मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 19

3
खण्डिका 1

ते वै दीक्षिष्यमाणा अग्नीन्त्सम्निवपन्ते ।

19,1.1

एकधा एव तद्बलम्वीर्यम्यजमाना आत्मन्दधते ।

19,1.2

अथ एताम्सम्निवपनीयामिष्टिम्तन्वते ।

19,1.3

ते अग्नये ब्रह्मण्वते अष्टा कपालम्पुरोडाशम्निर्वपन्ति ।

19,1.4

अग्नये क्षत्रवत एकादश कपालम् ।

19,1.5

अग्नये क्षत्र भूते द्वादश कपालम् ।

19,1.6

ब्रह्म क्षत्रे एव तद्यजमानाः समारोहन्ति ।

19,1.7

ताभ्यामेव एतत्स्वस्ति संवत्सरम्तरन्ति ।

19,1.8

त एतेन प्राजापत्येन पशुना यजन्ते ।

19,1.9

प्रजापति प्रसूताः स्वस्ति इमम्संवत्सरम्समश्नवामहा इति ।

19,1.10

तम्ह एके वायव्यम्कुर्वन्ति ।

19,1.11

एतद्वै प्रजापतेः प्रत्यक्षम्रूपम्यद्वायुरि इति ।

19,1.12

अग्नय उ ह एके कामाय कुर्वन्ति ।

19,1.13

अग्निर्वै कामो देवानामीश्वरः ।

19,1.14

सर्वेषामेव देवानाम्प्रीत्यै ।

19,1.15

तस्य ह एके वैश्वानरीयम्पशु पुरोडाशम्कुर्वन्ति ।

19,1.14

सर्वेषामेव देवानाम्प्रीत्यै ।

19,1.15

तस्य ह एके वैश्वानरीयम्पशु पुरोडाशम्कुर्वन्ति ।

19,1.16

असौ वै वैश्वानरो यो असौ तपति ।

19,1.17

एतमेव तत्प्रीणन्ति ।

19,1.18

अथ या बहूनाम्सम्निवपनीय उखा सम्भरणीया सा एकस्य दीक्षिष्यमाणस्य भवति ।

19,1.19

ते पुरस्तादेव दीक्षा प्रसवान्कल्पयन्ते ।

19,1.20

तैषस्य अमावास्याया एक अह उपरिष्टाद्दीक्षेरन् ।

19,1.21

माघस्य वा इत्याहुः ।

19,1.22

तदुभयम्व्युदिताम् ।

19,1.23

तैषस्य त्वा इव उदिततरमिव ।

19,1.24

त एतम्त्रयोदशमधिचरम्मासमाप्नुवन्ति ।

19,1.25

एतावान्वै संवत्सरो यदेष त्रयोदशो मासः ।

19,1.26

तदत्र एव सर्वः संवत्सर आप्तो भवति ।

19,1.27

स वै माघस्य अमावास्यायामुपवसत्युदन्नावर्त्स्यन् ।

19,1.28

उप इमे वसन्ति ।

19,1.29
खण्डिका 2

प्रायणीयेन अतिरात्रेण यक्ष्यमाणाः ।

19,2.1

तदेनम्प्रथममाप्नुवन्ति ।

19,2.2

तम्चतुर्विंशेन आरभन्ते ।

19,2.3

तदारम्भणीयस्य आरम्भणीयत्वम् ।

19,2.4

स षण्मासानुदन्नेति ।

19,2.5

तमूर्ध्वैः षडहैरनुयन्ति ।

19,2.6

स षण्मासानुदन्नित्वा तिष्ठते दक्षिणा आवर्त्स्यन् ।

19,2.7

उप इमे वसन्ति वैषुवतीयेन अह्ना यक्ष्यमाणाः ।

19,2.8

तदेनम्द्वितीयमाप्नुवन्ति ।

19,2.9

स षण्मासान्दक्षिणा एति ।

19,2.10

तमावृत्तैः षडहैरनुयन्ति ।

19,2.11

स षण्मासान्दक्षिणेत्वा तिष्ठत उदन्नावर्त्स्यन् ।

19,2.12

उप इमे वसन्ति माहाव्रतीयेन अह्ना यक्ष्यमाणाः ।

19,2.13

तदेनम्तृतीयमाप्नुवन्ति ।

