतुर्थे अहन्त्सूक्तानि शस्यन्ते प्रायणीय रूपेण ।

23,3.20

पुनः प्रायणीयम्हि चतुर्थमहः ।

23,3.21

हुवे वः सुद्योत्मानम्सुवृक्तिमिति जातवेदसीयम् ।

23,3.22

तस्य तद्ब्राह्मणम्यन्मरुत्वतीयस्य ।

23,3.23

वसुम्न चित्र महसम्गृणीष इति समूढे ।

23,3.24

घृत निर्णिग्ब्रह्मणे गातुमेरय इति ।

23,3.25

आ इति वा वै प्र इति वा प्रायणीय रूपम् ।

23,3.26

तस्मादावन्ति च प्रवन्ति च चतुर्थे अहन्त्सूक्तानि शस्यन्ते प्रायणीय रूपेण ।

23,3.27

पुनः प्रायणीयम्हि चतुर्थमहः ।

23,3.28

अथ उक्थ्यान्युपेत्य सृप्त्वा षोडशिनमुपयन्ति ।

23,3.29

षोडश कलम्वा इदम्सर्वम् ।

23,3.30

अस्य एव सर्वस्य आप्त्यै ।

23,3.31

अन्नम्चतुर्थेन अह्ना आप्नुवन्ति ।

23,3.32

अनुष्टुभम्छन्द एकविंशम्स्तोमम्वैराजम्साम ।

23,3.33

उदीचीम्दिशम्शरदमृतूनाम् ।

23,3.34

साध्यांश्च आप्त्यांश्च देवान्देव जाते ।

23,3.35

बृहस्पतिम्च चन्द्रमसम्च अधिपती ।

23,3.36
खण्डिका 4

पशवः पञ्चममहः पङ्क्तिर्वै ।

23,4.1

तन्न्वस्य निदानम् ।

23,4.2

पशवः पङ्क्तिरिति ।

23,4.3

तस्य एतानि छन्दो रूपाणि ।

23,4.4

वृषभवद्धेनुमद्दुग्धवद्घृतवन्मद्वद्रयिमद्वाजवदध्यासवदिति ।

23,4.5

इममू षु वो अतिथिमुषर्बुधमित्याज्यम् ।

23,4.6

रायः सूनो सहसो मर्त्येष्वेति राय इति रयिमत् ।

23,4.7

रयिमदिति वा अस्य रूपम् ।

23,4.8

अध्यासवत्तत्पङ्क्ते रूपम् ।

23,4.9

जागतम्जगत्प्रातः सवनो ह्येष त्र्यहः ।

23,4.10

इति नु व्यूढे ।

23,4.11

उद्धृत्य एतदग्निम्तम्मन्ये यो वसुरिति समूढे पाङ्क्तम् ।

23,4.12

पङ्क्तिर्वै पञ्चममहः ।

23,4.13

यदेतदहस्तदेताः ।

23,4.14

अस्तम्यम्यन्ति धेनव इति ।

23,4.15

धेनुमदिति वा अस्य रूपम् ।

23,4.16

बार्हतः प्रौगः ।

23,4.17

पशवः पञ्चममहः ।

23,4.18

बार्हताः पशवः पशूनामेव आप्त्यै ।

23,4.19

यत्पाञ्चजन्यया विश इति मरुत्वतीयस्य प्रतिपत् ।

23,4.20

पाञ्चजन्यया इत्तत्पञ्चमस्य अह्नो रूपम् ।

23,4.21

इत्था हि सोम इन्मद इति मद्वत्पाङ्क्तम्तस्य उक्तम्ब्राह्मणम् ।

23,4.22

अवितासि सुन्वतो वृक्त बर्हिष इति षट्पदाः ।

23,4.23

षड्वा ऋतवः संवत्सरः ।

23,4.24

संवत्सरस्य एव आप्त्यै ।

23,4.25

तासाम्गायत्री शंसम्शस्त्रमिति ह स्म आह कौषीतकिः ।

23,4.26

तद्वा अत्र समृद्धम्यद्गायत्री शंसम् ।

23,4.27

तद्यदष्टाभिरष्टाभिरक्षरैः प्रणौति ।

23,4.28

तद्गायत्र्यै रूपम् ।

23,4.29

मरुत्वानिन्द्र वृषभो रणाय इति विज्ञात त्रैष्टुभम्सवन धरणम्तस्य उक्तम्ब्राह्मणम् ।

