शासनपट्टप्रदानवर्णनम्
व्यास उवाच
एवं रामेण धर्मज्ञ जीर्णोद्धारः पुरा कृतः ॥
द्विजानां च हितार्थाय श्रीमातुर्वचनेन च
॥१॥युधिष्ठिर उवाच
कीदृशं शासनं ब्रह्मन्रामेण लिखितं पुरा ॥
कथयस्व प्रसादेन त्रेतायां सत्यमंदिरे
॥२॥व्यास उवाच
धर्मारण्ये वरे दिव्ये बकुलार्के स्वधिष्ठिते ॥
शून्यस्वामिनि विप्रेंद्र स्थिते नारायणे प्रभौ
॥३॥रक्षणाधिपतौ देवे सर्वज्ञे गुणनायके ॥
भवसागर मग्नानां तारिणी यत्र योगिनी
॥४॥शासनं तत्र रामस्य राघवस्य च नामतः ॥
शृणु ताम्राश्रयं तत्र लिखितं धर्मशास्त्रतः
॥५॥महाश्चर्यकरं तच्च ह्यनेकयुगसंस्थितम् ॥
सर्वो धातुः क्षयं याति सुवर्णं क्षयमेति च
॥६॥प्रत्यक्षं दृश्यते पुत्र द्विजशासनमक्षयम् ॥
अविनाशो हि ताम्रस्य कारणं तत्र विद्यते
॥७॥वेदोक्तं सकलं यस्माद्विष्णुरेव हि कथ्यते ॥
पुराणेषु च वेदेषु धर्मशास्त्रेषु भारत
॥८॥सर्वत्र गीयते विष्णुर्नाना भावसमाश्रयः ॥
नानादेशेषु धर्मेषु नानाधर्मनिषेविभिः
॥९॥नानाभेदैस्तु सर्वत्र विष्णुरेवेति चिंत्यते ॥
अवतीर्णः स वै साक्षात्पुराणपुरुषो त्तमः
॥१०॥देववैरिविनाशाय धर्मसंरक्षणाय च ॥
तेनेदं शासनं दत्तमविनाशात्मकं सुत
॥११॥यस्य प्रतापादृषद(य)स्तारिता जलमध्यतः ॥
वानरैर्वेष्टिता लंका हेलया राक्षसा हताः
॥१२॥मुनिपुत्रं मृतं रामो यमलोकादुपानयत् ॥
दुंदुभिर्निहतो येन कबंधोऽभिहतस्तथा
॥१३॥निहता ताडका चैव सप्तताला विभेदिताः ॥
खरश्च दूषणश्चैव त्रिशिराश्च महासुरः
॥१४॥चतुर्दशसहस्राणि जवेन निहता रणे ॥
तेनेदं शासनं दत्तमक्षयं न कथं भवेत्
॥१५॥स्ववंशवर्णनं तत्र लिखित्वा स्वयमेव तु ॥
देशकालादिकं सर्वं लिलेख विधिपूर्वकम्
॥१६॥स्वमुद्राचिह्नितं तत्र त्रैविद्येभ्यस्तथा ददौ ॥
चतुश्चत्वारिंशवर्षो रामो दशरथात्मजः
॥१७॥तस्मिन्काले महाश्चर्यं संदत्तं किल भारत ॥
तत्र स्वर्णोपमं चापि रौप्योपमम थापि च
॥१८॥उवाह सलिलं तीर्थे देवर्षिपितृतृप्तिदम् ॥
स्ववंशनायकस्याग्रे सूर्येण कृतमेव तत्
॥१९॥तद्दृष्ट्वा महदाश्चर्यं रामो विष्णुं प्रपूज्य च ॥
रामलेखविचित्रैस्तु लिखितं धर्मशासनम्
॥२०॥यद्दृष्ट्वाथ द्विजाः सर्वे संसारभयबंधनम् ॥
कुर्वते नैव यस्माच्च तस्मान्निखिलरक्षकम्
॥२१॥ये पापिष्ठा दुराचारा मित्रद्रोहरताश्च ये ॥
तेषां प्रबोधनार्थाय प्रसिद्धिमकरोत्पुरा
