मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कौषीतकि (शाङ्खायन) ब्राह्मणम्, अध्यायः 16

3
खण्डिका 1

वसूनाम्वै प्रातः सवनम् ।

16,1.1

रुद्राणाम्माध्यंदिनम्सवनम् ।

16,1.2

आदित्यानाम्तृतीय सवनम् ।

16,1.3

तद्यदादित्य ग्रहेण तृतीय सवनम्प्रतिपद्यते ।

16,1.4

स्वया एव तद्देवतया प्रतिपद्यते ।

16,1.5

अथो धीर रसम्वा एतत्सवनम्यत्तृतीय सवनम् ।

16,1.6

अथ एष सरसो ग्रहो यदादित्य ग्रहः ।

16,1.7

तेन एव तत्तृतीय सवनम्सरसम्करोति ।

16,1.8

त्रिष्टुभमादित्य ग्रहस्य पुरोनुवाक्यामनूच्य त्रिष्टुभा यजति ।

16,1.9

बलम्वै वीर्यम्त्रिष्टुप् ।

16,1.10

बलमेव तद्वीर्यम्यजमाने दधाति ।

16,1.11

तस्य न अनुवषट्करोति ।

16,1.12

सवन ततिर्वा आदित्य ग्रहः संस्था अनुवषट्कारः ।

16,1.13

न इत्पुरा कालात्सवनम्संस्था अपयानि इति ।

16,1.14

मद्वती याज्या मद्वद्द्हि तृतीय सवनम् ।

16,1.15

अथ स्तुते पवमाने पशुना चरन्ति तस्य उक्तम्ब्राह्मणम् ।

16,1.16

अथ हविष्पङ्क्त्या चरन्ति तस्या उक्तम्ब्राह्मणम् ।

16,1.17
खण्डिका 2

ऐन्द्रार्भवीस्तृतीय सवन उन्नीयमानेभ्यो अन्वाह ।

16,2.1

यत्र ह तदृभवः प्रजापतेः प्रेमाणम्प्रापुः ।

16,2.2

तदेनानिन्द्रः सोम पीथे अन्वाभेजे ।

16,2.3

तस्मान्न आर्भवीषु स्तुवते ।

16,2.4

अथ आर्भवः पवमान इत्याचक्षते ।

16,2.5

ऐन्द्रार्भव्या तृतीय सवने प्रस्थितानाम्यजति ।

16,2.6

इन्द्रमेव तदर्ध भाजम्सवनस्य करोति ।

16,2.7

जगत्या जागतम्हि तृतीय सवनम् ।

16,2.8

मद्वत्या मद्वद्द्हि तृतीय सवनम् ।

16,2.9

अनुवषट्करोत्याहुतीनामेव शान्त्यै ।

16,2.10

आहुतीनाम्प्रतिष्ठित्यै ।

16,2.11

अथ होत्राः सम्यजन्ति तासामुक्तम्ब्राह्मणम् ।

16,2.12

अथ इडा अथ होतृ चमसस्तस्य उक्तम्ब्राह्मणम् ।

16,2.13

औपासनांस्तृतीय सवन उपास्यन्ति ।

16,2.14

पितॄनेव तत्प्रीणन्ति ।

16,2.15

अथ सावित्र ग्रहेण चरन्ति ।

16,2.16

प्रातः सवन एतमग्रे अयजन् ।

16,2.17

ताः प्रजा न प्राजायन्त ।

16,2.18

तम्माध्यंदिने सवने ।

16,2.19

ता उ तर नो एव ।

16,2.20

तमत्र तृतीय सवने अयजन् ।

16,2.21

ततः प्रजाः प्राजायन्त ।

16,2.22

तस्मात्तृतीय सवने अवधृतः सविता ।

16,2.23

अथो आदित्यानाम्वा एकः सविता ।

16,2.24

आदित्यानाम्तृतीय सवनम् ।

16,2.25

तस्मादेनम्तृतीय सवने यजन्ति ।

16,2.26

त्रिष्पुभम्सावित्र ग्रहस्य पुरोनुवाक्यामनूच्य जगत्या यजति ।

