मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ३७

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 37

प्रत्यागमनवर्णनम्

व्यास उवाच

ततस्ते ब्राह्मणाः सर्वे प्रत्यूचुः पवनात्मजम् ॥

अधुना सफलं जन्म जीवितं च सुजीवितम्

॥१॥

अद्य नो मोढलोकानां धन्यो धर्मश्च वै गृहाः ॥

धन्या च सकला पृथ्वी यज्ञधर्मा ह्यनेकशः

॥२॥

नमः श्रीराम भक्ताय अक्षविध्वंसनाय च ॥

नमो रक्षःपुरीदाहकारिणे वज्रधारिणे

॥३॥

जानकीहृदयत्राणकारिणे करुणात्मने ॥

सीताविरह तप्तस्य श्रीरामस्य प्रियाय च

॥४॥

नमोऽस्तु ते महावीर रक्षास्मान्मज्जतः क्षितौ ॥

नमो ब्राह्मणदेवाय वायुपुत्राय ते नमः

॥५॥

नमोऽस्तु राम भक्ताय गोब्राह्मणहिताय च ॥

नमोस्तु रुद्ररूपाय कृष्णवक्त्राय ते तमः

॥६॥

अंजनीसूनवे नित्यं सर्वव्याधिहराय च ॥

नागयज्ञोपवीताय प्रबलाय नमोऽस्तु ते

॥७॥

स्वयं समुद्रतीर्णाय सेतुबंधनकारिणे

॥८॥

व्यास उवाच

स्तोत्रेणैवामुना तुष्टो वायुपुत्रोऽब्रवीद्वचः ॥

शृणुध्वं हि वरं विप्रा यद्वो मनसि रोचते

॥९॥

विप्रा ऊचुः

यदि तुष्टोऽसि देवेश रामाज्ञापालक प्रभो ॥

स्वरूपं दर्शयस्वाद्य लंकायां यत्कृतं हरे

॥१०॥

तथा विध्वंसवाद्य त्वं राजानं पापकारिणम् ॥

दुष्टं कुमारपालं हि आमं चैव न संशयः

॥११॥

वृत्तिलोपफलं सद्यः प्राप्नुयात्त्वं तथा कुरु ॥

प्रतीत्यर्थं महाबाहो किं विलंबं वदस्व नः

॥१२॥

त्वयि चित्तेन दत्तेन स राजा पुण्यभाग्भवेत् ॥

प्रत्यये दर्शिते वीर शासनं पालयिष्यति

॥१३॥

त्रयीधर्म्मः पृथिव्यां तु विस्तारं प्रापयिष्यति ॥

धर्मधीर महावीर स्वरूपं दर्शयस्व नः

॥१४॥

हनुमानुवाच

मत्स्वरूपं महाकायं न चक्षुर्विषयं कलौ ॥

तेजोराशिमयं दिव्यमिति जानंतु वाडवाः

॥१५॥

तथापि परया भक्त्या प्रसन्नोऽहं स्तवादिभिः ॥

वसनांतरितं रूपं दर्शयिष्यामि पश्यत

॥१६॥

एवमुक्तास्तदा विप्राः सर्वकार्यसमुत्सुकाः ॥

महारूपं महाकायं महापुच्छसमाकुलम्

॥१७॥

दृष्ट्वा दिव्यस्वरूपं तं हनुमंतं जहर्षिरे ॥

कथंचिद्धैर्यमालंब्य विप्राः प्रोचुः शनैः शनैः

॥१८॥

यथोक्तं तु पुराणेषु तत्तथैव हि दृश्यते ॥

उवाच स हि तान्सर्वांश्चक्षुः प्रच्छाद्य संस्थितान्

॥१९॥

फलानीमानि गृह्णीध्वं भक्षणार्थमृषीश्वराः ॥

एभिस्तु भक्षितैर्विप्रा ह्यतितृप्तिर्भविष्यति

॥२०॥

धर्मारण्यं विना वाद्य क्षुधा वः शाम्यति धुवम्

॥२१॥

व्यास उवाच

क्षुधाक्रांतैस्तदा विप्रैः कृतं वै फलभक्षणम् ॥

अमृतप्राशनमिव तृप्तिस्तेषामजायत

॥२२॥

न तृषा नैव क्षुच्चैव विप्राः संक्लिष्टमानसाः ॥

अभवन्सहसा राजन्विस्मयाविष्टचेतसः

॥२३॥

ततः प्राहांजनीपुत्रः संप्राप्ते हि कलौ द्विजाः ॥

नागमिष्याम्यहं तत्र मुक्त्वा रामेश्वरं शिवम्

॥२४॥

अभिज्ञानं मया दत्तं गृहीत्वा तत्र गच्छत ॥

तथ्यमेतत्प्रतीयेत तस्य राज्ञो न संशयः

॥२५॥

इत्युक्त्वा बाहुमुद्धृत्य भुजयोरुभयोरपि ॥