॥२२॥रामलेखविचित्रैस्तु विचित्रे ताम्रपट्टके ॥
वाक्यानीमानि श्रूयंते शासने किल नारद
॥२३॥आस्फोटयंति पितरः कथयंति पितामहाः ॥
भूमिदोऽस्मत्कुले जातः सोऽस्मान्संतारयिष्यति
॥२४॥बहुभिर्बहुधा भुक्ता राजभिः पृथिवी त्वियम् ॥
यस्ययस्य यदा भूमिस्तस्यतस्य तदा फलम्
॥२५॥षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ॥
आच्छेत्ता चानुमंता च तान्येव नरकं व्रजेत्
॥२६॥संदंशैस्तुद्यमानस्तु मुद्गरैर्विनिहत्य च ॥
पाशैः सुबध्यमानस्तु रोरवीति महास्वरम्
॥२७॥ताड्यमानः शिरे दंडैः समालिंग्य विभावसुम् ॥
क्षुरिकया छिद्यमानो रोरवीति महास्वनम्
॥२८॥यमदूतैर्महाघोरैर्ब्रह्मवृत्तिविलोपकः ॥
एवंविधैर्महादुष्टैः पीड्यंते ते महागणैः
॥२९॥ततस्तिर्यक्त्वमाप्नोति योनिं वा राक्षसीं शुनीम् ॥
व्यालीं शृगालीं पैशाचीं महाभूतभयंकरीम्
॥३०॥भूमेरंगुलहर्ता हि स कथं पापमाचरेत् ॥
भूमेरंगुलदाता च स कथं पुण्यमाचरेत्
॥३१॥अश्वमेधसहस्राणां राजसूयशतस्य च ॥
कन्याशतप्रदानस्य फलं प्राप्नोति भूमिदः
॥३२॥आयुर्यशः सुखं प्रज्ञा धर्मो धान्यं धनं जयः ॥
संतानं वर्द्धते नित्यं भूमिदः सुखमश्मुते
॥३३॥भूमेरंगुलमेकं तु ये हरंति खला नराः ॥
वंध्याटवीष्वतोयासु शुष्ककोटरवासिनः ॥
कृष्णसर्पाः प्रजायंते दत्तदायापहारकाः
॥३४॥तडागानां सहस्रेण अश्वमेधशतेन वा ॥
गवां कोटिप्रदानेन भूमिहर्त्ता विशुध्यति
॥३५॥यानीह दत्तानि पुनर्धनानि दानानि धर्मार्थयशस्कराणि ॥
औदार्यतो विप्रनिवेदितानि को नाम साधुः पुनराददीत
॥३६॥चलदलदललीलाचंचले जीवलोके तृणलवलघुसारे सर्वसंसारसौख्ये ॥
अपहरति दुराशः शासनं ब्राह्मणानां नरकगहनगर्त्तावर्तपातोत्सुको यः
॥३७॥ये पास्यंति महीभुजः क्षितिमिमां यास्यंति भुक्त्वाखिलां नो याता न तु याति यास्यति न वा केनापि सार्द्धं धरा ॥
यत्किंचिद्भुवि तद्विनाशि सकलं कीर्तिः परं स्थायिनी त्वेवं वै वसुधापि यैरुपकृता लोप्या न सत्कीर्तयः
॥३८॥एकैव भगिनी लोके सर्वेषामेव भूभुजाम् ॥
न भोज्या न करग्राह्या विप्रदत्ता वसुंधरा
॥३९॥दत्त्वा भूमिं भाविनः पार्थिवेशान्भूयोभूयो याचते रामचन्द्रः ॥
सामान्योऽयं धर्मसेतुर्नृपाणां स्वे स्वे काले पालनीयो भवद्भिः
॥४०॥अस्मिन्वंशे क्षितौ कोपि राजा यदि भविष्यति ॥
तस्याहं करलग्नोस्मि मद्दत्तं यदि पाल्यते