16,2.27

बलम्वै वीर्यम्त्रिष्टुप् ।

16,2.28

पशवो जगती ।

16,2.29

बल एव तद्वीर्ये अन्ततः पशुषु च प्रतितिष्ठति ।

16,2.30

तस्य न अनुवषट्करोति ।

16,2.31

प्राणो वै सावित्र ग्रहः संस्था अनुवषट्कारः ।

16,2.32

न इत्पुरा कालात्प्राणम्संस्था अपयानि इति ।

16,2.33

युक्त इव ह्ययम्प्राणः ।

16,2.34

मद्वती याज्या मद्वद्द्हि तृतीय सवनम् ।

16,2.35
खण्डिका 3

सविता वैश्वदेवम्प्रतिपद्यते ।

16,3.1

सवितृ प्रसूता वै देवास्तृतीय सवनम्समभरन् ।

16,3.2

तस्मात्प्रतिपदनुचरौ सूक्तमिति सावित्राणि भवन्ति ।

16,3.3

तत्सवितुर्वृणीमह इत्यनुष्टुभा वैश्वदेवम्प्रतिपद्यते ।

16,3.4

पवमान उक्थम्वा एतद्यद्वैश्वदेवम् ।

16,3.5

अनुष्टुप्सोमस्य छन्दः ।

16,3.6

उक्तम्पद विग्रहणस्य ब्राह्मणम् ।

16,3.7

गायत्रीः शंसति ।

16,3.8

प्राणो वै गायत्र्यः ।

16,3.9

प्राणमेव तदात्मन्धत्ते ।

16,3.10

सावित्रम्शंसति ।

16,3.11

सावित्रो हि ग्रहो गृहीतो भवति ।

16,3.12

तमेव एतेन अनुशंसति ।

16,3.13

वायव्याम्शंसति ।

16,3.14

प्राणो वै वायव्या ।

16,3.15

प्राणमेव तदात्मन्धत्ते ।

16,3.16

तस्यै शस्त्रे द्विदेवत्यान्विमुञ्चन्ति ।

16,3.17

वायौ प्राणे प्राणान् ।

16,3.18

द्यावा पृथिवीयम्शंसति ।

16,3.19

प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।

16,3.20

तस्मिन्नध्वर्युर्मद्वत्प्रत्यागृणाति ।

16,3.21

मद्वद्द्हि तृतीय सवनम् ।

16,3.22

सुरूप कृत्नुम्शंसति ।

16,3.23

अन्नम्वै सुरूपम् ।

16,3.24

अन्नमेव तदात्मन्धत्ते ।

16,3.25

अथो रूपाणामेव एष सोम पीथः ।

16,3.26

रूपमेव तदात्मन्धत्ते ।

16,3.27

आर्भवम्शंसति ।

16,3.28

अत्र ह्येभ्यः प्रजापतिरवाकल्पयत् ।

16,3.29

तस्मादत्र आर्भवम्शस्यते ।

16,3.30

अथ वेनामादित्याम्बार्हस्पत्यामिति शंसति ।

16,3.31

शुक्रा मन्थिनावाग्रयणमित्येव एताभिरनुशंसति ।

16,3.32

अथो वैश्वदेवम्वै शस्त्रम् ।

16,3.33

देवतानामपरिहाणाय वैश्वदेवम्शंसति ।

16,3.34

वैश्वदेवो हि ग्रहो गृहीतो भवति ।

16,3.35

तमेव एतेन अनुशंसति ।

16,3.36

तस्य द्विः पच्छः परिधानीयाम्शंसति ।

16,3.37

अर्धर्चशस्तृतीयम् ।

16,3.38

सा विराजमभिसम्पद्यते ।

16,3.39

श्रीर्विराडन्न अद्यम् ।

16,3.40

श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

16,3.41
खण्डिका 4

चत्वारि सूक्तानि वैश्वदेवे शंसति ।

16,4.1

पशवो वै वैश्वदेवम् ।

