हनुमत्समागमः
नारद उवाच
अतः परं किमभवत्तन्मे कथय सुव्रत ॥
पूर्वं च तदशेषेण शंस मे वदताम्बर
॥१॥स्थिरीभूतं च तत्स्थानं कियत्कालं वदस्व मे ॥
केन वै रक्ष्यमाणं च कस्याज्ञा वर्तते प्रभो
॥२॥ब्रह्मोवाच
त्रेतातो द्वापरांतं च यावत्कलिसमागमः ॥
तावत्संरक्षणे चैको हनूमान्पवनात्मजः
॥३॥समर्थो नान्यथा कोपि विना हनुमता सुत ॥
लंका विध्वंसिता येन राक्षसाः प्रबला हताः
॥४॥स एव रक्षते तत्र रामादेशेन पुत्रक ॥
द्विजस्याज्ञा प्रवर्तेत श्रीमातायास्तथैव च
॥५॥दिनेदिने प्रहर्षोभूज्जनानां तत्र वासिनाः ॥
पठंति स्म द्विजास्तत्र ऋग्युजुःसामलक्षणान्
॥६॥अथर्वणमपि तत्र पठंति स्म दिवानिशम् ॥
वेदनिर्घोषजः शब्दस्त्रैलोक्ये सचराचरे
॥७॥उत्सवास्तत्र जायंते ग्रामेग्रामे पुरेपुरे ॥
नाना यज्ञाः प्रवर्तंते नानाधर्मसमाश्रिताः
॥८॥युधिष्ठिर उवाच
कदापि तस्य स्थानस्य भंगो जातोथ वा न वा ॥
दैत्यैर्जितं कदा स्थानमथवा दुष्टराक्षसैः
॥९॥व्यास उवाच
साधु पृष्टं त्वया राजन्धर्मज्ञस्त्वं सदा शुचिः ॥
आदौ कलियुगे प्राप्ते यद्दत्तं तच्छृणुष्व भोः
॥१०॥लोकानां च हितार्थाय कामाय च सुखाय च ॥
यज्ञं च कथयिष्यामि तत्सर्वं शृणु भूपते
॥११॥इदानीं च कलौ प्राप्त आमो नामा वभूव ह ॥
कान्यकुब्जाधिपः श्रीमान्धर्मज्ञो नीतितत्परः
॥१२॥शांतो दांतः सुशीलश्च सत्यधर्मपरायणः ॥
द्वापरांते नृपश्रेष्ठ अनागमे() कलौ युगे
॥१३॥भयात्कलिविशेषेण अधर्मस्य भयादिभिः ॥
सर्वे देवाः क्षितिं त्यक्त्वा नैमिषारण्यमाश्रिताः
॥१४॥रामोपि सेतुबंधं हि ससहायो गतो नृप
॥१५॥युधिष्ठिर उवाच
कीदृशं हि कलौ प्राप्ते भयं लोके सुदुस्तरम् ॥
यस्मिन्सुरैः परित्यक्ता रत्नगर्भा वसुन्धरा
॥१६॥व्यास उवाच
शृणुष्व कलिधर्मास्त्वं भविष्यंति यथा नृप ॥
असत्यवादिनो लोकाः साधुनिन्दापरायणाः
॥१७॥दस्युकर्मरताः सर्वे पितृभक्तिविवर्जिताः ॥
स्वगोत्रदाराभिरता लौल्यध्यानपरायणाः
॥१८॥ब्रह्मविद्वेषिणः सर्वे परस्परविरोधिनः ॥
शरणागतहंतारो भविष्यंति कलौ युगे
॥१९॥वैश्याचाररता विप्रा वेदभ्रष्टाश्च मानिनः ॥
भविष्यंति कलौ प्राप्ते संध्यालोपकरा द्विजाः
॥२०॥शांतौ शूरा भये दीनाः श्राद्धतर्पणवर्जिताः ॥
असुराचारनिरता विष्णुभक्तिविवर्जिताः
॥२१॥परवित्ताभिलाषाश्च उत्कोच ग्रहणे रताः ॥
अस्नातभोजिनो विप्राः क्षत्रिया रणवर्जिताः
॥२२॥भविष्यंति कलौ प्राप्ते मलिना दुष्टवृत्तयः ॥
मद्यपानरताः सर्वेप्यया ज्यानां हि याजकाः
॥२३॥भर्तृद्वेषकरा रामाः पितृद्वेषकराः सुताः ॥
भ्रातृद्वेषकराः क्षुद्रा भविष्यंति कलौ युगे
॥२४॥गव्यविक्रयिणस्ते वै ब्राह्मणा वित्ततत्पराः ॥
गावो दुग्धं न दुह्यंते संप्राप्ते हि कलौ युगे
॥२५॥फलंते नैव वृक्षाश्च कदाचिदपि भारत ॥
कन्याविक्रय कर्त्तारो गोजाविक्रयकारकाः
