मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ५

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 5

सदाचारवर्णनम्

व्यास उवाच

अतः परं प्रवक्ष्यामि धर्मारण्यनिवासिना ॥

यत्कार्यं पुरुषेणेह गार्हस्थ्यमनुतिष्ठता

॥१॥

धर्मारण्येषु ये जाता ब्राह्मणाः शुद्धवंशजा ॥

अष्टादशसहस्राश्च काजेशैश्च विनिर्मिताः

॥२॥

सदाचाराः पवित्राश्च ब्राह्मणा ब्रह्मवित्तमाः ॥

तेषां दर्शनमात्रेण महापापैर्विमुच्यते

॥३॥

युधिष्ठिर उवाच

पाराशर्य समाख्याहि सदाचारं च मे प्रभो ॥

आचाराद्धर्ममाप्नोति आचाराल्लभते फलम् ॥

आचाराच्छ्रियमाप्नोति तदाचारं वदस्व मे

॥४॥

व्यास उवाच

स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ॥

क्रमेण धार्मिकास्त्वेत एतेभ्यो धार्मिकाः सुराः

॥५॥

सहस्रभागात्प्रथमे द्वितीयानुक्रमास्तथा ॥

सर्व एते महाभागाः पापान्मुक्तिसमाश्रयाः

॥६॥

चतुर्णामपि भूतानां प्राणिनोतीव चोत्तमाः ॥

प्राणिकेभ्योपि मुनिश्रेष्ठाः सर्वे बुद्ध्युपजीविनः

॥७॥

मतिमद्भ्यो नराः श्रेष्ठास्तेभ्य श्रेष्ठास्तु वाडवाः ॥

विप्रेभ्योऽपि च विद्वांसो विद्वद्भ्यः कृतबुद्धयः

॥८॥

कृतधीभ्योऽपि कर्तारः कर्तृभ्यो ब्रह्मतत्पराः ॥

न तेभ्योऽभ्यधिकः कश्चित्त्रिषु लोकेषु भारत

॥९॥

अन्योन्यपूजकास्ते वै तपो विद्याविशेषतः ॥

ब्राह्मणो ब्रह्मणा सृष्टः सर्वभूतेश्वरो यतः

॥१०॥

अतो जगत्स्थितं सर्वं ब्राह्मणोऽर्हति नापरः ॥

सदाचारो हि सर्वार्हो नाचाराद्विच्युतः पुनः

॥११॥

तस्माद्विप्रेण सततं भाव्यमाचारशीलिना ॥

विद्वेषरागरहिता अनुतिष्ठन्ति यं मुने

॥१२॥

सद्धि यस्तं सदाचारं धर्ममूलं विदुर्बुधाः ॥

लक्षणैः परिहीनोऽपि सम्यगाचारतत्परः

॥१३॥

श्रदालुरनसूयुश्च नरो जीवेत्समाः शतम् ॥

श्रुतिस्मृतिभ्यामुदितं स्वेषुस्वेषु च कर्मसु

॥१४॥

सदाचारं निषेवेत धर्ममूलमतन्द्रितः ॥

दुराचाररतो लोके गर्हणीयः पुमा न्भवेत्

॥१५॥

व्याधिभिश्चाभिभूयेत सदाल्पायुः सुदुःखभाक् ॥

त्याज्यं कर्म पराधीनं कार्यमात्मवशं सदा

॥१६॥

दुःखी यतः पराधीनः सदैवात्मवशः सुखी ॥

यस्मिन्कर्मण्यंतरात्मा क्रियमाणे प्रसीदति

॥१७॥

तदेव कर्म कर्त्तव्यं विपरीतं न च क्वचित् ॥

प्रथमं धर्म्मसर्वस्वं प्रोक्तं यन्नियमा यमाः

॥१६॥

अतस्तेष्वेव वै यत्नः कर्तव्यो धर्ममिच्छता ॥

सत्यं क्षमार्तवं ध्यानमानृशंस्यमहिंसनम्

॥१९॥

दमः प्रसादो माधुर्यं मृदुतेति यमा दश ॥

शौचं स्नानं तपो दानं मौनेज्याध्ययनं व्रतम्

॥२०॥