पृथग्रोमाणि संगृह्य चकार पुटिकाद्वयम्

॥२६॥

भूर्जपत्रेण संवेष्ट्य ते अदाद्विप्रकक्षयोः ॥

वामे तु वामकक्षोत्थां दक्षिणोत्थां तु दक्षिणे

॥२७॥

कामदां रामभक्तस्य अन्येषां क्षयकारिणीम् ॥

उवाच च यदा राजा ब्रूते चिह्नं प्रदीयताम्

॥२८॥

तदा प्रदीयतां शीघ्रं वामकक्षोद्भवा पुटी ॥

अथवा तस्य राज्ञस्तु द्वारे तु पुटिकां क्षिप

॥२९॥

ज्वालयति च तत्सैन्यं गृहं कोशं तथैव च ॥

महिष्यः पुत्रकाः सर्वं ज्वलमानं भविष्यति

॥३०॥

यदा तु वृत्तिं ग्रामांश्च वणिजानां बलिं तथा ॥

पूर्वं स्थितं तु यत्किंचित्तत्तद्दास्यति वाडवाः

॥३१॥

लिखित्वा निश्चयं कृत्वाप्यथ दद्यात्स पूर्ववत् ॥

करसंपुटकं कृत्वा प्रणमेच्च यदा नृपः

॥३२॥

संप्राप्य च पुरा वृत्तिं रामदत्तां द्विजोत्तमाः ॥

ततो दक्षिणकक्षास्थकेशानां पुटिका त्वियम्

॥३३॥

प्रक्षिप्यतां तदा सैन्यं पुरावच्च भविष्यति ॥

गृहाणि च तथा कोशः पुत्रपौत्रादयस्तथा

॥३४॥

वह्निना मुच्यमानास्ते दृश्यंते तत्क्षणादिति ॥

श्रुत्वाऽमृतमयं वाक्यं हनुमंतोदितं परम्

॥३५॥

अलभन्त मुदं विप्रा ननृतुः प्रजगुर्भृशम् ॥

जयं चोदैरयन्केऽपि प्रहसन्ति परस्परम्

॥३६॥

पुलकांकितसर्वाङ्गाः स्तुवन्ति च मुहुर्मुहुः ॥

पुच्छं तस्य च संगृह्य चुचुंबुः केचिदुत्सुकाः

॥३७॥

ब्रूतेऽन्यो मम यत्नेन कार्यं नियतमेव हि ॥

अन्यो ब्रूते महाभाग मयेदं कृतमित्युत

॥६८॥

ततः प्रोवाच हनुमांस्त्रिरात्रं स्थीयतामिह ॥

रामतीर्थस्य च फलं यथा प्राप्स्यथ वाडवाः

॥३९॥

तथेत्युक्त्वाथ ते विप्रा ब्रह्मयज्ञं प्रचक्रिरे ॥

ब्रह्मघोषेण महता तद्वनं बधिरं कृतम्

॥४०॥

स्थित्वा त्रिरात्रं ते विप्रा गमने कृतबुद्धयः ॥

रात्रौ हनुमतोऽग्रे त इदमूचुः सुभक्तितः

॥४१॥

ब्राह्मणा ऊचुः

वयं प्रातर्गमिष्यामो धर्मारण्यं सुनिर्मलम् ॥

न विस्मार्या वयं तात क्षम्यतां क्षम्यतामिति

॥४२॥

ततो वायुसुतो राजन्पर्वतान्महतीं शिलाम् ॥

बृहतीं च चतुःशालां दशयोजनमायतीम्

॥४३॥

आस्तीर्य प्राह तान्विप्राञ्छिलायां द्विजसत्तमाः ॥

रक्ष्यमाणा मया विप्राः शयीध्वं विगतज्वराः

॥४४॥

इति श्रुत्वा ततः सर्वे निद्रामापुः सुखप्रदाम् ॥

एवं ते कृतकृत्यास्तु भूत्वा सुप्ता निशामुखे

॥४५॥

कृपालुः स च रुद्रात्मा रामशासनपालकः ॥

रक्षणार्थं हि विप्राणामतिष्ठच्च धरातले

॥४६॥

व्यास उवाच

अर्द्धरात्रे तु संप्राप्ते सर्वे निद्रामुपागताः ॥

तातं संप्रार्थयामास कृतानुग्रहको भवान्

॥४७॥

समीरण द्विजानेतान्स्थानं स्वं प्रापयस्व भोः ॥

ततो निद्राभिभूतांस्तान्वायुपुत्रप्रणोदितः

॥४८॥

समुद्धृत्य शिलां तां तु पिता पुत्रेण भारत ॥

विशिष्टो यापयामास स्वस्थानं द्विजसत्तमान्

॥४९॥

षड्भिर्मासैश्च यः पन्था अतिक्रांतो द्विजातिभिः ॥

त्रिभिरेव मुहूर्त्तैस्तु धर्मारण्यमवाप्तवान्

॥५०॥

भ्रममाणां शिलां ज्ञात्वा विप्र एको द्विजाग्रतः ॥