19,2.14

तम्यत्त्रिराप्नुवन्ति ।

19,2.15

त्रेधा विहितो वै संवत्सरः ।

19,2.16

संवत्सरस्य एव आप्त्यै ।

19,2.17

तदुत एषा अभिगीयते ।

19,2.18

अहोरात्राणि विदधदूर्णाका इव धीर्यः ।

19,2.19

षण्मासो दक्षिणा आदित्यः षडुदन्नेति सूर्य इति ।

19,2.20

षड्ड्ह्येष मासानुदन्नेति ।

19,2.21

षड्दक्षिणा ।

19,2.22

अथ एतामग्नि चित्यायाम्पञ्च हविषम्दीक्षणीयामिष्टिमेके तन्वते ।

19,2.23

पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।

19,2.24

अथ एतामातिथ्याम्पञ्च हविषमेव इष्टिमेके तन्वते ।

19,2.25

पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।

19,2.26

अथ एता बह्वग्नीरन्वाह ।

19,2.27

बहून्ह्यग्नीन्प्रणयन्ति ।

19,2.28

तस्माद्बह्वग्नीरन्वाह ।

19,2.29

ता वै चतस्रो भवन्ति ।

19,2.30

चतुष्टयम्वा इदम्सर्वम् ।

19,2.31

अस्य एव सर्वस्य आप्त्यै ।

19,2.32

त्रिः प्रथमया त्रिरुत्तमया अष्टौ सम्पद्यन्ते ।

19,2.33

अष्ट अक्षरा गायत्री ।

19,2.34

गायत्रो वा अग्निर्गायत्रच्छन्दाः ।

19,2.35

स्वेन एव तच्छन्दसा अग्नीन्प्रणयन्ति ।

19,2.36

ता वा उपांशु भवन्ति ।

19,2.37

रेतः सिक्तिर्वा अग्नि चित्या ।

19,2.38

उपांशु वै रेतः सिच्यते ।

19,2.39

अभिरूपा भवन्ति ।

19,2.40

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

19,2.41

अथ एनम्चिन्वन्ति यावदहम्कामयन्ते ।

19,2.42

अथ एनम्संचितम्सामभिः परिष्टुवन्ति ।

19,2.43
खण्डिका 3

अथ होतारमाहुरग्न्युक्थमनुशंस इति ।

19,3.1

रुद्रो ह वा एष देवानामशान्तः संचितो भवति ।

19,3.2

तमेव एतत्शमयन्ति ।

19,3.3

निरुक्तम्वैश्वानरम्यजति ।

19,3.4

निरुक्तो ह्येष तदा भवति यदा अग्नीन्प्रणयन्ति ।

19,3.5

अथ अत ऊर्ध्वमैकाहिकम्कर्म ।

19,3.6

हविर्धानयोः प्रवर्तनमग्नीषोमयोः प्रणयनमग्नीषोमीयः पशुस्तस्य उक्तम्ब्राह्मणम् ।

19,3.7

अथ अग्नीषोमीयस्य पशु पुरोडाशमन्वञ्चि देवसूभ्यो हवींषि निर्पवन्ति ।

19,3.8

एता ह वै देवताः सवानामीशते ।

19,3.9

ता अत्र प्रीणन्ति ।

19,3.10

ता एभ्यः प्रीताः सवान्प्रस्वन्ति ।

19,3.11

तस्माद्देव स्वः ।

19,3.12

ता वा अष्टौ भवन्ति ।

19,3.13

एताभिर्वै देवाः सर्वा अष्टीराश्नुवत ।

19,3.14

तथो एव एतद्यजमाना एताभिरेव सर्वा अष्टीरश्नुवते ।

19,3.15

अत्र ह एके सर्व पृष्ठायै हवींषि निर्वपन्ति ।

19,3.16

सर्वम्वा अग्नि चित्या ।

19,3.17

सर्वेण सर्वमाप्नवाम इति ।

19,3.18

तानि वै दश हवींषि भवन्ति ।

19,3.19