23,4.30

वृषभो रणाय इति वृषभवत् ।

23,4.31

तदेतस्य अह्नो रूपम् ।

23,4.32

अयम्ह येन वा इदमिति मरुत्वतीयम्गायत्र ।

23,4.33

गायत्र मध्यंदिनो ह्येष त्र्यहः ।

23,4.34
खण्डिका 5

महानाम्न्यः पृष्ठम्भवन्ति ।

23,5.1

महानाम्नीभिर्वा इन्द्रो वृत्रमहन् ।

23,5.2

तम्वृत्रम्हत्वा यन्तम्देवताः प्रत्युपातिष्ठन्त ।

23,5.3

पराच्यो ह अस्मादग्रे अपक्रान्ता बिभ्यत्यस्तस्थुः ।

23,5.4

तम्प्रजापतिः पप्रच्छ अशको हन्तुमिति ।

23,5.5

एवा ह्येव इति प्रत्युवाच अनिरुक्तम् ।

23,5.6

अनिरुक्त उ वै प्रजापतिः ।

23,5.7

तत्प्राजापत्यम्रूपम् ।

23,5.8

तमग्निः पप्रच्छ अशको हन्तुमिति ।

23,5.9

एवा ह्यग्न इति प्र्त्युवाच ।

23,5.10

तम्स्वो महिमा पप्रच्छ अशको हन्तुमिति ।

23,5.11

स ह अस्मादग्रे अपक्रान्तो बिभ्यत्तस्थौ ।

23,5.12

एवा हि इन्द्र इति प्रत्युवाच ।

23,5.13

तम्पूषा पप्रच्छ अशको हन्तुमिति ।

23,5.14

एवा हि पूषन्निति प्रत्युवाच ।

23,5.15

तम्देवाः पप्रच्छुरशको हन्तुमिति ।

23,5.16

एवा हि देवा इति प्रत्युवाच ।

23,5.17

तानि वा एतानि पञ्च पदानि पुरीषमिति शस्यन्ते ।

23,5.18

सो ऋच एव वेला ।

23,5.19

ता वा एताः शक्वर्यः ।

23,5.20

एताभिर्वा इन्द्रो वृत्रमशकद्द्हन्तुम् ।

23,5.21

तद्यदाभिर्वृत्रमशकद्द्हन्तुम् ।

23,5.22

तस्मात्शक्वर्यः शक्तयो हि ।

23,5.23

प्रत्यस्मै पिपीषते यो रयिवो रयिंतमस्त्यमु वो अप्रहणमिति त्रयस्तृचाः ।

23,5.24

अस्मा अस्मा इदन्धस इति बृहतीम्दशमीम्करोति ।

23,5.25

एवा ह्यसि वीरयुरिति त्वेव स्थिता पुरीषस्य समान अभिव्याहारा ।

23,5.26

तथा स स्तोत्रियेण समो वा अतिशयो वा सम्पद्यते ।

23,5.27

यदिन्द्र नाहुषीष्वेति साम्नः प्रगाथः ।

23,5.28

यद्वा पञ्च क्षितीनामिति पञ्च इति तत्पञ्चमस्य अह्नो रूपम् ।

23,5.29

इन्द्रो मदाय वावृध इति मद्वत्पाङ्क्तम्तस्य उक्तम्ब्राह्मणम् ।

23,5.30

प्र इदम्ब्रह्म वृत्र तूर्येष्वाविथा इति षट्पदाः ।

23,5.31

तासामुक्तम्ब्राह्मणम् ।

23,5.32

अभूरेको रयि पते रयीणामिति विज्ञात त्रैष्टुभम्सवन धरणम्तस्य उक्तम्ब्राह्मणम् ।

23,5.33

रयि पते रयीणामिति रयिमत् ।

23,5.34