॥४१॥लिखित्वा शासनं रामश्चातुर्वेद्यद्विजोत्तमान् ॥
संपूज्य प्रददौ धीमान्वसिष्ठस्य च सन्निधौ
॥४२॥ते वाडवा गृहीत्वा तं पट्टं रामाज्ञया शुभम् ॥
ताम्रं हैमाक्षरयुतं धर्म्यं धर्मविभूषणम्
॥४३॥पूजार्थं भक्तिकामार्थास्तद्रक्षणमकुर्वत ॥
चंदनेन च दिव्येन पुष्पेण च सुगन्धिना
॥४४॥तथा सुवर्णपुष्पेण रूप्यपुष्पेण वा पुनः ॥
अहन्यहनि पूजां ते कुर्वते वाडवाः शुभाम्
॥४५॥तदग्रे दीपकं चैव घृतेन विमलेन हि ॥
सप्तवर्तियुतं राजन्नर्घ्यं प्रकुर्वते द्विजाः
॥४६॥नैवेद्यं कुर्वते नित्यं भक्तिपूर्वं द्विजोत्तमाः ॥
रामरामेति रामेति मन्त्रमप्युच्चरंति हि
॥४७॥अशने शयने पाने गमने चोपवेशने ॥
सुखे वाप्यथवा दुःखे राममन्त्रं समुच्चरेत्
॥४८॥न तस्य दुःखदौर्भाग्यं नाधिव्याधिभयं भवेत् ॥
आयुः श्रियं बलं तस्य वर्द्धयंति दिने दिने
॥४९॥रामेति नाम्ना मुच्येत पापाद्वै दारुणादपि ॥
नरकं नहि गच्छेत गतिं प्राप्नोति शाश्वतीम्
॥५०॥व्यास उवाच
इति कृत्वा ततो रामः कृतकृत्यममन्यत ॥
प्रदक्षिणीकृत्य तदा प्रणम्य च द्विजान्बहून्
॥५१॥दत्त्वा दानं भूरितरं गवाश्वमहिषीरथम् ॥
ततः सर्वान्निजांस्तांश्च वाक्यमेतदुवाच ह
॥५२॥अत्रैव स्थीयतां सर्वैर्यावच्चंद्रदिवाकरौ ॥
यावन्मेरुर्महीपृष्ठे सागराः सप्त एव च
॥५३॥तावदत्रैव स्थातव्यं भवद्भिर्हि न संशयः ॥
यदा हि शासनं विप्रा न मन्यंते नृपा भुवि
॥५४॥अथवा वणिजः शूरा मदमायाविमोहिताः ॥
मदाज्ञां न प्रकुर्वंति मन्यंते वा न ते जनाः
॥५५॥तदा वै वायुपुत्रस्य स्मरणं क्रियतां द्विजाः ॥
स्मृतमात्रो हनूमान्वै समागत्य करिष्यति
॥५६॥सहसा भस्म तान्सत्यं वचनान्मे न संशयः ॥
य इदं शासनं रम्यं पालयिष्यति भूपतिः
॥५७॥वायुपुत्रः सदा तस्य सौख्यमृद्धिं प्रदास्यति ॥
ददाति पुत्रान्पौत्रांश्च साध्वीं पत्नीं यशो जयम्
॥५८॥इत्येवं कथयित्वा च हनुमंतं प्रबोध्य च ॥
निवर्तितो रामदेवः ससैन्यः सपरिच्छदः
॥५९॥वादित्राणां स्वनैर्विष्वक्सूच्यमानशुभागमः ॥
श्वेतातपत्रयुक्तोऽसौ चामरैर्वी जितो नरैः ॥
अयोध्यां नगरीं प्राप्य चिरं राज्यं चकार ह
॥६०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्रह्मनारदसंवादे श्रीरामेण ब्राह्मणेभ्यः शासनपट्टप्रदानवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