मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय १४

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 14

विष्णुशिरोनाशः

युधिष्ठिर उवाच

कृपासिंधो महाभाग सर्वव्यापिन्सुरेश्वर ॥

कदा ह्यत्र तपस्तप्तं विष्णुनामिततेजसा

॥१॥

स्कंदाय कथितं चैव शर्वेण च महात्मना ॥

आनुपूर्व्येण सर्वं हि कथयस्व त्वमेव हि

॥२॥

व्यास उवाच

शृणु वत्स प्रवक्ष्यामि धर्म्मारण्ये नृपोत्तम ॥

एकदात्र तपस्तप्तं विष्णुनाऽमिततेजसा

॥३॥

स्कंद उवाच

कथं देवसरोनाम पंपा चंपा गया तथा ॥

वाराणस्यधिका चैव कथमश्वमुखो हरिः

॥४॥

ईश्वर उवाच

अत्र नारायणो देवस्तपस्तेपे सुदुष्करम् ॥

दिव्यवर्षशतं त्रीणि जातः सुष्ठ्वाननश्च सः

॥५॥

तपस्तेपे महाविष्णुः सुरूपार्थं च पुत्रक ॥

वाजिमुखो हरिस्तत्र सिद्धस्थाने महाद्युते

॥६॥

स्कंद उवाच

कारणं ब्रूहि नोद्य त्वमश्वाननः कथं हरिः ॥

महारिपोश्च हंता च देवदेवो जगत्पतिः

॥७॥

यस्य नाम्ना महाभाग पातकानि बहून्यपि ॥

विलीयंते तु वेगेन तमः सूर्योदये यथा

॥८॥

श्रूयंते यस्य कर्माणि अद्भुतान्यद्भुतानि वै ॥

सर्वेषामेव जीवानां कारणं परमेश्वरः

॥९॥

प्राणरूपेण यो देवो हयरूपः कधं भवेत् ॥

सर्वेषामपि तंत्राणामेकरूपः प्रकीर्तितः

॥१०॥

भक्तिगम्यो धर्मभाजां सुखरूपः सदा शुचिः ॥

गुणातीतोऽपि नित्योऽसौ सर्वगो निर्गुणस्तथा

॥११॥

स्रष्टासौ पालको हंता अव्यक्तः सर्वदेहिनाम् ॥

अनुकूलो महातेजाः कस्मादश्वमुखोऽभवत्

॥१२॥

यस्य रोमोद्भवा देवा वृक्षाद्याः पन्नगा नगाः ॥

कल्पेकल्पे जगत्सर्वं जायते यस्य देहतः

॥१३॥

स एव विश्वप्रभवः स एवात्यंतकारणम् ॥

येनानीताः पुनर्विद्या यज्ञाश्च प्रलयं गताः

॥१४॥

घातितो दुष्टदैत्योऽसौ वेदार्थं कृत उद्यमः ॥

एवमासीन्महाविष्णुः कथमश्वमुखोऽभवत्

॥१५॥

रत्नगर्भा धृता येन पृष्ठदेशे च लीलया ॥

कृत्या व्यवस्थितं सर्वं जगत्स्थावरजंगमम्

॥१६॥

स देवो विश्वरूपो वै कथं वाजिमुखोऽभवत् ॥

हिरण्याक्षस्य हंता यो रूपं कृत्वा वराहजम्

॥१७॥

सुपवित्रं महातेजाः प्रविश्य जलसा गरे ॥

उद्धृता च मही सर्वा ससागरमहीधरा

॥१८॥

उद्धृता च मही नूनं दंष्ट्राग्रे येन लीलया ॥

कृत्वा रूपं वराहं च कपिलं शोकनाशनम्

॥१९॥

स देवः कथमीशानो हयग्रीवत्वमागतः ॥

प्रह्लादार्थे स चेशानो रूपं कृत्वा भयावहम्

॥२०॥

नारसिंहं महादेवं सर्वदुष्टनिवारणम् ॥

पर्वताग्निसमुद्रस्थं ररक्ष भक्तसत्तमम्