रयिमदिति वा अस्य रूपम् ।

23,5.35

अध्यासवत्तत्पङ्क्ते रूपम् ।

23,5.36

तमिन्द्रम्वाजयामसि इति निष्केवल्यम् ।

23,5.37

स वृषा वृषभो भुवदिति वृषभवत् ।

23,5.38

तदेतस्य अह्नो रूपम् ।

23,5.39

गायत्र माध्यन्दिनो ह्येष त्र्यहः ।

23,5.40
खण्डिका 6

तत्सवितुर्वरेण्यमिति वैश्वामित्रो अनुचरस्तस्य उक्तम्ब्राह्मणम् ।

23,6.1

वाजयन्तः पुरंध्या इति वाजवत् ।

23,6.2

तदेतस्य अह्नो रूपम् ।

23,6.3

उदु ष्य देव सविता दमूना इति सावित्रम् ।

23,6.4

वाममद्य सवितर्वामसु श्व इति वाममिति पशुमत् ।

23,6.5

पशुमदिति वा अस्य रूपम् ।

23,6.6

मही द्यावा पृथिवी इह ज्येष्ठे इति द्यावा पृथिवीयम् ।

23,6.7

रुवद्द्ह उक्षा पप्रथानेभिरेवैरित्युक्षा इति पशुमत् ।

23,6.8

पशुमदिति वा अस्य रूपम् ।

23,6.9

ऋभुर्विभ्वा वाज इन्द्रो नो अच्छ इत्यार्भवम् ।

23,6.10

ये गोमन्तम्वाजयन्तम्सुवीरमिति गोमन्तमिति पशुमत् ।

23,6.11

पशुमदिति वा अस्य रूपम् ।

23,6.12

को नु वाम्मित्रावरुणावृतायन्निति वैश्वदेवम् ।

23,6.13

यज्ञायते व पशुषो न वाजानिति पशुष इति पशुमत् ।

23,6.14

पशुमदिति वा अस्य रूपम् ।

23,6.15

अध्यासवत्तत्पङ्क्ते रूपम् ।

23,6.16

हविष्पान्तमजरम्स्वर्विदि इति वैश्वानरीयम् ।

23,6.17

पान्तमिति तत्पञ्चमस्य अह्नो रूपम् ।

23,6.18

वपुर्नु तच्चिकितुषे चिदस्त्विति मारुतम् ।

23,6.19

समानम्नाम धेनुपत्यमानमिति धेन्विति पशुमत् ।

23,6.20

पशुमदिति वा अस्य रूपम् ।

23,6.21

अग्निर्होता गृहपतिः स राजा इति जातवेदसीयम् ।

23,6.22

अवा नो मघवन्वाजसाताविति वाजवत् ।

23,6.23

तदेतस्य अह्नो रूपम् ।

23,6.24

अध्यासवत्तत्पङ्क्ते रूपम् ।

23,6.25

इति नु व्यूढे ।

23,6.26

अथ समूढे ।

23,6.27

मूर्धानम्दिवो अरतिम्पृथिव्या इति वैश्वानरीयम् ।

23,6.28

नाभिम्यज्ञानाम्सदनम्रयीणामिति रयिमत् ।

23,6.29

रयिमदिति वा अस्य रूपम् ।

23,6.30

आ रुद्रास इन्द्रवन्तः सजोषस इति मारुतम् ।

23,6.31

गोमदश्वावद्रथवत्सुवीरमिति गोमदिति पशुमत् ।

23,6.32

पशुमदिति वा अस्य रूपम् ।

23,6.33

इममू षु वो अतिथिमुषर्बुधमिति जातवेदसीयम्तस्य उक्तम्ब्राह्मणम् ।

23,6.34

अध्यासवत्तत्पङ्क्ते रूपम् ।

