मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 12

3
खण्डिका 1

यज्ञो वा आपः ।

12,1.1

तद्यदपो अच्छ यन्ति ।

12,1.2

यज्ञमेव तदच्छ यन्ति ।

12,1.3

अथो ऊर्ग्वा आपो रसः ।

12,1.4

और्जेन एव तद्रसेन हविः संसृजन्ति ।

12,1.5

अथो अमृतत्वम्वा आपः ।

12,1.6

अमृतत्वमेव तदात्मन्धत्ते ।

12,1.7

तद्द्ह स्म वै पुरा यज्ञ मुहो रक्षांसि तीर्थेष्वपो गोपायन्ति ।

12,1.8

तद्ये के च आपो अच्छ जग्मुः ।

12,1.9

तदेव तान्त्सर्वान्जघ्नुः ।

12,1.10

ततेतत्कवषः सूक्तमपश्यत्पञ्चदशर्चम्प्र देवत्रा ब्रह्मणे गातुरेत्विति ।

12,1.11

तदन्वब्रवीत् ।

12,1.12

तेन यज्ञ मुहो रक्षांसि तीर्थेब्यो अपाहन् ।

12,1.13

तत उ ह एतदर्वाक्स्वस्त्यरिष्ट्याः पुनः प्रत्यायन्ति ।

12,1.14

अथ अदो अमुत्र अप्स्वध्वर्युराहुतिम्जुहोति ।

12,1.15

ताम्सम्प्रत्येतामनुब्रूयात् ।

12,1.16
खण्डिका 2

हिनोता नो अध्वरम्देव यज्या इति ।

12,2.1

तस्या एव एषा याज्या देव यज्या इत्यभिरूपा ।

12,2.2

आवर्वृततीरध नु द्विधारा इत्यावृत्तासु ।

12,2.3

प्रति यदापो अदृश्रमायतीरिति प्रतिख्यातासु ।

12,2.4

समन्या यन्त्युप यन्त्यन्या इति समायतीषु ।

12,2.5

आपो न देवीरुप यन्ति होत्रियमिति होतृ चमसे अवनीयमानासु ।

12,2.6

आधेनवः पयसा तूर्ण्यर्था इति ।

12,2.7

आपो वै धेनवः ।

12,2.8

आपो हि इदम्सर्वम्धिन्वन्ति ।

12,2.9

अथ अध्वर्युर्होतारमभ्यावृत्य तिष्ठति ।

12,2.10

तम्होता पृच्छत्यध्वर्यवैषीरप इति ।

12,2.11

ऐषीर्यज्ञमित्येव एनम्तदाह ।

12,2.12

उतेमनन्नमुरिति प्रत्याह ।

12,2.13

अविदाम तद्यदास्य ऐषीष्म अनंसत तस्मा इत्येव एनम्तदाह ।

12,2.14

प्रत्युक्तो होता एतम्निगदम्प्रतिपद्यते ।

12,2.15

ऊर्ग्वै रसो निगदः ।

12,2.16

और्जमेव तद्रसम्निगदेन हविषि दधाति ।

12,2.17

अम्बयो यन्त्यध्वभिरिति ।

12,2.18

आपो वा अम्बयः ।

12,2.19

अपो हि यतीः स्तौति ।

12,2.20

एमा अग्मन्रेवतीर्जीव धन्या इत्यागतासु ।

12,2.21

आग्मन्नाप उशतीर्बर्हिरेदमित्यागतवत्या परिदधाति ।

12,2.22

अभिरूपा अन्वाह ।

12,2.23

यद्यज्ञे अभिरूपम्तत्समृद्धम्यज्ञस्य एव समृद्ध्यै ।

12,2.24
खण्डिका 3

अनूक्तः प्रातरनुवाक आसीत् ।

12,3.1

अप्राप्तान्युक्थान्यासन् ।

12,3.2

तानेतस्मिन्त्संधावसुरा उपायन् ।

12,3.3

ते देवाः प्रतिबुध्य बिभ्यत एतम्त्रिह्समृद्धम्वज्रमपश्यन् ।

12,3.4

आप इति तत्प्रथमम्वज्र रूपम् ।

12,3.5

सरस्वती इति तद्द्वितीयम्वज्र रूपम् ।

12,3.6

पञ्चदशर्चम्भवति ।

12,3.7

तत्तृतीयम्वज्र रूपम् ।

12,3.8

एतेन वै देवास्त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो असुराननुदन्त ।

