मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय २९

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 29

अतः परं शृणुध्वं हि लोहासुरविचेष्टितम्

सूत उवाच

अतः परं शृणुध्वं हि लोहासुरविचेष्टितम् ॥

बलेः पुत्रशतस्यापि कथयिष्यामि विश्रुतम्

॥१॥

यथा तौ भ्रातरौ वृद्धौ प्रापतुः स्थानमुत्तमम् ॥

तदा प्रभृति वैराग्यं दैत्यो लोहासुरे दधौ

॥२॥

किं करोमि क्व गच्छामि तपसे स्थानमुत्तमम् ॥

यस्य पारं न जानंति देवता मुनयो नराः

॥३॥

को मयाऽऽराध्यतां देवो हृदि चिंतयते भृशम् ॥

इति चिंतयतस्तस्य मतिर्जाता महात्मनः

॥४॥

दधौ गंगां स्वशीर्षेण पुष्पवंतौ च नेत्रयोः ॥

हृदा नारायणं देवं ब्रह्माणं कटिमंडले

॥५॥

इंद्राद्या देवताः सर्वे यद्देहे प्रतिबिंबिताः ॥

प्रपश्यंति तदात्मानं भास्करः सलिले यथा

॥६॥

तमेवाराधयिष्यामि निरंजनमकल्मषः ॥

एवं कृत्वा मतिं दैत्य स्तपस्तेपे सुदुष्करम् ॥

भीतो जन्मभयाद्घोराद्दुष्करं यन्महात्मभिः

॥७॥

अंबुभक्षो वायुभक्षः शीर्णपर्णाशनस्तथा ॥

दिव्यं वर्षशतं साग्रं यदा तेपे महत्तपः ॥

ततस्तुतोष भगवांस्त्रिशूलवरधारकः

॥८॥

ईश्वर उवाच

वरं वृणीष्व भद्रं ते मनसा यदभीप्सितम् ॥

लोहासुर मया देयं तव नास्ति तपोबलात्

॥९॥

इत्युक्तो दानवस्तत्र शंकराग्रे वचोऽब्रवीत्

॥१०॥

लोहासुर उवाच

यदि तुष्टोसि देवेश वरमेकं वृणोम्यहम् ॥

शरीरस्याजरत्वं च मा मृत्योरपि मे भयम्

॥११॥

जन्मन्यस्मिन्प्रभो भूयात्स्थातव्यं हृदये मम ॥

एवमस्तु शिवः प्राह तत्र तं दानवेश्वरम्

॥१२॥

शर्वलब्धवरो दैवात्पुनस्तेपे महत्तपः ॥

रम्ये सरस्वतीतीरे तरणाय भवार्णवात्

॥१३॥

वत्सराणां सहस्राणि प्रयुतान्यर्बुदानि च ॥

शंकते भगवानिंद्रो भीतस्तस्य तपोबलात्

॥१४॥

मा मे पदच्युतिर्भूयाद्दैत्यल्लोहासुरात्क्वचित् ॥

मघवान्गुप्तरूपेण समेत्याश्रमकाननम्

॥१५॥

तपोभंगं प्रकुरुते कंपयित्वा महासुरम् ॥

ताडयंति शरीरे तं मुष्टिभिस्तीक्ष्णकर्कशैः

॥१६॥

अथ तेन च दैत्येन ध्यानमुत्सृज्य वीक्षितम् ॥

इंद्रेण तत्कृतं सर्वं तपोबलविनाशनम्

॥१७॥

तस्य तैरभवद्युद्धमिंद्राद्यैरथ कर्क्कशैः ॥

एकस्य बहुभिः सार्द्धं देवास्ते तेन संयुगे

॥१८॥

रुधिराक्लिन्नदेहा वै प्रहारैर्जर्जरीकृताः ॥

केशवं शरणं प्राप्ता त्राहि त्राहीति भाषिणः

॥१९॥