॥२६॥विषविक्रयकर्त्तारो रसविक्रयकारकाः ॥
वेदविक्रयकर्त्तारो भविष्यंति कलौ युगे
॥२७॥नारी गर्भं समाधत्ते हायनैकादशेन हि ॥
एकादश्युपवासस्य विरताः सर्वतो जनाः
॥२८॥न तीर्थसेवनरता भविष्यंति च वाडवाः ॥
बह्वाहारा भविष्यंति बहुनिद्रासमाकुलाः
॥२९॥जिह्मवृत्तिपराः सर्वे वेदनिंदापरायणाः ॥
यतिनिंदापराश्चैव च्छद्मकाराः परस्परम्
॥३०॥स्पर्शदोषभयं नैव भविष्यति कलौ युगे ॥
क्षत्रिया राज्यहीनाश्च म्लेच्छो राजा भविष्यति
॥३१॥विश्वासघातिनः सर्वे गुरुद्रोहरतास्तथा ॥
मित्रद्रोहरता राजञ्छिश्नोदरपरायणाः
॥३२॥एकवर्णा भविष्यंति वर्णाश्चत्वार एव च ॥
कलौ प्राप्ते महाराज नान्यथा वचनं मम
॥३३॥एतच्छ्रुत्वा गुरोरेव कान्यकुब्जाधिपो बली ॥
राज्यं प्रकुरुते तत्र आमो नाम्ना हि भूतले
॥३४॥सार्वभौमत्वमापन्नः प्रजापालनतत्परः ॥
प्रजानां कलिना तत्र पापे बुद्धिरजायत
॥३५॥वैष्णवं धर्ममुत्सज्य वौद्धधर्ममुपागताः ॥
प्रजास्तमनुवर्तिन्यः क्षपणैः प्रतिबोधिताः
॥३६॥तस्य राज्ञो महादेवी मामानाम्न्यतिविश्रुता ॥
गर्भं दधार सा राज्ञो सर्वलक्षणसंयुता
॥३७॥संपूर्णे दशमे मासि जाता तस्याः सुरूपिणी ॥
दुहिता समये राज्ञ्याः पूर्णचन्द्रनिभानना
॥३८॥रत्नगंगेति नाम्ना सा मणिमाणिक्यभूषिता ॥
एकदा दैवयोगेन देशांतरादुपागतः
॥३९॥नाम्ना चैवेंद्रसूरिर्वै देशेस्मिन्कान्यकुब्जके ॥
षोडशाब्दा च सा कन्या नोपनीता नृपात्मजा
॥४०॥दास्यांतरेण मिलिता इन्द्रसूरिश्च जीविकः ॥
शाबरीं मंत्रविद्यां च कथयामास भारत
॥४१॥एकचित्ताभवत्सा तु शूलिकर्मविमोहिता ॥
ततः सा मोहमापन्ना तत्तद्वाक्यपरायणा
॥४२॥क्षपणैर्बोधिता वत्स जैनधर्मपरायणा ॥
ब्रह्मावर्ताधिपतये कुंभीपालाय धीमते
॥४३॥रत्नगंगां महादेवीं ददौ तामिति विक्रमी ॥
मोहेरेकं ददौ तस्मै विवाहे दैवमोहितः
॥४४॥धर्मारण्यं समागत्य राजधानी कृता तदा ॥
देवांश्च स्थापयामास जैनधर्मप्रणीतकान्
॥४५॥सर्वे वर्णास्तथाभूता जैन धर्मसमाश्रिताः ॥
ब्राह्मणा नैव पूज्यंते न च शांतिकपौष्टिकम्
॥४६॥न ददाति कदा दानमेवं कालः प्रवर्तते ॥
लब्धशासनका विप्रा लुप्तस्वाम्या अहर्निशम्
॥४७॥समाकुलितचित्तास्ते नृपमामं समाययुः ॥
कान्यकुब्जस्थितं शूरं पाखण्डैः परिवेष्टितम्
॥४८॥कान्यकुब्जपुरं प्राप्य कतिभिर्वासरैर्नृप ॥
गंगोपकण्ठे न्यवसञ्छ्रांतास्ते मोढवाडवाः
॥४९॥चारैश्च कथितास्ते च नृपस्याग्रे समागताः ॥
प्रातराकारिता विप्रा आगता नृपसंसदि
॥५०॥प्रत्युत्थानाभिवादादीन्न चक्रे सादरं नृपः ॥
तिष्ठतो ब्राह्मणान्सर्वान्पर्यपृच्छदसौ ततः
॥५१॥किमर्थमागता विप्राः किंस्वित्कार्यं ब्रुवंतु तत्
॥५२॥विप्रा ऊचुः
धर्मारण्यादिहायातास्त्वत्समीपं नराधिप ॥
राजंस्तव सुतायास्तु भर्ता कुमारपालकः
॥५३॥तेन प्रलुप्तं विप्राणां शासनं महदद्भुतम् ॥
वर्तता जैनधर्मेण प्रेरितेनेंद्रसूरिणा