12,3.9

तथो एव एतद्यजमान एतेन एव त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते ।

12,3.10

माध्यमाः सरस्वत्याम्सत्रमासत ।

12,3.11

तद्द्ह अपि कवषो मध्ये निषसाद ।

12,3.12

तम्ह इम उपोदुः ।

12,3.13

दास्या वै त्वम्पुत्रो असि न वयम्त्वया सह भक्षयिष्याम इति ।

12,3.14

स ह क्रुद्धः प्रद्रवन्त्सरस्वतीमेतेन सूक्तेन तुष्टाव ।

12,3.15

तम्ह इयमन्वियाय ।

12,3.16

तत उ ह इमे निरागा इव मेनिरे ।

12,3.17

तम्ह अन्वाद्रुत्य ऊचुः ।

12,3.18

ऋचे नमस्ते अस्तु मा नो हासीः ।

12,3.19

त्वम्वै नः श्रेष्ठो असि ।

12,3.20

यम्त्वा इयमन्वेति इति ।

12,3.21

तम्ह ज्ञपयाम्चक्रुः ।

12,3.22

तस्य ह क्रोधम्विनिन्युः ।

12,3.23

स एष कवषस्य एव महिमा सूक्तस्य च अनुवेदिता ।

12,3.24
खण्डिका 4

अथ यत्सह पत्नीभिर्यन्ति ।

12,4.1

गन्धर्वा ह वा इन्द्रस्य सोममप्सु प्रत्याहिता गोपायन्ति ।

12,4.2

त उ ह स्त्री कामाः ।

12,4.3

ते ह आसु मनांसि कुर्वते ।

12,4.4

तद्यथा प्रमत्तानाम्यज्ञमाहरेदेवम्तत् ।

12,4.5

उपनामुक उ एव एनम्यज्ञो भवति ।

12,4.6

ता वै विंशतिमन्वाह ।

12,4.7

ता विराजमभिसम्पद्यन्ते ।

12,4.8

वैराजीर्वा आपः ।

12,4.9

अन्नम्विराडन्नमापः ।

12,4.10

अन्नेन तदन्न अद्यम्समर्धयति ।

12,4.11

त्रिः प्रथमया त्रिरुत्तमया चतुर्विंशतिः सम्पद्यन्ते ।

12,4.12

चतुर्विंशत्यक्षरा गायत्री ।

12,4.13

गायत्री प्रातः सवनम्वहति ।

12,4.14

तदु ह प्रातः सवन रूपान्न अपैति ।

12,4.15

इति न्वापोनप्त्रीयस्य ।

12,4.16
खण्डिका 5

अथ वा उपांशुः प्राण एव ।

12,5.1

तम्हूयमानमनुप्राण्यात्प्राणम्मे पाहि प्राणम्मे जिन्व स्वाहा त्वा सुभव सूर्याय इति ।