दश दशिनी विराट् ।

19,3.20

श्रीर्विराडन्न अद्यम् ।

19,3.21

श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

19,3.22

अथ सुन्वन्ति यावदहम्कामयन्ते ।

19,3.23

अथ अनूबन्ध्यस्य वपायाम्संस्थितायाम्त्वाष्ट्रेण पशुना चरन्ति ।

19,3.24

रेतः सिक्तिर्वै त्वाष्ट्रः ।

19,3.25

पत्नी शाले चरन्ति ।

19,3.26

पत्नीषु वै रेतः सिच्यते ।

19,3.27

उपांशु चरन्ति ।

19,3.28

रेतः सिक्तिर्वै त्वाष्ट्रः ।

19,3.29

उपांशु वै रेतः सिच्यते ।

19,3.30

पर्यग्निकृतमुत्सृजन्ति न संस्थापयन्ति ।

19,3.31

रेतः सिक्तिर्वै त्वाष्ट्रः ।

19,3.32

न इद्रेतः सिक्तम्पुरा कालात्संस्थापयाम इति ।

19,3.33
खण्डिका 4

तदाहुर्यदेते देवते आवाहयति त्वष्टारम्च वनस्पतिम्च क्व अस्य एते इष्टे भवत इति ।

19,4.1

प्रयाजेषु वा एते देवते यजति ।

19,4.2

अत्र एव अस्य एते इष्टे भवत इति ।

19,4.3

अथ अनूबन्ध्यस्य पशु पुरोडाशमन्वञ्चि देविकाभ्यो हवींषि निर्वपन्ति ।

19,4.4

यात यामानि ह वा एतस्य छन्दांसि भवन्ति यः सोमेन यजते ।

19,4.5

छन्दांसि वै देविकाः ।

19,4.6

तद्यद्देविकाभ्यो हवींषि निर्वपन्ति ।

19,4.7

तेन ह अस्य अयात यामानि पुनर्यामानि भवन्ति ।

19,4.8

अथो धिर रसानि ह वा एतस्य छन्दांसि भवन्ति यः सोमेन यजन्ते ।

19,4.9

छन्दांसि वै देविकाः ।

19,4.10

तद्यद्देविकाभ्यो हवींषि निर्वपन्ति ।

19,4.11

छन्दसामेव सरसतायै ।

19,4.12

ता वा एता देव्यः ।

19,4.13

अथ एष कः प्रजापतिः ।

19,4.14

तस्माद्देविकाः ।

19,4.15

तानि वै पञ्च हवींषि भवन्ति ।

19,4.16

पञ्च पदा पङ्क्तिः ।

19,4.17

पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।

19,4.18

अत्र ह एके देवीभ्यो हवींषि निर्वपन्ति ।

19,4.19

सर्वम्वा अग्नि चित्या ।

19,4.20

सर्वेण सर्वमाप्नवाम इति ।

19,4.21

तानि वै दश हवींषि भवन्ति ।

19,4.22

दश दशिनी विराट् ।

19,4.23

श्रीर्विराडन्न अद्यम् ।

19,4.24

श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

19,4.25

अत्र ह एके दिशामवेष्टीः कुर्वन्ति ।

19,4.26

सर्वम्वा अग्नि चित्या ।

19,4.27

सर्वेण सर्वमाप्नवाम इति ।

19,4.28

तानि वै षड्ड्हवींषि भवन्ति ।

19,4.29

षड्वा ऋतवः संवत्सरः ।

19,4.30

संवत्सरस्य एव आप्त्यै ।

19,4.31

अथ उदवसानीयायाम्संस्थितायाम्मैत्रावरुण्या पयस्यया यजेत तस्या उक्तम्ब्राह्मणम् ।

19,4.32

न एतया अनिष्ट्वा अग्निचिन्मैथुनम्चरेदिति ।

19,4.33
खण्डिका 5

मुखम्वा एतत्संवत्सरस्य यच्चतुर्विंशः ।