23,6.35

पशून्पञ्चमेन अह्ना आप्नुवन्ति ।

23,6.36

पङ्क्तिम्छन्दस्त्रिणवम्स्तोमम्शाक्वरम्साम ।

23,6.37

ऊर्ध्वाम्दिशम्हेमन्तमृतूनाम् ।

23,6.38

मरुतो देवान्देव जातम्रुद्रमधिपतिम् ।

23,6.39
खण्डिका 7

पशवः पञ्चममहरथ पुरुष एव षष्ठमहः ।

23,7.1

स वै पुरुषः प्रजापतिः पूर्वो अस्य सर्वस्य ।

23,7.2

अतिच्छन्दा वै प्रजापतिः ।

23,7.3

तत्प्राजापत्यम्रूपम् ।

23,7.4

असुरि इन्द्रम्प्रत्यक्रमत पर्वन्पर्वन्मुष्कान्कृत्वा ।

23,7.5

तामिन्द्रः प्रतिजिगीषन्पर्वन्पर्वन्शेपांस्यकुरुत ।

23,7.6

इन्द्रो वै परुच्छेपः ।

23,7.7

सर्वम्वा इन्द्रेण जिगीषितम् ।

23,7.8

ताम्समभवत् ।

23,7.9

तमगृह्णादसुर मायया ।

23,7.10

स एताः पुनः पदा अपश्यत् ।

23,7.11

ताभिरङ्गादङ्गात्पर्वणः पर्वणः सर्वस्मात्पाप्मनः प्रामुच्यते ।

23,7.12

तद्यत्षष्ठे अहन्परुच्छेपः शस्यते मध्यतश्च होत्रासु च ।

23,7.13

अङ्गादङ्गादेव तद्यजमानाः पर्वणः पर्वणः सर्वस्मात्पाप्मनः सम्प्रमुच्यन्ते ।

23,7.14

नित्याः पूर्वा याज्याः कृत्वा पारुच्छेपीभिर्यजन्ति ।

23,7.15

तद्यदाभिस्तदहर्न वषट्कुर्वन्ति ।

23,7.16

तेन उत्सृष्टाः ।

23,7.17

यद्वेव एना न अन्तरयन्ति ।

23,7.18

न इदच्युतम्यज्ञस्य प्रियम्देवानामन्तरयाम इति ।

23,7.19
खण्डिका 8

नित्यान्पूर्वानृतु याजान्कृत्वा गार्त्समदीभिर्यजन्ति ।

23,8.1

तद्यदेभिस्तदहर्न वषट्कुर्वन्ति ।

23,8.2

तेन उत्सृष्टाः ।

23,8.3

यद्वेव एनान्न अन्तरयन्ति ।

23,8.4

न इदच्युतम्यज्ञस्य प्रियम्देवानामन्तरयाम इति ।

23,8.5

तेन ते अतिच्छन्दसो भवति ।

23,8.6

तथा एषाम्सप्त पदाभिर्वषट्कृतम्भवति ।

23,8.7

तदु ह स्म आह कौषीतकिः ।

23,8.8

विराडष्टमानि ह वा एतम्छन्दांसि गोपायन्ति यो असौ तपति ।

23,8.9

ताम्ते सम्पदम्मोहयन्ति ये अतिच्छन्दोभिर्यजन्ति ।

23,8.10

तस्माद्वैकाहिकीभिरेव यजेयुः ।

23,8.11

देव यानस्य एव पथो असम्मुग्ध्या इति ।

23,8.12

तद्द्ह अप्यणीची मौनो जाबाल गृहपतीन्त्सत्रमासीनामुपासाद्य पप्रच्छ ।

23,8.13

अह्नो गात परुच्छेपादिति ।

23,8.14

त उ ह तूष्णीमासुः ।

23,8.15

तत्र उ ह उत्तर अर्धात्सदसश्चित्रो गौश्रायणिरभिपरोवाच ।