16,4.2

चतुष्टया वै पशवः ।

16,4.3

अथो चतुष्पादाः पशूनामेव आप्त्यै ।

16,4.4

तस्मादेनदारतम्शंसेत् ।

16,4.5

रमन्ते ह अस्मिन्पशवः ।

16,4.6

षोडश आहावम्वैश्वदेवम्शंसति ।

16,4.7

षोडश कलम्वा इदम्सर्वम् ।

16,4.8

अस्य एव सर्वस्य आप्त्यै ।

16,4.9

तत्सप्तदशविधम्भवति ।

16,4.10

एकादश देवताश्चतस्रो निविद उक्थ वीर्यम्याज्या इति ।

16,4.11

सप्तदशो वै प्रजापतिः ।

16,4.12

एतद्वा आर्ध्नुकम्कर्म यत्प्रजापति सम्मितम् ।

16,4.13

विश्वे देवाः शृणुत इमम्हवम्म इत्युक्थम्शस्त्वा यजति वैश्वदेव्या ।

16,4.14

वैश्वदेवम्ह्येतदुक्थम् ।

16,4.15

त्रिष्टुभा बलम्वै वीर्यम्त्रिष्टुप् ।

16,4.16

बलमेव तद्वीर्यम्यजमाने दधाति ।

16,4.17

मद्वत्या मद्वद्द्हि तृतीय सवनम् ।

16,4.18

अनुवषट्करोत्याहुतीनामेव शान्त्यै ।

16,4.19

आहुतीनाम्प्रतिष्ठित्यै ।

16,4.20

वागेव असौ प्रथमा अनुष्टुप् ।

16,4.21

ताम्पञ्च गायत्र्यो अनुवर्तन्ते ।

16,4.22

मनः सावित्रम् ।

16,4.23

प्राणो वायव्या ।

16,4.24

चक्षुषी द्यावा पृथिवीयम् ।

16,4.25

यो अयमनिरुक्तः प्राणः स सुरूप कृत्नुः ।

16,4.26

श्रोत्रमार्भवम् ।

16,4.27

प्राणो अपानो व्यान इति तिस्र एक पातिन्यः ।

16,4.28

आत्मा सूक्तम्यदन्तरात्मंस्तन्निवित् ।

16,4.29

प्रतिष्ठा परिधानीय अन्नम्याज्या ।

16,4.30
खण्डिका 5

तदाहुः कस्माद्ब्रह्म क्षत्रे एव प्रच्यावुके विडच्युत इति ।

16,5.1

ब्रह्म वै प्रातः सवनम् ।

16,5.2

क्षत्रम्माध्यंदिनम्सवनम् ।

16,5.3

विट्तृतीय सवनम् ।

16,5.4

तद्यद्यथा उपपादमेव प्रातः सवन मध्यंदिनयोः परिदधति ।

16,5.5

तस्माद्ब्राह्मण्यः प्रजा अनवधृतम्क्षियन्ति ।

16,5.6

अनवधृतम्क्षत्रियाः ।

16,5.7

अथ यत्तृतीयस्य सवनस्य परिधानीया अच्युता ।

16,5.8

तस्माद्विडच्युता इति ।

16,5.9

घृतस्य यज सौम्यस्य यज इत्याह ।

16,5.10

एताभ्याम्वै यज्ञस्तायते यद्घृतेन च सोमेन च ।

16,5.11

ते अत्र प्रीणाति ।

16,5.12

प्रीते यज्ञम्वहात इति ।

16,5.13

उपांशु घृतस्य यजति ।

16,5.14

रेतः सिक्तिर्वै घृतम् ।

16,5.15

उपांशु वै रेतः सिच्यते ।

16,5.16

अथ यदुच्चैः सौम्यस्य यजति ।

16,5.17

चन्द्रमा वै सोमः ।

16,5.18

निरुक्त उ वै चन्द्रमाः ।

16,5.19

तस्य न परस्तात्परियजेदित्याहुः ।

16,5.20

तथा अमी अमुत इदमर्वाञ्चः पश्यन्ति इति ।

16,5.21

परियजेदिति त्वेव स्थितम् ।

16,5.22