उपोषणोपस्थदंडो दशैते नियमाः स्मृताः ॥

कामं क्रोधं दमं मोहं मात्सर्यं लोभमेव च

॥२१॥

अमून्षड्वैरिणो जित्वा सर्वत्र विजयी भवेत् ॥

शनैः संचिनुयाद्धर्मं वल्मीकं शृंगवान्यथा

॥२२॥

परपीडामकुर्वाणः पर लोकसहायिनम् ॥

धर्म एव सहायी स्यादमुत्र परिरक्षितः

॥२३॥

पितृमातृसुतभ्रातृयोषिद्बंधुजनाधिकः ॥

जायते चैकलः प्राणी म्रियते च तथै कलः

॥२४॥

एकलः सुकृतं भुंक्ते भुंक्ते दुष्कृतमेकलः ॥

देहे पंचत्वमापन्ने त्यक्त्वैकं काष्ठलोष्टवत्

॥२५॥

बांधवा विमुखा यांति धर्मो यांतमनु व्रजेत् ॥

अतः संचिनुयाद्धर्म्ममत्राऽमुत्र सहायिनम्

॥२६॥

धर्मं सहायिनं लब्ध्वा संतरेद्दुस्तरं तमः ॥

संबंधानाचारेन्नित्यमुत्तमैरुत्तमैः सुधीः

॥२७॥

अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत् ॥

उत्तमानुत्तमानेव गच्छेद्धीनांश्च वर्जयेत् ॥

ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्

॥२८॥

अनध्ययनशीलं च सदाचारविलंघिनम् ॥

सालसं च दुरन्नादं ब्राह्मणं बाधतेंऽतकः

॥२९॥

अतोऽभ्यस्येत्प्रयत्नेन सदाचारं सदा द्विजः ॥

तीर्थान्यप्यभिलष्यंति सदाचारिसमागमम्

॥३०॥

रजनीप्रांतयामार्द्धं ब्राह्मः समय उच्यते ॥

स्वहितं चिंतयेत्प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा

॥३१॥

गजास्यं संस्मरेदादौ तत ईशं सहांबया ॥

श्रीरंगं श्रीसमेतं तु ब्रह्माणं कमलोद्भवम्

॥३२॥

इंद्रादीन्सकलान्देवान्वसिष्ठादीन्मुनीनपि ॥

गंगायाः सरितः सर्वाः श्रीशैलायखिलान्गिरीन्

॥३३॥

क्षीरोदादीन्समुद्रांश्च मानसादिसरांसि च ॥

वनानि नंदनादीनि धेनूः कामदुघादयः

॥३४॥

कल्पवृक्षादिवृक्षांश्च धातून्कांचनमुख्यतः ॥

दिव्यस्त्रीरुर्वशीमुख्याः प्रह्रादावद्यान्हरेः प्रियान्

॥३५॥

जननीचरणौ स्मृत्वा सर्वतीर्थोक्त्त मोत्तमौ ॥

पितरं च गुरूंश्चापि हदि ध्यात्वा प्रसन्नधीः

॥३६॥

ततश्चावश्यकं कर्त्तुं नैर्ऋतीं दिशमाव्रजेत् ॥

ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुण म्

॥३७॥

तृणैराच्छाद्य वसुधां शिरः प्रावृत्य वाससा ॥

कर्णोपवीत उदग्वक्त्रो दिवसे संध्ययोरपि

॥३८॥

विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः ॥

न तिष्ठन्नाशु नो विप्र गोवन्ह्यनिलसंमुखः

॥३९॥

न फालकृष्टे भूभागे न रथ्यासेव्यभूतले ॥

नालोकयेद्दिशो भागञ्ज्यो तिश्चक्रं नभो मलम्

॥४०॥

वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान् ॥

अथो मृदं समादद्याज्जंतुकर्क्करवर्जिताम्

॥४१॥

विहाय मूषको त्खातां चोच्छिष्टां केशसंकुलाम् ॥