॥५४॥राजोवाच
केन वै स्थापिता यूयमस्मिन्मोहेरके पुरे ॥
एतद्धि वाडवाः सर्वं ब्रूत वृत्तं यथातथम्
॥५५॥विप्रा ऊचुः
काजेशैः स्थापिताः पूर्वं धर्मराजेन धीमता ॥
कृता चात्र शुभे स्थाने रामेण च ततः पुरी
॥५६॥शासनं रामचंद्रस्य दृष्ट्वाऽन्यैश्चैव राजभिः ॥
पालितं धर्मतो ह्यत्र शासनं नृपसत्तम
॥५७॥इदानीं तव जामाता विप्रान्पालयते न हि ॥
तच्छ्रुत्वा विप्रवाक्यं तु राजा विप्रानथाब्रवीत्
॥५८॥यांतु शीघ्रं हि भो विप्राः कथयंतु ममाज्ञया ॥
राज्ञे कुमारपालाय देहि त्वं ब्राह्मणालयम्
॥५९॥श्रुत्वा वाक्यं ततो विप्राः परं हर्षमुपागताः ॥
जग्मुस्ततोऽतिमुदिता वाक्यं तत्र निवेदितम्
॥६०॥श्वशुरस्य वचः श्रुत्वा राजा वचनमब्रवीत् ॥
कुमारपाल उवाच ॥
रामस्य शासनं विप्राः पालयिष्याम्यहं नहि
॥६१॥त्यजामि ब्राह्मणान्यज्ञे पशुहिंसापरायणान् ॥
तस्माद्धि हिंसकानां तु न मे भक्तिर्भवेद्द्विजाः
॥६२॥ब्राह्मणा ऊचुः
कथं पाखंडधर्मेण लुप्तशासनको भवान् ॥
पालयस्व नृपश्रेष्ठ मा स्म पापे मनः कृथाः
॥६३॥राजोवाच
अहिंसा परमो धर्मो अहिंसा च परं तपः ॥
अहिंसा परमं ज्ञानमहिंसा परमं फलम्
॥६४॥तृणेषु चैव वृक्षेषु पतंगेषु नरेषु च ॥
कीटेषु मत्कुणाद्येषु अजाश्वेषु गजेषु च
॥६५॥लूतासु चैव सर्पेषु महिष्यादिषु वै तथा ॥
जंतवः सदृशा विप्राः सूक्ष्मेषु च महत्सु च
॥६६॥कथं यूयं प्रवर्तध्वे विप्रा हिंसापरायणाः ॥
तच्छ्रुत्वा वज्रतुल्यं हि वचनं च द्विजोत्तमाः
॥६७॥प्रत्यूचुर्वाडवाः सर्वे क्रोधरक्तेक्षणा दृशा
॥६८॥ब्राह्मणा ऊचुः
अहिंसा परमो धर्मः सत्यमेतत्त्वयोदितम् ॥
परं तथापि धर्मोऽस्ति शृणुष्वैकाग्रमानसः
॥६९॥या वेदविहिता हिंसा सा न हिंसेति निर्णयः ॥
शस्त्रेणाहन्यते यच्च पीडा जंतुषु जायते
॥७०॥स एवाधर्म एवास्ति लोके धर्मविदां वर ॥
वेदमंत्रैविहन्यंते विना शस्त्रेण जंतवः
॥७१॥जंतुपीडाकरा नैव सा हिंसा सुखदायिनी ॥
परोपकारः पुण्याय पापाय परपीडनम्
॥७२॥वेदोदितां विधायापि हिंसां पापैर्न लिप्यते ॥
विप्राणां वचनं श्रुत्वा पुनर्वचनमब्रवीत्
॥७३॥राजोवाच
ब्रह्मादीनां परं क्षेत्रं धर्मारण्यमनुत्तमम् ॥
ब्रह्मविष्णु महेशाद्या नेदानीमत्र संति ते
॥७४॥न धर्मो विद्यते वात्र उक्तो रामः स मानुषः ॥
क्व वापि लंबपुछोऽसौ यो मुक्तो रक्षणाय वः
॥७५॥शासनं चेन्न दृष्टं वो नैव तत्पालयाम्यहम् ॥
द्विजाः कोपसमाविष्टा ददुः प्रत्युत्तरं तदा
॥७६॥द्विजा ऊचुः
रे मूढ त्वं कथं वेत्थ भाषसे मदलोलुपः ॥
स दैत्यानां विनाशाय धर्मसंरक्षणाय च
॥७७॥रामश्चतुर्भुजः साक्षान्मानुषत्वं गतो भुवि ॥
अगतीनां च गतिदः स वै धर्मपरायणः ॥
दयालुश्च कृपालुश्च जंतूनां परिपालकः
॥७८॥राजोवाच
कुतोऽद्य वर्त्तते रामः कुतो वै वायुनंदनः ॥
भ्रष्टाभ्रमिव ते सर्वे क्व रामो हनुमानिति