॥२१॥

हिरण्यकशिपुं दुष्टं जघान रजनीमुखे ॥

इंद्रासने च संस्थाप्य प्रह्लादस्य सुखप्रदम्

॥२२॥

प्रह्लादार्थे च वै नूनं नृसिंहत्वमुपागतः ॥

विरोचनसुतस्याग्रे याचकोऽसौ भवेत्तदा

॥२३॥

यज्ञे चैवाश्वमेधे वै बलिना यः समर्चितः ॥

हृता वसुमती तस्य त्रिपदीकृतरोदसी

॥२४॥

विश्वरूपेण वै येन पाताले क्षपितो बलिः ॥

त्रिःसप्तवारं येनैव क्षत्रियानवनीतले

॥२५॥

हत्वाऽददाच्च विप्रेभ्यो महीमतिमहौजसा ॥

घातितो हैहयो राजा येनैव जननी हता

॥२६॥

येन वै शिशुनोर्व्यां हि घातिता दुष्टचारिणी ॥

राक्षसी ताडका नाम्नी कौशिकस्य प्रसादतः

॥२७॥

विश्वामित्रस्य यज्ञे तु येन लीलानृदेहिना ॥

चतुर्दशसहस्राणि घातिता राक्षसा वलात्

॥२८॥

हता शूर्पणखा येन त्रिशिराश्च निपातितः ॥

सुग्रीवं वालिनं हत्वा सुग्रीवेण सहायवान्

॥२९॥

कृत्वा सेतुं समुद्रस्य रणे हत्वा दशाननम् ॥

धर्म्मारण्यं समासाद्य ब्राह्मणानन्वपूजयत्

॥३०॥

शासनं द्विजवर्येभ्यो दत्त्वा ग्रामान्बहूंस्तथा ॥

स्नात्वा चैव धर्म्मवाप्यां सुदानान्यददाद्गवाम्

॥३१॥

साधूनां पालनं कृत्वा निग्रहाय दुरात्मनाम् ॥

एवमन्यानि कर्म्माणि श्रुतानि च धरातले

॥३२॥

स देवो लीलया कृत्वा कथं चाश्वमुखोऽभवत् ॥

यो जातो यादवे वंशे पूतनाशकटादिकम्

॥३३॥

अरिष्टदैत्यः केशी च वृकासुरबकासुरौ ॥

शकटासुरो महासुर स्तृणावर्तश्च धेनुकः

॥३४॥

मल्लश्चैव तथा कंसो जरासंधस्तथैव च ॥

कालयवनस्य हंता च कथं वै स हयाननः ॥

तारकासुरं रणे जित्वा अयुतषट्पुरं तथा

॥३५॥

कन्याश्चोद्वाहिता येन सहस्राणि च षड् दश ॥

अमानुषाणि कृत्वेत्थं कथं सोऽश्वमुखोऽभवत्

॥३६॥

त्राता यः सर्वभक्तानां हंता सर्वदुरात्मनाम् ॥

धर्मस्थापनकृत्सोऽपि कल्किर्विष्णुपदे स्थितः

॥३७॥

एतद्वै महदाश्चर्य्यं भवता यत्प्रकाशितम् ॥

एतदाचक्ष्व मे सर्वं कारणं त्रिपुरांतक

॥३८॥

श्रीरुद्र उवाच

साधुपृष्टं महाबाहो कारणं तस्य वच्म्यहम् ॥

हयग्रीवस्य कृष्णस्य शृणुष्वे काग्रमानसः

॥३९॥

व्यास उवाच

पुरा देवैः समारब्धो यज्ञो नूनं धरातले ॥

वेदमंत्रैराह्वयितुं सर्वे रुद्रपुरोगमाः

॥४०॥

वैकुण्ठे च गताः सर्वे क्षीराब्धौ च निजालये ॥

पातालेऽपि पुनर्गत्वा न विदुः कृष्णदर्शनम्

॥४१॥

मोहाविष्टास्ततः सर्वे इतश्चेतश्च धाविताः ॥

नैव दृष्टस्तदा तैस्तु ब्रह्मरूपो जनार्दनः

॥४२॥

विचारयंति ते सर्वे देवा इन्द्रपुरोगमाः ॥