गुह्ये दद्यान्मृदं चैकां प्रक्षाल्य चांबुना ततः

॥४२॥

पुनर्वामकरेणेति पंचधा क्षालयेद्गुदम् ॥

एकैक पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा

॥४३॥

इत्थं शौचं गृही कुर्याद्गंधलेपक्षयावधि ॥

क्रमाद्वैगुण्यतः कुर्याद्ब्रह्मचर्यादिषु त्रिषु

॥४४॥

दिवाविहितशौचाच्च रात्रावर्द्धं समाचरेत् ॥

परग्रामे तदर्धं च पथि तस्यार्धमेव च

॥४५॥

तदर्धं रोगिणां चापि सुस्थे न्यूनं न कार येत् ॥

अपि सर्वनदीतोयैर्मृत्कूटैश्चाप्यगोपमैः

॥४६॥

आपातमाचरेच्छौचं भावदुष्टो न शुद्धिभाक् ॥

आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः

॥४७॥

सर्वाश्चाहुतयोऽप्येवं ग्रासाश्चांद्रायणेपि च ॥

प्रागास्य उदगास्यो वा सूपविष्टः शुचौ भुवि

॥४८॥

उपस्पृशेद्विहीनाभिस्तुषांगारास्थिभस्मभिः ॥

अतिस्वच्छाभिरद्भिश्च यावद्धृद्गाभिरत्वरः

॥४९॥

ब्राह्मणो ब्रह्मतीर्थेन दृष्टिपूताभिराचमेत् ॥

कण्ठगाभिर्नृपः शुध्येत्तालुगाभिस्तथोरुजः

॥५०॥

स्त्रीशूद्रावाथ संस्पर्शमात्रेणापि विशुध्यतः ॥

शिरः शब्दं सकंठं वा जले मुक्तशिखोऽपि वा

॥५१॥

अक्षालितपदद्वद्व आचांतोऽप्यशुचिर्म्मतः ॥

त्रिः पीत्वांबु विशुद्ध्यर्थं ततः खानि विशोधयेत्

॥५२॥

अंगुष्ठमूलदेशेन ह्यधरोष्ठौ परि मृजेत् ॥

स्पृष्ट्वा जलेन हृदयं समस्ताभिः शिरः स्पृशेत्

॥५३॥

अंगुल्यग्रैस्तथा स्कन्धौ सांबु सर्व्वत्र संस्पृशेत् ॥

आचांतः पुनराचामेत्कृत्वा रथ्योपसर्पणम्

॥५४॥

स्नात्वा भुक्त्वा पयः पीत्वा प्रारंभे शुभकर्मणाम् ॥

सुप्त्वा वासः परीधाय दृष्ट्वा तथाप्यमंगलम्

॥५५॥

प्रमादादशुचि स्मृत्वा द्विराचांतः शुचिर्भवेत् ॥

दंतधावनं प्रकुर्वीत यथोक्त धर्मशास्त्रतः ॥

आचांतोऽप्यशुचिर्यस्मादकृत्वा दंतधावनम्

॥५६॥

प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे ॥

दंतानां काष्ठसंयोगो दहेदासप्तमं कुलम्

॥५७॥

अलाभे दंतकाष्ठानां निषिद्धे वाथ वासरे ॥

गंडूषा द्वादश ग्राह्या मुखस्य परिशुद्धये

॥५८॥

कनिष्ठाग्रपरीमाणं सत्वचं निर्व्रणारुजम् ॥

द्वादशांगुलमानं च सार्द्रं स्याद्दंतधावनम्

॥५९॥

एकेकांगुलमानं तच्चर्वयेद्दंतधावनम् ॥

प्रातः स्नानं चरित्वा च शुद्ध्यै तीर्थे विशेषतः

॥६०॥

प्रातः स्नानाद्यतः शुद्ध्येत्कायोऽयं मलिनः सदा ॥

यन्मलं नवभिश्छिद्रैः स्रवत्येव दिवानिशम्

॥६१॥

उत्साहमेधासौभाग्यरूपसंपत्प्रवर्द्धकम् ॥

प्राजापत्यसमं प्राहुस्तन्महाघविनाशकृत्

॥६२॥

प्रातः स्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च ॥

अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति

॥६३॥

नोपसर्पंति वै दुष्टाः प्रातस्नायिजनं क्वचित् ॥

दृष्टादृष्टफलं यस्मात्प्रातःस्नानं समाचरेत्

॥६४॥

प्रसंगतः स्नानविधिं प्रवक्ष्यामि नृपोत्तमाः ॥

विधिस्नानं यतः प्राहुः स्नाना च्छतगुणोत्तरम्

॥६५॥

विशुद्धां मृदमादाय बर्हिषस्तिलगोमयम् ॥

शुचौ देशे परिस्थाप्य ह्याचम्य स्नानमाचरेत्

॥६६॥

उपग्रही बद्ध शिखो जलमध्ये समाविशेत् ॥

स्वशाखोक्तविधानेन स्नानं कुर्याद्यथाविधि

॥६७॥

स्नात्वेत्थं वस्त्रमापीड्य गृह्णीयाद्धौतवाससी ॥

आचम्य च ततः कुर्यात्प्रातःसंध्यां कुशान्वितः

॥६८॥

प्राणायामांश्चरन्विप्रो नियम्य मानसं दृढम् ॥

अहोरात्रकृतैः पापैर्मुक्तो भवति तत्क्षणात्

॥६९॥

दश द्वादशसंख्या वा प्राणायामाः कृता यदि ॥

नियम्य मानसं तेन तदा तप्तं महत्तपः

॥७०॥

सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ॥

अपि भ्रूणहनं मासात्पुनंत्यहरहः कृताः

॥७१॥

यथा पार्थिवधातूनां दह्यते धमनान्मलाः ॥

तथेंद्रियैः कृता दोषा ज्वाल्यंते प्राणसंयमात्

॥७२॥

एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ॥

गायत्र्यास्तु परं नास्ति पावनं च नृपोत्तम

॥७३॥

कर्मणा मनसा वाचा यद्रात्रौ कुरुते त्वघम् ॥

उत्तिष्ठन्पूर्वसंध्यायां प्राणायामैर्विशोधयेत्

॥७४॥

यदह्ना कुरुते पापं मनोवाक्कायकर्मभिः ॥

आसीनः पश्चिमां संध्यां प्राणायामैर्व्यपोहति ॥

पश्चिमां तु समासीनो मलं हंति दिवाकृतम्

॥७५॥

नोपतिष्ठेत्तु यः पूर्व्वां नोपास्ते यस्तु पश्चिमाम् ॥

स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः

॥७६॥

अपां समीपमासाद्य नित्यकर्म समाचरेत् ॥

तत आचमनं कुर्याद्यथाविध्यनु पूर्वशः

॥७७॥

आपोहिष्ठेति तिसृभिर्मार्जनं तु ततश्चरेत् ॥

भूमौ शिरसि चाकाश आकाशे भुवि मस्तके

॥७८॥

मस्तके च तथाकाशं भूमौ च नवधा क्षिपेत् ॥

भूमिशब्देन चरणावाकाशं हृदयं स्मृतम् ॥

शिरस्येव शिरःशब्दो मार्जनं तैरुदाहृतम्

॥७९॥

वारुणादपि चाग्नेयाद्वायव्यादपि चेंद्रतः ॥

मंत्रस्थानादपि परं ब्राह्मं स्नानमिदं परम् ॥

ब्राह्मस्नानेन यः स्नातः स बाह्याभ्यंतरं शुचिः

॥८०॥

सर्वत्र चार्हतामेति देवपूजादिकर्मणि ॥

नक्तंदिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः

॥८१॥

शतशोऽपि तथा स्नाता न शुद्धा भावदूषिताः ॥

अंतःकरणशुद्धांश्च तान्विभूतिः पवित्रयेत्

॥८२॥

किं पावनाः प्रकीर्त्यंते रासभा भस्मधूसराः ॥