॥७९॥परंतु रामो हनुमान्यदि वर्त्तेत सर्वतः ॥
इदानीं विप्रसाहाय्य आगमिष्यति मे मतिः
॥८०॥दर्शयध्वं हनूमंतं रामं वा लक्ष्मणं तथा ॥
यद्यस्ति प्रत्ययः कश्चित्स नो विप्राः प्रदर्श्यताम्
॥८१॥उक्तं तै रामदेवेन दूतं कृत्वांजनीसुतम् ॥
चतुश्चत्वारिंशदधिकं दत्तं ग्रामशतं नृप
॥६२॥पुनरागत्य स्थानेऽस्मिन्दत्ता ग्रामास्त्रयोदश ॥
काश्यप्यां चैव गंगायां महादानानि षोडश
॥८३॥दत्तानि विप्रमुख्येभ्यो दत्ता ग्रामाः सुशोभनाः ॥
पुनः संकल्पिता वीर षट्पंचाशकसंख्यया
॥८४॥षट्त्रिंशच्च सहस्राणि गोभुजा जज्ञिरे वराः ॥
सपादलक्षा वणिजो दत्ता मांडलिकाभिधाः
॥८५॥तेनोक्तं वाडवाः सर्वे दर्शयध्वं हि मारुतिम् ॥
यस्याभिज्ञानमात्रेण स्थितिं पूर्वां ददाम्यहम्
॥८६॥विप्रवाक्यं करिष्यामि प्रत्ययो दर्श्यते यदि ॥
ततः सर्वे भविष्यंति वेदधर्मपरायणाः
॥८७॥अन्यथा जैनधर्मेण वर्त्तयध्वं हि सर्वशः ॥
नृपवाक्यं तु ते श्रुत्वा स्वेस्वे स्थाने समागताः
॥८८॥वाडवः खिन्नमनसः क्रोधेनांधीकृता भुवि ॥
निश्वासान्मुंचमानास्ते हाहेति प्रवदंति च
॥८९॥दंतान्प्राघर्षयन्सर्वान्न्यपीडंश्च करैः करान् ॥
परस्परं भाषमाणाः कथं कुर्मो वयं त्वितः
॥९०॥मिलित्वा वाडवाः सर्वे चक्रुस्ते मंत्रमुत्तमम् ॥
रामवाक्यं हृदि ध्यात्वा ध्यात्वा चैवांजनीसुतम्
॥९१॥द्विजमेलापकं चक्रुर्बाला वृद्धतमा अपि ॥
तेषां वृद्धतमो विप्रो वाक्यमूचे शुभं तदा
॥९२॥चतुःषष्टिश्च गोत्राणामस्माकं ये द्विसप्ततिः ॥
स्वस्वगोत्रस्यावटंका एकग्रामाभिभाषिणः
॥९३॥प्रयातु स्वस्ववर्गस्य एको ह्येको द्विजः सुधीः ॥
रामेश्वरं सेतु बंधं हनूमांस्तत्र विद्यते
॥९४॥सर्वे प्रयांतु तत्रैव रामपार्श्वे निरामयाः ॥
निराहारा जितक्रोधा मायया वर्जिताः पुनः
॥९५॥एकाग्रमानसाः सर्वे स्तुत्वा ध्यात्वा जपंतु तम् ॥
ततो दाशरथी रामो दयां कृत्वा द्विजन्मसु
॥९६॥शासनं च प्रदास्यति अचलं च युगेयुगे ॥
महता तपसा तुष्टः प्रदास्यति समीहितम्
॥९७॥यस्य वर्गस्य यो विप्रो न प्रयास्यति तत्र वै ॥
स च वर्गात्परित्याज्यः स्थानधर्मान्न संशयः
॥९८॥वणिग्वृत्ते न संबंधे न विवाहे कदाचन ॥
ग्रामवृत्ते न संबंधः सर्वस्थाने बहिष्कृताः
॥९९॥सभावाक्यं च तच्छ्रुत्वा तन्मध्ये वाडवः शुचिः ॥
वाग्मी दक्षः सुशब्दश्च त्रिरवैः श्रावयन्द्विजान्
॥१००॥प्रतिवाक्यं दत्ततालं तिष्ठन्नेतद्वचोऽब्रवीत् ॥
असत्यवादिनां यच्च पातकं परिनिंदके ॥
परदाराभिगमने परद्रोहरते नरे
॥१॥मद्यपेषु च यत्पापं यत्पापं हेमहारिषु ॥
तत्पापं च भवेत्तस्य गमने यः पराङ्मुखः ॥
अथ किं बहुनोक्तेन यांतु सत्यं द्विजोत्तमाः
॥२॥तच्छ्रुत्वा दारुणं वाक्यं गमनाय मनो दधे ॥
गच्छतस्तान्द्विजाञ्छ्रुत्वा राजा कुमारपालकः
॥३॥समाहूय कृषेः कर्म भिक्षाटनमथापि वा ॥
नानागोत्रेभ्यो ब्राह्मणेभ्यः प्रापयिष्ये न संशयः