12,5.2

स एव तस्य वषट्कारः स स्वाहा कारः ।

12,5.3

न ह वै ता आहुतयो देवान्गच्छन्ति या अवषट्कृता वा अस्वाहा कृता वा भवन्ति ।

12,5.4

अन्तर्यामो अपान एव ।

12,5.5

तम्हूयमानमन्ववान्यादपानम्मे पाह्यपानम्मे जिन्व स्वाहा इत्वा सुभव सूर्याय इति ।

12,5.6

स एव तस्य वषट्कारः स स्वाहा कारः ।

12,5.7

न ह वै ता आहुतयो देवान्गच्छन्ति या अवषट्कृता वा अस्वाहा कृता वा भवन्ति ।

12,5.8

तौ वा एतौ प्राण अपानावेव यदुपांश्वन्तर्यामौ ।

12,5.9

तयोर्वा उदिते अन्यमनुदिते अन्यम्जुह्वति ।

12,5.10

इमावेव तत्प्राण अपानौ वितारयति ।

12,5.11

तस्माद्द्हि इमौ प्राण अपानौ सह सन्तौ नाना इव ।

12,5.12

यद्वेव उदिते अन्यमनुदिते अन्यम्जुह्वति ।

12,5.13

अहो रात्राभ्यामेव तदसुरानन्तरयन्ति ।

12,5.14

उभयतो ह्यमुमादित्यमहो रात्रे पाप्मानम्वा यजमान इति ह स्म आः ।

12,5.15

अथ यस्य एता उभा उदिते जुह्वत्युभौ वा अनुदिते ।

12,5.16

उदक याजी स न सोम याजी ।

12,5.17

यस्य एव एतौ यथा यथम्हूयेते स सोम याजी ।

12,5.18

इति न्वाउपांश्वन्तर्यामयोः ।

12,5.19
खण्डिका 6

अनूत्थेयः पवमानो न इति ।

12,6.1

न अनूत्थेय इत्याहुः ।

12,6.2

ऋच एतदायतनम्यत्र एतद्द्ह उत आस्ते ।

12,6.3

अथ अदः साम्नो यत्र अमी साम गायन्ति ।

12,6.4

स यो अनूत्तिष्ठति ।

12,6.5

ऋचम्स स्वाद आयतनाच्च्यवयति ।

12,6.6

ऋचम्स साम्नो अनुवर्त्मानम्करोति ।

12,6.7

तस्मादु न अनूत्तिष्ठेत् ।

12,6.8

न इदृचम्स्वाद आयतनाच्च्यवयानि इति ।

12,6.9

न इदृचम्साम्नो अनुवर्त्मानम्करवाणि इति ।

12,6.10

यदि तु स्वयम्होता स्यात् ।

12,6.11

अनूत्तिष्ठेत् ।

12,6.12

औपगात्रम्ह्यस्य भवति ।

12,6.13

स्वर्गो वै लोकः स्वरः साम ।

12,6.14

स्वर्गे लोके स्वरे सामन्यात्मानमतिसृजा इति ।

12,6.15

अथ पवमाने ह वा उ प्रातः सर्वा देवताः संतृप्यन्ति ।

12,6.16

कथम्तत्र अपरिभक्षितो भवति इति ।

12,6.17
खण्डिका 7

स स्तुते पवमान एतम्जपम्जपेत् ।

12,7.1

उपहूता देवा अस्य सोमस्य पवमानस्य विचक्षणस्य भक्ष उप माम्देवा ह्वयन्तामस्य सोमस्य पवमानस्य विचक्षणस्य भक्षे मनसा त्वा भक्षयामि वाचा त्वा भक्षयामि प्राणेन त्वा भक्षयामि चक्षुषा त्वा भक्षयामि श्रोत्रेण त्वा भक्षयामि इति ।

