मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय २६

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 26

द्वारिकामाहात्म्यवर्णनम्

व्यास उवाच

मार्कंडेयोद्धाटितं वै स्वर्गद्वारमपावृतम् ॥

तत्र ये देहसंत्यागं कुर्वंति फलकांक्षया

॥१॥

लभंते तत्फलं ह्यंते विष्णोः सायुज्यमाप्नुयुः ॥

अतः किं बहुनोक्तेन द्वारवत्यां सदा नरैः

॥२॥

देहत्यागः प्रकर्तव्यो विष्णोर्लोकजिगीषया ॥

अनाशके जले वाग्नौ ये च संति नरोत्तमाः ॥

सर्वपापविनिर्मुक्ता यांति विष्णोः पुरीं सदा

॥३॥

अन्योपि व्याधिरहितो गच्छेदनशनं तु यः ॥

सर्वपाप विनिर्मुक्तो याति विष्णोः पुरीं नरः

॥४॥

शतवर्षसहस्राणां वसेदंते दिवि द्विजः ॥

ब्राह्मणेभ्यः परं नास्ति पवित्रं पावनं भुवि

॥५॥

उपवासै स्तथा तुल्यं तपः कर्म्म न विद्यते ॥

नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरु

॥६॥

न धर्मात्परमस्तीह तपो नानशनात्परम् ॥

स्नात्वा यः कुरुते ऽत्रापि श्राद्धं पिंडोदकक्रियाम्

॥७॥

तृप्यंति पितरस्तस्य यावद्ब्रह्मदिवानिशम् ॥

तत्र तीर्थे नरः स्नात्वा केशवं यस्तु पूजयेत्

॥८॥

स मुक्तपातकैः सर्वेर्विष्णुलोकमवाप्नुयात् ॥

तीर्थानामुत्तमं तीर्थं यत्र संनिहितो हरिः

॥९॥

हरते सकलं पापं तस्मिंस्तीर्थे स्थितस्य सः ॥

मुक्तिदं मोक्षकामानां धनदं च धनार्थिनाम् ॥

आयुर्दं सुखद चैव सर्वकामफलप्रदम्

॥१०॥

किमन्येनात्र तीर्थेन यत्र देवो जनार्द्दनः ॥

स्वयं वसति नित्यं हि सर्वेषामनुकम्पया

॥११॥

तत्र यद्दीयते किचिद्दानं श्रद्धासमन्वितम् ॥

अक्षयं तद्भवेत्सर्वमिह लोके परत्र च

॥१२॥

यज्ञैर्दानैस्तपो भिश्च यत्फलं प्राप्यते बुधैः ॥

तदत्र स्नानमात्रेण शूद्रैरपि सुसेवकैः

॥१३॥

तत्र श्राद्धं च यः कुर्यादेकादश्यामुपोषितः ॥

स पितॄनुद्धरे त्सर्वान्नरकेभ्यो न संशयः

॥१४॥

अक्षय्यां तृप्तिमाप्नोति परमात्मा जनार्द्दनः ॥

दीयतेऽत्र यदुद्दिश्य तदक्षय्यमुदाहृतम्

॥१५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये द्वारिकामाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ॥ २६ ॥