॥४॥तच्छ्रुत्वा व्यथिताः सर्वे किं भविष्यत्यतः परम् ॥
तथा त्रीणि सहस्राणि प्रबंधं चक्रिरे तदा
॥५॥गमिष्यामो वयं सर्वे रामं प्रति न संशयः ॥
हस्ताक्षरप्रदानं वै अन्योन्यं तु कृतं द्विजैः
॥६॥कृतांजलिपुटा विप्रा वाक्यमेतदथाब्रुवन् ॥
नश्यतेऽत्र त्रयी विद्या त्रयीमूर्तिः प्रकुप्यति
॥७॥तस्मात्तत्रैव गंतव्यमष्टादशसहस्रकैः ॥
ततः स वणिजः सर्वान्समाहूय च गोभुजान्
॥८॥वाक्यमूचे नृपश्रेष्ठो वारयध्वं द्विजानिति
॥९॥व्यास उवाच
न जैनधर्मे ये लिप्ता गोभुजा वणिगुत्तमाः ॥
वृत्तिभंगभयात्तत्र मौनमेव समाचरन्
॥११०॥वारयाम कथं विप्रान्वह्निरूपान्दहंति ते ॥
शापाग्निना नरपते द्विजा मृत्युपरायणाः
॥११॥अडालयेषु ये जाताः शूद्रा आहूय तान्नृपः ॥
निवार्यंतामिति प्राह वाडवा गमनोद्यताः
॥१२॥तेषां मध्ये कतिपया जैनधर्मसमाश्रिताः ॥
गता वाडवपुंजेषु राजादेशान्निवारणे
॥१३॥केचिच्छ्रूद्रा ऊचुः
क्व रामो लक्ष्मणोपेतः क्व च वायुसुतो बली ॥
वर्तमानेन कालेन वक्तव्यं द्विजसत्तमाः
॥१४॥व्याघ्रसिंहाकुले दुर्गे वने वनगजाश्रिते ॥
परित्यज्य प्रियान्प्राणान्पुत्रान्दारान्निकेतनान्
॥१५॥किमर्थं गम्यते विप्रा राज्ये वै दुष्टशासने ॥
तच्छ्रुत्वा वाडवाः केचिद्वाक्येन मनसाऽस्मरन्
॥१६॥पंचदशसहस्रास्ते वाडवा नृपसत्तमात् ॥
भयाल्लोभाच्च दानाच्च तत्सर्वं भवतामिति
॥१७॥वृत्तोपकल्पनेनैव करिष्यामः कदाचन ॥
कृषि कर्म करिष्यामो भिक्षाटनमथापि वा
॥१८॥ततश्च ते पंचदशसहस्रा द्विजसत्तमाः ॥
दारुणं वाक्यमूचुस्तान्यांतु चान्ये यथोचितम्
॥१९॥शासनं भवतामस्तु रामदत्तं न संशयः ॥
त्रयीविद्यास्तु विख्याताः सर्वे वाडवपुंगवाः
॥१२०॥सहस्राणि च त्रीण्येव त्रैविद्या अभवन्ध्रुवम्
॥२१॥राजोवाच
चतुर्धांशेन राज्यं च किंचिद्दत्ता वसुन्धरा ॥
तस्माच्चतुर्विधेत्येवं ज्ञातिबन्धमतः परम्
॥२२॥च्यवनो दास्यते कन्यां यूयं कन्यामवाप्नुत ॥
न वृत्तिर्न च संबंधो भवतां स्यात्कदापि वा
॥२३॥इति तस्य वचः श्रुत्वा त्रयीविद्याश्च वाडवाः ॥
स्वेस्वे स्थाने गताः सर्वे संकेतादनिवृत्त्य च
॥२४॥पंचदश सहस्राणि ततस्तु द्विजपुंगवाः ॥
यथागतं गताः सर्वे चातुर्विद्या द्विजोत्तमाः
॥२५॥तद्दिने अतिवाह्याथ चिंताविष्टेन चेतसा ॥
वार्यमाणाः स्वपुत्रैस्ते दारैश्च विनयान्वितैः
॥२६॥एकाग्रमानसा सर्वे न निद्रामुपलेभिरे ॥
ब्राह्मे मुहूर्ते चोत्थाय मायां त्यक्ता हि लौकिकीम्
॥२७॥परित्यज्य प्रियान्पुत्रान्दारान्सनिलयानपि ॥
ग्रामोपांतेषु मिलिताः सर्वे वाडवपुंगवाः
॥२८॥सहस्राणि तदा त्रीणि कृतनित्याह्निकक्रियाः ॥
विप्रेभ्यो दक्षिणां दत्त्वा संपूज्य कुलमातरम्
॥२९॥विप्रसंघविनाशाय दक्षिणद्वारसंस्थितः ॥
सिंदूरपुष्पमालाभिः पूजितो गणनायकः
॥१३०॥पूजितो बकुलस्वामी सूर्य- सर्वार्थसाधकः ॥