सूत उवाच

देवानां वाक्यमाकर्ण्य वासुदेवो जनार्दनः ॥

युयुधे केशवस्तेन युद्धे वर्षशतं किल

॥२०॥

ततो नारायणं तत्र जिगाय स वरोर्जितः ॥

अथ नारायणो देवो जितो लोहासुरेण तु

॥२१॥

मंत्रयामास रुद्रेण ब्रह्मणा च पुनःपुनः ॥

मीमांसित्वा त्रयो देवाः पुनर्युद्धसमुद्यमम्

॥२२॥

लोहासुरस्य दैत्यस्य वपुर्दृष्ट्वा पुनर्नवम् ॥

महदासीत्पुनर्युद्धं दैत्यकेशवयोस्ततः

॥२३॥

न ममार यदा दैत्यो विष्णुना प्रभविष्णुना ॥

तरसा तं केशवोऽपि पातयामास भूतले

॥२४॥

उत्तानं पतितं दृष्ट्वा पिनाकी परमेश्वरः ॥

दधार हृदये तस्य स्वरूपं रूपवर्जितः

॥२५॥

कण्ठे तस्थौ ततो ब्रह्मा तस्य लोहासुरस्य च ॥

चरणौ पीडयामास स्वस्थित्या पुरुषोत्तमः

॥२६॥

अथ दैत्यः समुत्तस्थौ भृशं बद्धोपि भूतले ॥

दृष्ट्वोत्थितं ततो दैत्यं पातयंतं सुरोत्तमान्

॥२७॥

उवाच दिव्यया वाचा विरंचिः कमलासनः

॥२८॥

ब्रह्मोवाच

लोहासुर सदा रक्ष वाचोधर्ममभीक्ष्णशः ॥

त्वया यत्प्रार्थितं रुद्रात्तदेव समुपस्थितम्

॥२९॥

अहं विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः ॥

त्वद्देहमुपवेक्ष्यामो यावदाभूतसंप्लवम्

॥३०॥

दानवेश शिवप्राप्तिर्भावभक्त्यैव जायते ॥

शिवं चालयितुं बुद्धिः कथं तव भविष्यति

॥३१॥

अचलांश्चालयेद्यस्तु प्रासादान्ब्राह्मणान्पुरान् ॥

अचिरेणैव कालेन पातकेनैव लिप्यते

॥३२॥

श्मशानवत्परित्याज्यः सत्यधर्मबहिष्कृतः ॥

सत्यवागसि भद्रं ते मा विचालय देवताः

॥३३॥

येन यातास्तु पितरो येन याताः पितामहाः ॥

तेन मार्गेण गंतव्यं न चोल्लंघ्या सतां गतिः

॥३४॥

दानवेश पिता ते हि ददौ लोकत्रयं हरेः ॥

वाक्पाशबद्धः पाताले राज्यं चक्रे महीपतिः

॥३५॥

तथा त्वमसि वाक्पाशाच्छिवभक्तिसमन्वितः ॥

भूतले तिष्ठ दैत्येंद्र मा वाग्वैकल्प्यमाप्नुहि

॥३६॥

वरांस्ते च प्रदास्यामो मा विचाल्या हि देवताः

॥३७॥

व्यास उवाच

तच्छ्रुत्वा ब्रह्मणो वाक्यं संतुष्टो दानवेश्वरः ॥

प्राह प्रसन्नया वाचा ब्रह्माणं केशवं हरम्

॥३८॥

लोहासुर उवाच

वाक्पाशबद्धस्तिष्ठामि न पुनर्भवतां बले ॥

ब्रह्मा विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः

॥३९॥

स्थास्यंति चेच्छरीरे मे किं न लब्धं मया ततः ॥

इदं कलेवरं मे हि समारूढं त्रिभिः सुरैः

॥४०॥

भूम्यां भवतु विख्यातं मत्प्रभावात्सुरोत्तमाः