19,5.1

तस्मादग्निष्टोमो भवति ।

19,5.2

अग्निष्टोमो हि यज्ञानाम्मुखम् ।

19,5.3

मुखत एव तत्संवत्सरम्प्रीणन्ति ।

19,5.4

तद्द्ह एक उक्थ्यम्कुर्वन्ति ।

19,5.5

यज्ञस्य एव सभारतायै ।

19,5.6

तस्य चतुर्विंशः स्तोमो भवति ।

19,5.7

चतुर्विंशतिर्वै संवत्सरस्य अर्ध मासाः ।

19,5.8

संवत्सरस्य एव आप्त्यै ।

19,5.9

तस्य वै त्रीणि षष्टि शतानि स्तोत्रियाणाम्भवन्ति ।

19,5.10

त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् ।

19,5.11

तत्संवत्सरस्य अहान्याप्नुवन्ति ।

19,5.12

तस्य बृहत्पृष्ठम्भवति ।

19,5.13

द्वितीयम्वा एतदह्नाम्द्वितीयम्बृहत्पृष्ठानाम् ।

19,5.14

तस्मादस्य बृहत्पृष्ठम्भवति ।

19,5.15

अथ यत्र चतुर्विंश स्तोममुपयन्ति ।

19,5.16

अवधृतम्वा उ तत्र महा व्रतम् ।

19,5.17

बृहदु वा आयतनेन महा व्रतस्य पृष्ठम्भवति ।

19,5.18

तस्माद्बृहदेव एतस्य अह्नः पृष्ठम्स्यादिति ।

19,5.19

तस्य संवत्संवत्सरमभि पर्युदितानि छन्दो रूपाणि ।

19,5.20

होता अजनिष्ट चेतन इत्यष्टर्चमाज्यम्गायत्री मात्रम् ।

19,5.21

गायत्री मात्रो वै स्तोमः ।

19,5.22

तद्वै शस्त्रम्समृद्धम्यस्स्तोमेन सम्पद्यते ।

19,5.23

माधुच्छन्दसः प्रौगः स वै समृद्धः ।

19,5.24

तस्य रूपेण अन्ये प्रौगाः कल्पन्ते ।

19,5.25

समृद्धम्मे प्रथमतः कर्म कृतमसदिति ।

19,5.26

आ त्वा रथम्यथा ऊतय इति मरुत्वतीयस्य प्रतिपत् ।

19,5.27

इदम्वसो सुतमन्ध इत्यनुचरः ।

19,5.28

एष एव नित्य एकाह आतानस्तस्य उक्तम्ब्राह्मणम् ।

19,5.29
खण्डिका 6

कया शुभा सवयसः सनीडा इति मरुत्वतीयम् ।

19,6.1

तस्य अनुत्तमा ते मघवन्नकिर्न्विति नवमी ।

19,6.2

तया परिदधात्युत्तराः पूर्वाः शस्त्वा ।

19,6.3

मारुत्यो हि ता भवन्ति ।

19,6.4

अथ एषा निष्केवल्या ।

19,6.5

तस्मादेतया परिदधाति ।

19,6.6

तस्मिन्वा अस्ति समान्या मरुतः सम्मिमिक्षुरिति ।

19,6.7

संवत्तत्संवत्सरमभिवदति ।

19,6.8

तदेतस्य अह्नो रूपम् ।

19,6.9

तदिदास भुवनेषु ज्येष्ठमिति बृहद्दिवो निष्केवल्यम् ।

19,6.10

बृहद्दिवेन अत्र होता रेतः सिञ्चति ।

19,6.11

तददो महा व्रतीयेन अह्ना प्रजनयति संवत्सरे ।

19,6.12

संवत्सरे वै रेतः सिक्तम्जायते ।

19,6.13

तस्मिन्वा अस्ति सम्ते नवन्त प्रभृता मदेष्विति ।

19,6.14

संवत्तत्संवत्सरमभिवदति ।

19,6.15

तदेतस्य अह्नो रूपम् ।

19,6.16

तत्सवितुर्वृणीमहे अद्या नो देव सवितरिति नित्या एव वैश्वदेवस्य प्रतिपच्च अनुचरश्च तयोरुक्तम्ब्राह्मणम् ।