आदराच्च महाशक्तिः श्रीमाता पूजिता तथा
॥३१॥शांतां चैव नमस्कृत्य ज्ञानजां गोत्रमातरम् ॥
गमनेनोद्यमानास्ते परं हर्षमुपाययुः
॥३२॥चातुर्विद्या द्विजाश्चैव पुनरामंत्र्य तान्प्रति ॥
पप्रच्छुश्च मुहुः सर्वं समागमनकारणम्
॥३३॥विप्रा ऊचुः
न गंतव्यं भवद्भिर्वै गत्वा वाऽऽयांतु सत्वराः
॥३४॥यथा रामप्रदत्तं हि उपकल्पयसेऽचिरात् ॥
श्रुत्वा पुनरथोचुस्ते चातुर्विद्या द्विजोत्तमाः
॥३५॥न स्थानेन द्विजैर्वापि न च वृत्त्यां कथंचन ॥
वयं नैवागमिष्यामः कथनीयं न वै पुनः
॥३६॥रघूद्वहेन दत्ता वै वृत्तिर्वो द्विजसत्तमाः ॥
तां वृत्तिं प्रति यास्यामो जपहोमार्चनादिभिः
॥३७॥ते पंचदशसाहस्राः पुनस्तानूचुरादरात् ॥
अस्माभिरत्र स्थातव्यमग्निसेवार्थतत्परैः
॥३८॥युष्माभिस्तत्र गंतव्यं सर्वेषां कार्यसिद्धये ॥
अन्योन्यं सर्वसाहाया वृत्तिं याम न संशयः
॥३९॥त्यक्तस्वकीयवचना वृत्तिहीना भविष्यथ ॥
ततस्तन्मध्यतः कश्चिच्चातुर्विद्य उवाच ह
॥१४०॥चातुर्विद्य उवाच
पूर्वं हि वृत्तिमस्माकं रामो वै दत्तवान्द्विजाः ॥
चातुर्विद्या महासत्त्वाः स्वधर्मप्रतिपालकाः
॥४१॥याजनाध्ययनायुक्ताः काजेशेन विनिर्मिताः ॥
दानं दत्त्वा तु रामेण उक्तं हि भवतां पुनः
॥४२॥स्थानं त्यक्त्वा न गंतव्यमित्थं हि नियमः कृतः ॥
आपत्काले तु स्मर्तव्यो वायुपुत्रो महाबलः
॥४३॥इति रामेण पूर्वं हि स्वे स्थाने स्थापितास्तदा ॥
राम वाक्यमन्यथा तत्कृत्वा गच्छेत्कथं पुनः
॥४४॥तस्माद्युष्मान्वयं ब्रूमो गच्छत कार्यसिद्धये ॥
भवतां कार्यसिद्ध्यर्थं वयं होमार्चनादिभिः
॥४५॥झटिति कार्यसिद्धिः स्यात्सत्यं सत्यं न संशयः ॥
इति वाक्यं ततः श्रुत्वा ते द्विजा गमनं प्रति
॥४६॥प्रस्थानं च विधायादौ गमनाय मनो दधुः ॥
त्रिसाहस्रास्तदा तस्मात्प्रस्थिता द्विजसत्तमाः
॥४७॥देशाद्देशांतरं गत्वा वनाच्चैव वनांतरम् ॥
तीर्थेतीर्थे कृतश्राद्धाः सुसंत सत्यव्रतपरायणाः ॥
ते गता दूरमध्वानं हनुमद्दर्शनार्थिनः
॥१५०॥संध्यामुपासते नित्यं त्रिकालं चैकमानसाः ॥
एवं तु गच्छतां तेषां शकुना अभवच्छुभाः
॥५१॥एवं तु गच्छतां तेषां पाथेयं त्रुटितं तदा ॥
श्रांता ग्लानिं गताः सर्वे पदं परममास्थिताः
॥५२॥क्रमित्वा कियती भूमिं पदं गंतुं न तु क्षमाः ॥
मनसा निश्चयं कृत्वा दृढीकृत्य स्वमानसम्
॥५३॥हनtमंतमदृष्ट्वैव न यास्यामो वयं गृहान् ॥
त्रै विद्यास्तु गतास्तत्र यत्र रामेश्वरो हरिः
॥५४॥दृढव्रताः सत्यपराः कन्दमूलफलाशनाः ॥
ध्यायंतो रामरामेति हनूमंतेति वै पुनः
॥५५॥गृहीत्वा नियमं तेऽपि त्यक्त्वा चान्नं तथोदकम् ॥
तृषार्ताश्च क्षुधार्ताश्च ययुर्व्रतपरायणाः
॥५६॥एवं तु क्लिश्यमानानां द्विजानां भक्तिभाजनः ॥
उद्विग्नमानसो रामो हनूमंतमथाब्रवीत्
॥५७॥शीघ्रं गच्छ द्विजार्थे त्वं पवनात्मज धर्मवित् ॥