वात्स्यगोत्रसमुत्पन्नो लोकान्संगीतवान्कलम्

॥५१॥

गीतानि गायनोक्तानि श्रुत्वा विस्मयमाययुः ॥

प्रभाते सुप्रसन्ने तु उदतिष्ठन्परस्परम्

॥५२॥

ऊचुस्ते विस्मिताः सर्वे स्वप्नोऽयं वाथ विभ्रमः ॥

ससंभ्रमाः समुत्थाय ददृशुः सत्यमंदिरम्

॥५३॥

अंतर्बुद्ध्या समालोक्य प्रभावो वायुजस्य च ॥

श्रुत्वा वेदध्वनिं विप्राः परं हर्षमुपागताः

॥५४॥

ग्रामीणाश्च ततो लोका दृष्ट्वा तु महतीं शिलाम् ॥

अद्भुतं मेनिरे सर्वे किमिदं किमिदं त्विति

॥५५॥

गृहेगृहे हि ते लोकाः प्रवदंति तथाद्भुतम् ॥

ब्राह्मणैः पूर्यमाणा सा शिला च महती शुभा

॥५६॥

अशुभा वा शुभा वापि न जानीमो वयं किल ॥

संवदंते ततो लोकाः परस्परमिदं वचः

॥५७॥

व्यास उवाच

ततो द्विजानां ते पुत्राः पौत्राश्चैव समागताः ॥

ऊचुस्ते दिष्ट्या भो विप्रा आगताः पथिका द्विजाः

॥५८॥

ते तु संतुष्टमनसा सन्मुखाः प्रययुर्मुदा ॥

प्रत्युत्थानाभिवादाभ्यां परिरंभणकं तथा

॥५९॥

आघ्राणकादींश्च कृत्वा यथायोग्यं प्रपूज्य च ॥

सर्वं विस्तार्य कथितं शीघ्रमागममात्मनः

॥६०॥

ततः संपूज्य तत्सर्वान्गंधतांबूलकुंकुमैः ॥

शांतिपाठं पठंतस्ते हृष्टा निजगृहान्ययुः

॥६१॥

आनंदाया महापीठे प्रातः पांथाः समुत्थिताः ॥

ददृशुस्ते महास्थानं सोत्कंठा हर्षपूरिताः

॥६०॥

आश्चर्यं परमं प्रापुः किमेतत्स्थानमुत्तमम् ॥

अयं तु दक्षिण द्वारे शांतिपाठोऽत्र पठ्यते

॥६३॥

गृहा रम्याः प्रदृश्यंते शचीपतिगृहोपमाः ॥

प्रासादाः कुलमातॄणां दृश्यंते चाग्निशोभनाः

॥६४॥

एवं ब्रुवत्सु विप्रेषु महाशक्तिप्रपूजने ॥

आगतो ब्राह्मणोऽपश्यत्तत्र विप्रकदंबकम्

॥६५॥

हर्षितो भावितस्तत्र यत्र विप्राः सभासदः ॥

उवाव दिष्ट्या भो विप्रा ह्यागताः पथिका द्विजाः

॥६६॥

प्रत्युत्तस्थुस्ततो विप्राः पूजां गृहीत्वा समागताः ॥

प्रत्युत्थानाभिवादौ चाकुर्वंस्ते च परस्परम्

॥६७॥

तेते संपूज्य वेगात्तु यथायोग्यं यथाविधि ॥

हरीश्वरस्य यद्वृत्तं विप्राग्रे संप्रकाशितम्

॥६८॥

पथिकानां वचः श्रुत्वा हर्षपूर्णा द्विजोत्तमाः ॥

शांतिपाठं पठन्तस्ते हृष्टा निजगृहान्ययुः

॥६९॥

विमृश्य मिलिताः प्रातर्ज्योतिर्विद्भिः प्रतिष्ठिताः ॥

ब्राह्मे मूहूर्ते चोत्थाय कान्यकुब्जं गता द्विजाः

॥७०॥

दोलाभिर्वाहिताः केचित्केचिदश्वै रथैस्तथा ॥

केचित्तु शिबिकारूढा नानावाहनगाश्च ते

॥७१॥

तत्पुरं तु समासाद्य गंगायाः शोभने तटे ॥

अकुर्वन्वसतिं वीराः स्नानदानादिकर्म्म च

॥७२॥

चरेण केनचिद्दृष्टाः कथिता नृपसन्निधौ ॥

अश्वाश्च बहुशो दोला रथाश्च बहुशो वृषाः

॥७३॥

विप्राणामिह दृश्यंते धर्मारण्यनिवासिनाम् ॥

नूनं ते च समायाता नृपेणोक्तं ममाग्रतः

॥७४॥

अभिज्ञापय मे पूर्वं प्रेषिताः कपिसंनिधौ

॥७५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां प्रत्यागमन वर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