12,7.2

स एष देवैः समुपहवः ।

12,7.3

तथा ह अस्य असौ सोमो राजा विचक्षणश्चन्द्रमा भक्षो भक्षितो भवति ।

12,7.4

यममुम्देवा भक्षम्भक्षयन्ति ।

12,7.5

अथ पशुः ।

12,7.6

सोम एव एष प्रत्यक्षम्यत्पशुः ।

12,7.7

उदक पेयमिव हि स्याद्यदेष न आलभ्येत ।

12,7.8

सवनान्येतेन तीव्री करोति ।

12,7.9

तद्यद्वपया चरन्ति ।

12,7.10

तेन प्रातः सवनम्तीव्री कृतम् ।

12,7.11

यत्श्रपयन्ति यत्पशु पुरोडाशेन चरन्ति ।

12,7.12

तेन माध्यंदिनम्सवनम्तीव्री कृतम् ।

12,7.13

अथ यदेनेन तृतीय सवने प्रचरन्ति ।

12,7.14

तेन तृतीय सवनम्तीवृई कृतम् ।

12,7.15

स एष सवनानामेव तीव्री कारः ।

12,7.16

याश्च सोमपा देवताः ।

12,7.17

याश्च पशु भाजनाः ।

12,7.18

त्रयस्त्रिंशद्वै सोमपा देवताः ।

12,7.19

याः सोम आहुतीरन्वायत्ताः ।

12,7.20

अष्टौ वसव एकादश रुद्रा द्वादश आदित्या इन्द्रो द्वात्रिंशः ।

12,7.21

प्रजापतिस्त्रयस्त्रिंशः ।

12,7.22

त्रयस्त्रिंशत्पशु भाजनाः ।

12,7.23

ता उभय्यः प्रीता भवन्ति यदेष आलभ्यते ।

12,7.24
खण्डिका 8

तमेतमैन्द्राग्नः स्यादिति ह एक आहुः ।

12,8.1

इन्द्राग्नी वै सर्वे देवाः ।

12,8.2

तदेनेन सर्वान्देवान्प्रीणाति इति वदन्तः ।

12,8.3

तदु वा आहुरति तदिन्द्रम्भाजयन्ति ।

12,8.4

अग्नेर्वै प्रातः सवनम् ।

12,8.8

प्रातः सवन एष आलभ्यते ।

12,8.9

अग्नेर्वा एतम्सन्तमन्यस्मै हरन्ति ये अन्य देवत्यम्कुर्वन्ति ।

12,8.10

तद्यथा अन्यस्य सन्तमन्यस्मै हरेदेवम्तत् ।

12,8.11

अपि केवलम्संवत्सरम्संवत्सर सदामाग्नेय एव न च्यवेत इति ।

12,8.12

तद्विहा एक आहुः ।

12,8.13

शिक्षायामेव अवधृत आग्नेयः ।

12,8.14

तस्य भुवो यज्ञस्य रजसश्च नेता इति वपायै याज्या ।

12,8.15

प्र वः शुक्राय भानवे भरध्वमिति शुक्रवती पुरोडाशस्य ।

12,8.16

प्र कारवो मनना वच्यमाना इति हविष्मती हविषः ।

12,8.17

एकादशिनीस्त्वेव अन्वायातयेयुरिति सा स्थितिः ।

12,8.18

यदि पृष्ठ उपायम्भवति ।

12,8.19
खण्डिका 9

अथ आवाहने ।

12,9.1

आवह देवान्यजमानाय ।

12,9.2

अग्निमग्न आवह वनस्पतिमावह इन्द्रम्वसुमन्तमावह इति ।

12,9.3

तत्प्रातः सवनमावाहयति ।

12,9.4

इन्द्रम्रुद्रवन्तमावह इति ।

12,9.5

तन्माध्यंदिनम्सवनमावाहयति ।

12,9.6

इन्द्रमादित्यवन्तमृभुमन्तम्विभुमन्तम्वाजवन्तम्बृहस्पतिवन्तम्विश्व देव्या वन्तमावह इति ।