देव लोको वा आज्यम् ।

16,5.23

पितृ लोकः सोमः ।

16,5.24

देव लोकमेव तत्पितृ लोकादभ्युत्क्रामन्ति ।

16,5.25

अथो पितॄनेव तत्प्रीणन्ति यत्सौम्येन चरन्ति ।

16,5.26

अथो एतदुपसद उत्सृज्यन्त इत्याहुः ।

16,5.27

अग्निम्सोमम्विष्णुमिति वा उपसत्सु प्रतियजति ।

16,5.28

अग्निम्सोमम्विष्णुमिति इदम् ।

16,5.29

हरन्त्येतम्सौम्यम्सदः ।

16,5.30

तम्होता प्रतिगृह्य उपनिधत्ते ।

16,5.31

अथ अस्य सर्पिष्यात्मानम्पर्यवेक्ष्य अङ्गुलिभ्याम्सर्पिरुपस्पृशति ।

16,5.32

चक्षुष्पा असि चक्षुर्मे पाहि इति चक्षुषी विमृजीत ।

16,5.33

चक्षुरेव अस्य तद्गोपायति ।

16,5.34

तदुद्गातृभ्यः प्रयच्छति ।

16,5.35
खण्डिका 6

अथ पत्नीवत ग्रहेन चरन्ति ।

16,6.1

पत्नीरेव तदाहवनीय भाजः कुर्वन्ति ।

16,6.2

तस्य न अनुवषट्करोति ।

16,6.3

आज्य संसृष्टो हि भवति ।

16,6.4

अननुवषट्कार भागाज्यम् ।

16,6.5

उपांशु यजति ।

16,6.6

रेतः सिक्तिर्वै पत्नीवत ग्रह उपांशु वै रेतः सिच्यते ।

16,6.7

न अनुवषट्करोति ।

16,6.8

रेतः सिक्तिर्वै पत्नीवत ग्रहः संस्था अन्वषट्कारः ।

16,6.9

न इद्रेतः सिक्तम्पुरा कालात्संस्था अपयानि इति ।

16,6.10

तदाहुर्यदेषा नेष्टुर्याज्या अथ कस्मादेनया अग्नीध्रो यजति इति ।

16,6.11

आग्नेयी वा एषा याज्या ।

16,6.12

आग्नेय आग्नीध्रः ।

16,6.13

तस्मादेनया अग्नीध्रो यजति ।

16,6.14

अथो एवम्समा अनुक्थानाम्वषट्कारा भवन्ति इति ।

16,6.15
खण्डिका 7

एकविंशत्याहावमाग्मिमारुतम्शंसति ।

16,7.1

एकविंशो वै स्तोमः स्तोमानाम्परमः प्रतिष्ठानीयः ।

16,7.2

प्रतिष्ठित्या एव ।

16,7.3

तच्चतुर्विंशतिविधम्भवति ।

16,7.4

विंशतिः पर्वाणि ।

16,7.5

तानि चतुश्चत्वारिंशति ।

16,7.6

चतुश्चत्वारिंशदक्षरा त्रिष्टुप् ।

16,7.7

बलम्वै वीर्यम्त्रिष्टुप् ।

16,7.8

बलमेव तद्वीर्यम्यजमाने दधाति ।

16,7.9

वैश्वानरीयम्शंसति ।

16,7.10

वैश्वानरीयो हि ग्रहो गृहीतो भवति ।

16,7.11

तमेव एतेन अनुशंसति ।

16,7.12

रौद्रीम्शंसति ।

16,7.13

घोरो वै रुद्रः ।

16,7.14

भैषज्यमेव तत्कुरुते ।

16,7.15

अथो अन्त भाग्वा वा एषः ।

16,7.16

तस्मादेनामन्त्ये शस्त्रे शंसति ।

16,7.17

मारुतम्शंसति ।

16,7.18

एतत्पूरो वै रुद्रः ।

16,7.19

तदेनम्स्वेन पूगेन समर्धयति ।

16,7.20

अथ यज्ञायज्ञियस्य स्तोत्रिया अनुरूपौ ।

16,7.23

जातवेदसीयम्शंसति ।

16,7.24

तेन अग्निमारुतमित्याख्यायते ।