23,8.16

गौश्रो वा ।

23,8.17

न आह एव अह्नो अगाम न परुच्छेपात् ।

23,8.18

शस्त्रेण आह नः परुच्छेपो अहरन्वायतिष्ट ।

23,8.19

ऐकाहिकीभिरयाक्ष्म ।

23,8.20

तेन उ अह्नो न अगाम इति ।

23,8.21

यथा यथम्यजेयुः ।

23,8.22

देव आयतनम्वै षष्ठमहः ।

23,8.23
खण्डिका 9

तद्यत्तदहर्होता एव वषट्कुर्यात् ।

23,9.1

होता एनयोर्देव आयतनम्सम्पृञ्चीत अध्वर्योश्च गृह पतेश्च ।

23,9.2

आजिम्ह वा एते यन्ति स्वर्गे लोके षष्ठेन अह्ना ।

23,9.3

स यो अनवानम्समापयति स स्वर्गंल्लोकमुज्जयति ।

23,9.4

यद्यप्यव अन्यत् ।

23,9.5

पुनः पुनः प्रतिसारमुपशिक्षेत एव ।

23,9.6

अयम्जायत मनुषो धरीमणि इत्याज्यम् ।

23,9.7

अयमित्यनिरुक्तम् ।

23,9.8

अनिरुक्त उ वै प्रजापतिः ।

23,9.9

तत्प्राजापत्यम्रूपम् ।

23,9.10

अतिच्छन्दस सप्त पदाः पुनः पदाः ।

23,9.11

यदेतदहस्तदेताः ।

23,9.12

न पदम्च पुनः पदम्च अन्तरेण अव अन्यत् ।

23,9.13

आत्मा वै पदम्प्राणः पुनः पदम् ।

23,9.14

यस्तम्तत्र ब्रूयात् ।

23,9.15

प्राणादात्मानमन्तरगान्न जीविष्यति इति तथा ह स्यात् ।

23,9.16

तस्मान्न पदम्च पुनः पदम्च अन्तरेण अव अन्यात् ।

23,9.17

आतिच्छन्दस प्रौगः ।

23,9.18

आतिच्छन्दसम्वै षष्ठमहः ।

23,9.19

तदेनत्स्वेन छन्दसा समर्धयति ।

23,9.20

स पूर्व्यो महानामिति मरुत्वतीयस्य प्रतिपत् ।

23,9.21

स इत्यनिरुक्तम् ।

23,9.22

अनिरुक्त उ वै प्रजापतिः ।

23,9.23

तत्प्राजापत्यम्रूपम् ।

23,9.24
खण्डिका 10

यम्त्वम्रथमिन्द्र मेधसातय इति पारुच्छेपम् ।

23,10.1

यः शूरैः स्वः सनिता इति शूरैरिति स एव अस्मिन्परुन्न्यङ्गः ।

23,10.2

स यो वृषा वृष्ण्येभिः समोका इति विज्ञात त्रैष्टुभम्सवन धरणम्तस्य उक्तम्ब्राह्मणम् ।

23,10.3

वृषा वृष्ण्येभिरिति निनर्तिः ।

23,10.4

अन्तः षष्ठमहः ।

23,10.5

नीव वा अन्तम्गत्वा नृत्यति ।

23,10.6

कद्र्यन्हि ततियात् ।

23,10.7

मरुत्वानिन्द्र मीढ्व इति मरुत्वतीयम्गायत्रम् ।

23,10.8

गायत्र मध्यंदिनो ह्येष त्र्यहः ।

23,10.9

रेवतीर्नः सधमादे रेवानिव्द्रेवतः स्तोता इति रैवतस्य योनौ वारवन्तीयमूढम्भवत्याग्नेयम्साम ऐन्द्रीषु ।