क्व गतोऽसौ महाविष्णुः केनोपायेन दृश्यते

॥४३॥

प्रणम्य शिरसा देवं वागीशं प्रोचुरादरात् ॥

देवदेव महाविष्णुं कथयस्व प्रसादतः

॥४४॥

बृहस्पतिरुवाच

न जाने केन कार्येण योगारूढो महात्मवान् ॥

योगरूपोऽभवद्विष्णुर्योगीशो हरिरच्युतः

॥४५॥

क्षणं ध्यात्वा स्वमात्मानं धिषणेन ख्यापितो हरिः ॥

तत्र सर्वे गता देवा यत्र देवो जगत्पतिः

॥४६॥

तदा दृष्टो महाविष्णुर्ध्यानस्थोऽसौ जनार्दनः ॥

ध्यात्वा कृत्यसमाकारं सशरं दैत्यसूदनम्

॥४७॥

समास्थानं ततो दृष्ट्वा बोधोपायं प्रचक्रमे ॥

आह तांश्च तदा वम्र्यो धनुर्गुणं प्रयत्नतः ॥

छेत्स्यंति चेत्तच्छब्देन प्रबुध्येत हरिः स्वयम्

॥४८॥

देवा ऊचुः

गुणभक्षं कुरुध्वं वै येनासौ बुध्यते हरिः ॥

क्रत्वर्थिनो वयं वम्र्यः प्रभुं विज्ञापयामहे

॥४९॥

वम्र्यः ऊचुः

निद्राभंगं कथाच्छेदं दम्पत्योर्मैत्रभेदनम् ॥

शिशुमातृविभेदं वा कुर्वाणो नरकं व्रजेत्

॥५०॥

योगारूढो जगन्नाथः समाधिस्थो महाबलः ॥

तस्य श्रीजगदीशस्य विघ्नं नैव तु कुर्महे

॥५१॥

ब्रह्मोवाच

भवतां सर्वभक्षत्वं देवकार्यं क्रियेत चेत् ॥

कर्त्तव्यं च ततो वम्र्यो यज्ञसिद्धिर्यथा भवेत् ॥

वम्रीशा सा तदा वत्स पुनरेवमुवाच ह

॥५२॥

वम्र्युवाच

दुःखसाध्यो जगन्नाथो मलयानिलसंनिभः ॥

कथं वा बोध्यतां बह्मन्नस्माभिः सुरपूजितः

॥५३॥

नैव यज्ञेन मे कार्यं सुरैश्चैव तथैव च ॥

सर्वेषु यज्ञकार्येषु भागं ददतु मे सुराः

॥५४॥

देवा ऊचुः

प्रदास्यामो वयं वम्र्यै भागं यज्ञेषु सर्वदा ॥

यज्ञाय दत्तमस्माभिः कुरुष्वैवं वचो हि नः

॥५५॥

तथेति विधिनाप्युक्तं वम्री चोद्यममाश्रिता ॥

गुणभक्षादिकं कर्म तया सर्वं कृतं नृप

॥५६॥

युधिष्ठिर उवाच

अस्य वा बोधने देवा गुणभंगे समाधिषु ॥

एतदाश्चर्यं विप्रर्षे सत्यं सत्यवतीसुत

॥५७॥

व्यास उवाच

व्यग्रचित्ताः सुराः सर्वे आकृष्टं हरिकार्मु कम् ॥

न जाने केन कार्येण विष्णुमायाविमोहिताः

॥५८॥

मुदितास्ताः प्रमुञ्चंति वल्मीकं चाग्रतो हरेः ॥

कोटिपार्श्वे ततो नीतं वल्मीकं पर्वतोपमम्

॥५९॥

गुणे च भक्षिते तस्मिंस्तक्षणादेव दूषिते ॥

ज्याघातकोटिभिः सार्द्धं शीर्षं छित्त्वा दिवं गतम्

॥६०॥

गते शीर्षे च ते देवा भृशमु द्विग्नमानसाः ॥

धावंति सर्वतः सर्वे शिरआलोकनाय ते

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्व भागे धर्मारण्यमाहात्म्ये विष्णुशिरोनाशोनाम चतुर्दशोऽध्यायः ॥ १४ ॥