16,7.25

तस्मादेनदभ्यग्रम्शंसेत् ।

16,7.26

यथा अग्निम्प्रदाव्यमतिमोक्ष्यमाण एवम् ।

16,7.27
खण्डिका 8

आपो देवत्याः शंसति ।

16,8.1

शान्तिर्वै भेषजमापः ।

16,8.2

शान्तिरेव एषा भेषजमन्ततो यज्ञे क्रियते ।

16,8.3

तस्मादेना आरतम्शंसेत् ।

16,8.4

यथा अप्सु न्युन्दानेवम् ।

16,8.5

अहिम्बुध्न्यम्शंसति ।

16,8.6

अग्निर्वा अहिर्बुध्न्यः ।

16,8.7

तमेतया उज्ज्वलयति ।

16,8.8

अथो धिष्ण्यानेव एतया अनुशंसति ।

16,8.9

देवानाम्च पत्नी राकाम्च शंसति ।

16,8.10

पत्नीवत ग्रहमेव एताभिरनुशंसति ।

16,8.11

अथो अन्त भाजो वै पत्न्यः ।

16,8.12

तस्मादेना अन्त्ये शस्त्रे शंसति ।

16,8.13

अक्षर पङ्क्तयः शंसति ।

16,8.14

पशवो वा अक्षर पङ्क्तयः ।

16,8.15

पशूनामेव आप्त्यै ।

16,8.16

अथो प्राण अपानौ वा अक्षर पङ्क्तयः ।

16,8.17

प्राण अपानावेव तदात्मन्धत्ते ।

16,8.18

अथो शस्त्रस्य एव स इन्द्रतायै ।

16,8.19

पैत्रीश्च यामीश्च शंसति ।

16,8.20

नाराशंसानेव एताभिरनुशंसति ।

16,8.21

अथो अन्त भाजो वै पितरः ।

16,8.22

तस्मादेनानन्त्ये शस्त्रे शंसति ।

16,8.23

स्वादुष्किलीयाः शंसति ।

16,8.24

सोममेव एताभिरिन्द्राय स्वदयति ।

16,8.25

अथो देव लोको वा इन्द्रः ।

16,8.26

पितृ लोको यमः ।

16,8.27

देव लोकमेव तत्पितृ लोकादभ्युत्क्रामन्ति ।

16,8.28

तास्वध्वर्युर्मद्वत्प्रत्यागृणाति ।

16,8.29

मद्वद्द्हि तृतीय सवनम् ।

16,8.30

वैष्णुवारुणीम्शंसति ।

16,8.31

यज्ञो वै वैष्णुवारुणः ।

16,8.32

यद्वै यज्ञस्य स्खलितम्वा उल्बणम्वा भवति ।

16,8.33

तदेतया भिषज्यति ।

16,8.34

भैषज्यमेव एषा ।

16,8.35

वैष्णवीम्च आग्नेयीम्च शंसति ।

16,8.36

अग्नाविष्णू वै देवानामन्त भाजौ ।

16,8.37

तस्मादेनावन्त्ये शस्त्रे शंसति ।

16,8.38

ऐन्द्र्या परिदधाति ।

16,8.39

इन्द्रस्य ह्येषः ।

16,8.40

तमिन्द्र एव अन्ततः प्रतिष्ठापयति ।

16,8.41
खण्डिका 9

किम्देवत्यः सोम इति मधुको गौश्रवम्पप्रच्छ ।

16,9.1

स ह सोमः पवत इत्यनुद्रुत्य ।

16,9.2

एतस्य वा अन्ये स्युरिति प्र्त्युवाच ।

16,9.3

बह्वृचवदेव ।

16,9.4

ऐन्द्र इति त्वेव पैङ्ग्यस्य स्थितिरास ।

16,9.5

ऐन्द्राग्न इति कौषीतकेः ।

16,9.6

अग्निना वै प्रतिपद्यते यदाज्येन ।

16,9.7

इन्द्रमनु संतिष्ठत एताम्परिधानीयाम् ।

16,9.8

तस्मादैन्द्राग्न इति ।

16,9.9

एष वा अग्निष्टोमः ।