स स्नातः सर्वतीर्थेषु मलैः सर्वैर्विवर्जितः

॥८३॥

तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम् ॥

तदेव निर्मलं चेतो यथा स्यात्तन्मुने शृणु

॥८४॥

विश्वेशश्चेत्प्रसन्नः स्यात्तदा स्यान्नान्यथा क्वचित् ॥

तस्माच्चेतो विशुद्ध्यर्थं काशीनाथं समाश्रयेत्

॥८५॥

इदं शरीरमुत्सृज्य परं ब्रह्माधिगच्छति ॥

द्रुपदांतं ततो जप्त्वा जलमादाय पाणिना

॥८६॥

कुयादृतं च मंत्रेण विधिज्ञस्त्वघमर्षणम् ॥

निमज्ज्याप्सु च यो विद्वाञ्जपेत्त्रिरघमर्षणम्

॥८७॥

जले वापि स्थले वापि यः कुर्यादघमर्ष णम् ॥

तस्याघौघो विनश्येत यथा सूर्योदये तमः

॥८८॥

गायत्रीं शिरसा हीनां महाव्याहृतिपूर्व्विकाम् ॥

प्रणवाद्यां जपंस्तिष्ठन्क्षिपेदंभोंजलि त्रयम्

॥८९॥

तेन वज्रोदकेनाशु मंदेहा नाम राक्षसाः ॥

सूर्यतेजः प्रलोपंते शैला इव विवस्वतः

॥९०॥

सहायार्थं च सूर्यस्य यो द्विजो नांजलि त्रयम् ॥

क्षिपेन्मंदेहनाशाय सोपि मंदेहतां व्रजेत्

॥९१॥

प्रातस्तावज्जपंस्तिष्ठेद्यावत्सूर्यस्य दर्शनम् ॥

उपविष्टो जपेत्सायमृक्षाणामाविलोकनात्

॥९२॥

काललोपो न कर्त्तव्यो द्विजेन स्वहितेप्सुना ॥

अर्द्धोदयास्तसमये तस्माद्वज्रोदकं क्षिपेत्

॥९३॥

विधिनापि कृता संध्या कालातीता ऽफला भवेत् ॥

अयमेव हि दृष्टांतो वंध्यास्त्रीमैथुनं यथा

॥९४॥

जले वामकरं कृत्वा या संध्याऽऽचरिता द्विजैः ॥

वृषली सा परिज्ञेया रक्षोगणमुदा वहा

॥९५॥

उपस्थानं ततः कुर्याच्छाखोक्तविधिना ततः ॥

सहस्रकृत्वो गायत्र्याः शतकृत्वोथवा पुनः

॥९६॥

दशकृत्वोऽथ देव्यै च कुर्यात्सौ रीमुपस्थितिम् ॥

सहस्रपरमां देवीं शतमध्यां दशावराम्

॥९७॥

गायत्रीं यो जपेद्विप्रो न स पापैः प्रलिप्यते ॥

रक्तचंदनमिश्राभिरद्भिश्च कुसुमैः कुशैः

॥९८॥

वेदोक्तैरागमोक्तैर्वा मंत्रैरर्घं प्रदापयेत् ॥

अर्चितः सविता येन तेन त्रैलोक्यमर्च्चितम्

॥९९॥

अर्चितः सविता दत्ते सुतान्पशुव सूनि च ॥

व्याधीन्हरेद्ददात्यायुः पूरयेद्वांछितान्यपि

॥१००॥

अयं हि रुद्र आदित्यो हरिरेष दिवाकरः ॥

रविर्हिरण्यरूपोऽसौ त्रयीरूपोऽयमर्यमा

॥१०१॥

ततस्तु तर्पणं कुर्यात्स्वशाखोक्तविधानतः ॥

ब्रह्मादीनखिलान्देवान्मरीच्यादींस्तथा मुनीन्

॥१०२॥

चंदनागुरुकर्प्पूरगंधव त्कुसमैरपि ॥

तर्पयेच्छुचिभिस्तोयैस्तृप्यंत्विति समुच्चरेत्

॥३॥

सनकादीन्मनुष्यांश्च निवीती तर्पयेद्यवैः ॥

अंगुष्ठद्वयमध्ये तु कृत्वा दर्भानृजून्द्विजः

॥४॥

कव्यवाडनलादींश्च पितॄन्दिव्यान्प्रतर्प्पयेत् ॥