क्लिश्यंते वाडवाः सर्वे धर्मारण्यनिवासिनः
॥५८॥दह्यते मानसं मेऽद्य नान्यथा शान्तिरस्ति मे ॥
विप्राणां दुःखकर्त्ता च शास्तव्यो नात्र संशयः
॥५९॥येन वै दुःखिता विप्रास्तेनाहं दुःखितः कपे
॥१६०॥रामस्य वचनं श्रुत्वा नमस्कृत्य च राघवम् ॥
कृपया परयाविष्टः प्रादुरासीद्धरीश्वरः
॥६१॥वृद्धब्राह्मणरूपेण परीक्षार्थं द्विजन्मनाम् ॥
उवाच परया भक्त्या ब्राह्मणाञ्छ्रमदुर्बलान्
॥६२॥कृतांजलिपुटो भूत्वा करान्मुक्त्वा कमंडलुम् ॥
सर्वान्प्रत्यभिवाद्याथ वचनं चेदमब्रवीत्
॥६३॥कुतः स्थानादिह प्राप्ता गंतुकामाश्च वै कुतः ॥
किमर्थं वै भवद्भिश्च गम्यते दारुणं वनम्
॥६४॥विप्रा ऊचुः
धर्मारण्यात्समायाता निजदुःखं निवेदितुम् ॥
रामस्य दर्शनार्थं हि गंतुकामा वयं द्विजाः
॥६५॥सेतुबंधं महातीर्थं सर्वकामप्रदायकम् ॥
नियमस्थाः क्षीणदेहा रामं द्रष्टुं समुत्सुकाः
॥६६॥यत्र रामेश्वरो देवः साक्षाद्वायुसुतः कपिः ॥
तच्छ्रुत्वा स द्विजः प्राह क्व रामः क्व च वायुजः
॥६७॥क्व सेतुबंधरामेशो दूराद्दूरतरो द्विजाः ॥
व्याघ्रसिंहाकुलं चोग्रं वनं घोरतरं महत् ॥
गत्वा यस्मान्न वर्तंते तदुग्रमनुजीविनः ॥
निवर्तध्वं महाभागा यदि कार्यं हि मद्वचः
॥६९॥अथवा गम्यतां विप्राश्चिरं जीव सुखी भव ॥
वृद्धस्य वाक्यं तच्छ्रुत्वा वाडवाश्चैकमानसाः
॥१७०॥विप्र गच्छामहे सर्वे रामपार्श्वमसंशयः ॥
म्रियेत यदि मार्गेऽस्मिन्रामलोक मवाप्नुय्रात्
॥७१॥जीवन्वृत्तिमवाप्नोति रामदेव न संशयः ॥
अन्यथा शरणं नास्ति अस्माकं राघवं विना
॥७२॥इत्युक्त्वा निर्गताः सर्वे रामदर्शनतत्पराः ॥
दिनांतमतिवाह्याथ प्रभाते विमले पुनः
॥७३॥हनुमान्ब्रह्मरूपी स वृद्धः पूर्वगुणान्वितः ॥
कमंडलुधरो धीमानभिवादनत त्परः
॥७४॥कुत्रस्थानादिह प्राप्ताः सर्वे यूयं हि वाडवाः ॥
कुत्रास्ति वा महालाभो विवाहोत्सव एव वा
॥७५॥इति तस्य वचः श्रुत्वा वाडवा विस्मयं गताः ॥
प्रणामपूर्वां विज्ञप्तिं कथयामासुरादृताः
॥७६॥अस्माकं तु पुरा वृत्तं महदाश्चर्यकारकम् ॥
भूमिदेव शृणुष्व त्वं दयालुर्दृश्यसे यतः
॥७७॥आदौ सृष्टिसमारंभे स्थापिता केशवेन च ॥
शिवेन ब्रह्मणा चैव त्रिमूर्तिस्थापिता वयम्
॥७८॥श्री रामेण ततः पश्चाज्जीर्णोद्धारेण स्थापिताः ॥
ग्रामाणां वेतनं दत्तं हरिराजेन चादरात्
॥७९॥चतुश्चत्वारिंशदधिकचतुःशतमितात्मनाम् ॥
ग्रामास्त्रयोदशार्चार्थं सीतापुरसमन्विताः
॥१८०॥षट्त्रिंशच्च सहस्राणि वणिजो द्विजपालने ॥
गोभूजसंज्ञास्ते शूद्रास्तेभ्यः सपादलक्षकाः
॥८१॥ते च जातास्त्रिधा तात गोभूजाडालजा स्तथा ॥
मांडलीयास्तथा चैते त्रिविधाश्च मनोरमाः
॥८२॥वृत्त्यर्थं तेन दत्ता वै ह्यनर्घ्या रत्नकोटयः ॥
तदा ते मोढ १८००० गोभूजा१८० ०० ।
मांडलीया १२५००० अडालजाः १८०००
॥८३॥अधुना वाडवश्रेष्ठ आमोनाम महीपतिः ॥