॥४१॥

लोहासुरस्य वाक्येन हर्षिता स्त्रिदशास्त्रयः ॥

ददुः प्रत्युत्तरं तस्मै ब्रह्मविष्णुमहेश्वराः

॥४२॥

सत्यवाक्पाशतो दैत्यो न सत्याच्चलितो यतः ॥

तेन सत्येन संतुष्टा दास्या मस्ते मनीप्सितम्

॥४३॥

ब्रह्मोवाच

यथा स्नानं ब्रह्मज्ञानं देहत्यागो गयातले ॥

धर्मारण्ये तथा दैत्य धर्म्मेश्वरपुरः स्थिते

॥४४॥

कूपे तर्प्पणकं श्राद्धं शंसंति पितरो दिवि ॥

संतुष्टा पिंडदानेन गयायां पितरो यथा

॥४५॥

वांछंति तर्प्पणं कूपे धर्मारण्ये विशुद्धये ॥

दानवेन्द्र शरीरं तु तीर्थं तव भविष्यति

॥४६॥

एकविंशतिवारांस्तु गयायां तर्प्पणे कृते ॥

पितॄणां या परा तृप्तिर्जायते दानवाधिप

॥४७॥

धर्मेश्वर पुरस्तात्सा त्वेकदा पितृतर्पणात् ॥

स्याद्वै दशगुणा तृप्तिः सत्यमेव न संशयः

॥४८॥

पितॄणां पिंडदानेन अक्षय्या तृप्तिरस्त्विह ॥

शिवरूपांतराले वै धर्मारण्ये धरातले

॥४९॥

श्रद्धयैव हि कर्त्तव्याः श्राद्धपिंडोदकक्रियाः ॥

तथांतराले चास्माकं श्राद्धपिंडौ विशेषतः

॥५०॥

तथा शरीरे क्वापिस्तांचिंता सत्योऽसि सुव्रत ॥

त्रिषु लोकेषु दुष्प्रापं सत्यं ते दिवि संस्थितम्

॥५१॥

अस्मद्वाक्येन सत्येन तत्तथाऽसुरसत्तम ॥

गयासमधिकं तीर्थं तव जातं धरातले

॥५२॥

अस्माकं स्थितिरव्यग्रा तव देहे न संशयः ॥

सत्यपाशेन बद्धाः स्म दृढमेव त्वयाऽनघ

॥५३॥

विष्णुरुवाच

गयाप्रयाग कस्याऽपि फलं समधिकं स्मृतम् ॥

चतुर्द्दश्याममावास्यां लोहयष्ट्यां पिंडदानतः

॥५४॥

बलिपुत्रस्य सत्येन महती तृप्तिरत्र हि ॥

मा कुरुष्वात्र संदेहं तव देहे स्थिता स्वयम्

॥५५॥

सरस्वती पुण्यतोया ब्रह्मलोकात्प्रयात्युत ॥

प्लावयिष्यंति देहांगं मया सह सुसंगता

॥५६॥

यथो वै द्वारका वासो देवस्तत्र महेश्वरः ॥

विरंचिर्यत्र तीर्थानि त्रीण्येतानि धरातले

॥५७॥

भविष्यति च पाताले स्वर्गलोके यमक्षये ॥

विख्यातान्यसुरश्रेष्ठ पि तॄणां तृप्तिहेतवे

॥५८॥

अथान्यत्संप्रवक्ष्यामि गाथां पितृकृतां पराम् ॥

आज्ञारूपां हि पुत्राणां तां शृणुष्व ममानघ

॥५९॥

पितर ऊचुः

शंकरस्याग्रतः स्थानं रुद्रलोकप्रदं नृणाम् ॥

पापदेहविशुद्ध्यर्थं पापेनोपहतात्मनाम्

॥६०॥

तस्मिंस्तिलोदकेनापि सद्गतिं यांति तर्पिताः ॥

पितरो नरकाद्वा पि सुपुत्रेण सुमेधसा

॥६१॥

गोप्रदानं प्रशंसंति तत्तत्र पितृमुक्तये ॥