23,10.10

तन्मिथुनम्प्रजात्यै रूपम् ।

23,10.11

मा चिदन्यद्वि शंसत इति साम्नः प्रगाथः ।

23,10.12

सखायो मा रिषण्यत इति ।

23,10.13

सखाय इति सर्व रूपम् ।

23,10.14

सर्व रूपम्वै षष्ठमहः ।

23,10.15

तस्मात्सखाय इति सर्वानेव अभिवदति ।

23,10.16

ऐन्द्र याह्युप नः परावत इति पारुच्छेपम् ।

23,10.17

परावत इति ।

23,10.18

अन्तो वै परावतः ।

23,10.19

अन्तः षष्ठमहः ।

23,10.20

अन्ते अन्तम्दधाति ।

23,10.21

प्र घा न्वस्य महतो महानि इति विज्ञात त्रैष्टुभम्सवन धरणम्तस्य उक्तम्ब्राह्मणम् ।

23,10.22

महतो महानि इति निनर्तिः ।

23,10.23

अन्तः षष्ठमहः ।

23,10.24

नीव वा अन्तम्गत्वा नृत्यति ।

23,10.25

कद्र्यन्हि तत इयात् ।

23,10.26

उप नो हरिभिः सुतमिति निष्केवल्यम् ।

23,10.27

याहि मदानाम्पत उप नो हरिभिरिति निनर्तिः ।

23,10.28

अन्तः षष्ठमहः ।

23,10.29

नीव वा अन्तम्गत्वा नृत्यति ।

23,10.30

कद्र्यन्हि तत इयात् ।

23,10.31

गायत्रम्गायत्र मध्यंदिनो ह्येष त्र्यहः ।

23,10.32
खण्डिका 11

अभि त्यम्देवम्सवितारमोण्योः कवि क्रतुमित्यतिच्छन्दसा वैश्वदेवम्प्रतिपद्यते ।

23,11.1

आतिच्छन्दसम्वै षष्ठमहः ।

23,11.2

तत्तृतीय सवनमतिच्छन्दा अभ्यश्नुते ।

23,11.3

अथो प्राजापत्यम्वै षष्ठमहः ।

23,11.4

अतिच्छन्दा वै प्रजापतिः ।

23,11.5

तत्प्राजापत्यम्रूपम् ।

23,11.6

अभिवाननुवरस्तस्य उक्तम्ब्राह्मणम् ।

23,11.7

उदु ष्य देवः सविता सवाय इति सावित्रम् ।

23,11.8

सविता सवाय इति निनर्तिः ।

23,11.9

अन्तः षष्ठमहः ।

23,11.10

नीव वा अन्तम्गत्वा नृत्यति ।

23,11.11

कद्र्यन्हि ततियात् ।

23,11.12

कतरा पूर्वा कतरा अपरायोरिति द्यावा पृथिवीयम् ।

23,11.13

पूर्व अपरा इति निनर्तिः ।

23,11.14

अन्तः षष्ठमहः ।

23,11.15

नीव वा अन्तम्गत्वा नृत्यति ।

23,11.16

कद्र्यन्हि तत इयात् ।

23,11.17

किमु श्रेष्ठः किम्यविष्ठो न आजगन्नित्यार्भवम् ।

23,11.18

श्रेष्ठो यविष्ठ इति निनर्तिः ।

23,11.19

अन्तः षष्ठमहः ।

23,11.20

नीव वा अन्तम्गत्वा नृत्यति ।

23,11.21

कद्र्यन्हि तत इयात् ।

23,11.22

इदमित्था रौद्रम्गूर्त वचा इति वैश्वदेवम् ।

23,11.23

क्राणा यदस्य पितरा मंहनेष्ठा इति स्थितवत् ।

23,11.24

तदन्त रूपम् ।

23,11.25

अन्तः षष्ठमहः ।

23,11.26

तिष्ठति इव वा अन्तम्गत्वा ।

23,11.27

कद्र्यन्हि तत इयात् ।

23,11.28

अन्तः षष्ठमहः ।

23,11.26

तिष्ठति इव वा अन्तम्गत्वा ।

23,11.27

कद्र्यन्हि तत इयात् ।

23,11.28

तस्य द्वे परिशिष्य ये यज्ञेन दक्षिणया समक्ता इत्येतम्नाराशंसमावपति ।

23,11.29

आत्मा वै सूक्तम्प्रजा पशवो नाराशंसम् ।

23,11.30

मध्य एव तदात्मन्प्रजाम्पशूनुभये दधाति ।

23,11.31

अहश्च कृष्णमहरर्जुनम्च इति वैश्वानरीयम् ।

23,11.32

अहरर्जुनम्च इति निनर्तिः ।

23,11.33

अन्तः षष्ठमहः ।

23,11.34

नीव वा अन्तम्गत्वा नृत्यति ।

23,11.35

कद्र्यन्हि ततियात् ।

23,11.16

प्रयज्यवो मरुतो भ्राज दृष्टय इति मारुतम् ।

23,11.37

तस्य तदेव अन्त रूपम्यत्सोदर्कम् ।

23,11.38

इमम्स्तोममर्हते जात वेदस इति जातवेदसीयम् ।

23,11.39

तस्य तदेव अन्त रूपम्यत्सोदर्कम् ।

23,11.40

मा रिषाम मा रिषाम इति ।

23,11.41

तदन्ततो अरिष्ट्यै रूपम् ।

23,11.42

अपः षष्ठेन अह्ना आप्नुवन्ति ।

23,11.43

अतिच्छन्दसम्छन्दस्त्रयस्त्रिंशम्स्तोमम्रैवतम्साम ।

23,11.44

अर्वाचीम्दिशम्शिशिरमृतूनाम् ।

23,11.45

विश्वान्देवान्देव जातम् ।

23,11.46

प्रजापतिमधिपतिम्प्रजापतिमधिपतिम् ।

23,11.47