शासनं रामचंद्रस्य न मानयति दुर्मतिः
॥८४॥जामाता तस्य दुष्टो वै नाम्ना कुमारपालकः ॥
पाषंडैर्वेंष्टितो नित्यं कलिधर्मेण संमतः
॥८५॥इन्द्रसूत्रेण जैनेन प्रेरितो बौद्धधर्मिणा ॥
शासनं तेन लुप्तं हि रामदत्तं न संशयः
॥८६॥वाणिजस्तादृशाः केऽपि तन्मनस्का बभूविरे ॥
निषेधयंति रामं ते हनुमंतं महामतिम्
॥८७॥प्रत्ययं तु विना विप्रा न दास्यामीति निश्चितम् ॥
तं ज्ञात्वा तु इमे विप्रा रामं शरणमाययुः
॥८८॥हनुमंतं महावीरं रामशासनपालकम् ॥
तस्माद्गच्छामहे सर्वे रामं प्रति महामते
॥८९॥आंजनेयो यदास्माकं न दास्यति समीहितम् ॥
अनाहारव्रतेनैव प्राणांस्त्यक्ष्यामहे वयम्
॥१९०॥अस्माभिस्ते विशेषेण कथितं परिपृच्छते ॥
स्नेहभावं विचिंत्याशु निजवृत्तिं प्रकाशय
॥९१॥हनुमानुवाच
प्राप्ते कलियुगे विप्राः क्व देवदर्शनं भवेत् ॥
निवर्त्तध्वं हि विप्रेन्द्रा यदीच्छथ सुखं महत्
॥९२॥व्याघ्रसिंहाकुले शून्ये वने वनगजाश्रिते ॥
बहुदावसमाविष्टे प्रवेष्टुं नैव शक्यते
॥९३॥विप्रा ऊचुः
अतीते दिवसे विप्र एकं कथितवानिदम् ॥
अद्यैव त्वं समागम्य एवमेव प्रभाषसे
॥९४॥कस्त्वं वाडवरूपेण रामो वाप्यथ वायुजः ॥
सत्यं कथय नः स्वास्मिन्दयां कृत्वा महाद्विज
॥९५॥हनुमान्कथयामास गोपितं यद्द्विजाग्रतः ॥
हनुमानित्यहं विप्रा बुध्यध्वं निश्चिता हि माम्
॥९६॥स्वरूपं प्रकटीकृत्य लांगूलं दर्शयन्महत्
॥९७॥हनुमानुवाच
अयमंभोनिधिः साक्षात्सेतुबंधो मनोरमः ॥
अयं रामेश्वरो देवो गर्भवासविनाशकृत्
॥९८॥इयं तु नगरी श्रेष्ठा लंकानामेति विश्रुता ॥
यत्र सीता मया प्राप्ता रामशोकापहारिणी
॥९९॥तर्जन्यग्रे द्विजश्रेष्ठा अगम्या मां विना परैः ॥
सा सुवर्णमयी भाति यस्यां राज्ये विभीषणः
॥२००॥स्थापितो रामदेवेन सेयं लंका महापुरी ॥
नियमस्थैः साधुवृंदैस्तीर्थयात्राप्रसंगतः
॥२०१॥आनीय गंगासलिलं रामेशमभिषिच्य च ॥
क्षिप्ता एते महाभारा दृश्यंते सागरांतरे
॥२०२॥निष्पापास्तेन संजाताः साधवस्ते दृढव्रताः ॥
नूनं पुण्योदये वृद्धिः पापे हानिश्च जायते
॥२०३॥स्थानभ्रष्टाः कृताः पूर्वं चातुर्विद्या द्विजातयः ॥
जीर्णोद्धारेण रामेण स्थापिताः पुनरेव हि ॥
पूर्वजन्मनि भो विप्रा हरिपूजा कृता मया
॥२०४॥सांप्रतं निश्चला भक्तिर्भवत्सेवा हि दृश्यते ॥
तेन पुण्यप्रभावेण तुष्टो दास्यामि वो वरम्
॥२०५॥धन्योहं कृतकृत्योहं सुभाग्योहं धरातले ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम्
॥२०६॥यदहं ब्राह्मणानां च प्राप्तवांश्चरणांतिकम्
॥२०७॥व्यास उवाच
दृष्ट्वैव हनुमन्तं ते पुलकांकितविग्रहाः ॥
सगद्गदं यथोचुस्ते वाक्यं वाक्यविशारदाः
॥२०८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्य माहात्म्ये हनुमत्समागमो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