पित्रादिकान्समुद्दिश्य दृष्ट्वा रुद्रं च केशवम्

॥६२॥

तिलपिण्याकपिंडेन तृप्तिं यास्यामहे पराम् ॥

चतुर्द्दश्याममावास्यां तथा च पितृतर्पणम्

॥६३॥

अज्ञातगोत्रजन्मानस्तेभ्यः पिंडांस्तु निर्वपेत् ॥

तेऽपि यांति दिवं सर्वे ये दत्त इति श्रुतिः

॥६४॥

सर्वकार्याणि संत्यज्य मानवैः पुण्यमीप्सुभिः ॥

प्राप्ते भाद्रपदे मासे गंतव्या लोहयिष्टका ॥

अज्ञातगोत्रनाम्ना तु पिंड मंत्रमिमं शृणु

॥६५॥

पितृवंशे मृता ये च मातृवंशे तथैव च ॥

अतीतगोत्रजास्तेभ्यः पिंडोऽयमुपतिष्ठतु

॥६६॥

विष्णुरुवाच

अनेनैव तु मंत्रेण ममाग्रे सुरसत्तम ॥

क्षीणे चंद्रे चतुर्द्दश्यां नभस्ये पिंडमाहरेत्

॥६७॥

पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ॥

तिलपिण्याकपिंडेन पितरो मोक्षमाप्नुयुः

॥६८॥

क्षणत्रयविनिर्मुक्ता मानवा जगतीतले ॥

भविष्यंति न संदेहो लोहयष्ट्या तिलतर्पणे

॥६९॥

स्नात्वा यः कुरुते चात्र पितृपिंडोदकक्रियाः ॥

पितरस्तस्य तृप्यंति यावद्ब्रह्मदिवानिशम्

॥७०॥

अमावास्यादिनं प्राप्य मासि भाद्रपदे सरः ॥

ब्रह्मणो यष्टिकायां तु यः कुर्यात्पितृतर्पणम्

॥७१॥

पितरस्तस्य तृप्ताः स्युर्यावदाभूतसंप्लवम् ॥

तेषां प्रसन्नो भगवानादिदेवो महेश्वरः

॥७२॥

अस्य तीर्थस्य यात्रायां मतिर्येषां भविष्यति ॥

गोक्षीरेण तिलैः श्वेतैः स्नात्वा सारस्वते जले

॥७३॥

तर्पयेदक्षया तृप्तिः पितॄणां तस्य जायते ॥

श्राद्धं चैव प्रकु र्वीत सक्तुभिः पयसा सह

॥७४॥

अमावास्यादिनं प्राप्य पितॄणां मोदमिच्छुकः ॥

रुद्रतीर्थे ततो धेनुं दयाद्वस्त्राणि यमतीर्थके

॥७५॥

विष्णुतीर्थे हिरण्यं च पितॄणां मोक्षमिच्छुकः ॥

विनाक्षतैर्विना दर्भैर्विना चासनमेव च ॥

वारिमात्राल्लोहयष्ट्यां गयाश्राद्धफलं लभेत्

॥७६॥

सूत उवाच

एतद्वः कथितं विप्रा लोहासुरविचेष्टितम् ॥

यच्छ्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः

॥७७॥

एकविंशतिवारन्तु गयायां पिंड पातने ॥

तत्फलं समवाप्नोति सकृदस्मिञ्छ्रुते सति

॥७८॥

चतुःष्कोटि द्विलक्षं च सहस्रं शतमेव च ॥

धेनवस्तेन दत्ताः स्युर्माहात्म्यं शृणु यात्तु यः

॥७९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये लोहासुरमाहात्म्यसंपूर्तिर्नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