19,6.17

तद्देवस्य सवितुर्वार्यम्महदिति सावित्रम् ।

19,6.18

तस्मिन्वा अस्ति प्रजावन्तम्रयिमस्मे समिन्वत्विति ।

19,6.19

संवत्तत्संवत्सरमभिवदति ।

19,6.20

तदेतस्य अह्नो रूपम् ।

19,6.21

ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् ।

19,6.22

तस्मिन्वा अस्ति पनाय्यमोजो अस्मे समिन्वतमिति ।

19,6.23

संवत्तत्संवत्सरमभिवदति ।

19,6.24

तदेतस्य अह्ने रूपम् ।

19,6.25

किमु श्रेष्ठः किम्यविष्ठो न आजगन्नित्यार्भम् ।

19,6.26

तस्मिन्वा अस्ति संवत्सर इदमद्या व्याख्यत इति ।

19,6.27

तत्प्रत्यक्षम्संवत्सरमभिवदति ।

19,6.28

तदेतस्य अह्नो रुपम् ।

19,6.29

यज्ञस्य वो रथ्यम्विश्पतिम्विशामिति शार्यातम्वैश्वदेवम् ।

19,6.30

तस्मिन्वा अस्ति इन्द्रो मित्रो वरुणः सम्चिकित्रिर इति ।

19,6.31

संवत्तत्संवत्सरमभिवदति ।

19,6.32

तदेतस्य अह्नो रूपम् ।

19,6.33

वैश्वानराय धिषणामृतावृध इति वैश्वानरीयम् ।

19,6.34

तस्मिन्वा अस्ति धिया रथम्न कुलिशः समृण्वति इति ।

19,6.35

संवत्तत्संवत्सरमभिवदति ।

19,6.36

तदेतस्य अह्नो रूपम् ।

19,6.37

वृष्णे शर्धाय सुमखाय वेधस इति मारुतम् ।

19,6.38

तस्मिन्वा अस्ति गिरः समञ्जे विदथेष्वाभुव इति ।

19,6.39

संवत्तत्संवत्सरमभिवदति ।

19,6.40

तदेतस्य अह्नो रूपम् ।

19,6.41

यज्ञेन वर्धत जात वेदसमिति जात वेदसीयम् ।

19,6.42

तस्मिन्वा अस्ति संददस्वान्रयिमस्मासु दीदिहि इति ।

19,6.43

संवत्तत्संवत्सरमभिवदति ।

19,6.44

तदेतस्य अह्नो रूपम् ।

19,6.45
खण्डिका 7

तद्द्ह एतदहरेके छन्दोगाः सर्व स्तोमम्कुर्वन्ति ।

19,7.1

अनेन अह्ना षडहमाप्नुमः ।

19,7.2

षडहेन संवत्सरम् ।

19,7.3

ये च संवत्सरे कामाः ।

19,7.4

षडहो वा उ सर्वः संवत्सर इति वदन्तः ।

19,7.5

ते यदि तथा कुर्युः ।

19,7.6

षडह क्लृप्तम्शस्त्रम्कल्पयीत ।

19,7.7

यत्प्रथमस्य अह्न आज्यम्तदाज्यम् ।

19,7.8

यच्चतुर्थस्य अह्नो निष्केवल्यम्तन्निष्केवल्यम् ।

19,7.11

यत्पञ्चमस्य अह्नो वैश्वदेवम्तद्वैश्वदेवम् ।

19,7.12

यत्षष्ठस्य अह्न आग्निमारुतम्तदाग्निमारुतम् ।

19,7.13

तत्र पृष्ठ्य स्तोत्रियान्त्सर्वान्त्समाहृत्य उपरिष्टात्प्रगाथस्य प्रगाथी कृत्य शंसेत्षडहस्य आप्त्यै ।

19,7.14

तद्यथा एव एतेन अह्ना छन्दोगाः षडहमाप्नुवन्ति षडहेन संवत्सरम् ।

19,7.15

ये च संवत्सरे कामाः ।

19,7.16

एवमेव एतेन अह्ना होता षडहमाप्नोति षडहेन संवत्सरम् ।

19,7.17

ये च संवत्सरे कामाः ।

19,7.18

तद्द्ह स्म एतत्प्रदिश्य आह सा एषा मुग्धिरेव इति ।

19,7.19

यम्कम्च छन्दोगाः स्तोममुपापद्येर ।

19,7.20

न तदाद्रियेत ।

19,7.21

यदेव इदम्शस्त्रम्प्र्रवोचाम ।

19,7.22

तत एव नेयात् ।

19,7.23

एते वा उ स्तोम साहे सूक्ते यत्कयाशुभीय तदिदासीये ।

19,7.24

ताभ्यामेव न निश्च्यवेत इति न निश्च्यवेत इति ।

19,7.25