16,9.10

एष वा उ कामाय कामाय आह्रियते ।

16,9.11

यो ह वा एतेन अनिष्ट्वा अथ अन्येन यजते ।

16,9.12

कर्तपत्यमेव तज्जीयते प्र वा मीयत इति ह स्म आह ।

16,9.13

स वा एषो अग्निष्टोम आज्य प्रभृत्या अग्नि मारुत अन्तः ।

16,9.14

यत्शस्यंस्त्रीणि षष्टि शतान्यृचाम्सम्पद्यन्ते ।

16,9.15

त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् ।

16,9.16

तत्संवत्सरस्य अहान्याप्नोति ।

16,9.17

अग्ने मरुद्भिः शुभयद्भिरृक्वभिरित्युक्थम्शस्त्वा यजत्याग्निमारुत्या ।

16,9.18

आग्मिमारुतम्ह्येतदुक्थम् ।

16,9.19

जगत्या जागतम्हि तृतीय सवनम् ।

16,9.20

मद्वत्या मद्वद्द्हि तृतीय सवनम् ।

16,9.21

अनुवषट्करोत्याहुतीनामेव शान्त्यै ।

16,9.22

आहुतीनाम्प्रतिष्ठित्यै ।

16,9.23
खण्डिका 10

ऐन्द्राग्नान्युक्थ्य उक्थानि भवन्ति ।

16,10.1

इन्द्राग्नी वै सर्वे देवाः ।

16,10.2

वैश्वदेवम्तृतीय सवनम् ।

16,10.3

सर्वेषामेव देवानाम्प्रीत्यै ।

16,10.4

आग्नेयीषु मैत्रावरुणाय प्रणयन्त्यैन्द्रीष्वितरयोः ।

16,10.5

तेन तान्यैन्द्राग्नानि भवन्ति ।

16,10.6

चत्वारि चत्वारि सूक्तानि शंसन्ति ।

16,10.7

पशवो वा उक्थानि ।

16,10.8

चतुष्टया वै पशवः ।

16,10.9

अथो चतुष्पादाः पशूनामेव आप्त्यै ।

16,10.10

तानि द्वादश सम्पद्यन्ते ।

16,10.11

द्वादश वै मासाः संवत्सरः ।

16,10.12

संवत्सरस्य एव आप्त्यै ।

16,10.13

चतुराहावानि शस्त्राणि ।

16,10.14

पशवो वा उक्थानि ।

16,10.15

चतुष्टया वै पशवः ।

16,10.16

अथो चतुष्पादाः पशूनामेव आप्त्यै ।

16,10.17

द्विदेवत्या उक्थ याज्याः ।

16,10.18

द्विपाद्यजमानः ।

16,10.19

प्रतिष्ठित्यै ।

16,10.20

तानि चत्वारि सम्पद्यन्ते ।

16,10.21

पशवो वा उक्थानि ।

16,10.22

चतुष्टया वै पशवः ।

16,10.23

अथो चतुष्पादाः पशूनामेव अपाप्त्यै ।

16,10.24

ऐन्द्रावरुणी मैत्रावरुणस्य ।

16,10.25

ऐन्द्रावरुणम्ह्यस्य उक्थम्भवति ।

16,10.26

ऐन्द्राबार्हस्पत्या ब्राह्मण आच्छंसिनः ।

16,10.27

ऐन्द्रावैष्णवम्ह्यस्य उक्थम्भवति ।

16,10.30

प्रथम उत्तमे मद्वत्यौ ।

16,10.31

मद्वद्द्हि तृतीय सवनम् ।

16,10.32

ता वै त्रिष्टुभो भवन्ति ।

16,10.33

बलम्वै वीर्यम्त्रिष्टुप् ।

16,10.34

बलमेव तद्वीर्यम्यजमाने दधति ।

16,10.35

अनुवषट्कुर्वन्त्याहुतीनामेव शान्त्यै ।

16,10.36

आहुतीनाम्प्रतिष्ठित्या आहुतीनाम्प्रतिष्ठित्यै ।

16,10.37