मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ७

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 7

धर्माचारवर्णनम्

व्यास उवाच

संप्राप्य धर्मवाप्यां च यः कुर्यात्पितृतर्पणम् ॥

तृप्तिं प्रयांति पितरो यावदिंद्राश्चतुर्दश

॥१॥

पितरश्चात्र पूज्याश्च स्वर्गता ये च पूर्वजाः ॥

पिंडांश्च निर्वपेत्तेषां प्राप्येमां मुक्तिदायिकाम्

॥२॥

त्रेतायां पंच दिवसैर्द्वापरे त्रिदिनेन तु ॥

एकचित्तेन यो विप्राः पिंडं दद्यात्कलौ युगे

॥३॥

लोलुपा मानवा लोके संप्राप्ते तु कलौ युगे ॥

परदाररता लोकाः स्त्रियोऽतिचपलाः पुनः

॥४॥

परद्रोहरताः सर्वे नरनारीनपुंसकाः ॥

परनिन्दापरा नित्यं परच्छिद्रोपदर्शकाः

॥५॥

परोद्वेगकरा नूनं कलहा मित्रभेदिनः ॥

सर्वे ते शुद्धतां यांति काजेशाः स्वयमब्रुवन्

॥६॥

एतदुक्तं महाभाग धर्मारण्यस्य वर्णनम् ॥

फलं चैवात्र सर्वं हि यदुक्तं शूलपाणिना

॥७॥

वाङ्मनः कायशुद्धाश्च परदारपराङ्मुखाः ॥

अद्रोहाश्च समाः क्रुद्धा मातापितृपरायणाः

॥८॥

अलौल्या लोभरहिता दानधर्मपरायणाः ॥

आस्तिकाश्चैव धर्मज्ञाः स्वामिभक्तिरताश्च ये

॥९॥

पतिव्रता तु या नारी पतिशुश्रूषणे रता ॥

अहिंसका आतिथेयाः स्वधर्मनिरताः सदा

॥१०॥

शौनक उवाच

शृणु सूत महाभाग सर्वधर्मविदांवर ॥

गृहस्थानां सदाचारः श्रुतश्च त्वन्मुखान्मया

॥११॥

एकं मनेप्सितं मेद्य तत्कथयस्व सूतज ॥

पतिव्रतानां सर्वासां लक्षणं कीदृशं वद

॥१२॥

सूत उवाच

पतिव्रता गृहे यस्य सफलं तस्य जीवनम् ॥

यस्यांगच्छायया तुल्या यत्कथा पुण्यकारिणी

॥१३॥

पतिव्रतास्त्वरुंधत्या सावित्र्याप्यनसूयया ॥

शांडिल्या चैव सत्या च लक्ष्म्या च शतरूपया

॥१४॥

मेनया च सुनीत्या च संज्ञया स्वाहया समाः ॥

पतिव्रतानां धर्मा हि मुनिना च प्रकीर्तिताः

॥१५॥

भुंक्ते भुक्ते स्वामिनि च तिष्ठ ति त्वनुतिष्ठति ॥

विनिद्रिते या निद्राति प्रथमं परिबुध्यति

॥१६॥

अनलंकृतमात्मानं देशांते भर्तरि स्थिते ॥

कार्यार्थं प्रोषिते क्वापि सर्व्वमंड नवर्जिता

॥१७॥

भर्तुर्नाम न गृह्णाति ह्यायुषोऽस्य हि वृद्धये ॥

पुरुषांतरनामापि न गृह्णति कदाचन

॥१८॥

आकृष्टापि च नाक्रोशेत्ताडितापि प्रसीदति ॥

इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च

॥१९॥

आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ॥

किमर्थं व्याहृता नाथ स प्रसादो विधीयताम्

॥२०॥

न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ॥

अदातव्यं स्वयं किंचित्कर्हिचिन्न ददात्यपि

॥२१॥

पूजोपकरणं सर्वम नुक्ता साधयेत्स्वयम् ॥

नियमोदकबर्हींषि यत्र पुष्पाक्षतादिकम्

॥२२॥

प्रतीक्षमाणा च वरं यथाकालोचितं हि यत् ॥

तदुपस्थापयेत्सर्वमनुद्वि ग्नातिहृष्टवत्

॥२३॥

सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् ॥

दूरतो वर्ज्जयेदेषा समाजोत्सवदर्शनम्

॥२४॥

न गच्छेत्तीर्थयात्रादिविवाहप्रेक्षणा दिषु ॥

सुखसुप्तं सुखासीनं रममाणं यदृच्छया

॥२५॥

अंतरायेऽपि कार्येषु पतिं नोत्थापयेत्क्वचित् ॥

स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्शयेत्

॥२६॥

स्ववाक्यं श्रावयेन्नापि यावत्स्नात्वा न शुध्यति ॥

सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ॥

अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत्

॥२७॥

हरिद्रां कुकुमं चैव सिंदूरं कज्जलं तथा ॥

कूर्पासकं च तांबूलं मांगल्याभरणं शुभम्

॥२८॥

केशसंस्कारकं चैव करकर्णादिभूषणम् ॥

भर्तुरायुष्यमिच्छंती दूरयेन्न पतिव्रता

॥२९॥

भर्तृविद्वेषिणीं नारीं नैषा संभाषते क्वचित् ॥

नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित्

॥३०॥

नोलूखले न मुशले न वर्द्धन्यां दृषद्यपि ॥

न यंत्रके न देहल्यां सती चोपविशेत्क्वचित्

॥३१॥

विना व्यवायसमयात्प्रागल्भ्यं न क्वचिच्चरेत ॥

यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती सदा

॥३२॥

इदमेव व्रतं स्त्रीणामयमेव परो वृषः ॥

इयमेव च पूजा च भर्तुर्वाक्यं न लंघयेत्

॥३३॥

क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमेव वा ॥

सुस्थिरं दुःस्थिरं वापि पतिमेकं न लंघयेत्

॥३४॥

सर्पिर्लव(?)णहिंग्वादिक्षयेऽपि व पति व्रता ॥

पतिं नास्तीति न ब्रूयादायसीषु न भोजयेत्

॥३५॥

तीर्थस्नानार्थिनी चैव पतिपादोदकं पिबेत् ॥

शंकरादपि वा विष्णोः पतिरेवाधि कः स्त्रियः

॥३६॥

व्रतोपवामनियमं पतिमुल्लंघ्य या चरेत् ॥

आयुष्यं हरते भर्तुर्मृता निरयमृच्छति

॥३७॥

उक्ता प्रत्युत्तरं दद्यान्नारी या क्रोधत त्परा ॥

सरमा जायते ग्रामे शृगाली निर्जने वने

॥३८॥

स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ॥

अभ्यर्च्य चरणौ भतुर्भो क्तव्यं कृतनिश्चया

॥३९॥

उच्चासनं न सेवेत न व्रजेत्परवेश्मसु ॥

तत्र पारुष्यवाक्यानि ब्रूयान्नैव कदाचन

॥४०॥

गुरूणां सन्निधौ वापि नोच्चैर्ब्रु यान्नवाहयेत्

॥४१॥

या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ॥

उलूकी जायते क्रूरा वृक्षकोटरशायिनी

॥४२॥

ताडिता ताडयेच्चेत्तं सा व्याघ्री वृषदंशिका ॥

कटाक्षयति याऽन्यं वै केकराक्षी तु सा भवेत्

॥४३॥

या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् ॥

ग्रामे सा सूकरी भूयाद्वल्गुली वाथ विङ्भुजा

॥४४॥

हुन्त्वंकृत्याप्रियं ब्रूते मूका सा जायते खलु ॥

या सपत्नीं सदैर्ष्येत दुर्भगा सा पुनःपुनः ॥

दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते

॥४५॥

काणा च विमुखा वापि कुरूपापि च जायते ॥

बाह्यादायांतमालोक्य त्वरिता च जलासनैः ॥

तांबूलैर्व्यजनैश्चैव पादसंवाहनादिभिः

॥४६॥

तथैव चारुवचनैः स्वेदसंनोदनैः परैः ॥

या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया ॥

मितं ददाति हि पिता मितं भ्राता सुतं सुतः

॥४७॥

अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥

भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ॥

तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत्

॥४८॥

जीवहीनो यथा देही क्षणादशुचितां व्रजेत् ॥

भर्तृहीना तथा योषित्सुस्नाताप्य शुचिः सदा

॥४९॥

अमंगलेभ्यः सर्वेभ्यो विधवा स्यादमंगला ॥

विधवादर्शनात्सिद्धिः क्वापि जातु न जायते

॥५०॥

विहाय मातरं चैकां सर्वा मंगलवर्जिताः ॥

तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम्