प्राचीनावीतिको दर्भैर्द्विगुणैस्तिलमिश्रितैः

॥५॥

रवौ शुक्ले त्रयोदश्यां सप्तम्यां निशि संध्ययोः ॥

श्रेयोर्थी ब्राह्मणो जातु न कुर्यात्तिलतर्प्पणम्

॥६॥

यदि कुर्यात्ततः कुर्याच्छुक्लैरेव तिलैः कृती ॥

चतुर्दश यमान्पश्चात्तर्पयेन्नाम उच्चरन्

॥७॥

ततः स्वगोत्रमुच्चार्य तर्पयेत्स्वान्पितॄन्मुदा ॥

सव्यजानुनिपातेन पितृतीर्थेन वाग्यतः

॥८॥

एकैकमंजलिं देवा द्वौद्वौ तु सनकादिकाः ॥

पितरस्त्रीन्प्रवांछंति स्त्रिय एकैकमंजलिम्

॥९॥

अंगुल्यग्रेण वै दैवमार्षमंगुलिमूलगम् ॥

ब्राह्ममंगुष्ठमूले तु पाणिमध्ये प्रजापतेः

॥११०॥

मध्येंगुष्ठप्रदेशिन्योः पित्र्यं तीर्थं प्रचक्षते ॥

आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः

॥११॥

तृप्यंतु सर्व्वे पितरो मातृमातामहादयः ॥

अन्ये च मंत्राः प्रोक्ता ये वेदोक्ताः पुराणसंभवाः

॥१२॥

सांगं च तर्प्पणं कुर्यात्पितॄणां च सुखप्रदम् ॥

अग्निकार्यं ततः कृत्वा वेदाभ्यासं ततश्चरेत्

॥१३॥

श्रुत्यभ्यासः पंचधा स्यात्स्वीकारोऽर्थविचारणम् ॥

अभ्यासश्च तपश्चापि शिष्येभ्यः प्रतिपादनम्

॥१४॥

लब्धस्य प्रतिपालार्थमलब्धस्य च लब्धये ॥

प्रातःकृत्यमिदं प्रोक्तं द्विजातीनां नृपोत्तम

॥१५॥

अथवा प्रातरुत्थाय कृत्वावश्यकमेव च ॥

शौचाचमनमादाय भक्षयेद्दन्तधावनम्

॥१६॥

विशोध्य सर्वगात्राणि प्रातःसंध्यां समाचरेत् ॥

वेदार्थानधिगच्छेद्वै शास्त्राणि विविधान्यपि

॥१७॥

अध्यापयेच्छुचीञ्छिष्यान्हितान्मे धासमन्वितान् ॥

उपेयादीश्वरं चापि योगक्षेमादिसिद्धये

॥१८॥

ततो मध्याह्नसिद्ध्यर्थं पूर्वोक्तं स्नानमाचरेत् ॥

स्नात्वा माध्याह्निकीं संध्या मुपासीत विचक्षणः

॥१९॥

देवतां परिपूज्याथ नैमित्तिकं विधिं चरेत् ॥

पवनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत्

॥१२०॥

निष्पावान्को द्रवान्माषान्कलापांश्चणकांस्त्यजेत् ॥

तैलपक्वमपक्वान्नं सर्वं लवणयुक्त्यजेत्

॥२१॥

आढक्यन्नं मसूरान्नं वर्तुलधान्यसंभवम् ॥

भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत् औ

॥२२॥

दर्भपाणिः समाचम्य प्राणायामं विधाय च ॥

पृषोदिवीति मंत्रेण पर्य्युक्षणमथाचरेत्

॥२३॥

प्रदक्षिणं च पर्युक्ष्य द्विः परिस्तीर्य वै कुशान् ॥

रापोर्द्ध (?) देवमन्त्रेण कुर्याद्वह्निं स्वसंमुखे

॥२४॥

वैश्वानरं समभ्यर्च्य गन्धपुष्पाक्षतैस्तथा ॥

स्वशाखोक्तप्रकारेण होमं कुर्याद्विचक्षणः

॥२५॥

अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः ॥

यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षकाः

॥२६॥

अतिथिः पांथिको ज्ञेयोऽनूचानः श्रुतिपारगः ॥

मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम्

॥२७॥

अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत् ॥

अत्रार्थिनि समायाते पात्रापात्रं न चिंतयेत्

॥२८॥

शुनां च पतितानां च श्वपचां पापरोगिणाम् ॥

काकानां च कृमीणां च बहिरन्नं किरेद्भुवि

॥२९॥

ऐन्द्रवारुणवायव्याः सौम्या वै नैर्ऋताश्च ये ॥

प्रतिगृह्णंत्विमं पिंडं काका भूमौ मयार्पितम्

॥१३०॥

इत्थं भूत बलिं कृत्वा कालं गोदोहमात्रकम् ॥

प्रतीक्ष्यातिथिमायातं विशद्भोज्यगृहं ततः

॥३१॥

अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत् ॥

नित्यश्राद्धे स्वसामर्थ्यात्त्रीन्द्वावेकमथापि वा

॥३२॥

भोजयेत्पितृयज्ञार्थं दद्यादुद्धत्य वारि च ॥

नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम्

॥३३॥

दक्षिणारहितं त्वेतद्दातृभोक्तृसुतृप्तिकृत् ॥

पितृयज्ञं विधायेत्थं स्वस्थबुद्धिरनातुरः

॥३४॥

अदुष्टासनमध्यास्य भुंजीत शिशुभिः सह ॥

सुगन्धिः सुमनाः स्रग्वी शुचिवासोद्वयान्वितः

॥३५॥

प्रागास्य उदगास्यो वा भुंजीत पितृसेवितम् ॥

विधायान्नमनग्नं तदुपरिष्टादधस्तथा

॥३६॥

आपोशानविधानेन कृत्वाश्नीयात्सुधीर्द्विजः ॥

भूमौ बलित्रयं कुर्यादपो दद्यात्तदोपरि

॥३७॥

सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपंचकम् ॥

दद्याजठरकुंडाग्नौ दर्भपाणिः प्रसन्नधीः

॥३८॥

दर्भपाणिस्तु यो भुंक्ते तस्य दोषो न विद्यते ॥

केशकीटादिसंभूतस्तदश्नीयात्सदर्भकः

॥३९॥

ततो मौनेन भुञ्जीत न कुर्याद्दंतघर्षणम् ॥

प्रक्षालितव्यहस्तस्य दक्षिणांगुष्ठमूलतः

॥१४०॥

रौरवेऽपुण्यनि लये अधोलोकनिवासिनाम् ॥

उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम्

॥४१॥

पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः ॥

मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः

॥४२॥

अतिवाह्य दिवाशेषं ततः संध्यां समाचरेत् ॥

गृहेषु प्राकृता संध्या गोष्टे दशगुणा स्मृता

॥४३॥

नद्यामयुतसंख्या स्यादनंता शिवसन्निधौ ॥

अनृतं मद्यगन्धं च दिवामैथुनमेव च ॥

पुनाति वृषलस्थानं संध्या बहिरुपासिता

॥४४॥

उद्देशतः समाख्यात एष नित्यतनो विधिः ॥

इत्थं समाचरन्विप्रो नावसीदति कर्हिचित्

॥१४५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहरुया संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सदाचारवर्णनंनाम पंचमोऽध्यायः ॥ ५ ॥