युधिष्ठिरप्रश्नर्णनम्
व्यास उवाच
पृथ्वीपुरंध्यास्तिलकं ललाटे लक्ष्मीलतायाः स्फुटमालवालम् ॥
वाग्देवताया जलकेलिरम्यं नोहेरकं संप्रति वर्णयामि
॥१॥साधु पृष्टं त्वया राजन्वाराणस्यधिकाधिकम् ॥
धर्मारण्यं नृपश्रेष्ठ श्रृणुष्वावहितो भृशम्
॥२॥सर्वतीर्थानि तत्रैव ऊषरं तेन कथ्यते ॥
ब्रह्मविष्णुमहेशाद्यैरिंद्राद्यैः परिसेवितम्
॥३॥लोकपालैश्च दिक्पालैर्मातृभिः शिवशक्तिभिः ॥
गंधर्वैश्वाप्सरोभिश्च सेवितं यज्ञकर्मभिः
॥४॥भूतवेतालशाकिनीग्रहदेवाधिदेवतैः ॥
ऋतुभिर्मासपक्षैश्च सेव्यमानं सुरासुरेः ।
तदाद्यं च नृपस्थानं सर्वसौख्यप्रदुं तथा ॥
यज्ञैश्च बहुभिश्चैव सेवितं मुनिसत्तमैः
॥६॥सिंहव्याघ्रैर्द्विपैश्चैव पक्षिभिर्विविधैस्तथा ॥
गोमहिष्यादिभिश्चैव सारसैर्मृगशूकरैः
॥७॥सेवितं नृपशार्दूल श्वापदैवैर्विविधैरपि ।
तत्र ये निधनं प्राप्ताः पक्षिणः कीटकादयः
॥८॥पशवः श्वापदाश्चैव जलस्थलचराश्च ये ॥
खेचरा भूचराश्चैव डाकिन्यो राक्षसास्तथा
॥९॥एकोत्तरशतैः सार्द्धं मुक्तिस्तेषां हि शाश्वती ॥
ते सर्वे विष्णुलोकांश्च प्रयांत्येव न संशयः
॥१०॥संतारयति पूर्वज्ञान्दश पूर्वान्दशापरान् ।
यवव्रीहितिलैः सर्पिर्बिल्वपत्रैश्च दूर्वया
॥११॥गुडैश्चैवोदकैर्नाथ तत्र पिंडं करोति यः ॥
उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम्
॥१२॥वृक्षैरनेकधा युंक्ते लतागुल्मैः सुशोभितम् ॥
सदा पुण्यप्रदं तच्च सदा फलसमन्वितम्
॥१३॥निर्वैरं निर्भयं चैव धर्मारण्यं च भूपते ॥
गोव्याघ्रैः क्रीड्यते तत्र तथा मार्जारमूषकैः
॥११॥भेकोऽहिना क्रीडते च मानुषा राक्षसैः सह ॥
निर्भयं वसते तत्र धर्म्मारण्यं च भूतले
॥१९॥महानंदमयं दिव्यं पावनात्पावनं परम् ॥
कलकंठः कलोत्कंठमनुगुंजति कुंजगः ॥
ध्यानस्थः श्रोष्यति तदा पारावत्येति वार्य्यते ॥
केकः कोकीं परित्यज्य मौनं तिष्ठति तद्भयात्
॥१७॥चकोरश्चंद्रिकाभोक्ता नक्तव्रतमिवास्थितः ॥
पठंति सारिकाः सारं शुकं संबोधयत्यहो
॥१८॥अपारवारसंसारसिंधुपारप्रदः शिवः ॥
आलस्येनापि यो यायाद्गृहाद्धर्मवनं प्रति
॥१९॥अश्वमेधाधिको धर्मस्तस्य स्याच्च पदेपदे ॥
शापानुग्रहसंयुक्ता ब्राह्मणास्तत्र संति वै
॥२०॥अष्टादशसहस्राणि पुण्यकार्येषु निर्मिताः ॥
षट्त्रिंशत्तु सहस्राणि भृत्यास्ते वणिजो भुवि
॥२१॥द्विजभक्तिसमायुक्ता ब्रह्मण्यास्ते त्वयोनिजाः ॥
पुराणज्ञाः सदाचारा धार्मिकाः शुद्धबुद्धयः ॥
स्वर्गे देवाः प्रशंसंति धर्म्मारण्यनिवासिनः
॥२२॥युधिष्ठिर उवाच
धर्मारण्येति त्रिदशैः कदा नाम प्रतिष्ठितम् ॥
पावनं भूतले जातं कस्मात्तेन विनिर्मितम्
॥२३॥तीर्थभूतं हि कस्माच्च कारणात्तद्वदस्व मे ॥
ब्राह्मणाः कतिसं ख्याकाः केन वै स्थापिताः पुरा
॥२४॥अष्टादशसहस्राणि किमर्थं स्थापितानि वै ॥
कस्मिन्नंशे समुत्पन्ना ब्राह्मणा ब्रह्म सत्तमाः
॥२५॥सर्वविद्यासु निष्णाता वेदवेदांगपारगाः ॥
ऋग्वेदेषु च निष्णाता यजुर्वेदकृतश्रमाः
॥२६॥सामवेदांगपारज्ञास्त्रैविद्या धर्म वित्तमाः ॥
तपोनिष्ठा शुभाचाराः सत्यव्रतपरायणाः
॥२७॥मासोपवासैः कृशितास्तथा चांद्रायणादिभिः ॥
सदाचाराश्च ब्रह्मण्याः केन नित्यो पजीविनः ॥
तत्सर्वमादितः कृत्स्नं ब्रूहि मे वदतां वर
॥२८॥दानवास्तत्र दैतेया भूतवेतालसंभवाः ॥
राक्षसाश्च पिशाचाश्च उद्वेजंते कथं न तान्
॥२९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये युधिष्ठिरप्रश्नर्णनंनाम द्विती योऽध्यायः ॥ २ ॥