॥५१॥

कन्याविवाहसमये वाचयेयुरिति द्विजाः ॥

भर्तुः सहचरी भूयाज्जीवतो ऽजीवतोपि वा

॥५२॥

अनुव्रजन्ती भर्तारं गृहात्पितृवनं मुदा ॥

पदेपदेश्वमेधस्य फलं प्राप्नोत्यसंशयम्

॥५३॥

व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ॥

एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं व्रजेत्सती

॥५४॥

यमदूताः पलायंते तामालोक्य पतिव्रताम् ॥

तपनस्तप्यते नूनं दहनोपि च दह्यते

॥५५॥

कंपंते सर्वतेजांसि दृष्ट्वा पातिव्रतं महः ॥

यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि च

॥५६॥

भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता ॥

धन्या सा जननी लोके धन्योऽसौ जनकः पुनः

॥५७॥

धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता ॥

पितृवंश्या मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ॥

पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुंजते

॥५८॥

शीलभंगेन दुर्वृत्ताः पातयंति कुलत्रयम् ॥

पितुर्मातुस्तथा पत्युरिहारमुत्र च दुःखिताः

॥५९॥

पतिव्रतायाश्चरणो यत्रयत्र स्पृशेद्भुवम् ॥

सा तीर्थभूमिर्म्मान्येति नात्र भारोऽस्ति पावनः

॥६०॥

बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ॥

सोमो गन्धर्व एवापि स्वपावित्र्याय नान्यथा

॥६१॥

आपः पतिव्रतास्पर्शमभिलष्यंति सर्वदा ॥

गायत्र्याघविनाशो नो पातिव्रत्येन साऽघनुत्

॥६२॥

गृहेगृहे न किं नार्य्यो रूपलावण्यगर्विताः ॥

परं विश्वेशभक्त्यैव लभ्यते स्त्री पति व्रता

॥६३॥

भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ॥

भार्या धर्मफलायैव भार्या संतानवृद्धये

॥६४॥

परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ॥

देवपित्रतिथीनां च तृप्तिः स्याद्भार्यया गृहे ॥

गृहस्थः स तु विज्ञेयो गृहे यस्य पतिव्रता

॥६५॥

यथा गंगावगाहेन शरीरं पावनं भवेत् ॥

तथा पतिव्रतां दृष्ट्वा सदनं पावनं भवेत्

॥६६॥

पर्यंकशायिनी नारी विधवा पातयेत्पतिम् ॥

तस्माद्भूशयनं कार्य्यं पतिसौख्यसमीहया

॥६७॥

नैवांगोद्वर्त्तनं कार्य्यं स्त्रिया विधवया क्वचित् ॥

गन्धद्रव्यस्य संभोगो नैव कार्य्यस्तया क्वचित्

॥६८॥

तर्प्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ॥

तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम्

॥६९॥

विष्णोः संपूजनं कार्यं पतिबुद्ध्या न चान्यथा ॥

पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम्

॥७०॥

यद्यदिष्टतमं लोके यद्यत्पत्युः समीहितम् ॥

तत्तद्गुणवते देयं पतिप्रीणनकाम्यया

॥७१॥

वैशाखे कार्त्तिके मासे विशेषनियमांश्चरेत् ॥

स्नानं दानं तीर्थयात्रां पुराणश्रवणं मुहुः

॥७२॥

वैशाखे जलकुम्भाश्च कार्त्तिके घृतदीपिकाः ॥

माघे धान्यतिलोत्सर्गः स्वर्गलोके विशिष्यते

॥७३॥

प्रपा कार्या च वैशाखे देवे देया गलंतिका ॥

उशीरं व्यजनं छत्रं सूक्ष्मवासांसि चंदनम्

॥७४॥

सकर्पूरं च तांबूलं पुष्पदानं तथैव च ॥

जलपात्राण्यनेकानि तथा पुष्पगृहाणि च

॥७५॥

पानानि च विचित्राणि द्राक्षारंभाफलानि च ॥

देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति

॥७६॥

ऊर्ज्जे यवान्नमश्नीयादेकान्नमथवा पुनः ॥

वृन्ताकं सूरणं चैव शूकशिंबीं च वर्जयेत्

॥७७॥

कार्त्तिके वर्जयेत्तैलं कांस्यं चापि विवर्जयेत् ॥

कार्त्तिके मौननियमे चारुघण्टां प्रदापयेत्

॥७८॥

पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति ॥

भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका ॥

फलत्यागे फलं देयं रसत्यागे च तद्रसः ॥

धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः ॥

धेनुं दद्यात्प्रयत्ने न सालंकारा सकांचनाम् ॥

एकतः सर्वदानानि दीपदानं तथैकतः ॥

कार्त्तिके दीपदानस्य कलां नार्हंति षोडशीम्

॥५१॥

इत्यादिविधवानां च नियमाः संप्रकीर्तिताः ॥

तेषां फलमिदं राजन्नान्येषां च कदाचन

॥८२॥

धर्मवापीं समासाद्य दानं दद्याद्विचक्षणः ॥

कोटिधा वर्द्धते नित्यं ब्रह्मणो वचनं यथा

॥८३॥

तिलधेनुं च यो दयाद्धर्मेश्वरपुरः स्थितः ॥

तिलसंख्यानि वर्षाणि स्वर्गे लोके महीयते

॥६४॥

धर्मक्षेत्रे तु संप्राप्य श्राद्धं कुर्यादतंद्रितः ॥

तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो धुवम्

॥८५॥

ये चान्ये पूर्वजाः स्वर्गे ये चान्ये नरकौकसः ॥

ये च तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः

॥८६॥

तान्सर्वान्धर्मकूपे वै श्राद्धं कुर्याद्यथाविधि ॥

अत्र प्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥

तेन ते तृप्तिमायांति ये पिशाचत्वमागताः

॥८७॥

येषां तु स्नानवस्त्रोत्थं भूमौ पतति पुत्रक ॥

तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते

॥८८॥

या वै यवानां कणिकाः पतंति धरणीतले ॥

ताभिराप्यायनं तेषां ये तु देवत्वमागताः

॥८९॥

उद्धृतेष्यथ पिंडेषु यावान्नकणिका भुवि ॥

ताभिराप्यायनं तेषां ये च पातालमागताः

॥९०॥

ये वा वर्णाश्रमाचारक्रियालोपा ह्यसंस्कृताः ॥

विपन्नास्ते भवंत्यत्र संमार्जनजलाशिनः

॥९१॥

भुक्त्वा वाचमनं यच्च जलं पतति भूतले ॥

ब्राह्मणानां तथैवान्ये तेन तृप्तिं प्रयांति वै

॥९२॥

एवं यो यजमानश्च यच्च तेषां द्विजन्मनाम् ॥

क्वचिज्जलान्नविक्षेपः शुचिरस्पृष्ट एव च

॥९३॥

ये चान्ये नरके जातास्तत्र योन्यंतरं गताः ॥

प्रयांत्याप्यायनं वत्स सम्यक्छ्राद्धक्रियावताम्

॥९४॥

अन्यायोपार्जितैर्द्रव्यैः श्राद्धं यत्क्रियते नरैः ॥

तृप्यंति तेन चण्डालपुल्कसादिषु योनिषु

॥९५॥

एवमाप्यायिता वत्स तेन चानेक बांधवाः ॥

श्राद्धं कर्तुमशक्तिश्चेच्छाकैरपि हि जायते

॥९६॥

तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि ॥

कुरुते कुर्वतः श्राद्धं कुलं क्वचिन्न सीदति

॥९७॥

पापं यदि कृतं सर्वं पापं च वर्द्धते ध्रुवम् ॥

कुर्वाणो नरके घोरे पच्यते नात्र संशयः

॥९८॥

यथा पुण्यं तथा पापं कृतं कर्म शुभाशुभम् ॥

तत्सर्वं वर्द्धते नूनं धर्मारण्ये नृपोत्तम

॥९९॥

कामिकं कामदं देवं योगिनां मुक्तिदायकम् ॥

सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं तु सर्वदा

॥१००॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्माण्यक्षेत्रमाहात्म्ये धर्माचारवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