12,9.7

तत्तृतीय सवनमावाहयति ।

12,9.8

अत उ ह एके वनस्पतिमावाहयन्ति।

12,9.9

अन्तत आवाह्यः ।

12,9.10

तृतीय सवने ह्येनम्यजन्ति इति वदन्तः ।

12,9.11

तदु वा आहुरात्मा वै पशुः ।

12,9.12

प्राणो वनस्पतिः ।

12,9.13

यस्तम्तत्र ब्रूयात् ।

12,9.14

प्राणादात्मानमन्तरगान्न जीविष्यति इति तथा ह स्यात् ।

12,9.15

तस्मात्पशुमेव उपसंधाय वनस्पतिरावाह्यः ।

12,9.16

मीमांसितः पशुः ।

12,9.17

प्रजापतिः प्रजा सृष्ट्वा रिरिचान इव अमन्यत ।

12,9.18

स ह ऐक्षत ।

12,9.19

कथम्नु तेन यज्ञ क्रतुना यजेय येन इष्ट्वा उप कामानाप्नुयामव अन्न अद्यम्रुन्धीय इति ।

12,9.20

स तामेकादशिनीमपश्यत् ।

12,9.21

तामाहरत्तया अयजत ।

12,9.22

तया इष्ट्वा उप कामानाप्नोदव अन्न अद्यमरुन्धत ।

12,9.23

तथो एवैतद्यजमान एतया एव एकादशिन्या इष्ट्वा उप कामानाप्नोत्यव अन्न अद्यम्रुन्धे ।

12,9.24
खण्डिका 10

तस्यै वा एतस्या एकादशिन्यै याज्या पुरोनुवाक्याश्चैव नाना ।

12,10.1

मनोतायै च हविषः ।

12,10.2

अथ इतरत्समानम् ।

12,10.3

आग्नेयः प्रथमः ।

12,10.4

ब्रह्म वा अग्निः ।

12,10.5

ब्रह्म यशसस्य अवरुद्ध्यै ।

12,10.6

सारस्वतो द्वितीयः ।

12,10.7

वाग्वै सरस्वती ।

12,10.8

वाचा वा इदम्स्वदितमन्नमद्यते अन्न अद्यस्य उपाप्त्यै ।

12,10.9

सौम्यस्तृतीयः ।

12,10.10

क्षत्रम्वै सोमः ।

12,10.11

क्षत्र यशसस्य अवरुद्ध्यै ।

12,10.12

पौष्णश्चतुर्थः ।

12,10.13

अन्नम्वै पूषा ।

12,10.14

अन्न अद्यस्य उपाप्त्यै ।

12,10.15

बार्हस्पत्यः पञ्चमः ।

12,10.16

ब्रह्म वै बृहस्पतिः ।

12,10.17

ब्रह्म यशसस्य अवरुद्ध्यै ।

12,10.18

वैश्वदेवः षष्ठः ।

12,10.19

विश्व रूपम्वा इदमन्नमद्यते अन्न अद्यस्य उपाप्त्यै ।

12,10.20

ऐन्द्रः सप्तमः ।

12,10.21

क्षत्रम्वा इन्द्रः ।

12,10.22

क्षत्र यशसस्य अवरुद्ध्यै ।

12,10.23

मारुतो अष्टमः ।

12,10.24

आपो वै मरुतः ।

12,10.25

ब्रह्म क्षत्रे वा इन्द्राग्नी ।

12,10.29

ब्रह्म यशसस्य च क्षत्र यशसस्य च अवरुद्ध्यै ।

12,10.30

सावित्रो दशमः ।

12,10.31

सवितृ प्रसूतम्वा इदमन्नमद्यते अन्न अद्यस्य उपाप्त्यै ।

12,10.32

वारुण एकादशः ।

12,10.33

क्षत्रम्वै वरुणः ।

12,10.34

क्षत्र यशसस्य अवरुद्ध्यै ।

12,10.35

एवम्वै प्रजापतिर्ब्रह्मणा च क्षत्रेण च क्षत्रेण च ब्रह्मणा च उभयतो अन्न अद्यम्परिहृह्णानो अवरुन्धान ऐत् ।

12,10.36

तथो एव एतद्यजमान एवमेव ब्रह्मणा च क्षत्रेण च क्षत्रेण च ब्रह्मणा च उभयतो अन्न अद्यम्परिगृह्णानो अवरुन्धान एत्यवरुन्धान एति ।

12,10.37